श्रीभागवततात्पर्य्यनिर्ण्णयः

Материал из Sadaagama
(перенаправлено с «Shriibhaagavatataatparyyanir.n.naya.h»)
Перейти к навигации Перейти к поиску

॥श्रीमद्भागवततात्पर्यनिर्णयः ॥ (तात्पर्यसम्बद्धश्रीमद्भागवतश्लोकैः संवलितः)


॥श्रीमद्भागवततात्पर्यम्॥


सृष्टिंस्थित्यप्ययेहानिंयतिंदृशितमबन्धमोक्षाश्च यस्मा- दस्य श्रीब्रह्मरुद्रप्रभृतिंसुरनरीशशत्त्रात्मकस्य। विष्णोर्म्यस्ताः समस्ताः सकलगुणनिधिः सर्वदोषव्यपेतः पूर्णानन्दोवऽव्ययो यो मुरपि परमश्चिन्तये तं महान्तम् ॥


॥ श्रीमद्भागवतम् ॥


॥ प्रथमः स्कन्धः ॥1॥


॥ प्रथमोऽध्यायः ॥ 1 - 1 ॥


जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्यभिज्ञः स्वरा तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः। तेजोवारिंमृदां यथा विनिमयो यत्र त्रिंसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ 01 ।।


| तात्पर्यम् :


जन्माद्यस्येत्यादि। तं परं धीमः। अन्वयात्। 'यतो वा इमानि इत्यादिश्रुतिस्मृतिभ्यः। इतरतः तर्कतः चेतनाद्धि पित्रादेः पुत्रादिरुत्पद्यते। अभिज्ञः - सर्वज्ञः। अतो युज्यते ‘यं कामये तं तमुग्रं कृणोमि । ‘मम यनिरि’ त्यन्येषां तदपेक्षत्वात्। न चान्यापेक्षोऽसौ। स्वराट्। कुतः। तेने ब्रह्मादा य आदिकवये। स हि ‘विश्वाजातानि परिता बभूव। नान्यः। हृदा स्नेहात्। 'यो ब्रह्माणं' इति च। स्वात्मत एव हि तस्य बुद्धिप्रकाशः। न च प्रसादं विना ज्ञातुं शक्यः। मुह्यन्ति यं सूरयः। न चातृप्तः


Page 4


प्रवर्तते। किन्तु मृषा वृथैव। 'भित्वा मृषाश्रुः' इतिवत्। 'देवस्यैष स्वभावोऽयम्' इति च। यत्रेति विशेषणान्नान्यत्र। स्वविषय एव वृथा। जीवेश्वरजडानां सर्गस्त्रिसर्गः। एकस्य तेजसो बहुत्ववदीश्वरसर्गः। वारिनिमित्तप्रतिबिम्बवजीवसर्गः। मृदो घटादिवदव्यक्ताज्जडसर्गः।


न च मायमयी सृष्टिः।धाम्ना स्वेन सदा निरस्तकुहकम्। तद्धाम्ना श्रियो निरस्तकुहकत्वं मुक्तानां च। न च मुक्तवत्पूर्वं बन्धभात्वम्। सदा निरस्तकुहकत्वात्। सत्यं निदुःखनित्यनिरतिशयानन्दानुभव- रूपम्। परं सम्पूर्णगुणम्। परत्वसाधकं जन्मादीत्यादि। तन्त्र भागवते च -


‘सृष्टिस्थित्यप्ययेहदेः श्रुतिस्मृतिसमन्वयात्।युक्तितश्चेत्तृपूर्वादेः श्रीब्रह्मभवपूर्विणः॥


सुरगन्धर्वमनुजपितृतैत्यात्मनः पृथक् ।कर्ता विष्णुरजो नित्यः सर्वज्ञत्वान्न चापरः॥


अनन्याधिपतिश्चासौ गरीयान् ब्रह्मणो यतः।तत्प्रसादमृते तस्य नान्यो वेत्ताऽस्ति कश्चन॥


तेजसो रूपवद्रूपं बहुधा कुरुते हरिः।वारिस्थतेजः प्रतिमा जीवास्तस्माद्विनिर्गताः॥


कुलालेन मृदा यद्वन्निर्मीयन्ते घटादयः। विष्णुनैवं प्रकृत्यैव निय॑ते जगदीदृशम्॥


एष त्रिसग विष्णोस्तु वृथा लोकस्य चावृथा इन्द्रजालविधां सृष्टिं मन्यन्ते ज्ञानदुर्बलाः॥


नित्यं निरस्तेन्द्रजाले स्वत एव कथं भवेत्। अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते॥


अनन्ताचिन्त्यविभवः कथं तामीहते हरिः। निर्दुःखपूर्णानन्दत्वाद्यमाहुः सत्यमच्युतम्॥


निर्दोषगुणपूर्णत्वात् परं चाहुर्जनार्दनम्। एवं विधानुभावो यः स कथं निन्दितं सृजेत्॥


स्वप्नादिकं परो देवः प्राणादिस्थस्तनोत्यसौ। केवलस्य परस्यास्य मायासृष्टिर्न युज्यते॥


तस्माद्भाधायुताः सर्वे स्वप्नाद्या ये त्वकेवलाः । इदं न बाध्यते सर्वं जगत्केवलजं यतः॥


मोक्षवत् केवलस्यास्य शक्त्या सम्यग्विजृम्भितम्।एदद्रहस्यं परमं ब्रह्मसूत्रपदोदितम्॥


Page 5


ये त्वेवं न विजानन्ति ते हि यान्त्यधरं तमः।ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्॥


सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः।ये त्वेतदनुतिष्ठन्ति पारम्पर्यागतं मम॥


ते यान्ति परमं स्थानं ममैवोदितमञ्जसा' इत्यादि।


‘वैधम्र्याच्च न स्वप्नादिवत्' इति च। ‘प्र घा न्वस्य महतो महानि सत्यासत्यस्य करणानि वोचम्' इत्यादि। ब्रह्मसूत्रमहाभारतगायत्रीवेदसम्बन्धश्चायं ग्रन्थः। उक्तं च मारुडे- ‘अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः। गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः। पुराणानां साररूपः साक्षाद्भगवतोदितः। द्वादशस्कन्धसंयुक्तो शतविच्छेदसंयुतः। ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिदः' इति॥01॥


धर्मः प्रोज्झितकैतवोऽत्र परम निर्मत्सराणां सता वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोंन्मूलनम्। श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः। सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रुषुभिस्तत् क्षणात् ॥ 02 ॥ अधिकारिविषयफलान्युच्यन्ते धर्म इति। प्रोज्झितकैतवः फलानपेक्षया। ईश्वरार्पणेन परमः।


‘तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्। अजातशत्रवः शान्ताः साधवः साधुभूषणाः। मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्' इत्यादि सतां लक्षणम्।


सतां च मात्सर्यमर्जुनस्य एकलव्य इव कुत्रचिदृश्यते। तद्वर्जनीयमुत्तमेषु ज्ञानार्थिना। महासंहितायां


Page 6


च -


‘उत्तमे स्वात्मनो नित्यं मात्सर्यं परिवर्जयेत्। कुरुते यत्र मात्सर्यं तत्तत्तस्य विहीयते' इति॥ नित्यनिरस्तदोषपूर्णगुणं वास्तवम्। नित्यसंहितायां च - ‘निरस्ताखिलदोषं यदानन्दादिमहागुणम्। सर्वदा परमं ब्रह्मतस्माद्वास्तवमीयते” इति। वस्तु अप्रतिहतं नित्यम् च। स्कान्दे च - ‘वसनाद्वासनाद्वस्तु नित्याप्रतिहतं यतः। वासेनेदं यतस्तुन्नमतस्तद्बह्म शब्द्यते” इति। किं वा परैः अर्थकामादिकथनैः। गारुडे च - ‘धर्मार्थकाममोक्षणामेकमेव पदं यतः।


अवरोधो हृधीशस्य पृथग्वक्ष्ये न तानहम्' इति। सद्यः शब्दः आपेक्षिक इति तत् क्षणादिति। न चा सम्पूर्णाधिकारिणां तत् क्षणादवरुध्यत इति सद्यः शब्दः। अधिकारिविषयफलानां स्मरणात् फलाधिक्यं भवति। वामने च - ‘अधिकारं फलं चैव प्रतिपाद्यं च वस्तुयत्। स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम्' इति॥02॥ निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्। पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ 03॥


ज्ञातफलस्यापि प्रशंसाविधिभ्यां क्षिप्रप्रवृत्तिर्भवतीति प्रशस्य विधत्ते। निगमकल्पतरोरिति। भगवता गलितम्। शुकेन द्रवीकृतम्। उक्तं च ब्रह्माण्डे। - ‘धर्मपुष्पस्त्वर्थपत्रः कामपल्लवसंयुतः।


Page 7


महामोक्षफलो वृक्षो वेदोऽयं सुमुदीरितः। शातितानि फलानीह कृष्णद्वैपायनेन तु। भारताख्यानि यानीहतथा भागवतं भुवि। आर्टिकृतानि तानीह शुकप्रभृतिभिर्जनैः। ख्यापयद्भिर्गुरुप्रोक्तान् वेदार्थान् ग्रन्थनिष्ठितान्। कानिचिद्दर्शयामास वृक्षस्याग्रे फलानि तु। व्याचक्षमाणो वेदार्थं भगवान् लोकपूजितः। एतेषामथ तेषां वा रसान् पिबत सज्जनाः।


आमोक्षान्महती तृप्तिरहो मे पश्यतो भवेत्' इति॥ 03॥


नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः। सत्तं स्वर्गीय लोंकाय सहस्रसममासत ॥ 04 ॥ प्रकारान्तरेण पुरुषार्थशङ्कानिवृत्त्यर्थमाख्यायिका। पाझे च - ‘आख्यायिकाः प्रदर्यन्ते सर्वेवेदेषु सर्वशः। द्योतयन्त्यस्तु महतां तात्पर्य तत्र तत्र है। अलाभः पुरुषार्थस्य प्रोक्तमर्थमृते विति। द्योतनाय महाराज श्रद्धावृद्ध्यर्थमेव च' इति ॥ 04॥


यानि वेदविदां श्रेष्ठो भगवान् बादरायणः। अन्ये च मुनयः सूत परापरविदो विदुः ॥7॥ वेत्थ त्वं सौम्य तत् सर्वं तत्त्वतस्तदनुग्रहात्।


Page 8


ब्रूयुः स्निग्धस्य शिष्यस्य मुस्वो गुह्यमप्युत ॥ 08॥ यानि भगवज्ज्ञातान्यन्यैरप्पृषिभिर्जायन्ते तानि वेत्थ। उक्तं हि ब्रह्माण्डे - 'द्वैपायनेन यद्बुद्धं ब्रह्मायैस्तन्न बुध्यते।


सर्व बुद्धं स वै वेद तद्बुद्धं नान्यगोचरम्' इति॥7, 8॥


अपन्नः संसृतिं घोरं यन्नाम विवशो मृणन्। ततः सद्यो विमच्येत यं बिभेतिं स्वयं भवः ।। 14 ॥ विवशः बढ्भ्यासात्। उक्तं च स्कान्दे। -


शारीराद्वाचिकाभ्यासो वाचिकान्मानसो भवेत्। मानसाद्विवशान्मुच्येन्नान्यथा मुक्तिरिष्यते' इति ॥14॥


अथाख्याहि हरेर्थीमन्नवतारकथाः शुभाः। लीला विदधतः स्वैरं ईश्वरस्यात्ममायया ॥18॥


आत्ममायया - स्वरूपभूतेच्छया।


|


‘महामायेत्यविद्येति नियतिर्मोहिनीति च। प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते' इति स्कान्दे। विष्णुसंहितायां च - ‘इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा।


शक्तिशक्तिमतोश्चापि न भेदः कश्चनेष्यते' इति॥18॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भागवततात्पर्यनिर्णये


प्रथमस्कन्थतापर्ये प्रथमोऽध्यायः ॥ 1-1॥


Page 9


यिः


॥ 1-2 ॥


-





सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव। पुत्रेति तन्मयतया तस्वोऽपि नेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ 02 ॥ अनुपेतं देहादिभिः। अनभिमानात्। अकातरः कातरवद्धर्शयन्। उक्तं च स्कान्दे - ‘नित्यतृप्तः परानन्दो योऽव्ययः परमेश्वरः। यस्य पुत्र फलं नैव यज्जातं जगदीदृशम्। यदधीनश्रियोऽपाङ्गाद्भह्मरुद्रादिसंस्थितिः। स पुत्रार्थं तपस्तेपे व्यासो रुद्रस्य चेश्वरः। कातर्यं दर्शयामास वियोगे लौकिकं हरिः। कुतः कातरता तस्य नित्यानन्दमहोदधेः' इति॥ 'ईशन्नपि हि लोकस्य सर्वस्य जगतो हरिः।


कर्माणि कुरुते विष्णुः कीनाश इव दुर्बलः' इति चोद्योगे। ‘देवत्वे देववच्चेष्टा मानुषत्वे च मानुषी' इति श्रीविष्णुधर्मे। सर्वभूतहृदयोऽहङ्कारात्मकत्वात्। ‘अहङ्कारात्मको रुद्रः शुको द्वैपायनात्मजः' इति स्कान्दे॥02॥


यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्घतां तमोऽन्धम्। संसारिणां करुणयाऽऽह पुराणगुह्यं तं ब्याससृनुमुपयामि मुरुं मुनीनाम्॥03 ॥


स्वानुभवम् - ब्रह्म॥ 03॥


वदन्ति तत् तत्त्वविदस्तत्त्वं यज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिंतिं शब्द्यते ॥11॥


Page 10


अद्वयम् - असमाधिकम्। तथा च भाल्लवेयश्रुतिः। ‘स पुरुषः सोऽद्वय इति न ह्येनमभि कश्चन न ह्येनमपि कश्चनेति' इति। ‘सोऽद्वयः पुरुषस्तस्मान्न समो नाधिको ह्यतः


इति महासंहितायाम्। तत्त्वशब्दार्थस्तत्रैवोक्तः। ‘अतीतानागते काले यत्तादृशमुदीर्यते। कुतश्चिदन्यथा नेयात् तत् तत्त्वं तत्त्वतो विदुः' इति॥11॥


सत्तामात्रं तु यत्किञ्चित् सदसञ्चाविशेषणम्। उभाभ्यां भाष्यते साक्षाद् भगवान् केवलः स्मृतः ॥12॥ सत्तामात्रमानन्दमात्रम्। तथा च पौङ्गीश्रुतिः - ‘अथ कस्मादुच्यते सत्तेति नन्दति नन्दयति चेति' इति। न कार्यकारणविषयविशेषितवैषयिकज्ञानम्। केवलमेव तज्ज्ञानम्। कार्यकारणविशेषितं च। तन्त्रभागवते च - ‘विषयापेक्षि न ज्ञानं विषयैश्च विशेषितम्। यत्तदानन्दमात्रं च तद्ब्रह्मेत्यवधार्यताम् इति। यत्किञ्चदलोकसिद्धम्॥12॥


स्रष्टत्वादिभिः


तच्छद्दधाना मुनयो ज्ञानवैराग्ययुक्तया। पश्यन्त्यात्मनिं चात्मानं भक्त्या श्रुतिगृहीतया ॥13॥ यस्मात् परमात्मैव तत्त्वं तस्मात् तमेव पश्यन्ति मुनयः॥13॥


भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः।


क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे॥22॥


Page 11


आत्मनीश्वर इति न जीवैक्यमुच्यते। परेषामपि ब्रह्मादीनां यतोऽवरत्वं स परावरः। ‘भेददृष्ट्याऽभिमानेन' इति च कापिलेये। ब्रह्मप्रधानमुपयान्त्यगताभिमानाः' इति च। ‘विद्याऽऽत्मनि भिदाभोदः। 'यत्र हि द्वैतमिव भवति । 'अन्यमीशमस्य महिमानमिति । ‘अनश्नन्नन्यो अभिचाकशीति'। छायातपौ ब्रह्मविदोवदन्ति'। ‘एको बहूनां यो विदधाति कामान् । ‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये। ‘सत्यमेनमनु विश्वे मदन्ति'। 'यत्र पूर्वे साध्याः सन्ति देवाः। ‘शृण्वे वीर उग्रमुग्रं दमायन्' इत्यादि च। ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्। ‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु। नैतदिच्छन्ति पुरुषमेकं कुरुकलोद्वह' इत्यादि मोक्षधर्मे। ‘भेददृष्ट्याऽभिमानेन पश्यन्तो यान्ति तत्पदम्' इति वायुप्रोक्ते। ‘अनुपपत्तेस्तुन शारीरः। ‘भेदव्यपदेशाच्च। ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते । ‘पृथगुपदेशात्' इत्यादि च। सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ। ‘स्थामुच्चक्राम स प्रजापतिमुवाच कोऽसि के स्म कः स इति स। होवाच योऽस्मि ये स्थ यः स इति। अथ हैनमुपाक्रोशत्। सत्यं भिदा सत्यं भदा सत्यं भिदेति। मैवारुवण्यो मैवारुवण्यो मैवारुवण्य इति' इति। 'सत्यमेनम्। 'सत्यः सो अस्य' इति चोक्तम्। महासंहितायां च - 'त्रिविधं जीवसङ्घ च परमात्मानमव्ययम्। तेषां भेदं च ये सत्यं विदुर्मोहविवर्जिताः। ते यान्ति परमं स्थानं विष्णोरेवाचलं ध्रुवम्। जीवेश्वरभिदां भ्रान्ति केचिदाहुरपण्डिताः। अनारतं तमो यान्ति परमात्मविनिन्दनात्। पराधीनश्च बद्धश्च स्वल्पज्ञानसुखेहितः।


अल्पशक्तिः सदोषश्च जीवात्माऽनीदृशः परः।


Page 12


वदता तु तयोरैक्यं किं तेनादुष्कृतं कृतम्। अन्तर्याम्यैक्यवाचीनि वचनानीह यानि तु। तानि दृष्ट्वाभ्रमन्तीह दुरात्मानोऽल्पचेतसः। अस्यास्मित्वमहं स्वात्मेत्यभिधागोचरो यतः। सर्वान्तरत्वात् पुरुषस्त्वन्तर्यामी नियामयन्। अतो भ्रमन्ति वचनैरासुरा मोहतत्परैः। तन्मोहने परा प्रीतिर्देवानां परमस्य च। अतो महान्धकारेषु पतन्त्यज्ञानमोहिताः' इत्यादि॥22॥


सत्त्वं रजस्तम इतिं प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक हास्यधत्ते। स्थित्यादये हरिविञ्चिहरेतिं संज्ञः श्रेयांसि तत्र खलु सत्वतनौ नृणां स्युः24॥ विष्णोरेव त्रिसंज्ञाः। वामनपुराणे च - ‘ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णोर्महात्मनः। ब्रह्मणि ब्रह्मरूपः स शिवरूपी शिवे स्थितः। पृथगेव स्थितो देवो विष्णुरूपो जनार्दनः' इति। त्रयोऽपि गुणा विष्ण्वाश्रयाः। तथाऽपि सत्वतनौ जीवे श्रेयांसि स्युः॥24॥


पार्थिवाद्धारुणो धूमस्तस्मादग्निस्त्रयीमयः। तमसस्तु जस्तस्मात् सत्वं यद्बह्मदर्शनम् ॥25॥ मेघरूपत्वाचूम उत्तमः॥25॥


मुमुक्षवो घरमूढान् हित्वा भूतपतीनथ।


Page 13


नारायणकला शान्ताः भजन्ति ह्यनसूयवः ॥27॥ सात्विकानां वासुदेवे भक्तिरुत्पद्यते॥27॥


रजस्तमः प्रकृतयः समशीलान् भजन्ति वै। पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥28॥ भूतेशप्रजेशादी॥28॥


स एवेदं ससर्जाग्रे भगवानात्ममायया। सदसदूपया चासौ गुणमय्याऽगुणो विभुः ॥31॥ आत्ममायया स्वेच्छया। सदसदूपया प्रकृत्या च॥31॥


