मङ्गलाष्टकम्
लक्षीर्य्यस्य परिग्रहः कमलभूः सूनुर्ग्गरुत्मान् रथः
पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्या पुनः ।
ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः
स त्रैलोक्यकुटुम्बपालनपरः कुर्य्याद्धरिर्म्मङ्गलम् ॥१॥
ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरु-
श्चन्द्रार्क्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।
नासत्यौ निरृतिर्म्मरुद्गणयुताः पर्ज्जन्यमित्रादयः
सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥२॥
विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः
श्रीमानत्रिमरीच्युचथ्यपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।
माण्डव्यो जमदग्निगौतमभरद्वाजादयस्तापसाः
श्रीमद्विष्णुपदाम्बुजैकशरणाः कुर्वन्तु नो मङ्गलम् ॥३॥
मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः
श्रीमान् धर्म्मसुतो नळो दशरथो रामो ययातिर्य्यदुः ।
इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपादध्रुवा-
वित्याद्या भुवि भूभुजश्च सततं कुर्वन्तु नो मङ्गलम् ॥४॥
श्रीमेरुर्हिमवांश्च मन्दरगिरिः कैलासशैलस्तथा
माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।
सह्याद्रिर्वरगन्धमादनगिरिर्म्मैनाकगोमन्तका-
वित्याद्या भुवि भूधराश्च सततं कुर्वन्तु नो मङ्गलम् ॥५॥
गङ्गासिन्धुसरस्वती च यमूना गोदावरी नर्म्मदा
कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती ।
कावेरीकपिलाप्रयागकिटिजानेत्रावतीत्यादयो
नद्यः श्रीहरिपादपङ्कजभुवः कुर्वन्तु नो मङ्गलम् ॥६॥
वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गाः पुराणान्विता
वेदान्ता अपि मन्त्रतन्त्रसहितास्तर्क्काः स्मृतीनां गणाः ।
काव्यायलङ्कृतिनीतिनाटकयुताः शब्दाश्च नानाविधाः
श्रीविष्णोर्ग्गुणनामकीर्त्तनपराः कुर्वन्तु नो मङ्गलम् ॥७॥
आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो
नक्षत्राणि सयोगकश्च तिथयस्तद्देवतास्तद्गणाः ।
मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रत्रयः
सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥८॥
इत्येतद् वरमङ्गलाष्टकमिदं श्रीराजराजेश्वरे-
णाऽख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।
माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा यः पठेद्
धर्म्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवः ॥९॥
इति श्रीराजराजेश्वरयतिविरचितं मङ्गलाष्टकं सम्पूर्णम् ।