तया विलसितेष्येषु गुणेषु गुणवानिव।


अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥32॥ तया सदसदूपया। विज्ञानेन विजृम्भितः। विज्ञानेन सम्पूर्णः॥32॥


असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः। स्वनिर्मितेषु निर्विष्टो भुङ्के भूतेषु तद्गुणान् ।। 34 ।। तद्गुणानेव भुझे न दोषान्। ‘सर्वत्र सारभुग्देवो नासारं स कदाचन' इति वामनपुराणे।


अनश्नन्नित्यशुभापेक्षया परवशत्वापेक्षया क्लृप्त्यपेक्षया च। ‘अकृप्त्या च स्वतन्त्रत्वादशुभस्य च वर्जनात्। अभोक्ता शुभभोक्तृत्वाद्भोक्तेत्येव च तं विदुः। अन्यूनानधिकत्वाच्च पूर्णस्वानन्दभोजनात्।


Page 14


विरागाचपरस्यास्य भोक्तृत्वप्रतिषेधनम्' इति स्कान्दे॥34॥


॥ इतिं प्रथमस्कन्धतात्पर्ये द्वितीयाध्यायः ॥ 1-2॥


॥ तृतीयोऽध्यायः ॥ 1-3॥


सूत उवाच - जगृहे पौरुषं रूपं भगवान् महदादिभिः। सम्भूतं षोड्शकलमादौ लोकसिसृक्षया ॥ 01 ॥ व्यक्त्यपेक्षया जगृह इति। तथा हि तन्त्रभागवते। “अहेयमनुपादेयं यद्रूपं नित्यमव्ययम्।


स एवापेक्ष्यरूपाणां व्यक्तिमेव जनार्दनः। अगृह्णाव्यसृजचेति कृष्णरामादिकां तनुम्। पठ्यते भगवानीशो मूढबुद्धिव्यपेक्षया। तमसा ह्युपगूढस्य यत्तमः पानमीशितुः। एतत्पुरुषरूपस्य ग्रहणं समुधीर्यते। कृष्णरामादिरूपाणां लोकव्यक्तिव्यपेक्षया' इति। महदादिभिः सम्भूतं अन्तर्गतमहदादि। न महदादिशरीरम्। ‘यस्मिन्नेताः षोडशकलाः प्रभवन्ति' इति हि श्रुतिः। ‘यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते। सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः। ईश्वरो हि जगत्स्रष्टाप्रभुर्नारायणो विराट्। भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च।


Page 15


भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम' इति मोक्षधर्मे। ‘नासीदहो न रात्रिरासीन्नासदासीत् तन्महद्वपुस्तदाऽ भवद्विश्वरूपं सा विश्वरूपस्य रजनी' इति भाल्लवेयश्रुतिः। 'न तस्य प्राकृता मूर्तिसमेदोऽस्थिसम्भवा। न योगित्वादीश्वरत्वात् सत्यरूपोऽच्युतो विभुः' इति वाराहे। ‘सर्वे नित्याः शाश्वताश्चदेहास्तस्य परात्मनः। हानोपादानरहिता नैव प्रकृतिजाः क्वचित्। परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः। सर्वे सर्वगुणैः पूर्णाः सर्वे भेदविवर्जिताः। अन्यूनानधिकाश्चैव गुणैः सर्वैश्वसर्वतः। देहीदेहभिदा चात्र नेश्वरे विद्यते क्वचित्। तत्व्सीकारादिशब्दस्तु हस्तस्वीकारवत् स्मृतः। वैलक्षण्यान्न वा तत्र ज्ञानमात्रार्थमीरितम्। केवलैश्वर्यसंयोगादीश्वरः प्रकृतेः परः। जातो गतस्त्विदं रूपं तदित्यादि व्यवहूयते' इति महावाराहे। ‘एकमेवाद्वितीयं’ ‘नेहनानास्ति किञ्चन। ‘एवं धर्मान् पृथक् पश्यन्' इत्यादि च। तस्यैवास्थूलत्वाद्यैश्वर्ययोगात्। तथा च कौर्मे - ‘अस्थूलश्चानणुश्चैव स्थूलोऽणुश्चैव सर्वतः।


अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्तलोचनः।


Page 16


ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते। तथाऽपि दोषाः परमे नैवाहार्याः कथञ्चन। गुणा विरुद्धा अपि तु समाहार्याश्चसर्वतः' इति॥ विष्णुधर्मोत्तरे च - गुणाः सर्वेऽपि युज्यन्ते ह्येश्वर्यात् पुरुषोत्तमे। दोषाःकथञ्चिन्नैवात्र युज्यन्ते परमो हि सः। गुणदोषौ माययैव केचिदाहुरपण्डिताः। न तत्र माया मायी वा तदीयौ तौ कुतो ह्यतः। तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम्। अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः' इति॥01॥


यस्यावयवसंस्थानैः कल्पित लोकविस्तरः। तद्वै भगवतो रूपं विशुद्धं सत्वमूर्जितम्॥03॥ यस्यावयवसंस्थान्नैः। 'नाभ्या आसीदन्तरिक्षम्' इत्यादि। सत्वं साधुगुणवत्त्वम्। ज्ञानबलरूपं वा। ‘बलज्ञानसमाहारः सत्वमित्यभिधीयते' इति मात्स्ये॥03॥ एतन्नानावताराणां निधानं बीजमव्ययम्। यस्यांशांशेन सृज्यन्ते देवतिर्यङ्गरायः ॥05॥ निधानम्। अत्रैकीभवन्त्यन्त इति। अंशांशेन सामर्थ्यकदेशेन। ब्राह्मे च - ‘यच्छक्त्यैकांशसम्भूतं जगदेतच्चराचरम्' इति ॥ 05॥


Page 17


स एव प्रथमं देवः कौमारं सर्गमास्थितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ 06॥ ‘कुमारो नाम भगवान् स्वयंस्वस्मादजायत। दिदेश ब्रह्मणे ब्रह्मब्रह्मचर्ये स्थितो विभुः।


यस्मात् सनत्कुमारश्चब्रह्मचर्यमपालयत्। यः स्थाणोः स्थाणुतां प्रादाद्भगवानव्ययो हरिः' इति ब्राह्मे॥ 06॥


तृतीयमृषिस वै देवर्षित्वमुपेत्य सः। तन्त्रं सात्वतमाचष्ट नैष्कर्म्य कर्मणां यतः ॥ 08॥


‘अवतारस्तृतीयोऽस्य देवर्षिः प्रथितो दिवि।


महिदासस्त्वैतरेयो यस्तन्त्रं नारदेऽवदत्' इति च॥ 08॥


तुर्यं धर्मकलासर्गे नरनारायणावृषी। भूत्वाऽऽल्मोपशमोपेतमकरोडुश्चरं तपः ॥ 09॥ धर्मकलासर्गः धर्मे स्वांशावतारः। लोकदृष्ट्याऽऽत्मशमोपेतम्॥ 09॥


पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्। प्रोवाचासुस्ये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥10॥ तन्त्रं सायम् वेदानुसारि। पाझे च - ‘कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह। ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च। तथैवासुरये सर्ववेदार्थैरुपबृंहितम्॥


Page 18


सर्वेवेदविरुद्धं च कपिलोऽन्यो जगाद ह। साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितम्' इति॥10॥


षष्टमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया। अन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥11॥ अन्वीक्षिकीं - तत्त्वविद्याम्। ‘अन्वीक्षिकी कुतर्काख्या तथैवान्वीक्षिकी परा' इति मात्स्ये॥11॥


ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः।


दुग्द्वानोषधीविप्रास्तेनायं च उशत्तमः ॥14॥ पृथुशरीराविष्टरूपम्।। ‘आविवेश पृथु देवः शङ्खी चक्री चतुर्भुजः' इति पाझे।


उश इच्छायाम्। सत्यकामः॥14॥


ततः सप्तदशे जातः सत्यक्त्यां पराशरात्। चक्रे वेदतः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥21॥ रामात् पूर्वमप्यस्ति व्यासावतारः। ‘तृतीयं युगमारभ्य व्यासो बहुषु जज्ञिवान्' इति कौमैं॥21॥


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी।


रामकृष्णाविति भुवो भगवानहरद्धरम्॥23॥ आवेशो बलभद्र। 'शङ्खचक्रभृदीशेशः श्वेतवर्णो महाभुजः।


Page 19


आविष्टः श्वेतकेशात्मा शेषांशं रोहिणीसुतम्' इति महावाराहे॥23॥


ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥24॥ ‘मोहनार्थं दानावानां बालरूपी पथि स्थितः। पुत्रं तं कल्पयामास मूढबुद्धिर्जिनः स्वयम्। ततः सम्मोहयामास जिनाद्यानसुरांशकान्। भगवान् वाग्भिरुग्राभिरहिंसावाचिभिर्हरिः' इति ब्रह्माण्डे॥24॥


अवतारी सङ्ख्या हरेः सत्वनिधेर्द्विजाः।। यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥26॥ विदासिनः - उन्नतात भिन्नाद्वा। 'त्रिविधाः पुरुषा लोके नीचमध्यविदासिनः' इति ब्राह्मे। ‘चतुर्धा वर्णरूपेण जगदेतद्विदासितम्' इति च ॥26॥


एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्। इन्द्रारिव्याकुलं लोकं मृङयन्ति युगे युगे ॥28॥ एते प्रोक्तावताराः। मूलरूपि स्वयमेव। ‘जीवास्तत्प्रतिबिम्बांशा वराहाद्याः स्वयं हरिः। दृश्यते बहुधा विष्णुरैश्वर्यादिक एव तु इति ब्रह्मवैवर्ते॥28॥


एतद्रूपं भगवतो स्वरूपस्य चिदात्मनः।


Page 20


मायागुणैर्विरचितं महदादिभिंरात्मनि ॥30॥


एतज्जडरूपम्। ‘नारायणवराहाद्याः परमं रूपमीशितुः।


जैवं तु प्रतिबिम्बाख्यं जडमारोपितं हरेः। एवं हि त्रिविधं तस्य रूपं विष्णोर्महात्मनः' इति पाझे॥30॥


यथा नभसि मेघौघा रेणुर्वा पार्थिवोऽनिले।


एवं द्रष्टरिं दृश्यत्वमारोपितमबुद्धिभिः ॥31॥ दृश्यत्वं जडरूपत्वम्। ‘अविज्ञाय परं देहमानन्दात्मानमव्ययम्।


आरोपयन्ति जनिमत्पञ्चभूतात्मकं जडम्' इति स्कान्दे॥31॥


अतः परं यदव्यक्तमव्यूढगुणवृंहितम्। अदृष्ट्वाश्रुतस्तुत्वात् सजीवो यः पुनर्भवः ॥32॥ अतः परं जडेश्वररूपयोः परम्। अव्यूढगुणबृंहितं कदाचिदप्यनपगतसत्वादिगुणबृंहितम्। अदृष्टाश्रुतवस्तुत्वात् पुनर्भवः॥32॥


अनादिकाले।


यत्रेमे सदसटूपे प्रतिषिद्धे स्वसंविदा। अविद्ययाऽऽत्मनिं कृते इति तद्ब्रह्मदर्शनम् ॥33॥ अविद्यया जीवकृते परमेश्वरे प्रतिषिद्धे इति ब्रह्मदर्शनम्॥33॥


यद्येषोपस्ता देवी माया वैशारदी मतिः। सम्पन्न एवेति विदुर्महिम्न स्वे महीयते॥34॥


Page 21


विशारदः - परमेश्वरः। तन्मतिर्माया। यदा नैनं शोचयामीत्युपरता तदा सम्पन्न एव॥34॥


एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च। वर्णयन्ति स्म कक्यो वेदगुह्यानि हृत्पतेः ॥35॥ ‘अप्रयत्नात् स्वतन्त्रत्वात् फलानां च विवर्जनात्। क्रियायाश्चस्वरूपत्वादकर्तेति च तं विदुः। कर्तृत्व भ्रान्तिजं प्राहुरतस्तत्त्वविदो जनाः। ऐश्वर्यजं तु कर्तृत्वं सम्यक् तत्तत्त्ववेदिनः' इति पाझे॥35॥


इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्। उत्तमश्लोकचरितं चकार भगवानृषिः ॥ 40॥ ‘धर्मः कं शरणं गतः' इत्यस्य तमेव व्यासरूपिणमिति परिहार उच्यते 'इदं भागवतम्’ इत्यादिना॥ 40॥


॥इति प्रथमस्कन्धतात्पर्ये तृतीयाध्यायः ॥ 01-3॥


॥ चतुर्थोऽध्यायः ॥1-4॥


यः ॥ 1-4॥


तस्य पुत्रो महायोगी समदृ निर्विकल्पकः। एकान्तमतिरुन्निद्र गूळ मूळ इवेयते ॥ 04॥ निर्विकल्पः - मदीयं तदीयमिति भेदमपहाय सर्वमीश्वराधीनमिति विज्ञाय स्थितः। ‘साम्यमीश्वररूपेषु सर्वत्र तदधीनताम्। पश्यति ज्ञानसम्पत्त्या विनिद्रो यः स योगवित्' इति ब्राह्म॥ 04॥


सूत उवाच


Page 22


द्वापरे समनुप्राप्ते तृतीये युगय॑ये। जातः पराशराद्योगी वासब्यां कलया हरेः ॥13॥ तृतीये द्वापरे युगे पर्यवसाने प्राप्ते सति॥13॥


दुर्भमांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा। सर्ववर्णाश्रमाणां यद्दथ्यौ चिरममघदृक् ।। 17॥ नित्यज्ञानस्य चिदृष्टिर्लोकदृष्ट्यपेक्षया। ‘सर्वज्ञोऽप्यज्ञवद्देवः सर्वशक्तिरशक्तिवत्। प्रत्याययति लोकानामज्ञानां मोहनाय च' इति कौमै॥17॥


स्त्रीशूद्ब्रह्मबन्धूनां त्रयी न श्रुतिंगोचरा। कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह। इति भारतमाख्यानं कृपया मुनिना कृतम् ॥24॥ भारतं ब्राह्मणादीनां वेदार्थपरिवित्तये। त एव वेदास्त्वन्येषां नर्ते तत् कस्यचित् सुखम्' इति स्कान्दे॥24॥


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः। सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥25॥ अतोषोऽनलंबुद्धिः। ‘श्रुत्वा कथां न तुष्यामि हरेरद्भुतकर्मणः' इति मात्स्ये॥25॥


नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ।। वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित् ॥26॥


Page 23


अप्रसादश्च स एख। ‘कः प्रसन्नो भवेद्दिव्यां कथां शृण्वन् हरेः पराम्' इति च॥26॥




धृतव्रतेन हि मया छन्दांसि गुरुवोऽग्नयः। मानिता निलीकेन गृहीतं चानुशासनम् ॥27॥ आचारापेक्षया धृतव्रतत्वादि परिपूर्णस्य॥27॥


अथापिं बत मे दैह्यो ह्याल्मा चैवात्मना विभुः। असम्पन्न इवाभातिं ब्रह्मवर्चस्वसत्तमः ॥29॥ दैह्यः - देहरूपः। आत्मना विभुः स्वत एव व्याप्तः। ‘तस्य सर्वावतारेषु न विशेषोऽस्ति कश्चन। देहदेहिविभेदश्च न परे विद्यते क्वचित्। सर्वेऽवतारा व्याप्ताश्च सर्वे सूक्ष्माश्चतत्त्वतः। ऐश्वर्ययोगाद्भगवान् क्रीडत्येवं जनार्दनः


इतिं मासंहितायाम्। अवतारप्रयोजनासम्पत्त्याऽसम्पन्न इव। ब्रह्मवर्चसयुक्तानामुत्तमः॥29॥


L:


किं वा भागवता धर्मा न प्रायेण निरूपिताः।


प्रिंयाः परमहंसानां त एव ह्यच्युतप्रिंयाः ॥30॥ पुनरपेक्षितत्वान्न प्रायेण निरूपिताः।। 'यथा तु भारते देवो न तथाऽन्येषु केषुचित्। उच्यते न तथाऽपीशं जानन्त्यज्ञा जनार्दनम्' इति स्कान्दे॥30॥


Page 24


तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः। कृष्णस्य नारदोऽभ्यागादाश्रमं प्रामुदाहृतम् ॥31॥ खेदोऽनलम्बुद्धिः। ‘अतुष्टिरप्रसादश्चखेदोऽतृप्तिस्तथैव च।


अनलत्वं वदन्त्येते सर्वे पर्यायवाचकाः' इति ब्राह्मे। मन्यमानस्य स्वेच्छया॥31॥


---


॥ इतिं प्रथमस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥ 1-4॥



॥पञ्जमोऽध्यायः ॥ 1-5॥


पाराशर्य महाभाग भवतः कच्चिदात्मना। परिंतुष्यतिं शारीर आत्मा मानस एव वा ।। 02॥ शारीरमानसयोरभेदादुभयथाऽपि युज्यते। स्वतन्त्रत्वादात्मनैव ह्यलम्बुद्धिः॥ 02॥


जिज्ञासिंतमधीतं च ब्रह्म यत् तत् सनातनम्। तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ 04 ॥ शोचसि प्रकाशयसि। ‘अजस्रेण शोचिषा शोशुचानः' इति श्रुतिः ॥ 04॥


अस्त्येव मे सर्वमिदं त्वयोक्तं तथाऽपि नाल्मा परितुष्यते मे। तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वाऽऽत्मभवात्मभूतम् ॥ 05॥ ‘ज्ञानशक्तिस्वरूपोऽपि ह्यज्ञाशक्तं वदेद्धरिः। अज्ञानां मोहनायेशस्तेन मुह्यन्ति मोहिताः' इति पाझे॥ 05॥


Page 25


यथा धर्मादयो स्वर्था मुनिवर्यानुवर्णिताः। न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ 09॥ धर्मादीनामल्पकथनेन पूर्तिः। न वासुदेवमहिम्नोऽतिकथितस्यापि॥09॥


न यद्वचश्चित्रपदं हर्त्यशो जगत्पवित्रं न गृणीत कहिँचित्। तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा न्यपतन् मिमङ्ख्या ॥ वायसं तीर्थं वयोमात्रानुजीवि शास्त्रम्॥10॥


नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्। कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यद्प्यकारणम्॥12॥ परोक्षज्ञानं न शोभते। अपरोक्षज्ञानं न भक्त्या विनोत्पद्यते। 'यस्य देवे परा भक्तिः। 'यमेवैष वृणुते । तेन लभ्यः। 'यद्वासुदेवशरणा विदुरञ्जसैव' इत्यादेः॥12॥


अतो महाभाग भवानमघदृक् शुचिश्रवाः सत्यस्तो धृतव्रतः। उरुक्रमस्याखिलबन्धमुक्तये समाधिनाऽनुस्मर यद्विचेष्टितम् ॥13॥ शुचिश्रवाः विष्णुः। समाधिना समाधिभाषया। स्मरणं ग्रन्थकृतिः। ‘स्मरन्ति च' इत्यादेः॥13॥


जुगुप्सितं धर्मकृतेऽनुशासनं स्वभावरक्तस्य महान् व्यतिक्रमः। यद्वाक्यतो धर्म इतीतरः स्थितौ न मन्यते तस्य निवारणं जनः ॥15॥ प्रवृत्तिधर्मकृते॥15॥


विचक्षणोऽस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम्। प्रवृत्तमानस्य गुणैरनात्मनस्ततो भवात् दर्शय चेष्टितं विभोः ॥16॥ अनन्तपारस्य विभोः सकाशाद्यत्सुखम्॥16॥


Page 26


इदं हि विश्व भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः। तद्धिं स्वयं वेद भवांस्तथाऽपि प्रादेशमात्रं भक्तः प्रदर्शितम् ॥ इतरोऽपि भगवान् विश्वमिव। स्वातन्त्रात्॥20॥


तस्मिंस्तदा लब्धरुचेर्महामुने प्रिंयश्रवस्यस्खलिता मतिर्मम। ययाऽहमेतत्सदसत् स्वमायया पश्ये मयिं ब्रह्मणि कल्पितं परे॥27॥ मयि स्थिते ब्रह्मणि स्थीयतामत्रेतीश्वरेच्छया कल्पितम्॥27॥


त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम्। प्रख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्केशनिर्वाणमुशन्ति नान्यथा ॥ 40॥ त्वमीश्वरोऽपि॥40॥


॥ इतिं प्रथमस्कन्धतात्पर्ये पञ्जमोऽध्यायः ॥ 1-5॥


॥फ्ठोऽध्यायः ॥ 1-5॥


स्फीतान् जनपदांस्तत्र पुरग्रामवजाकरान्। खेटान् पट्टनवाढीश्च वनान्युपवनानि च ।। 11 ॥ ‘मृगयाजीविनां खेटो वाटी पूष्टोपजीविनाम्। ग्रामो बहुजनाकीर्णो राजराजाश्रयं पुरम्। जलस्थलायति स्फीतं पट्टनं कीर्त्यते बुधैः' इति स्कान्दे॥11॥


15


प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः।


आनन्दसम्प्लवे लीन नापश्यमुभयं मुने॥21॥


Page 27


उभयं द्वितीयं नापश्यं तमेवापश्यम्॥21॥


॥ इति प्रथमस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥ 1- 6॥


यः ॥ 1-7 ॥


सूत उवाच - ब्रह्मनद्याः सरस्वत्या आश्रमः पश्चिमे तटे। शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ 02 ॥ शम्यां प्रास्य तत्र शालां कृत्वा यत्र यज्ञः क्रियते स शम्याप्रासः॥ 02॥


भक्तियोगेन मनसि सम्यक् प्रणिहिंतेऽमले। अपश्यत् पुरुषं पूर्ण मायां च तदपाश्रयाम् ।। 04 ॥ भक्तियोगेन सम्यक् प्रणिहिते लोकानां मनसि॥ 04॥


भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि। अपाहरद्विप्रिंयमेतदस्य जुगुप्सितं कर्म विंगर्हयन्ति ।। 14 ॥ स्वात्मन एव विप्रियं न भर्तुः। प्रयोजनाभावाद्विप्रियमिव च तस्य प्रियमिति हि प्रस्वापोक्तम्॥14॥


माता शिशूनां निधनं सुतानां निशम्य घोरं पस्तप्यमाना। तदाऽरुदद् बाष्पकळाकुलाक्षी तां सान्त्वयन्नाह किरीटमाली ॥ स्वप्नोऽयम् - 'पार्थानुयातमात्मानं द्रौणिः स्वप्ने ददर्श ह। बन्धनं चात्मनस्तत्र द्रौपद्या चैव मोक्षणम्' इति स्कान्दे।


तस्मान्नैषीकविरोधः ॥15 - 57॥


Page 28


॥ इतिं प्रथमस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥ 1-7 ॥


॥ अष्टमोऽध्यायः ॥ 1-8॥


तथा परमहंसानां मुनीनाममलात्मनाम्। भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥23॥ भक्तियोगविधानविषयम्॥23॥


विपदः सन्तु न शश्वत् तत्र तत्र जगत्पते। भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम्॥28॥ अपुनर्भवं दर्शयति॥28॥


मन्ये त्वां कालमीशानामनादिनिधनं परम्। समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥31॥ तत्तद्योग्यतया समत्वम्॥31॥


ते क्यं नामरूपाभ्यां यदुभिः सह पाण्डवाः।। भवतो दर्शनं यर्हि हृषीकाणामिवेशितुः ॥ 41 ॥ यहि भवतो दर्शनं तदा यदूनामस्माकं च नामरूपे॥41॥


॥ इतिं प्रथमस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥1-8॥


॥नमोऽध्यायः ॥ 1- 9॥


नैनो राज्ञः प्रजाभर्तुः धर्मो युद्धे धो द्विषाम्। इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ 05॥


Page 29


‘यः पदाति हन्ति स भवति चातुर्मास्ययाजी यः सादिनं सोऽग्निष्टोमस्य यो हन्ति गजरथौ


सोऽश्वमेधराजसूयाभ्याम्' इत्यादि शाश्वतं वचः॥ 05॥


शितविषिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे। प्रसभमभिससार मद्वधार्थं स भक्तु मे भगवान्मुढे मुकुन्दः ।। 45॥


असङ्गश्चाव्यथोऽभेद्योऽनिग्राह्योऽशोष्य एव च। विद्धोऽसृगञ्चितो बद्ध इति विष्णुः प्रदृश्यते। असुरान् मोहयन् देवः क्रीडयैव सुरेष्वपि। मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्जन' इति स्कान्दे॥45॥


॥ इतिं प्रथमस्कन्धतात्पर्ये नमोऽध्यायः ॥1-9॥


t:-


यः ॥1-10 ॥


निशम्य भीष्मक्तमथाच्युतोदितं प्रवृत्तविज्ञानविधूतविभ्रमः।


शशास मामिंन्द्र इवाजिंताश्रयः प्रणिध्युपात्तामनुजानुवर्तितः ॥ 04॥


‘अमात्य मन्त्रिणो दूताः श्रेणयश्चपुरोहिताः।। पुरं जनपदं चेति सप्त प्रणिधयः स्मृता' इति ब्राह्मे॥04॥


अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः। नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥20॥ ‘पालनानुग्रहजयान् गौणेऽण्डे संस्थितो हरिः। करोत्यसौ बहिः संस्थो न करोतीव निर्गुणः' इति पाझे।


Page 30


अतो नानुरूपानुरूपाश्च॥20॥


स वै किलायां पुरुषः पूरातनो य एक आसीदविशेष आत्मनि। अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मानिशि सुप्तशक्तिषु ॥22॥ सत्वादिशक्तिषु॥22॥


स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम्। अनामरूपाल्मनि रूपनामनी विधिसमानौऽनुससार शास्तिकृत् ॥23॥ श्रीभूदुर्गेति या भिन्ना जीवमाया महात्मनः।


आत्ममाया तदिच्छा स्याद्णमाया जडात्मिका इति महासंहितायाम्॥ ‘अप्रसिद्धेस्तद्गुणानामनामासौ प्रकीर्तितः। अप्राकृतत्वाद्रूपस्याप्यरूपोऽसावुदीर्यते इति वासुदेवाध्यात्मे॥23॥ यदा ह्यधर्मिण तमोऽधिका नृपा जीवन्ति तत्रैष हि सात्वतः किल। धर्मं भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥26॥ सात्विकानामनुग्राहकः। ‘अगुणोऽपि परो देवो ह्यनुगृह्णाति सात्विकान्। देवांस्तु मानवान् मध्यानुपेक्ष्यक्लेश्यतेऽसुरान्' इति ब्रह्मदर्शने। ‘सात्वतः सात्विकस्नेहात् सत्वो ह्यानन्दरूपतः' इति ब्रह्मवैवर्ते।


धारकत्वाद्धर्मरूपो ह्येश्वर्यादेर्भगो ह्यसौ। सत्य आनन्दरूपत्वादृतो ज्ञानस्वरूपतः।


Page 31


यशो ह्यलं प्रसिद्धत्वाद्दया हि करुणाकरः' इति तन्त्रभागवते। एवंगुणस्वरूपाणि दधद्युगे युगे॥26॥


एताः पुरा स्त्रीत्वमवाप्तये समं निरस्तशोकं बत साधु कुर्वते। यासां गृहात् पुष्करलोचनः पतिर्न जात्वपैल्याकृतिभिर्हदि स्पृशन्॥31॥ ‘अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे। भर्तारं च जगद्योनिं वासुदेवमजं विभुम्’


इति महाकौमैं॥31॥ अजातशत्रुः पृतना गोपीथाय मधुद्विषः। परेभ्यः शङ्कितः स्नेहात् प्रायुक्ल चतुरङ्गिणीम् ॥33॥ स्नेहमात्रात्॥33॥ तत्र तत्र च तत्रल्यैर्हरिः प्रत्युद्यतार्हणः। सायं भेजे दिशं पश्चाविष्ठो मां गतस्तदा ॥37 ॥ गविष्ठ - आदित्यः। ‘असौ वाव गविष्ठोऽप्सूदेत्यस्वस्तमेति' इति माध्यन्दिनायनश्रुतिः॥37॥ यर्खम्बुजाक्षाञ्चतिं माधव भवान् कुरून् मधून वाऽथ सुहृद्दिदृक्षया। तत्राब्दकोटिप्रतिमः क्षण भवेद् रवेर्विनाऽक्ष्णामिव नस्तवाच्युत ॥ 46॥ कुरूणां मधूनां च नः॥46॥


|


यत्तदीशनमीशस्य प्रकृतिस्थोऽपि तद्णैः। न युज्यते सदाऽऽल्मस्थैः यथा बुद्धिस्तदाश्रया ॥ 75॥


Page 32


तदाश्रया बुद्धिः। तज्ज्ञानिनामपि प्रकृतिस्थानां न तत्सङ्गः किमु तस्येति व्यत्यासदृष्टान्तः। ‘व्यत्यासोऽनन्वयश्चैव प्रसिद्धो भूत एव च।।


सर्वसांहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः' इति ब्राह्मे॥75॥


तं मेनिरे खला मूढाः स्त्रैणं चानुव्रतं हरेः। अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥76॥ मतयो यथा - यथामति, मेनिरे॥76॥


॥ इति प्रथमस्कन्धतात्पर्ये दशमोऽध्यायः ॥ 1-16॥


॥ एकादशोऽध्यायः ॥ 1-11 ॥



पार्थ प्रजाविता साक्षाद्विक्ष्वाकुस्वि मानवः। ब्रह्मण्यः सत्यसन्धश्च राम दाशरथिर्यथा ॥19॥ रामो दाशरथिर्यथा। अधिकदृष्टान्तः।


ऊर्णनभ्यादिको विष्णोर्विष्णुर्विष्णोस्तथैव च। विष्णुर्जीवस्य दृष्टान्त ऊनसाम्याधिकः क्रमात्" इति ब्राह्मे॥19॥


स राजपुत्रो ववृध आशु शुक्ल इवोंडुपः।


आपूर्यमाणः पितृभिः काष्ठाबिरिव चान्वहम् ॥31॥ " पूरयन्ति दिशः सोमं देवा गावः सरस्वती " इति गारुडे॥31॥


॥ इतिं प्रथमस्कन्धतात्पर्ये एकादशोऽध्यायः ॥1-11 ॥


यिः


॥ 1-12॥


Page 33


प्रत्युजग्मुः प्रहर्षेण प्राणांस्तन्व इवामतान्।


अभिसङ्गम्य विधिवत् परिष्यङ्गभिवादनैः ॥5॥ " तत्प्राणे प्रपन्न उदतिष्ठत्" इति श्रुतिः॥5॥



इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत्। यथानुभूतं भ्रमता विनो यदुकुलक्षयम् ॥12॥ यदुकुलक्षयम् एष्यत्। “शापं श्रुत्वा ब्राह्मणानामुद्धवः खिन्नमानसः।। उदासीनं तथा कृष्णमिव सुप्रीतमेव च ॥ न शिष्यमाणं स्वकुलं स्वर्यियातुं च केशवम्। ज्ञात्वा पप्रच्छ भगवत्स्वरूपं तमुपहरे॥ मैत्रेयोऽपि तदैवागाज्जिज्ञासुस्तत्त्वमुत्तमम्। तयोरदात् स भगवान् ज्ञानं निर्मलमञ्जसा॥ षड्विंशद्वत्सरात् पूर्वं स्वर्गतेः पुरुषोत्तमः। रेषयामास च हरिरुद्धवं बदरीमनु॥ कलापग्रामिणां वक्तुमेतत् तत्त्वमशेषतः। विदुरं तीर्थयात्रास्थमन्तराले स उद्धवः॥ दृष्ट्वा नशिष्यमाणं च कुलं जिगमिषु हरिम्। कथयित्वा बदर्यां च कलापग्रामवासिनाम्॥ प्रोच्य तत्त्वमशेषेण वासुदेवमुखोद्गतम्।


Page 34


षड्विंशद्वर्षगमने पुनरागतिमात्मनः॥ तेषामुक्त्वा पुनः कृष्णसन्निधौ विचचार ह। मैत्रेयो विदुरायैतदूचिवान् कृष्णचोदितः॥ विदुरः पाण्डवानां च विना यदुविनाशनम्। षट् त्रिंशद्वर्षतः पूर्वं ज्ञात्वाऽप्यप्रियमेव तत्॥ नावोचद्विदुरो धीमांस्तस्मान्नाप्रियमावदेत् " इति पाझे॥ तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः" इति चोपरि॥ “ विदुरं चागतं पुनः" इति च। भारते चैकविंशद्वर्षात् पूर्व विदुरस्य युधिष्ठिरभाव उक्तः॥12॥


अभिभ्रर्यमा दण्डं यथाघमघकारिषु। यावद्वभार शूद्रत्वं शापाद्वर्षशतं यमः॥15॥ योऽअर्यमा दण्डमबिभ्रत् स वर्षशतं यावच्छूद्रत्वं बभार।


न देवानां न देवीनां सामस्त्येन जनिभुवि। अंशांशेनैव जायन्ते सर्वे त्वाजानजादयः॥15॥


प्रतिक्रिया न यस्येह कुतश्चित् कहिँचित् प्रभो। स एष भगवान् कालः सर्वेषां नः समागतः ॥20॥ " संहर्ता भगवान् विष्णुः काल इत्यभिधीयते। अथवा गुणसर्वस्वं कालशब्दो व्यनक्तिहि " इति च स्कान्दे॥20॥


अथोदीचीं दिशं यातु स्वैरज्ञातगतिंर्भवान्।


Page 35


इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥28॥ स्वैरज्ञातगतिः - विविक्तगतिः॥28॥


अजात शत्रुः कृतमैत्रो हुताग्निर्विप्रान् नत्वा तिलगोवस्त्ररुक्मैः। गृहान् प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबल च ॥31॥ पितरौ कुन्तीधृतराष्ट्रौ। न चापश्यत्। तस्य मनसि तेषां विपद्भावो बभूव। अन्यथा महाभारतविरोधात्। स्कान्दे च -


" भीमसन्तर्जितो राज्ञस्त्वनुज्ञां प्राप्य यत्नतः। धृतराष्ट्रो वनेवासमकरोद्वत्सरत्रयम्। विदुरस्तद्दिदृक्षार्थमागतेषु वनं पुरात्। पाण्डवेषु तु राजानं प्रविश्यैकत्वमागतः। ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम्। श्रुत्वा कुन्तीं च चिन्तां ते प्रापुः पाण्डुसुतास्तदा॥ तांस्तदा नारदो विद्वान् शमयामस धर्मवित्। उक्त्वोत्तमां गतिं तेषां निष्ठां तात्कालिक तथा" इत्यादि॥31॥


तत्रसञ्जयमासीनं पप्रच्छद्विग्नमानसः मावणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः।


अम्बा वा हतपुत्राऽऽर्ती पितृव्यः क्व गत इतः ॥32॥ ब्रह्माण्डे च। " धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डुसूनवे।


Page 36


गतिं शशंस कुन्त्याश्च गान्धारीधृतराष्चयोः” इत्यादि। पितृव्योऽपि धृतराष्ट्र एख। द्विरुक्तिस्तात्पर्यार्था। " यत्राधिकं तत्परता बहुवारमपि ध्रुवम्। तद्वदन्ति महाप्राज्ञा लोकवेदानुसारतः" इति ब्रह्मवैवर्ते॥32॥



पितर्युपते पाण्डौ सर्वान् नः सुहृदः शिशून्।


अरक्षतां व्यसनतः पितृव्यौ हो गतावितः ॥34॥ पितृव्यौ - गान्धारीधृतराष्ट्रौ॥34॥


अहं च व्यंसित राजन् पित्रोः कुलनन्दन। न वेद साध्या गान्धार्या मुषितोऽस्मि महात्मभिः ॥37॥ मुषितोऽस्मीति प्रलापः॥37॥


नाहं वेद गतिं पित्रोद्भगक्न् क्व गतावितः। कर्णधार इवापारे सीदतां पारदर्शनः ॥40॥ क्व गतावित्यदृष्टापेक्षया॥40॥


यन्मन्यसे ध्रुवं लोंकमध्रुवं चाथवभयम्। सर्वथा हि न शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ 44 ॥ अपरिहार्यत्वादशोच्याः॥44॥


धृतराष्ट्रः सहभ्रात्रा गान्धार्या च स्वभार्यया। दक्षिणेन हिमवत ऋषीणामाश्रमं गतः ॥51॥ गमनकाले सह भ्रात्रा॥51॥


Page 37


स्नात्वा त्रिषवणं तस्मिन् हुत्वा चाग्नीन् यथाविधि। अब्बक्ष उपशान्तात्मा स आस्ते किंगतेक्षणः ॥ 53 ॥ आस्त इत्याद्यतीतार्थे। " स एष तर्घध्यास्त आसनं पार्थिवोचितम्" इत्यादिवत्। " सुप्तिङपग्रहलिङ्गनराणां कालहलच् स्वरकर्तृयां च। व्यत्ययमिच्छति शास्त्रैकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन” इति च महाव्याकरणे। " व्यासादयो वर्तमानमतीतानागते तथा। व्यत्यस्यापि वदन्त्यद्धा मोहनार्थं दुरात्मनाम्॥ पौर्वापर्यं यतो नैव सदैव परिवर्तनात्। अतश्चव्यत्ययादेतद्वदन्ति ज्ञानचक्षुषः" इति ब्राह्मे॥53॥


विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम्। ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥55॥ “ विज्ञानात्मा विरिञ्चोऽयं यस्तस्मिल्लीयते जगत्। यादांसि सागरे यद्वत् स क्षेत्रज्ञे जनार्दने। हृदिस्थे च स च व्याप्ते स्वात्मन्येकीभवत्युत॥ प्रलयौ भेदवन्तौ तु पूर्वोक्तौ ब्रह्मकृष्णयोः। अन्तस्थस्य बहिष्ठो तु तस्य तस्मिन्नभेदतः” इति ब्रह्मवैवर्ते। काले तस्य तत्र लयो भविष्यतीति ध्यानमात्रं विलापनम्॥ " अविद्यमानमपि यो ध्यायेतैवं विनिश्चितः।


Page 38


उच्यते तस्य कर्तेति तथैव मुनयोऽमलाः। जगद्विलापयामासुरित्युच्यन्तेऽथ तत्स्मृतेः॥ न च तत्स्मृति मात्रेण लयो भवति निश्चितम्" इति हि नारदीये। " स्वरूपं जायमानं च आकाशं च घटे द्विधा। स्वरूपं जायमानं तु घटे निर्भेदमेव हि। भिन्नवव्यवहारस्य समर्थं तल्लये च तत्। तद्वदेवावतारेषु देहस्थश्च हरिः स्वयम्। भिन्नवव्यवहाराय शक्तो लीने जगत्यपि। स एव पूर्ववज्ज्ञेयो निर्विशेषेण केशवः। जायमानं घटे जाते जायते तल्लये तु न। तस्माद्भिन्नं महाकाशादेवं जीवोऽपि कीर्तितः॥ उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति। स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम्॥ न चाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते " इति ब्रह्मतर्के॥55॥


1.



ध्वस्तमायागुणोद्रेको निरुद्धकरणाशयः। निवर्तीताखिलाहार आस्ते स्थाणुस्विाधुना ॥56॥


त्रिगुणात्मिका तथा ज्ञानं विष्णुशक्तिस्तथैव च। मायाशब्देन भण्यन्ते शब्दतत्वार्थवेदिभिः॥” इति नाममहोदधौ। अत्र सत्वादयो मायागुणाः॥56॥


Page 39


स का अद्यतनाद् राजा पस्तः पञ्चमेऽहनि।


कळेवरं हास्यति ह तच्च भस्मीभविष्यति ॥57॥ " परावरे तथैवारादुभयार्थाभिधायिनः" इति च ॥57॥


विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन। हर्षशोकयुतस्तस्माद्न्ता तीर्थनिषेवकः ॥ 60॥ एतत्सर्वं पूर्वमेव ज्ञात्वा तस्मादेव कारणाद्विदुरस्तीर्थानि ययौ


॥60॥


॥ इतिं प्रथमस्कन्दतात्पर्ये द्वादशोऽध्यायः ॥ 1-12॥


मायः ॥ 1-13॥


व्यतीताः कतिचिन्मासास्तदा तु शतशो नृपः। ददर्श घोररूपाणि निमित्तानि भृगूद्वह ॥2॥ मासशब्देनाहान्युच्यन्ते। तथा हि महाभारते।


अहस्तुमासशब्दोक्तं यत्र चिन्तायुतं व्रजेत्। एवं संवत्सराद्यं च विपरीते विपर्ययः "इति नाममहोददौ॥2॥


अपि देवर्षीणाऽऽदिष्टः स कालोऽयमुपस्थितः। यदाऽऽत्मनोऽङ्गमाक्रीङ भगवानुत्सिसृक्षति ॥8॥ अङ्गं - पृथिवीम्। " यदा त्यागादिरुच्येत पृथिव्याद्यङ्गकल्पना। तदा ज्ञया नहि स्वाङ्गं कदाचिद्विष्णुरुत्सृजेत्" इति ब्रह्मतर्के॥8॥



Page 40


मृत्युठूतः कपोतोऽग्नाकुलूकः कम्पयन्मनः। प्रत्युलूकश्च हुङ्कारैरनिद्रौ शून्यमिच्छतः ॥14॥ अग्नौ पदं करोति।


" यदुलूको वदति मोघमेतद्यत् कपोतः पदमग्नौकृणोति "


इति हि श्रुतिः॥14॥


भगवानपि गोविन्द ब्रह्मण्यो भक्तवत्सलः। कचित् पुरे सुधर्मायां सुखमास्ते सुहृद्भुतः ॥34॥ यथाऽन्येषां सुखं भविष्यति तथा। नित्यसुखत्वाद्धरेः। “अत्युत्तमानां कुशलप्रश्नो लोकसुखेच्छया। नित्यदाऽऽप्तसुखत्वात् तु न तेषां युज्यते क्वचित् " इति नारदीये॥34॥ कञ्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे। अलब्धमानोऽवज्ञातः किंवा तात चिरोषितः ।। 39॥ पूर्वं चिरोषितः॥39॥


--


॥ इतिं प्रथमस्कन्थतात्पर्ये त्रयोदशोऽध्यायः ॥1-13॥


॥चतुर्दशोऽध्यायः ॥ 1-14॥


फ्ल्यास्तवापि मखलूप्तमहाभिषेक श्लाधिष्ठचारुकबरं किंतवैः सभायाम्। स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्य


Page 41


यैस्तत् स्त्रियो न्यकृत तत् सविमुक्तकेश्यः ॥10॥ यत्पादयोः पतिताश्रुप्रधानः। यैः कबरं स्पृष्टं तत्स्त्रियः तत्पदयोः पतितत्वादेव। स विमुक्तकेश्यो न्यकृत॥10॥


तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं स्थी नृपतयो यत आमनन्ति। सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धमिवोरुमूर्षे ॥21॥ स रथो हयास्ते। तादृशा इत्यर्थः। त इषव इतिवत्। " सदृशे वा प्रधाने वा करणे वा तदित्ययम्। शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वतः" इति ब्रह्मतर्के। तद्रथहयानां दाहोक्तेः॥21॥


-



-



॥इति प्रथमस्कन्धतात्पर्ये चतुर्दशोऽध्यायः ॥ 1-14॥


-


॥पञ्चदशोऽध्यायः ॥ 1-15॥


सूत उवाच


वासुदेवायभिध्यानपरिबृंहिंतरंहसा। भक्त्या निर्मथिताशेषकषायधिषणोंऽर्जुनः ॥ 1 ॥ ज्ञानिनां प्रारब्धस्यैव निर्मथनं योग्यस्यैव।। " महता कारणेनैव प्रारब्धान्यपि कानिचित्। कर्माणि क्षयमायान्ति ब्रह्मदृष्टिमतः क्वचित् " इति भविष्यत्पर्वणि॥ तेषामपि काम्यकर्मफलदृष्टेष्च॥1॥


मीतं भगक्ता ज्ञानं यत्तत् सङ्ग्राममूर्धनि। कालकर्मतमोरुद्धं पुनरध्यगमद्विभुः ॥2॥


Page 42


तमआदिरोधश्च प्रारब्धकर्मणैव। " ज्ञानादिव्यक्तिरव्यक्तिः सुखदुःखादिकं तथा। सुदृष्टब्रह्मतत्त्वानां भवत्यारब्धकर्मणा " इति ब्रह्मवैवर्ते॥2॥


विशोको ब्रह्मसम्पत्त्या सञ्च्छिन्नद्वैतसंशयः। लीनप्रकृतिनैर्गुण्यादलिंङ्गत्वादसम्भवः ॥3॥ ब्रह्मसम्पत्तिरवगतिः। भगवन्तं विनाऽन्यत्र प्रवृत्त्यादिप्रकाशनम्। प्रारब्धकर्मणैव स्यात् कदाचिज्ज्ञानिनामपि। तां द्वैतदृष्टिं मे देव छिन्धि ज्ञानवरासिना” इति ब्राह्मे। तदेव सञ्छिन्नद्वैतसंशयत्वम्। लीनप्रकृतित्वं नैर्गुण्यं च लीनप्रकृतिनैर्गुण्यम्। तस्मादसूक्ष्मशरीरत्वादनारब्धकर्ममूलत्वात्। असम्भवः पुनरुत्पत्तिवर्जितः। ज्ञानोदयकाल एवैवंभूतःसन् पुनरध्यगच्छत्। " प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि। कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः। दहेदथापि सन्दग्धेन्धनवत् तत् पुनः पुनः। यावदारब्धकर्म स्यादाविर्वापि तिरो व्रजेत् " इति ब्रह्मतर्के॥3॥


स्वराट् पौत्रं विनीतं तमात्मनोऽनवमं मुणैः। तोयनीव्याः पतिं भूमेस्भ्यर्षिञ्चद्गजाह्वये ॥7॥ पौत्रत्वयोग्यत्वमनवमत्वम्॥ " इन्द्राद्युत्तमताऽन्येषां समता वा स्वके कुले।


Page 43


उत्तमत्वमुपास्त्यादियोग्यता वा निगद्यते " इति ब्रह्मतर्के॥7॥


वाचं जुहाव मनसि तत्प्राणा इतरे परम्। धृत्या ह्यपानं सत्सर्मं तत्परत्वे ह्यजोहवीत् ॥10॥



त्रित्वे हुत्वाऽथ पञ्चत्वं तच्चैकत्वेऽजुहन्मुनिः।


सर्वमात्मन्यजुहवीद् ब्रह्मण्यात्मानमव्यये ॥11॥ प्राणमपाने तं व्याने। समानोदानौ तेषु। तांश्चमूलप्राणे। आत्मा - हृदिस्थो विष्णुः। ब्रह्म - सर्वगतम्। “उमा वागात्मिका रुद्राज्जाता सा मनआत्मनः। प्राणाह्वयात् स वायोश्च सोऽपानादात्मरूपतः॥ स्वरूपादेव स व्यानादुदानो व्यानतस्तथ। तस्मात् समानो व्यानाच्चाप्यपानः प्राण एव च ॥


अपानात् तिसृभिश्चापि समानोदानयोर्जनिः। त्रयाणामथ पञ्चानामनाद्वा प्राणतो भवः॥ एकस्यैव स्वरूपाणि प्राणस्यैतानि पञ्च च। स च प्राणो हरेर्जातो हृदिस्थादात्मनो मतः॥ स आत्माब्रह्मणो जातो विश्वरूपाज्जनार्दनात्। एतेषां ब्रह्मपर्यन्तं विलयोत्पत्तिचिन्तनम्॥ ब्रह्मज्ञ इति प्रोक्तः सर्वसंसारमोचकः" इति नारायणाध्यात्मे॥ ॥ अस्यास्मिन् विलयो भावीत्येवं विज्ञानमाहुतिः।


Page 44


न तु तत्कालविलयस्त्वन्यो वा तस्य दर्शनात्" इति ब्रह्मतर्के॥10,11॥


उदीचीं प्रविवेशाशां गतपूर्वी महात्मभिः। हृदि ब्रह्मपरं ध्यायन्नावर्तेत गतो यतः ॥13॥ नावर्तेत वीरगतिम् गतः॥13॥


ते साधुकृतसर्वार्ता ज्ञात्वाऽऽत्यन्तिकमात्मनः। मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥15॥


आत्मनः स्वरूपमात्यन्तिकं ज्ञात्वा॥15॥


॥ इति प्रथमस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥ 1-15॥


॥ोडशोऽध्यायः ॥ 1-16॥


कस्य हेतोर्निजग्राह कलिं दिग्विजये नृप। नृदेवचिह्नधृक् शूद्रः कोऽसौ कां यः पदाऽहनत् ॥5॥ कोऽसावित्याक्षेपः कलिमित्युक्तत्वात्॥5॥


तत् कथ्यतां महाभाग यदि विष्णुकथाश्रयम्। अथ वाऽस्य पदाम्भोजमकरन्दलिहां सताम् ॥6॥


किमन्यैरसदालापैरायुष यदसव्ययः। क्षुद्रायुषां नृणामङ्ग मर्यानां मृतिंमृच्छताम् ॥7॥ अथेति पक्षान्तरे। वा - यदि॥ अन्यथा चेदायुषोऽसयय इत्यर्थः।


Page 45


यद्यर्थं च विकल्पार्थे वाशब्दः समुदीर्यते " इति नाममहोदधौ


॥6, 7॥


एतदर्थं हि भगवानाहूतः परमर्षिभिः। अहो नृलोके पीयेत हरिलीलामृतं वचः ॥9॥ एतदर्थं हि मृत्युरुपहूतः। अहो नृलोके पीयेतेति॥9॥


सारथ्यपार्षदसुसेवनसख्यदौत्यवीरासनानुगमनस्तवनप्रणामैः। स्निग्धेषु पाण्डुषु जगत्प्रणतस्य विष्णोर्भक्तिं करोति नृपतिश्चरणारविन्दे॥ स्निग्धेषु पाण्डुषु विष्णोः सारथ्यादिभिर्विशेषतो भक्तिं करोति॥17॥



सत्यं शौचं दया दानं त्यागः सन्तोष आर्जवम्। शमो दमस्तपः साम्यं तिकिक्षोफ्रतिः श्रुतम् ॥27॥ त्यागो मिथ्याभिमानवर्जनम्।


मिथ्याभिमानविरतिस्त्याग इत्यभिधीयते " इति नारायणाध्यात्मे॥27॥


ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेज धृतिः स्मृतिः। स्वातन्त्रं कौशलं कान्तिः सौभगं मार्धवं क्षमा ॥28॥ एकान्ततः शुभभागित्वं - सौभाग्यम्। "शुभैकभागी सुभगो दुर्भगस्तद्विपर्ययः" इति गीताकल्पे॥28॥


L


प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः। गाम्भीर्य स्थैर्यमास्तिक्यं कीर्तिमानोऽनहङ्कतिः ॥29॥


Page 46


" शमः प्रियादिबुध्युज्झाक्षमा क्रोधाध्यनुत्थितिः। महाविरोधकर्तुश्च सहनं तु तितिक्षणम्" इति पाझे। "स्वयं सर्वस्य कर्तृत्वात् कुतस्तस्य प्रियाप्रिये” इति च पाझे। " प्रियमेव यतः सर्वमप्रियं नास्ति कुत्रचित्। स्वयमेव यतः कर्ता शान्तोऽतो हरिरीश्वरः। इति ब्रह्मतकै॥ मानः परेषाम्॥29॥


इमे चान्येच भगवन् नित्या यत्र महागुणाः। प्राय महत्वमिच्छद्भिर्न च यान्ति स्म कहिँचित् ॥30॥


गुणैः स्वरूपभूतैस्तुगुण्यसौ हरिरीश्वरः। न विष्णोर्नच मुक्तानां कोऽपि भिन्नो गुणो मतः" इति ब्रह्मतकै॥30॥


॥ इति प्रथमस्कन्धतात्पर्ये षोडशोध्यायः ।। 1 -16॥


॥सप्तदशो ऽयः ॥ 1-12॥


वृषं मृणालधक्लं मेहन्तमिव बिभ्यतम्। वेपमानं पदैकेन सीदन्तं शूद्र पीङितं॥2॥ बिभ्यतमिव मेहन्तम्॥2॥


धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥21॥ असतां सूचकस्य न दोषस्तथापि सतां न सूचनीयमिति दर्शयितुम्। ज्ञातुं शक्तत्वाच्च राज्ञः। ‘यद्यधर्मः कृतः सद्भिर्न स वाच्यः कथञ्चन।


Page 47


असत्कृतमधर्मं तु वदन् धर्ममवाप्नुयात्’ इति व्यासस्मृतौ ॥21॥ अथवा देवमायाया नूनं गतिस्गोचरा। चेतसो वचसश्चापि भूतानामिति निश्चयः ।। 22॥ तस्य गोचरत्वेऽपि भूतानामगोचरेति ज्ञापयितुं वा॥22॥


न वर्तितव्यं तदधर्मबन्ध धर्मेण सत्येन च वर्तितव्ये। ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं ब्रह्मवितानयज्ञाः ॥32॥ ब्रह्मयज्ञा वितानयज्ञाश्च॥32॥


यस्मिन् हरिभंगवानिज्यमान इष्टात्ममूर्तिर्यजतां शं तनोति। कामानमोघान् स्थिरजङ्गमानामन्तर्बहिर्वायुरिवेश आत्मा ॥33॥ इष्टात्ममूर्तिरिच्छातनुः॥33॥


|



अथैतानि न सेवेत बुभूषुः पुरुषः क्वचिंत्। विशेषतो धर्मशीलो राजा लोकपतिंर्गुरुः ।। 40 ॥ विहितातिरेकेण न सेवेत॥40॥


॥ इति प्रथमस्कन्धतात्पर्ये सप्तदशोऽध्यायः ॥1-17॥


| ॥ अष्टादशोऽध्यायः ॥ 1 -18॥


उत्सृज्य सर्वतः सङ्गं विज्ञानार्जितसंस्थितिः। वैयासकेजहौ शिष्यो गङ्गायां स्वकलेवरम् ॥3॥ " विज्ञानमात्मयोग्यं स्याज्ज्ञानं साधारणं स्मृतम्"


Page 48


इति भागवतन्त्रे॥3॥ तुलयाम लवेनापि न स्वर्ग नापुनर्भवम्। भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ।। 13॥ " सम्यक स्वरूपस्याव्यक्तिरभावो जननस्य च। अल्पयत्नात् ततो वृद्धिहेतोः सत्सङ्गतिर्वरा”इति वायुप्रोक्ते॥13॥


कुतः पुनर्गुणतो नाम तस्य महत्तमैकान्तपरायणस्य। योऽनन्तशक्तिर्भगवाननन्तो महद्णत्वाद्यमनन्तमाहुः ॥19॥ अनन्तः कालतो देशतश्च॥19॥



यत्रानुरक्ताः सहसैव धीरा ब्यपोह्य देहादिषु सङ्गमूढम्। व्रजन्ति यत्पास्महंस्यसत्यं यस्मिन्नहिंसोपरमश्च धर्मः ॥22॥ परमहंसाश्रमप्राप्यं सत्यं ब्रह्म॥22॥


प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपास्तम्। स्थानत्रयात् परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥26॥ " स्वतो मनःस्थितिर्विष्णौ ब्रह्मभाव उदाहृतः" इति ब्रह्माण्डे॥26॥


अभूतपूर्वः सहसा क्षुत्तृड्ब्यामर्दितात्मनः। ब्राह्मणं प्रत्यभूद्वह्मन् मत्सरो मन्युरेव च ॥29॥ “ अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः" इति नाममहोदधौ॥29॥ इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालकान्। कौशिक्यप उपस्पृश्य वाग्वत्रं विससर्ज ह॥36॥


Page 49


कौशिकी - कुशपाणिः॥36॥


अरक्षमाणे नरदेवनाम्नी स्थाङ्गपाणावयमङ्ग लकः। तदैव चौरप्रचुरो विनङ्ख्यत्यरक्ष्यमाणो विंवरूथवत् क्षणात् ॥ 43 ॥ " सेना वरूथिनी प्रोक्ता वरूथो गुप्तिरुच्यते " इत्यभिधाने॥43॥


तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य पशोर्विलुम्पकाः। परस्परं घ्नन्ति शपन्ति वृञ्जते पशून स्त्रियोऽर्थान् पुरुदस्य जनाः ॥44॥


विड़ाष्ट्रं पशुरुत्सेको भ्रमरश्चेति कथ्यते " इति च॥44॥


साधवः प्रायशो लोके परैर्द्वन्द्वेषु योजिताः। न व्यथन्ति न हृष्यन्ति यत आत्माऽमुणाश्रयः ॥ 50 ॥ स्वकृतो गुणः स्वस्यैव यतः॥50॥


॥ इतिं प्रथमस्कन्धतात्पर्ये अष्टादशोऽध्यायः ॥1 - 18॥


यायः ॥ 1- 19॥


इति स्म राजा ब्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः। उदङ्मुख बक्षिणकूल आस्ते समुद्रपन्याः स्वसुते न्यस्तभारः ॥17॥ गङ्गायामुक एव किञ्चिद्दक्षिणभागे प्रासादे। तथाहि महाभारते॥17॥


॥ इतिं प्रथमस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥ 1 -19॥


किंशोऽध्यायः ॥ 1- 20 ।।


Page 50


श्यामं सदाऽऽवीच्यवयोङ्गलक्ष्या स्त्रीणां मनोज्ञं रुचिरस्मितैन। प्रत्युत्थिता मुनयश्चासनेभ्यस्तल्लक्षणज्ञा अपिं गूढ़वर्चसम् ॥4॥


" कैशोरयौवनाभ्यन्तः काल आवीच्यमुच्यते " इत्यभिधानम्॥4॥


इति श्रीमदानन्दतीर्थभमवत्पादाचार्य विरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धतात्पर्ये


विंशोध्यायः॥1 - 20॥


॥ इति प्रथमस्कन्धः ॥1॥


॥ द्वितीयस्कन्धः ॥2॥


|


"


॥ प्रथमोऽध्यायः ॥ 2- 1 ॥ श्री शुक उवाच - वरीयानेष ते प्रश्नः कृतो लोकहितं नृप।


आत्मविसम्मतः पुंसां श्रोतब्यादिषु यः परः ॥1॥ यः पर इति॥1॥


श्रोतव्यानीह राजेन्द्र नृणां सन्ति सहस्रशः। अपश्यतामात्मतत्वं गृहेषु गृहमेधिनाम् ॥2॥


निद्रया हीयते नक्तं व्यवायेन नवं वयः। दिवा चाहया राजन् कुटुम्बभरणेन वा ॥3॥


अपश्यतां निद्रया॥2, 3॥


देहापत्यकलत्रादिष्यात्मदैव्येष्यसत्स्वपि।


Page 51


तेषु प्रसक्तो निधनं पश्यन्नपि न पश्यति ॥ 4 ॥ असत्सु - अभत्रेषु। “ सद्भावे साधुभावे च” इति वचनात्॥4॥


प्रायेण मुनयो राजन् निवृत्ती विधिनिषेधतः। नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥7॥ ध्यानापेक्षया प्रायेण। नैर्गुण्यस्था मुक्ताः।


  • एतत्सामगायन्नास्ते” इति श्रुतेः॥7॥


इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।


अधीतवान् द्वापराधौ पितुर्वैपायनादहम् ॥8॥ द्वापरे च आदौ च। कृष्णावतारापेक्षया।

  • व्यासः षट् शतवर्षियो धृतराष्ट्रमजीजनत्” इति स्कान्धे॥8॥


परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया। गृहीतचेता राजर्ष आख्यानं यदधीतवान् ॥9॥ पिरिनिष्ठितोऽपि मुक्तिरस्य भविष्यतीति निश्चितोऽपि।


"उदरं संशयः प्रोक्तः परिनिष्ठा विनिश्चयः" इत्यभिधाने॥ "ऋष्युत्तमा देवताश्च विमुक्तौ परनिश्चिताः। तथाऽप्यधिकसौख्यार्थं यतन्ते शुभकर्मसु॥ विमुक्तास्तु स्वभावेन नित्यं ध्यानादितत्पराः" इति गारुडे॥9॥


नियच्छेद्विषयेभ्योऽक्षान् मनसा बुद्धिसारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धास्येद्धिया ॥18॥


Page 52


शुभार्थे भगवति॥18॥


तत्रैकाक्यवं ध्यायेदव्युच्छिन्नेन चेतसा। मनो निर्विषयं युङ्वाततः किञ्चिन्न संस्मरेत् ॥19॥ विषयेभ्यो निर्गत्य तत्रैव मनोयुङ्खाऽन्यन्न संस्मरेत्॥19॥


यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः।


आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥21॥ भद्रं - हरिम्॥21॥


यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता। यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥22॥ यच्छब्दः प्रश्ने।” यतश्चोदेति सूर्यः' इत्यादिवत्। " यच्छब्दस्तु परामर्श प्रश्नार्थे चाभिभण्यते " इत्याभिधाने॥22॥


जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः। स्थूले भगक्त रूपे मनः सन्धास्येद् धिया ॥23॥ यतेत्यस्य जितासन इत्यादि। यत्र स्थूले। यादृशीत्यस्य विशेष इत्यादि॥23॥


विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम्। यत्रेदं दृश्यते विश्व भूतं भव्यं भवच यत् ॥24॥ विशेषः - आण्डकोशः।


" शिलावत् तस्य देहोऽयमाण्डकोशस्तु सावृतिः। तत्तन्त्रत्वान्न तत्संस्थदुःखभोगोऽस्य न क्वचित् ” इति ब्रह्मवैवर्ते॥24॥


Page 53


आण्ङकोशे शरीरेऽस्मिन् सप्तावरणसंयुते। वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥25॥ आण्डकोशो विराट् प्रोक्तो विशेषेण प्रकाशनात्। वैराजस्तद्गतो विष्णुरथवा सर्वतो वरः" इति भागवततन्त्रे॥25॥


पातालमेतस्य हि पादमूलं पठन्ति पाष्र्णिप्रपदे रसातलम्। महातलं विश्वसृजः सुगल्फौ तलातलं वै पुरुषस्य जड़ें ॥26॥ प्रतिमापेक्षयाऽङ्गानि स्वरूपापेक्षया तज्जातानि तदाश्रितानि च॥26॥


छन्दांस्यनन्तस्य गिरो गृणन्ति दंष्ट्रार्यमेन्दूङगणा द्विजानि। हासो जनोन्मादकरी च माया दुरन्तस यदपाङ्गमोक्षः ॥ बहुरूपत्वाद् दंष्ट्रार्यमेन्द्वित्यादि। “ प्रतिमापेक्षयाऽङ्गानि भूरादीनि स्वरूपतः। तदाश्रितानि तज्जानि बह्वङ्गत्वं बहुत्वतः" इति ब्रह्मतर्के॥30, 31॥


| ॥इति द्वितीयस्कन्धतात्पर्ये प्रथमोऽध्यायः ॥ 2-1 ॥


शब्दस्य हि ब्रह्मण एष पन्था यन्नामभिध्या॑यति धीरपाथैः। परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥2॥ एष हरिः। यदपार्थेया॑यति। तत्रार्थान्न विन्दते। ‘सर्वनामा यतो विष्णुस्तदन्यार्थान् न तु स्मरेत्।


स्मरंस्तु यावदर्थः स्यादन्यथा स्वात्मह स्मृतः' इति ब्रह्माण्डे॥2॥ एवं स्वचित्ते स्वत एव सिंद्ध आत्म प्रिंयोऽर्थो भगवानन्तः।


--


Page 54


तं निवृतो नियतार्थो भर्जत संसारहेतूपस्मश्च यत्र ॥6॥ ‘एतमितः प्रेत्याभिसम्भविताऽस्मि’ इति नियतार्थः॥6॥



.



स सर्वविद्यनुभूश्च सर्व आत्मा यथा सुप्तजनेक्षितैकः। तं सत्यमानन्दनिधिं भजेत सर्वात्मनाऽतोऽन्यत आत्मघातः ॥7॥ 'यथैकस्तु बहून् सुप्तानसुप्तः पश्यति प्रभुः। एवमीशो बहून् जीवानज्ञान् पश्यति नित्यदृक्’ इति व्योमसंहितायाम्। ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति' इति च। ‘यथेष्टभवनाद्विष्णुरनुभूः परिकीर्तितः। उदधिः कर्मणामीशः सर्वः पूर्णगुणो यतः। सत्यः केवलसारत्वान्नियमो नियतेरजः' इति बृहत्संहितायाम्॥7॥


अदीनलीलाहरूसिंतेक्षणोल्लसद्भूभङ्गसंसूचिंतभूर्यनुग्रहम्। ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥13॥ चिन्तामयं चिन्ताप्रधानम्। ‘यस्मात् सञ्चन्तितो विष्णुश्चिन्तितं प्रददात्यजः। तस्माञ्चिन्तामयं देवं वदन्ति ज्ञानचक्षुषः' इति च॥13॥


यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः। तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ।। 15॥ स्थवीयः पातालमेतस्येत्यादि॥15॥


Page 55


स्थिरं सुखं चासनमास्थित यतिंर्यदा जिंहासुस्मिमङ्ग लोकम्। काले च देशे च मन न सज्जेत् प्राणान्नियच्छेन्मनसा जितासुः ॥16॥ ‘भक्त्या प्राणं वशं नीत्वाजितप्राणो भवत्युत' इति षाङ्गुण्ये॥16॥


मनश्च बुच्याऽमलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि ।


आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विमेत कुत्यात् ॥17॥ ‘जीवस्थो भगवान् विष्णुः क्षेत्रज्ञ इति गीयते।। हृद्गतस्तु स एवात्मा व्याप्तोऽप्यात्मेति भण्यते' इति तत्त्वनिर्णये। ‘हरौ हरेर्भवेन्नीतिस्तदेकत्वस्य चिन्तनम्। अन्यत्र तन्नियम्यादिचिन्तनं नीतिरुच्यते इति प्रकाशसंहितायाम्॥17॥ न यत्र कलोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे। न यत्र सत्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥18॥ कालो वायुः॥ ‘हरिश्च प्रकृतिश्चैव ब्रह्मवायू तथैव च। सुपर्णशेषरुद्राश्च शक्रः सूर्ययमावपि। अग्निर्यमानुजश्चैव कालशब्दोदिताः क्रमात्। पूर्वोक्तास्त्वपरोक्तानां प्रभवः सर्वशो मताः इत्युद्दामसंहितायाम्॥18॥ नाभ्यां स्थितं हृद्यधिरोप्य तस्मादुदानमत्यरसिं तं नयेन्मुनिः। ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥21॥


Page 56


उदानगत्या - ब्रह्मनाड्या। ‘अथैकयोर्ध्व उदानः' इति शृतेः। ‘प्राणापानाविडायां च पिङ्गलायां च वर्ततः। व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः। सर्वत्रैव समानस्तु समं चरति सर्वगः' इति भारते॥21॥


तस्माद् भुरन्तरमुन्नयेत निरुद्धसप्ताश्वपथोऽनपेक्षः। स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्य मूर्धन् विसृजेत्परङ्गतः ॥22॥ परं चिन्तयन्॥22॥


यदि प्रयास्यत्यथ पारमेष्ठ्यं वैहायसानामुत यद्विहारम्। अष्टाधिपत्यं गुणसन्निवापे सहैव गच्छेन्मनसेन्द्रियैश्च ॥23॥ ‘चिन्मात्राणीन्द्रियाण्याहुर्मुक्तानामन्यदैव तु। तान्येव जडयुक्तानि विभिन्नानि स्वरूपतः' इति ब्राह्मे॥23॥



योगेश्वराणां गतिमामनन्ति बहिस्त्रिलोक्याः पवनान्तरात्मा। न कर्मभिस्त गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥24॥ पवनस्याप्यन्तरात्मा यः तम्। पवनश्चासावन्तरात्मा चेति वा। 'ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान्। तत्र मुख्या हरि यान्ति तदन्ये वायुमेव तु। अपक्का ये न ते यान्ति वायुं वा हरिमेव वा। स्थानमात्राश्रितास्ते तु पुनर्जनिविवर्जिताः' इति ब्रह्मत॥24॥


Page 57


वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा। विंधूतकल्कोऽथ हरेरुद्रस्तात् फ्याति चक्रं नृप औंशुमारम् ॥25॥ हरेः शिंशुमारं चक्रम्। वैश्वानरोदस्तात्। ‘वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा। विधूय सर्वपापानि यान्ति किंस्तुम्नकेशवम्' इति ब्रह्माण्डे॥25॥


योऽन्तः फ्चतिं भूतानां यस्तपत्यण्डमध्यमः। सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ।। 26॥ ‘पितृयानं देवयानं ब्रह्मयानमिति त्रिधा।। गच्छन् वैश्वानरं याति तस्मान्मार्गः स ईरितः॥


देवयानं पिङ्गलाभिरहान्येतिं शतायुषा। रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ॥27॥ ‘दक्षिणाः पिङ्गलाः सर्वा इडा वामाः प्रकीर्तिताः। नाड्योऽथ मध्यमाः प्रोक्ताः सुषुम्नावेदपारगैः' इति भागवतन्त्रे। 'देवयानस्य मार्गस्था अहः शब्दाभिसंज्ञिताः। पितृयानस्य मार्गस्था रात्रिशब्दाह्वया मताः' इति बृहत्तन्त्रे॥


'शतायुर्मरणं चैव कालिकं पारमावृतिः' इत्यभिधाने॥ पिङ्गलाभिः शतायुषा अहःसंज्ञं देवयानमेति। इडाभी रात्रिसंज्ञं पितृयानम्। ‘विषुवत्ताब्रह्मयानो विशेषेण सुखं यतः।। पिङ्गला देवयानं स्यात् पिङ्गाख्यसुखदं यतः।


Page 58


इडाऽन्नदानात् पितृणामेवं मार्गाः प्रकीर्तिताः


इतिं ब्रह्मतर्के॥26, 27 ॥


तद्विश्वनाभिं त्वभिपद्य विष्णरणीयसा विस्जैनात्मनैकम्। नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते ॥28॥ ‘अशेषजगदाधारः शिंशुमारो हरिः परः।। सर्वे ब्रह्मविदो नत्वा तं यान्ति परमं पदम्' इति ब्रह्माण्डे॥ तद्विष्णोर्विश्वाधारं स्वरूपं प्रतिपद्य यत्र कल्पायुषस्तं महर्लोकमुपैति। ‘मन्वन्तरायुशः स्वग्र्या महर्लोके तु काल्पिकाः।


आब्रह्मणो जनाद्यास्तुमहर्लोकेऽपि ये वराः' इति ब्राह्मे॥28॥


अथ अनन्तस्य मुखानलेन दन्दह्यमानं स नीरीक्ष्य विश्वम्। नियति सिद्धेश्वरजुष्टधिष्ण्यं यद्वैफ्रायं तदु पारमेष्ट्यम् ॥29॥




"



न यत्र शोक न जरा न मृत्युनधिर्न चोद्वेग ऋते कुतश्चित्। यश्चित्ततोदधः क्रिययाऽनिदंक्दिां दुरन्तदुःखप्रभवानुदर्शनात् ॥ 36 ।। ऋते सत्यलोके। अनिदंविदां अब्रह्मविदाम्। दुरन्तदुःखं च प्रभवश्च। ‘सर्वदुःखविहीना ये मुक्ताः प्रायस्तुतादृशाः।


अमुक्तास्ते जनाद्येषु विशेषेण तु सत्यगाः' इति वाराहे॥ विष्णोर्लोकं तदैवैके यान्ति कालान्तरे परे। ‘आज्ञयैव हरेः केचिदपूर्तेः केचिदञ्जसा। विहृत्यैवान्यलोकेषु मुच्यन्ते ब्रह्मणा सह' इति वामने॥29, 30॥


Page 59


ततो विशेष प्रतिपय निर्भयस्तैनात्मनाऽपोऽनलमूर्ध्नि च त्वरन्। ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं ब्रहदात्मलिंङ्गम् ॥31॥ ब्रह्मणा सह विशेषं पृथिवीम्। तेनात्मना पृथिव्यात्मना। ज्योतिर्मय अग्निप्रधानः। आकाशवत् सर्वगतश्च नित्य इति परमात्मसदृशं किञ्चित्। ‘ज्ञानिनः प्रलये सर्वे ब्रह्मणा सह पार्थिवम्। परमात्मानमाविश्य वारिस्थं तत्समन्विताः॥ अग्निस्थं तद्युताश्चैव तेन नीताश्चवायुगम्। नबोगतं तेन नीता मनःस्थं तद्युतास्तथा॥ ततो बुद्धिस्थमीशेशं ततोऽहङ्कारगं हरिम्। ततो विज्ञाननामानं महत्तत्त्वगतं हरिम्॥ तत आनन्दनामानमव्यक्तस्थं जनार्दनम्। प्राप्य नावृत्तिमायान्ति शीतीभूता निरामयाः॥ येषां पदान्तरापेक्षा वाय्वादीनां महात्मनाम्।


आवृत्य ते पुनर्यान्ति ज्ञानिनोऽपि निरामयाः। अनावृत्तिमसंमूढाः परानन्दैकभागिनः' इति ब्रह्मतकै॥ ‘भूम्यामन्ननामानं प्राणमन्यादिसंस्थितम्। मानसं मनआदिस्थं विज्ञानं महति स्थितम्। आनन्दमव्यक्तगतं क्रमशो यान्ति देवताः। ब्रह्माद्याः केचिदेवात्र तदन्ये क्रमशोऽपरान्' इति बृहत्तन्त्रे॥31॥


Page 60


घ्राणेन गन्धं रसनेन वै रसं रूपं तु दृष्ट्वास्पर्श त्वचैव। श्रोत्रेण चोपेत्य नभोगुणं तत् प्रायेण नावृत्तिमुपैति योगी ॥32॥ ‘पञ्चचेन्द्रियैर्ये विषया एष्टव्याः सर्वतो वराः। मानसांश्चाखिलान् प्राप्य मुक्ता मोदन्ति देवताः। तथोद्रिक्तनिजानन्दा नित्यानन्दा असंवृताः' इति षाडुण्ये॥32॥


स भूतसूक्ष्मेन्द्रियसन्निकर्षात् सनातनोऽसौं भगवाननादिः। मनोमयं देवमयं विकार्य संसाद्य मत्या सह तेन याति ॥ भूतसूक्ष्मेन्द्रियैश्च सह अनादिर्भगवानाकाशगो मनोमयं याति। नादवत्त्वात् सनातनः। ‘नादेन तेन महता सनातन इति स्मृतः' इति मोक्षधर्मे॥ विविधकार्ययुक्तं विकार्यम्। देवमयं देवप्रधानम्। ‘मनःस्थितो हरिर्नित्यं सर्वदेवेषु संस्थितः। देवप्रधानकान् ल्लोकान् करोत्यनुगतः सदा' इति वाराहे॥ भूतसूक्ष्माणि पञ्चभूतानि जीवाश्च। ‘पञ्चभूतैश्च शब्दाचैरिन्द्रियैर्जीवराशिभिः। युक्त आकाशगो विष्णुर्मनस्थमुपगच्छति' इति वामने। योऽसावनादिर्मनोमयस्तमिति वा। विपर्ययश्चेत् तस्यैव गन्तृत्वमिति ज्ञापयितुम्। मतिस्थेन तेन मनःस्तेन च सह विज्ञानतत्त्वं याति॥33॥


विज्ञानतत्त्वं गुणसन्निरोधं तैनात्मनाऽऽत्मानमुपैति शान्तिम्। आनन्दमानन्दमयोऽक्साने सर्वात्मके ब्रह्मणि वासुदेवे ॥34॥


Page 61


|



एतां गतिं भागवत गतो यः स वै पुनर्नेह विषजतेऽङ्ग। एते सूती ते नृप वेदगीते त्वयाऽभिपृष्टेऽथ सनातने च। ये वै पुरा ब्रह्मण आह पृष्ट आराधितो भगवान् वासुदेवः ॥35॥ गुणसंनिरोधम् - निर्गुणं वासुदेम्॥ वासुदेवे एतां गतिं गतोन विषज्जते। वासुदेवाश्रिता देवा ब्रह्माद्या मुक्तबन्दनाः। भेददृष्ट्याऽभिमानेन चावृत्तिं नैव यान्ति ते। भुञ्जते तु पृथग्भोगान् नानन्दं तत्स्वरूपकम्। स्वरूपं च पृथग् तेषामाविष्टग्रहवद्भवेत्' इति ब्रह्माण्डे॥34, 35॥


न ह्यतोऽन्यः शिवः पन्था विश्रुतः संसृताविह। वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ 36 ॥ यद्भगवानाह। अतो भागावताख्याद्रन्थाच्छिवः पन्था न॥36॥


भगवान् ब्रह्म कायॆन त्रिरन्वीक्ष्य मनीषया। तपश्यद्धि कूटस्थे रतिरात्मन्यतो भवेत् ॥37॥ तद्भागवतं पुराणमपश्यत्। ‘नित्यज्ञानेन सिद्धं च पुनः पुनरवेक्षते। लीलयैव परे देवो दुष्टानां मोहनाय च' इति ब्रह्मतकै॥37॥


भगवान् सर्वभूतेषु लक्षितश्चात्मना हरिः। दृश्यैर्बुच्यादिभिर्दष्टा लक्षणैरनुमाफ्कैः ॥38॥ लक्षितश्चास्मिन् पुराणे बुच्यादीनां पारवश्यदर्शनादन्यो नियन्ताऽस्तीति। ‘समाधावसमाधौ च निःस्वतन्त्रस्य देहिनः।


Page 62


अन्यो नियन्ता भगवान् वासुदेवः परः पुमान् इति ब्रह्मतर्के॥38॥


तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा। श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् ॥39॥ यस्माद्भगवतैष एवोक्तस्तस्मात् स एव श्रोतव्यादिः॥39॥


॥ इति द्वितीयस्कन्धतात्पर्ये द्वितीयोऽध्यायः ॥ 2-2॥


| ॥तृतीयोध्यायः ॥ 2-3॥


अकामः सर्वकामो वा मोक्षकाम उदारधीः। तीव्रण भक्तियोगेन युजेत पुरुषं परम्॥10॥ ‘अकामो धर्मकामो वा मोक्षकामोऽपि यो भवेत्।।


अथवा सर्वकामो यः स विष्णु पुरुषं यजेत्' इति स्कान्दे॥10॥


आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ। तस्यर्ते यः क्षण नीत उत्तमश्लोकवार्तया ॥17॥ तस्यायुषो य उत्तमश्लोकवार्तयाते क्षणः स नीत एव वृथा॥17॥


॥इति द्वितीयस्कन्धतात्पर्ये तृतीयोऽध्याये। 2-3॥


॥ चतुर्थोऽध्यायः ॥ 2-4॥


|


आत्मजायासुतागारपशुद्रविणबन्धुषु। राज्ये चाविंकले नित्यनिरूढां ममता जहौ ॥2॥ अन्येषां नित्यनिरूढाम्। तदा विशेषतो जहौ॥2॥


Page 63


संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्णिकं च यत्। वासुदेवे भगवति स्वात्मभावं दृढं गतः ।। 4 ।। ‘आप्तेः सर्वगुणानां य आत्मनामतया हरिम्। उपास्ते नित्यशो विद्वानाप्तकामस्तदा भवेत्' इति वामने॥4॥ श्री शुक उवाच - नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया। गृहीतशक्तित्रितयाय देहिनामन्तधुंकायानुपलभ्यक्र्मने। गृहीतशक्तित्रितयायेति। ‘इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः। स्वरूपभूता अपि तु भेदवढ्यावहारिकाः॥ इति प्रकाशसंहितावचनान्नित्यगृहीतत्वमेव॥12॥ भूयो नमः सद्वजिनच्छिदेऽसतामसम्भवायाखिलसत्वमूर्तये। पुंसां पुनः पास्महंस्य आश्रमे ब्यवस्थितानामनुमृग्यदाशुषे ।। 13॥ अखिलसत्वमूर्तये - पूर्णसाधुभावस्वरूपाय। 'निःशेषगुणपूर्णत्वात् सत्व इत्येव तं विदुः। इति महासंहितायाम्॥13॥ स एष आत्माऽऽत्मवतामधीश्वरस्त्रयीमय धर्ममयस्तर्पोमयः। गतव्यलकैस्जशङ्करादिभिर्वितर्ध्वलिङ्गो भगवान् प्रसीदताम् ॥19॥ 'वेदानुसारिवशगः स्वेच्छया तु हरिर्यतः।।


अतः स्वतन्त्रमप्याहुः प्राज्ञा वेदमयेति ह' इत्यध्यात्मे॥19॥


| ॥ इति द्वितीयस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥ 2-4॥


Page 64


॥पञ्चमोऽध्यायः ॥ 2-5॥


नारद उवाच


देवदेव नमस्तेऽस्तु भूतभावन पूर्वज। तद्विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ॥ 1 ॥ विजानीहि - विज्ञापय। ‘व्यत्ययो भेदस्वातन्त्र्यकरणेषु' इति वचनात्॥1॥


यदूपं यदधिष्ठानं यतः सृष्टमिदं विभो।


यसंस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वतः ॥2॥ ‘तद्वशत्वादिदं रूपं हरेनैव स्वरूपतः इति मानससंहितायाम्। ‘अधिष्ठानमिति प्रोक्तं मूलाधारं विचक्षणैः।


यत् स्थितं दृश्यते वस्तु संस्थानं तदुदीरितम्। उभयं हरिरेवास्य जगतो मुनिपुङ्गव' इति वामने॥ ‘हरिः परोऽस्य जगतो ह्यव्यक्तादेश्च कृत्स्नशः।


अतस्तत्परमेवेदं वदन्ति मुनयोऽमलाः' इति सात्वतसंहितायाम्। ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते। विद्यमाने विभेधेऽपि मिथो नित्यं स्वरूपतः' इति भविष्यत्पर्वणि॥2॥


अतर


५म।


एकः सूजसि भूतानि भूतैरेवात्ममायया ॥


आत्मन् भाक्यसे तानि न पराग भावयेः स्वयम्। आत्मशक्तिमवष्टभ्य सूत्रनाभिरिवाक्लमः ॥5॥ तदधिकं ज्ञातुं पूर्वपक्षं दर्शयति। एकः सृजसीत्यादिना॥4,5॥


Page 65


नाहं वेद परं त्वस्मान्नावरं न समं विभो। नामरूपगुणैर्भाव्यं सदसद् किञ्चिदन्यतः ॥6॥ ‘त्वददीना यतः सत्ता अवरस्यापि केशव।


अतः स्वरूपतः सम्यक् सति भेदेऽपि तद्भवान्' इति मात्स्ये॥6॥


नानृतं बत तच्चापि यथा मां प्रब्रवीषि भो। अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥10॥ नानृतमित्याक्षेपः॥10॥


तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ 12॥ ‘मुख्या माया हरेः शक्तिरमुख्या प्रकृतिर्मता। अथामुख्यतमा चैव माया दीना प्रकीर्तिता' इति॥12॥


द्रव्यं कर्म च कालश्च स्वभाव जीव एव च। वासुदेवात् परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥14॥ परः - अधिकः। ‘तद्वदेव स्थितं यत् तु तात्वतं तत्प्रचक्षते' इति कौमै॥14॥


नारायणपरा वेदा देवा नारायणाङ्गजाः।


नारायणपरा लोंका नारायणपरा मखाः ॥15॥


Page 66


नारायणपसे योग नारायणपरं तपः। नारायणपरं ज्ञानं नारायणपरा गतिः॥16॥ वेदप्रतिपाद्येषु स पर इत्यादि। ‘गम्येज्यज्ञेयवाच्येषु योगेषु च परो हरिः। तपसा पूज्यमानानां सर्वलोकेभ्य एव च' इति वाराहे॥15, 16॥


सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः। स्थितिसर्मनिरोधेषु गृहीता मायया विभोः ॥18॥ युगपत् क्रमशोऽपि वेत्यस्य परिहारः ‘सत्वं रजस्तमः' इति ‘नित्यं गृहीताः सत्वाद्या स्थित्यादिषु विशेषतः। युगपत् क्रमशश्चैव गृह्णाति भगवान् स्वयम्' इति ब्रह्मवैवर्ते॥18॥


कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः। बन्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥19॥ ‘ज्ञानेन्द्रियैश्च मनसा सत्वं बध्नाति पूरुषम्। रजः कर्मेन्द्रियैर्नित्यं शरीरेण तमस्तथा॥


आन्तरं यत् तु कर्तृत्वं तत्सत्वेनाभिमन्यते। रजसा त्वभिमन्येत करणैः कर्मकारणैः॥ शारीरं वेदनाद्यं तु तमसा ह्यभिमन्यते। अकर्ता करणैनः शरीरेण विवर्जितः ॥ नित्यज्ञानस्वरूपोऽसौ गुणैरेवाभिमन्यते।


Page 67


एवं जीवः परेणैव प्रेरितः संसृतिं व्रजेत्। न परः संसृतिं क्वापि स्वातन्त्र्या दधिकत्वतः॥ एवं जीवपरौ भिन्नौकिमन्यच्छ्रोतुमिच्छसि' इति पाझे॥ मायिनं - ज्ञानिनं स्वतः॥19॥


स एष भगवान् लिङ्गैस्त्रिभिरेतैरधोक्षजः। स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥20॥ लिङ्गैर्कापकैः। त्रिगुणैः। एतैर्लिङ्गैः। स्वप्रसादाजीवेन लक्षितगतिः। ‘स्वप्रसादादिमं जीवः पश्येत् तेन स्वलक्षितः' इति षाङ्गुण्ये॥20॥


कालं कर्म स्वभावं च मायेशो मायया स्वया।


आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥21॥


स्वया मायया - स्वशक्त्या। “यत्रान्यहेत्वभावः स्यादीश्वरेच्छादिना विना।


तदिच्छा हि यदृच्छा स्यादतस्तत्र यदृच्छया' इति ब्रह्मतर्के। ‘कालकर्मस्वभावादि नित्ययेशेच्छया सदा। प्राप्तमेव विशेषेण सृष्ट्या दावुन्नयत्यजः' इति च ॥ विबुभूषुः - बहुधा बुभूषुः ।। ‘ईशो बह्वीः पुरः सृष्ट्वा तत्रैव बहुरूपताम्।


तत्तन्नियामकतया प्राप्तुं कालाद्युपाददे' इति च॥21॥


कालाद्णव्यतिकरात् परिणामस्वभावतः।


Page 68


कर्मणो जन्ममहतः पुरुषाधिष्ठितादभूत् ॥22॥ प्रकृतेः परिणामस्वभावतः। ‘गुणकालस्वभावेभ्य ईशेनाधिष्ठितत्वतः।


जगदादि महत्तत्त्वमभूत् तस्येच्छया हरेः' इति षाङ्गुण्ये॥22॥ महतस्तु विकुर्वाणाद्रजःसत्वोपबृंहितात्। तमःप्रधानस्त्वभवद्गब्यज्ञानक्रियात्मकः ॥23॥ ‘भूतानि द्रव्यनामानि ज्ञानं ज्ञानेन्द्रियाण्यपि। क्रिया कर्मेन्द्रियाण्याहुस्तन्मूलत्वादहं त्रिधा' इति गारुडे॥23॥


सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिंधा। वैकास्किस्तैजसश्च तामसश्चेति यद्भिधा ॥24॥ ‘विशिष्टकार्यशक्तित्वाद्देवा वैकारिकाः स्मृताः॥ अतिजाज्वल्यमानत्वात् तैजसानीन्द्रियाण्यपि। तामसानि तु भूतानि यतस्तावन्नतूभयम्' इति पाझे॥24॥


द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभोः। तामसादपि भूतादेर्विकुर्वाणादभून्नभः॥25॥ ‘ज्ञानेन्द्रियाणां देवानां ज्ञानशक्तिरुदीरिता। क्रिया कर्मेन्द्रियाणां च भूतानां द्रव्यशक्तिता' इति स्कान्दे। ‘द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः। पूर्वं वेगाभिसम्बन्धादाकाशस्तुप्रदेशतः


Page 69


इति प्रकाशसंहितायाम्॥25॥ तस्य मात्रागुणः शब्दो लिंङ्गं यद्दष्ट्रदृश्ययोः। नभसोऽथ विकुर्वाणादभूत स्पर्शगुणोऽनिलः ॥26॥ ‘पञ्चेन्द्रियाभिमेयत्वान्मात्रा गुण इतीरितः' इति मात्स्ये। ‘शब्देनैव परो द्रष्टा ज्ञायते जगदेव च'इति विष्णुसंहितायाम्॥26॥


फ्रान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम्। वायोरपि विकुर्वाणात् कालकर्मस्वभावतः ॥ उपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥27॥ ‘सर्वचेष्टयितृत्वात् तु प्राणोऽभिभवशक्तितः।


ओजस्त्वनभिभाव्यत्वात् सहश्चस्वेच्छया कृतेः। बलं विधारकत्वाच्चविधृतिर्वायुरुच्यते' इति भारते॥27॥


वैकास्किान्मनो जज्ञे देवा वैकास्किा दश। दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥30॥ ‘अनाद्यनन्तोऽपि हरिर्वैकारिकगणेष्वजः। अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्वभुग्विभुः। पाददेवस्तु यज्ञोऽन्यस्तं प्रविश्य हरिः स्वयम्। सर्वं विधारयन् देहे वर्ततेऽनन्तशक्तिधृक्' इति वह्निपुराणे॥30॥


तदा संहृत्य चान्योन्यं भगवच्छक्तिंचोदिताः। सदसत्त्वमुपादाय न भयं ससृजुर्खदः ॥33॥



|


Page 70


सदसत्त्वं - व्यक्ताव्यक्तत्वम्। नः भयम्। अदो ब्रह्माण्डम्। ब्रह्माण्डं हि वदन्तीति जीवानां भयकारणम्। तत्र हि संसृतिः। ‘आकाशवायू त्वव्यक्तावितरेऽण्डे प्रकाशिताः। तथात्वाद्वाह्यभूतानामण्डस्थानां च सा गतिः' इति मत्स्ये॥33॥


वर्षपूगसहस्रान्ते तदण्डमुदकेशयम्। कालकर्मस्वभावतोऽजीवोऽजीक्मजीजनत् ॥34॥ कालकर्मस्वभावस्थ अजीवः परमेश्वरः। अजीवं स्वात्मानमजीजनत्। तदण्डं यथा स्वात्मानं प्रसूते तथा चकार।


‘यः प्राणधारणं प्राणप्रसादात् कुरुतेऽनिशम्। स जीव इति सन्दिष्टस्तदन्योऽजीव उच्यते। यत्प्रसादात् स तु प्राणः कुरुते स्वस्य धारणम्' इति वायुप्रोक्ते ॥ ‘कालकर्मस्वभावस्थो वासुदेवः परः पुमान्।।


अकरोदण्डमुद्द्धमात्मप्रसवकारणम्' इति ब्रह्माण्डे॥ जीव इति वा। ‘प्राणं धारयते यस्मात् स जीवः परमेश्वरः। अजीवोऽपि महातेजास्त्वथवा जीवयन् जगत्' इति स्कान्दे॥34॥


स एष पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः। सहस्रोर्वङ्घिबाह्वक्षिः सहस्राननशीर्षवान् ॥35॥ ‘अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च। अनादिस्तु हरिस्तत्र ब्रह्मासादिरुदाहृतः” इति च॥35॥


Page 71


यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः। ऊर्वादिभिरधः सप्त सप्तो जघनादिभिः ॥36॥ 'हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम्।


साक्षात् सत्यमतोऽन्यस्माब्यावहारिकमुच्यते' इति मात्स्ये॥36॥


पुरुषस्य मुखं ब्रह्मक्षत्रमेतस्य बाहवः


ऊर्वोवैश्यो भगवतः पयां शूद्र व्यजायत॥37॥ ‘ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः। यथाऽवदच्छुतौ तद्वज्जीवो ब्रह्मेति वाग्भवेत्' इति ब्राह्मे॥37॥


॥ इति द्वितीयस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥ 2-5॥


१ः॥2- 6 ॥


रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी। कर्णी विशां च तीर्थानां श्रोत्रमाकाशशब्दयोः ॥3॥ तीर्थानां - शास्त्राणाम्॥3॥


रोमाण्युद्विजजातीनां यैर्वा यज्ञस्तु सम्भृतः। केशश्मश्रुनखान्यस्य शीलालहाभ्रविद्युताम् ॥5॥ ‘याज्ञिका रोममूलस्था रोमान्तस्थास्तु तत्परे। उद्विदो वासुदेवस्य लिङ्गगास्तु जरायुजाः' इति पाझे। ‘हरेः श्मश्वाश्रया विद्युच्छिला लोहा नखाश्रयाः' इत्याग्नेये॥5॥


Page 72


बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम्। विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च। सर्वकामावरस्यापि हरेश्वरण आस्पदम् ॥6॥ ब्राह्मणवैश्यादीन् वर्जयितुं प्रायश इति।। ‘मोक्षः शान्तिश्चशरणं निर्वाणं चाभिधीयते' इति ब्राह्मे ‘भेजे खगेन्द्रध्वजपादमूलम्' इति च। स्वोत्पत्त्यङ्गेषु देवानामन्येषां पादमूलतः। मुक्तिस्तुविहिता विष्णोर्निदिर्धेषु यथावचः' इत्याध्यात्मे॥6॥


धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ॥


विज्ञानस्य च तत्त्वस्य परस्यात्मा परायणम्॥11॥ ‘कुमारब्रह्मरुद्राद्या हरेर्मध्यात् समुद्रताः' इति वामने। ‘आत्मेति मध्यदेहश्चसर्वदेहोऽपि वा भवेत्।


मनोबुद्धिरहङ्कारश्चित्तं जीवश्च कथ्यते। अथवा स्वयमेवेति वायुर्ब्रह्माऽऽपि वा भवेत्। मुख्यतो ब्रह्मपरममात्मशब्देन भण्यते' इति नाममहोदधौ॥11॥


सर्वं पुरुष एवेदं भूतं भव्यं भवच यत्। तेनेदमावृतं विश्वं वितस्तिमधितिष्ठता॥15॥ 'देहेन्द्रियादिभेदेन निर्भेदोऽपि हरिः स्वयम्। भण्यते केवलैश्वर्यादनाद्यानन्दचिद्धनः' इति गारुडे।


Page 73


‘सर्वं पुरुष एवेति भण्यते भेदवज्जगत्। तदधीनं तु सत्तादि यतो ह्यस्य सदा भवेत्' इति ब्रह्मतर्के। ‘वितस्तिमात्रं हृदयमास्थाय व्याप्नुते जगत्' इति गारुडे॥15॥


स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ। एवं विराजं प्रतप॑स्तपल्यन्तर्बहिः पुमान् ॥16॥ ‘पश्यन् स्वधिष्ण्यं देहं स बहिष्ठान् विषयानपि। एवमण्डान्तरं पश्यन् बहिः सर्वं च पश्यति' इति वामने॥16॥


सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्। महिंमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ।। 17॥


पादोऽस्य सर्वा भूतानि पुंसः स्थितिविदो विदुः ॥18॥



‘अव्यक्तमात्मनोऽन्नं च महदादि विनाशि च। यदतीतः परो विष्णुः स एवातो विमोक्षदः इति नारदीये॥17, 18॥


अमृतं क्षेममभयं त्रिमूर्भोऽधायि मूर्धसु।


पादास्त्रयो बहिंस्त्वासन्न प्रजानां य आश्रयाः ॥19॥


‘स्वरूपांशो विभिन्नांश इति द्वेधाऽम्श इष्यते।


अनन्तासनवैकुण्ठपद्मनाभाः स्वयं हरिः। जीवा इमे विभिन्नांशा धर्माधर्मादिसंयुताः' इति वामने॥19॥


Page 74


सर्वस्य यथावत् स्थितिविदः॥ ‘त्रिमूर्धा सन् हरिर्धत्ते द्युत्रयं मूर्धभिस्त्रिभिः।


अनन्तासनवैकुण्ठनारायणपुराणि तु। बहुलक्षोच्छितेष्वेषु स वसत्यमृतो हरिः' इति मात्स्ये।


अन्तत्रिलोक्यास्त्वपरो गृहमेधैर्वृहद्भुतः। सृती विचक्रमे विष्यक् साशनानशने उभे ॥20॥


यविद्या च विद्या च पुरुषस्तूभयाश्रयः। तस्मादण्डाद्विरा जज्ञे भूतेन्द्रियगुणाश्रयः ॥21॥ ‘अनन्तासनवैकुण्ठनारायणपुराणि तु।


त्रीणि धामानि वै विष्णोत्रिलोकाद्वहिरेव हि। अदायादास्तु पुत्राणामुद्रिक्तज्ञानचक्षुषः। नारायणपरा देवा एवं तान्याप्नुवन्त्युत॥ स एखान्यस्वरूपेण शक्रलोकसमीपगः। इज्यो यज्ञपुमान्नाम ज्ञानिनां गृहिणां पदम्। यतीनां ध्रुवलोकस्थो वनीनां मेरुमध्यगः।


आदित्यमण्डलस्थस्तु ज्ञानिनां ब्रह्मचारिणाम्' इति बह्माण्डे। ‘त्रिपात् स एव भगवान् सर्वप्राणिषु संस्थितः। निरन्नेषु च विद्वत्सु त्रिदशेष्वितरेषु च' इत्याध्यात्मे। ‘तस्माद्धरेरण्डमभूदण्डादपि चतुर्मुखः।


Page 75


स विराण्नामकस्तस्मादधिको हरिरेव तु॥20, 21॥ तद्व्यमत्यमाद्विश्वं गोभिः सूर्यः इवाश्रयम्। यदास्य नाभ्यान्नलिनादहमासं महात्मनः ॥22॥


नाविदं यज्ञसम्भारान् पुरुषाक्यवानृते।


तेषु यज्ञाश्च पशवः सवनस्पतयः कुशाः ॥23॥


‘अण्डाज्जातस्य तस्यान्यदूपं पद्मादभूद्धरेः। यदोभयात्मको जज्ञे ब्रह्मा लोकपितामहः। तदैव सोऽतिरिक्तोऽभूच्छर्वपूर्वापराज्जनात्॥ ‘त्रिलोकस्तानगं विष्णुमयजच्च समाहितः।


तद्रूपभूतांत्रिंल्लोकान् पशून् कृत्वा महामनाः


इति मारुळे॥22, 23॥


नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ॥ देवतानुक्रमः कल्पः सङ्कल्पः सूत्रमेव च ॥25॥ सूत्रं - मीमांसासूत्रम्॥25॥


नारायणे भगवति तदिदं विश्वमाहितम्। गृहीतमायोरुगुणे सर्गादाक्गुणे स्वतः ॥30॥ यस्मात् तमेवायजन् तस्मादिदं तस्मिन्नाहितम्। ‘नित्यं गृहीताः सत्वाद्या जीववज्जडवन्न तु। मिथ्यामानात् स्वरूपत्वात् स्वातन्त्र्यद्वहिरेव तु' इति ब्रह्मतकै॥30॥


Page 76


इति तेऽभिहतं तात यथेदमनुपृच्छसि। नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥32॥ ‘सदिति व्यक्तमुद्दिष्टमसदव्यक्तमुच्यते।


गम्यागम्यस्वरूपत्वात् तत्सत्तादिहरेर्यतः। अतस्तस्मादन्यदेव ह्यनन्य इति कथ्यते' इति च॥32॥


नतस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम्। यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तथापरे कुतः ॥35॥ ‘सर्वजीवनिकायेषु ब्रह्मवायू हरेर्विदौ।


न चान्यस्तादृशो वेत्ता यावद्वेत्ति हरिः स्वयम्। तावत् तावपि नो विष्णु जानीतो लोकवन्दितौ' इति ब्रह्माण्डे॥35॥


स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः।


आत्माऽत्मन्याल्मनाऽऽत्मानं स संयच्छति पाति च ॥38॥ ‘स्वयमेव स्वरूपाणि मत्स्यकूर्मादिकान्यजः। स्वात्मन्येवेच्छया सृष्ट्वातैर्देवादीन् प्रपात्यसौ॥ संयच्छत्यसुरान् विष्णुः कल्पे कल्पे जगत्प्रभुः। तिरोहितं स्वरूपं च प्रकाशयति शास्त्रतः' इति भागवततन्त्रे॥38॥


विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम्।


सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥39॥


Page 77


ऋतं विन्दन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः। यदा तदैवासत्तकैंस्तिरोधीयेत विप्लुतम् ॥ 40 ।। ऋतं तदात्मना ज्ञप्तेः सत्यं साधुत्वतः परम्। सम्यक्संस्थमदूश्यत्वाच्छुद्धं दोषोज्झितत्वतः। केवलं तादृशाभावात् प्रत्यगन्तरवस्थितेः। एतदेतादृशं तत्त्वं यो वेद स विमुच्यते' इति ब्रह्मतकै॥39,40॥


आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च। द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥41 ॥


अहं भवो यज्ञ इमे प्रजेशा दक्षायो ये भवदादयश्च। स्वलॊकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः ॥42॥


गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोस्गनागनाथाः। ये वा ऋषीणामृषभाः पितृणां वैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ॥ 43॥


अन्ये च ये प्रेतपिशाचभूतकूष्माण्ड्यादौमृगपश्वधीशाः। यत्किञ्च लोके भगवन्महस्वदोजःसहस्वद्वलक्त् क्षमावत्। ह्रीश्रीविभूत्यात्मवदद्भुतार्ण तत्तत् परं रूपवदस्वरूपम् ॥44॥


प्राधान्यतो यानृश्य आमनन्ति लीलाक्तारान् पुरुषस्य भूम्नः। आपीयतां कर्मकषायशोषाननुक्रमिष्ये त इमान् सुपेशलान्॥


‘यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः।


Page 78


स तु नारायणो नाम नराणामयनत्वतः। रूपं द्वितीयं भवति दीपाद्दीपान्तरं यथा। सिसृक्षोस्तस्य पुरुष इत्याहुस्तद्विदो जनाः।


स रमाया द्वितीये तु रूपे प्रकृतिसंज्ञके। वीर्यमाधत्तपुरुषो महांस्तस्मादजायत। योऽसौ हिरण्यगर्भाख्यः पुरुषः सोऽपि भण्यते। श्रद्धेत्युक्ता तु तत्पत्नी साऽपि प्रकृतिरुच्यते। प्रलये त्वशरीरौ तौ विभागेन व्यवस्थितौ। शरीरं प्राप्य पुरुषात् संयोगं तौ प्रचक्रतुः। ततः पुनर्महत्तत्त्वं प्रजातं जगदङ्करम्। स्वस्यैव पुत्रतां यातमहङ्कारस्ततोऽजनि’ इति व्योमसंहितायाम्। पुरुषस्तस्यैवाद्योऽवतारः। कालादयो रूपवत्। अस्वरूपमपि प्रियत्वात्। ‘पुरुषाद्या हरे रूपं ब्रह्माद्यास्तत्प्रियाः स्मृताः। स्वरूपभूता नैवैते तत्सन्निधियुता अपि' इति पाझे। ‘कालो वस्तुस्वभावश्च प्रकृतिः प्राण एव च। मनश्च पञ्चभूतानि विकारास्त्रिगुणा अपि। न स्वरूपं हरेरेतत्तथाऽप्येषु हरिः स्थितः' इति ब्राह्मे॥ सत् - प्राणः। ‘सदिति प्राणः' इति श्रुतेः। ‘द्रव्यं तु पञ्चभूतानि विकारोऽण्डमुदाहृतम्।


Page 79


विराजं गरुडं प्राहुः स्वराडिन्द्र उदाहृत' इति षाङ्गुण्ये। ‘सर्वे तु रूपवद्विष्णोर्विशेषेण विभूतिमत्।।


अतिप्रियत्वान्नैवैतत् स्वरूपमपि भण्यते' इति स्कान्दे। 'स्वतो महत्वं तु महो विशेषप्राप्तिशक्तिता। विभूतिर्लक्षणोन्नाहो लक्ष्मीशब्देन भण्यते' इति ब्रह्मतर्के॥44॥ ‘प्रधानत्वेन सर्वस्मान्मत्स्यकूर्मादयो हरेः।।


अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृताः। न स्वरूपं तु ब्रह्माद्याः स्मृता मायाविभूतयः। स्वेच्छयैषां विशिष्टत्वं कुरुते तत्थथा स्मृतः इति व्योमसंहितायाम्।। ‘यज्ञशब्दोदितौ द्वौ तु देवौ लोकपुरस्कृतौ। एको नारायणस्तत्र रुद्रच्छिन्नस्तथापरः।


स तु यज्ञाभिमानी स्यात् तत्पतिः केशवः स्मृतः' इति पाझे॥41 - 45॥


॥ इति द्वितीयस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥ 2 - 6॥



यः ॥ 2



जातो रुचेजनयत्सुयशाः सुयज्ञ आकूतिंसृनुस्मरानथ दक्षिणायाम्। लोकत्रयस्य महतीमहरद् य आर्ति स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥2॥


‘क्रियाभिमानाद्यज्ञोऽसाविन्द्रसूनुः प्रकीर्तितः। यज्ञेशत्वात् स्वयं विष्णुर्यज्ञो रुचिसुतः स्मृतः' इति पाझे।


Page 80


हरिरिति ज्ञात्वा ‘ईशावास्यम्' इत्यादिनाऽनूक्तः। ‘त्रयी श्रुतिर्नित्यवाक् च वेदोऽनुवचनं तथा' इति ह्यभिधानम्॥2॥


अत्रेस्पत्यमभिकाङ्कत आह तुष्टो दत्तो मयाऽह्ममिति यद्भगवान् स दत्तः। यत्पादपङ्कजपरागपवित्र देहा योंगर्धिमापुरमयीं यदुहैहयाद्याः ॥4॥ अमयीं - विष्णुप्रधानाम्॥4॥


तप्तं तपो विविधलकसिंसृक्षया म आदौं सनात् सुतपसस्तपतः स नोऽभूत्। प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यम् जमाद मुनयो यदचक्षतात्मन् ॥5॥ मे तपतः सतः। सः नः नोऽर्थे। सनात् पूर्वम्। ‘ब्रह्मणस्तपतः पूर्वं विष्णुर्जात उरुक्रमः। सर्वलोकहितार्थाय येन रूपं प्रकाशितम्। यश्च पाति सदा लोकानजितो जयतां वरः। तस्माद्रः समुत्पन्नः सर्वसंहारकृद्विभुः। एते त्रिपुरुषाः प्रोक्ताः सृष्टस्थित्यन्तकारिणः। निमित्तमात्रं तौ देवौ विष्णुः सर्वस्य कारणम्' इति स्कान्दे॥5॥


धर्मस्य दक्षदुहितर्यजनिं स्वमूर्त्य नारायण नर इतिं स्वतपःप्रभावः। दृष्टात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥6॥ 'नरो नारायणश्चैव हरिः कृष्णस्तथैव च। चत्वारो धर्मतनया हरिरेव त्रयो मताः। अनन्तो नरनामाऽत्र तस्मिंस्तु नरनामवान्।


Page 81


विशेषेण स्वयं विष्णुर्निवसत्यम्बुजेक्षणः।


तस्माच्चतुर्धा धर्मस्य जातो विष्णुरितीर्यते' इति षाड्ण्ये॥6॥ विद्धः सपत्युदितपत्रिंभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे बनाय। तस्मा अदाळूवमतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुर्यधस्तात् ॥8॥ ‘अवतारो महाविष्णुर्वासुदेव इतीरितः।।


यो ध्रुवाय निजं प्रादात् स्थानमन्यानधिष्ठितम्' इति प्रकाशसंहितायाम्॥8॥ यद्वैनमुत्पथगतं द्विजवाक्यज्रनिष्पिष्टपौरुषभमं निस्ये पतन्तम्। ज्ञात्वाऽर्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानिं येन ॥9॥ ‘पृथुर्नाम महाराजस्तत्र विष्णुः स्वयं प्रभुः। पृथुनामा चतुर्बाहुः प्रविष्टस्तेन चार्थितः । इति महासंहितायाम्॥9॥ नाभेरसावृषभ आस सुदेविसृनुयॊ वै चचार समम् हृदि योमर्याम्।


यत्परमहंस्य मृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणःपरिमुक्तसङ्गः ॥10॥ यदूपं परमहंसप्राप्यं पदमामनन्ति॥10॥ सत्रे ममास भगवान् हयशीर्ष एषः साक्षात् स यज्ञपुरुषस्तपनीयवर्णः। छन्दमयो मखमयोऽखिलदेवताल्मा वाचो बभूवुरुशतः श्वसतोऽस्य नस्तः ॥11॥ ‘छन्दांसि च मखाश्चैव देवा लोकाश्च सर्वशः।


17


|TI


Page 82


सर्वे विष्णौस्थिता यस्मादतः सर्वमयो ह्यसौ’ इति महासंहितायाम्॥11॥ मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमय निखिलजीवनिकायकेतः। विस्रसितानुरुभये सलिले मुखान्म आदाय तत्र किंजहार ह वेदमार्गान् ।। 12॥


क्षोणीमयनौकाश्रयत्वात् क्षोणीमयः॥12॥


स्मृत्वा हरिस्तमरणार्थिनमप्रमेयश्चक्रायुधः पतकराजभुजाधिरूढः। चक्रेण नक्रवदनं विनिंपाट्य तस्माद्धस्ते प्रगृह्य भगवान् कुपयोजहार ॥16॥ ‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः। गजेन्द्र मोचयामास ससर्ज च जगद्विभुः' इति मात्स्ये॥16॥


नार्थो बलेस्यमुरुक्रमपादशौचमम्भः शिवं धृतक्तो विबुधाधिपत्यम्।


यो वै प्रतिश्रुतमृतेऽपि च शीर्षमाणमात्मन्यमङ्गमनसा हरयेऽभिमेने ॥18॥ ‘ऐन्द्रं पदं नान्तरीयं फलं तु हरितोषणम्। जगद्दातुर्बलेर्यस्मादानन्दोद्रिक्तता भवेत्॥ इति ब्रह्मतर्के शीर्षाख्यं मानम्॥18॥


तुभ्यं च नारद भृशं भगवान् विवृद्धभावेन साधु परितुष्ट उवाच योमम्। ज्ञानं च भागवतमात्मसुततत्वदीपं यद्वासुदेवशरणा विंदुरञ्जसैव ।। 19॥ ऐतरेयो हरिः प्राह नारदाय स्वकां तनुम्। यत्प्रापुर्वैष्णवा नान्ये यदृते न सुखं परम्' इति ब्राह्मे॥19॥


Page 83


चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति। दुष्टेषु राजसु दमं विदधत्स्वकीर्तिं सत्ये निविष्ट उशत प्रथयंश्चस्त्रैिः ॥ 2 ॥ ‘मन्वन्तरेषु भगवान् चक्रवर्तिषु संस्थितः।। चतुर्भुजो जुगोपैतदुष्टराजन्यनाशकः।। राजराजेश्वरेत्याहुर्मुनयश्चक्रवर्तिनाम्। वीर्यदं परमात्मानं शङ्खचक्रगधाधरम्' इति सत्यसंहितायाम्।


कृत्स्नप्रसादसुमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे। तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धरआर्तिमाच्र्छत् ॥ प्राणादिकलेशः॥23॥


यस्मा अदादुदधिरूढभयाङ्गवेपो मार्ग सफ्धरिपुरं हरवद्दिधक्षोः। दूरेसुहृन्मधिंतरोषसुशोषदृष्ट्या तातप्यमानमकरौरगनक्र चक्रः ॥24॥ दूरस्था सुहृद्यस्य भगवतः स दूरेसुहृत्। सुशोषोऽग्निः। ‘अग्निः सुशोषः कक्षम्नस्तिमिरारिर्हिरण्यदः' इति ह्यबिधाने॥24॥


-


-


वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाहदन्तैर्विलम्बितककुब्जयरूढहासः । सद्योऽसुभिः सह विनेष्यति दारहर्तुस्फूिर्जितैर्धनुष उच्चस्तैिः ससैन्यः ॥25॥ विनेष्यति - विनाशं एष्यति। दारहर्तुः - भगवतः॥ ‘धनुर्विस्फूर्जितैर्नष्टो रावणः पूर्वमेव तु।। पुनः शरै राममुक्त्यैः सानुबन्धो विनश्यति' इति स्कान्दे॥25॥


Page 84


भूमेः सुरेतस्वरूथविमर्दितायाः क्लेशव्ययाय कलया सिंतकृष्णकेशः। जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणिचात्ममहिंमोपनिंबन्धनानि ॥ 26॥ ‘राम एको ह्यनन्तांशस्तत्र रामाभिधो हरिः।।


शुक्लकेशात्मकस्तिष्ठन् रमयामास वै जगत्' इति ब्राह्म। ‘विष्णोर्नान्येन कर्माणि परेषां तन्निबन्धनम्' इति मात्स्ये॥26॥ तोकेन जीवहरणं यदुलूपिकाया त्रैमासिकस्य च पदा शकटोऽपवृत्तः। यद् रिंङ्गताऽन्तरगतेन दिविंस्पृशोर्वा उन्मूलनं त्वितस्थाऽर्जुनयोर्न


भाव्यम्॥27॥ ‘सहस्रधनुषस्तू द्युशब्देनापि भण्यते' इति तन्त्रमालायाम्। इतरथा विष्णुर्न चेत्। स्वमहिमनिबन्धनत्वेन न भाव्यम्॥27॥ तत्कर्म दिव्यमिव यन्निशि निःशयानं दावाग्निनाऽऽशु विपिने परिदह्यमाने। उन्नेष्यति व्रजमितोऽवसितान्तकालं नेत्रे विधाय्य सबलोऽनधिगम्यवीर्यः ॥ दिव्यमिव स्तुत्यमिव। तदपेक्षया। अन्येषां स्तुत्यमेव यत् तस्य तच्च दिव्यमिव॥29॥ नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् गोपान् बिलेषुपिहितान् मयसृनुना च । जल्यवृतं निशि शयानमतिश्रमेणोके विकुण्ठ उपधास्यति गोकुलं सः


॥31॥ अन्यथाज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तिता इति तन्त्रमालायाम्॥ यत्तु सर्वात्मनाऽज्ञानं निशा सा परिकीर्तिता' इति कौमैं॥31॥ क्रीडन् वने निशि निशाकररश्मिगौ रासोन्मुखः कलपदायतमूच्छितेन। उद्धीपितस्मररुजां व्रजसद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥33॥




| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 85


कलपदं च आयतं च। ‘सप्तस्वरसमाहारो मूच्र्छनेत्यभिधीयते' इति गान्धर्वे॥33॥ ये च प्रलम्भखरदधुस्केयरिंष्टमल्ले भकंसयक्नाः कुजपौण्ड्काद्याः । अन्येऽपिं साल्वकपिबल्वलन्तवक्र सप्तक्षशम्बरविंदूस्थरुम्मिमुख्याः॥34॥



ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः । यास्यन्त्यदर्शनमिता बलपार्थभीमव्याजाह्वयेन हरिणा निलयं तदीयम् ॥35॥ ‘विद्वेषिणोऽप्युदासीना भक्ता अपि न संशयः। हरेर्हि सदनं यान्ति व्यक्तं भक्तैस्तु गम्यते।


आरभ्य तम आमुक्तेः कृष्णस्य सदनं यतः। अव्यक्तहरिलोकत्वादन्येषामन्यलोकता' इति बृहत्संहितायाम्॥ रामभीमार्जुनादीनि विष्णोर्नामानि सर्वशः। रमणाभयवर्णाद्याः शब्दवृत्तेहि हेतवः। हरिहि तत्र तत्रस्थो रमणादीन् करोत्यजः॥ अतस्तस्यैव नामानि व्याजादन्यगतानि तु। व्यवहारप्रवृत्त्यर्थं दुष्टानां मोहनाय च ' इति स्कान्दे॥34, 35॥


कालेन मीलितशामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूरपारः। आविर्हतस्त्वनुयुगं सहि सत्यवत्या वेदमं विंटशो विभजिष्यति स्म। 36 ॥ ‘तृतीये सप्तमे चैव षोडशे पञ्चविंशके।


अष्टाविंशे युगे कृष्णः सत्यवत्यामजायत।


14


Page 86



व्यासाचार्यस्तु पूर्वेषु चरमे स्वयमेव तु। विव्यास वेदांश्चक्रे च भारतं वेदसंमितम्' इति च॥36॥ सर्गे तु योऽहमृषयो नव ये प्रजेशाः स्थानेऽथ धर्ममखमन्वमसवनीशाः


अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमाः पुरुशक्तिभाजः ॥ 39॥ ‘हरीच्छया विभूतिर्या ब्रह्मादीनां सदा भवेत्। इच्छया वा बहुविधस्तेषु विष्णुः स्वयं स्थितः। अतो मायाविभूतित्वं तेषां मत्स्यादिकाः स्वयम्' इत्यध्यात्मे॥39 नान्तं विदाम्यहममी मुनयः प्रजेशा मायाबलस्य पुरुषस्य कुतोऽपरे ये। मायन् गुणान् दशशतानन आदिदेवः शेषोऽधुनाऽपि समवस्यति नास्य


पारम्॥ विदुर्नान्तम्। अनन्तत्वात्॥41॥ येषां स एव भगवान् ययेदनन्तः सर्वात्मनाऽश्रितपदो यदि निलीकम्। ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ॥42॥ देवमायां विदन्ति। संसारमतिततरन्ति च ॥42॥ ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूदहूणशबरा अपि पापजीवाः। यद्यद्भुतक्रमपरायणशीलशिक्षास्तिर्यग् जना अपि किमु श्रुतधारणा ये॥46॥ तत्परायणास्तच्छीलास्तच्छिक्षाश्च॥ 46॥ शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्त्वम्। शब्दो न यत्र पुरुकास्कवान् क्रियार्थी माया परैत्यभिमुखे च विलजमाना ॥ ‘अव्यक्ताद्यनहंमानादात्मतत्त्वं हरिः स्मृतः।


=


=


Page 87




अशब्दश्चाप्रसिद्धत्वाच्छान्तः पूर्णसुखत्वतः' इति ब्रह्मतर्के॥47॥ स श्रेयसामपिं विभुर्भगवान् यतोऽस्य भाक्स्वभावविहितस्य सतः प्रसिद्धः । देहे स्वधातुविंगमे तु विशीर्यमाणे व्योमेव तत्र पुरुषो विंशर्यतेऽजः ॥49॥ भावस्वभावो भक्तिस्वभावः। तेन निर्मितस्य सत्पुरुषस्य प्रसिद्धः। ‘भावो भक्तिः प्रणामश्च प्रावण्यमपि चादरः' इत्यभिधानात्॥49॥


सोऽयं तेऽभिहितस्तात भगवान् विश्वभाक्नः। समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ॥50॥ ‘सत्तादिर्यत् स्वतो विष्णोस्तस्मादन्यः स सर्वतः। यत् सत्तादिरतोऽन्यस्य नान्यत्वं भेदिनोऽपि तु' इति ब्रह्माण्डे॥50॥ नृजन्मनिं न तुष्येत किं फलं यमनश्वरे। कृष्णे यद्यपवर्गेशे भक्तिः स्यादनपायिनी ॥53॥


किं स्याद् वर्णाश्रमाचारैः किं दानैः किं तपःश्रुतैः। सर्वाघम्नोत्तमश्लोके न चेद् भक्तिधोक्षजे ॥ 54॥ ‘अक्षिप्यते किमित्येतद्यतोऽल्पफलता भवेत्। वस्तुनो यस्य चाल्पत्वं पुंसो वा नेति चोच्यते इति प्रकाशसंहितायाम्॥53, 54॥


॥ इति द्वितीयस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥ 3- 2 ॥


अष्टमोऽअध्यायः ॥ 3-8॥


Page 88


पुरुषाक्यवैर्लोकाः सपालाः पूर्वकल्पिताः। लोकैरमुष्यावयवाः सपालैरिति शुश्रुमः ॥11॥ निजावयवेभ्यः सृष्टाः। बाह्यावयवा लोकैः कल्प्यन्ते॥11॥


यस्मिन् कर्मसमावापो यथा येनफ्गृह्यते। गुणानां गुणिनां चैव परिमाणं सुविस्तरम् ॥14॥ ‘जीवे कर्मसमावापः। परमेश्वरेण गृह्यते। गुणिनां महादादिजीवानां सामर्थ्य परिमाणम्। देवासुरेभ्यो मघवान्' इत्यादि॥11,14॥ नृणां साधारण धर्मः सविशेषश्च यादृशः। श्रेणीनां राजर्षिणां च धर्मः कृच्छ्रेषु जीवताम् ॥18॥ श्रेणिनामङ्गरक्षकाणां युद्धेषुच्यते॥18॥ तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम्। पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥19॥ हेतुलक्षणं - ब्रह्मलक्षणम्॥19॥ योगेश्वरैश्वर्यगतिं लिङ्गभङ्गं च योगिनाम्। वेदोपवेदधर्माणामितिहासपुराणयोः॥20॥ योगतो लिङ्गभङ्गः पूर्वोक्तः। पानेन ते देवेत्यादि पश्चात्॥20॥ यथाऽऽत्मतन्त्र भगवान् विक्रीङत्यात्ममायया। विसृज्य च यथा मायामुदास्ते साक्षिकद्विभुः ॥23॥


द्वेधा वावात्ममाया तद्रूपा तद्वशेति। तद्वशया संसारयति। ‘स्वरूपया विमोचयत्युदास्ते तद्वशां विमुक्तस्य इतरयैनं रमयत्येष आत्मैष आनन्दः' इति


सौकारायणश्रुतिः॥23॥


Page 89


अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः। अपरे ह्यनुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥25॥ यस्मादनुतिष्ठन्ति तस्मात् परमेष्ठी प्रमाणम्॥25॥


स उपामन्त्रित राज्ञा कथयामिति सत्पतेः। ब्रह्मरात भृशं प्रीतो विष्णुरातेन संसदि ॥27॥ ‘बालोऽपि स गुरुत्वेन मुनिभ्यो ब्रह्मणा यतः। दत्तोऽतो ब्रह्मरातेति नाम वैयासकेरभूत्' इति पाझे॥27॥


आह भागवतं नाम पुराणं ब्रह्मसम्मितम्। ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपामते ॥28॥ 'यत्र ब्रह्मान्तरोत्पत्तिर्ब्रह्मकल्पः स ईरितः' इति च॥28॥


॥ इति द्वितीयस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥ 3-8॥


नमोऽध्यायः ॥ 3-9॥


श्री शुक उवाच -


आत्ममायामृते राजन् परस्यानुभवात्मनः। न घटेतार्थसम्बन्धः स्वप्न द्रष्ट्ररिवाञ्जसा ॥1॥



बहुरूप झ्वाभाति मायया बहुरूपया। रममाण गुणेश्वस्या ममाहमिति मन्यते ॥2॥ परस्य - अर्थव्यतिरिक्तस्य। यदधातुमतः इत्यस्य ह्युत्तरम्॥ ‘अशरीरस्य जीवस्य शरीरोत्पत्तिकारणम्।


Page 90


ईश्वरेच्छा प्राथमिका तां विना न हि किञ्चन॥ द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः। तेषां सम्पातजो भावो ममाहमिति या मतिः। देहात् परस्य देहित्वमहम्भावमृते कुतः। यथा रजस्तमोभावैर्विना स्वप्नो न जायते। निद्रा कामाद्यभावेन तद्वद्देहः क्व तान् विना। तस्मात् प्रकृत्यैव पुमान् मानुषादिविकारया। मानुषादिरिवाभाति नित्यचैतन्यरूपवान्॥1,2॥ यर्हि चायं महिंत्वे स्वे परस्मिन् कालमाययोः । रमते गतसम्मोहस्त्यत्वोदास्ते तदोभयम् ॥3॥ ‘यदा स्वरूपं जानाति कालप्रकृतिवर्जितम्। वासुदेवप्रसादेन तदा मुक्तो भवत्यसौ ' इति भविष्यत्पुराणे॥3॥


आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम्। ब्रह्मणेऽदर्शयदूपमव्यलीकवतादृतः॥4॥ यतो भगवदुक्तं प्रमाणमतस्तदुक्तं पुराणं त्वत्प्रश्नानामुत्तरत्वेन वक्ष्ये॥4॥ दिव्यं सहस्राब्दममोघदर्शनो जितानिलामा विजितोभयेन्द्रियः।


अतप्यतस्माखिललौकतापनं तपस्तपीयास्तपतां समाहितः ॥8॥ तपो ब्रह्म। ‘तपसोऽध्यजायत' इति श्रुतेः। अखिललोकप्रकाशनं तत् तदाऽऽलोचयामास। तपतां तपीयानित्यनेनात्युत्तमोत्तमत्वमुक्तं भवति। ‘महान् महीयसामादिं ब्रूयादत्युत्तमोत्तमम्।


Page 91


यत्राधिकं वदेत् किञ्चिज्ज्ञेयोऽर्थस्तत्र चाधिकः' इति व्यासनिरुक्ते॥ 'तपोरूपं परं ब्रह्मब्रह्माऽचिन्तयञ्जसा' इति षाड्ण्ये॥8॥ तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्पदम्। व्यपेतसङ्केशविमोहसाध्वसं सन्दृष्टवद्भिर्विबुधैरभिष्टुतम् ॥9॥ यत् - यतः। ‘यत्तदित्यादयः शब्दाः पञ्चम्यन्ताः प्रकीर्तिताः' इति च॥9॥ न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः। न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ मायातीतत्वात् ॥10॥ श्रीयंत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः। प्रेङ्खश्रिता याः कुसुमाकरानुगैर्विगीयमाना प्रिंयकर्म गायती ॥13॥ प्रेङ्खश्रिताः याः विभूतयः। ददर्श तत्रार्खािलसात्वतां पतिं श्रियःपतिं यज्ञपतिं जगत्पतिंम्। सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेवितं विभुम् ॥14॥ ‘सत्वं तु शोभनत्वं स्यात् तद्युक्ताः सात्वता मताः' इत्यध्यात्मे॥13॥ ‘मुक्तैः स्वपार्षदैः पूर्वैर्ब्रह्माद्यैश्चैव संयुतम्। ब्रह्माददर्श तपसा भगवन्तं हरि प्रभुम्' इति गारुडे॥14॥ भृत्यप्रसादाभिमुखं दृगसवैः प्रसन्नहासारुणलोचनाननम्। किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥15॥


Page 92


अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोड्शपञ्चशक्तिभिः। युक्तं भगैः स्वैरितरत्र चाधुवैः स्व एव धामन् रममाणमीश्वरम् ॥ इच्छाद्या मोचिकाद्याश्च अणिमाद्याश्च शक्तयः। ‘प्रदिष्टा वासुदेवाद्या दामोदरपरास्तथा।


अङ्गानि विमलाद्यास्तु प्रह्याद्यात्मादिका मताः। एवं षोडशभिश्चैव पञ्चभिश्च हरिः स्वयम्। चतुर्भिष्च वृतो नित्यं तत्स्वरूपाश्चशक्तयः । इति भागवततन्त्रे॥ 15, 16॥ मनीषितानुभावोऽयं मम लोकावलोकनम्। यदुपश्रुत्य रहसि चकर्थ परमं तपः॥21 ।। मनीषितं - तपः॥21॥


प्रत्यादिष्टं मया तत्र त्वयिं कर्मविमोहिते। तपो मे हृदयं साक्षादात्माऽहं तपसोऽनघ ॥22॥


सृजामि तपसैवेदं ग्रसामि तपसा पुनः। बिभर्मि तपसा विश्वं वीर्य मे दुस्तरं तपः ॥23॥ कर्मविमोहिते इदंकार्यमित्यजानति। हृदयं - प्रियम्। ‘प्रियं हृदयमुद्रिक्तं कान्तमित्यभिधीयते' इत्यभिधानात्। ‘तपः प्रियं सदा विष्णोस्तपसैवाप्यते हरिः। स्वयं च तपसैवेदं बिभर्ति ज्ञानमेव हि। तपःशब्दाभिधं प्रोक्तं ज्ञानरूपो हरिर्यतः।


Page 93


ज्ञानवीर्यो ज्ञानबलो ज्ञानानन्द इतीरितः इति बृहत्संहितायाम्॥22, 23॥ श्री भगवानुवाच - ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम्।


सरहस्यं तदङ्गं च गृहाण गर्दितं मया ॥30॥ ‘येन येन यथा ज्ञात्वानियतं मुक्तिराप्यते।


तद्विज्ञानमिति प्रोक्तं ज्ञानं साधारणं स्मृतम्' इति वामने॥30॥


अहमेवासमेवाग्रे नान्यद्यत् सदसत्परम्। पश्चादहं त्वमेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥32॥ परं स्वतन्त्रं न। ‘विष्णोरधीनं प्राक् सृष्टेस्तथैव च लयादनु। अस्य सत्वप्रवृत्त्यादि विशेषेणाधिगम्यते। स्वातन्त्र्यम् स्थितिकाले तु कतङ्घिद्बुद्धिमोहतः। प्रतीयमानमपि तु तस्मान्नैवेति गम्यताम्। जनिष्येऽहं लयिष्येऽहमिति न ह्यभिसन्धितः। अतो जीवनमप्येतद्भवेदीशाभिसन्धितः। अतः स्वरूपभेदेऽपि ह्यात्मैवेदमिति श्रुतिः। वदत्यस्येशतन्त्रत्वाद्यथाऽशक्तस्त्वसन्निति। विद्यन्ते हि तदा जीवाः कालकर्मादिकं तथा।


क्वान्यथा हि पुनः सृष्टिः पूर्वकर्मानुसारिणी' इति ब्रह्मतर्के।


Page 94


त्वमेतच्च परं न भवति। स्वतन्त्रं न॥32॥


ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि। तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥33॥ अर्थवदिव प्रतीयते। न च परमात्मन्यर्थवत् प्रतीयते। अर्थ प्रयोजनमृते। न हि जीवप्रकृतिभ्यामीश्वरस्यार्थः।। ‘मुख्यतौ विष्णुशक्तिर्हि मायाशब्देन भण्यते। उपचारतस्तु प्रकृतिर्जीवश्चैव हि भण्यते' इति च। यथाऽऽभासो जीवः। ‘सर्वं परे स्थितमपि नैव तत्रेति भण्यते। यतो हरेर्न जीवेन जीवनं न हरौ ततः। जीवः प्रकृतिरप्यत्र यतो नैव हि बन्धकृत्। कर्मचाफलदातृत्वात् कालश्चापरिणामनात्। यथा छत्रधराद्यास्तु रथस्था अपि सर्वशः। रथिनो नैव भण्यन्त एवं हरिगता अपि ॥33॥ यथा महान्ति भूतानि भूतेषूचावचेषु च। प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्यहम्॥34॥


‘यथा महान्ति भूतानि शरीरेषु बहिस्तथा। एवं हरिश्च भूतेषु बहिश्वव्याप्तिहेतुतः।। तस्मात् तत्स्थो न तत्स्थश्चप्रोच्यते हरिरीश्वरः' इति च ॥34॥ एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः।


Page 95


IC


अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥35॥ अन्यभावाभावकाले देशे च तद्विद्यमानाविद्यमानशक्तिमदित्यन्वयव्यतिरेकः॥35॥ अन्तर्हितेन्द्रियार्थाय हरये विहिंताञ्जलिः। सर्वभूतमयो विश्व ससर्जेदं स पूर्ववत् ॥38॥ ‘सर्वस्यापि प्रधानत्वात् स सर्वमय ईर्यते' इति च॥38॥


मायां विविदिषुर्विष्णोर्मायेशस्य महामुनिः। महाभागवत राजन् पितरं पर्यतोषयत् ॥ 41 ॥ मायां - माहात्म्यं, विविदिषुः। अन्येषां माहात्म्यपतेः। ‘मुख्यतो विष्णुमाहात्म्यं मायाशब्दोदितं भवेत्। प्रधानत्वाच्च मातृत्वान्मेयत्वं चैव तस्य हि इति च ॥41।


नारदः प्राह मुनये सरस्वत्यास्तटे नृप। ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ 44 ।। ‘हरियसादिरूपेण सर्वज्ञोऽपि स्वयं प्रभुः। शृणोति नारदादिभ्यो मोहायैषां प्रसिद्धये' इति पाझे॥44॥ यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम्।। यथाऽऽसीत् तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥45॥ 'विराड् ब्रह्मासुमुद्दिष्टस्तद्गतः परमो यतः। अतो वैराजमित्येनमाहुरीशत्वतो विराट् इति बृहत्संहितायाम्॥ 45॥


|


॥ इति द्वितीयस्कन्धतात्पर्ये नवमोऽध्यायः ॥ 2 - 9॥


Page 96


॥दशमोऽध्यायः ॥ 2 - 10॥ श्रीशुक उवाच -


अत्र स विसर्गश्च स्थानं पोषणमूतयः। मन्वन्तरेशानुकथा निरोधो मुक्तिंराश्रयः ॥1॥


45


भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः। ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥3॥ ‘महदाद्यण्डपर्यन्तः सर्गोऽण्डे ब्रह्मणस्तु यः।


अनुसर्ग इति प्रोक्तः पौरुषश्चेति कथ्यते। पञ्चभूतसमूहेन जातः पुरुष उच्यते। बहुत्वात् तत्र भूतानां तावत्त्वात् तत्त्वमेकजम्’ इति व्योमसंहितायाम्॥1,3॥ निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः।


मुक्तिर्हित्वाऽन्यथा रूपं स्वरूपेण व्यवस्थितिः ॥6॥ ‘अनुप्रविश्य परमं जीवस्य शयनं तु यत्। सहैव शक्तिभिः स्वीयैरिच्छाद्यैरप्रकाशितैः।


सन्निरोध इति प्रोक्तो विमुक्तिर्यत्र मोक्षिणाम्' इति नारदीये॥6॥


आभासश्च निरोधश्च यतस्तत्रयमीयते। स आश्रयः परं ब्रह्म परमात्मेतिं शब्द्यते ॥7॥ ‘सृष्टिस्थित्यप्ययाभासा यट्सलाद्यत्र च स्थिताः।


Page 97


तद्ब्रह्मजगदाधारं वासुदेवेति तद्विदुः' इति भागवततन्त्रे॥7॥



आध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः। यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः ॥8॥ आधिभौतिकेन रूपेण हि चक्षुः प्रकाशयोः सम्यक्त्वपरिज्ञानम्॥8॥ एतदेकतमाभावे यदा नोफ्लभामहे। त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥9॥ सुप्तावपि यः सर्वं वेत्ति जीवानां स परः। ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति' इति हि श्रुतेः। सुवाश्रयाणामप्याश्रयः॥9॥ पुरुषोऽण्डे विनिर्भिद्य यदाऽसौ स विनिर्गतः।


आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छचिः शुचः ॥10॥


.


तास्ववासीत् स्वसृष्टासु सहस्रपरिवत्सरान्। तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥11॥ विनिर्गतः - प्रकाशितः। ‘अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वाप्रकाशितः॥ सोऽपोऽसृजत् ततो नारा नरोऽनाशात् परो यतः । इति नारायणाध्यात्मे॥10,11॥ एक नानात्वमन्विच्छन् योगतल्पात् समुत्थितः। वीर्यं हिरण्मयं देवो मायया ब्यसृजत् त्रिधा ॥13॥ ‘तत्तन्नियामकत्वेन बहुत्वं प्राप्तुमीश्वरः।


अण्डं स्ववीर्यं तत्स्थः सन् कामादन्तस्त्रिधा व्यधात्' इति च।


Page 98


‘अन्तःस्थितहरेः कामादण्डे ब्रह्मतनोर्जनिः। तत्र देवाश्च सञ्जाताः पुनस्तत्त्वात्मकाः प्रभोः' इति च॥13॥


उसिसृक्षोर्धातुमलं निरभिद्यत वै गुदम्। ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥27॥ 'मलादिकं कदाचित् तु ब्रह्मालोकाभिपत्तये। आत्मनो निर्ममे कामात् सर्वेषामभवत् ततः। वशित्वात् तस्य दिव्यात्वादिच्छया भवति प्रभोः' इति च॥27॥


-


-


एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया। मल्लादिभिश्चावरणैरष्टभिर्बहिरावृतम्॥33॥


‘स्थूलं भगवतो रूपं ब्रह्मदेह उदाहृतः। तत्तन्त्रत्वाच्च सूक्ष्मं च शङ्खचक्रगधाधरम्' इति चाध्यात्मे॥33॥



चम्।


अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम्। अनादिमध्यनिधनं नित्यं वाङ्मनसोः परम् ॥34॥ निर्विशेषणं - निरतिशयम्। ‘अस्य काव्यस्य कवयो न समर्था विशेषणे' इतिवत्॥34॥


अमुनी भगवद्पे मया ते ह्यनुवर्णिते। उभे अपि न गृह्णन्ति मायासृष्टेऽविपश्चितः ॥35॥ मायासृष्टे जगति ये अविपश्चितः॥35॥ स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् ।


...


Page 99


नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥36॥ ‘नामैव वाचकत्वेन नामरूपक्रिया अपि। वाच्यत्वेन हरिर्देवो नियामयति चैकराट्' इति च। ‘कर्तृत्वात् तु सकर्माऽसौ निश्फलत्वादकर्मकः' इति च॥


प्रजापतीन् मनून् देवानृषी पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याघ्रासुस्मुह्यकान्॥37॥


प्रजापत्यादीन् धत्ते॥36, 37॥ सत्वं रजस्तम इति तिस्रः सुरनुनारकाः। तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ।। 41 ॥ ‘तामसास्तामसा दैत्याः प्रधाना देवशत्रवः। तामसा राजसास्तेषामनुगास्तेषु सात्विकाः। अनाक्यातासुराः प्रोक्ता मानुषा दुष्टचारिणः। राजसास्तामसाश्चैव मध्या राजसराजसाः। राजसाः सात्विकास्तत्र मानुषेषुत्तमा गणाः। देवाः पृथगनाख्याताः स्मृताः सात्विकतामसाः।


अतात्विकास्तथाऽऽख्याताः स्मृताः सात्विकराजसाः। सात्विकाः सात्विकास्तत्र तात्विकाः परिकीर्तिताः। तेषां च सात्विकाः शेषगरुत्मदुद्रतत्स्त्रियः। ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयम्॥41॥


Page 100


यदैवैकतमोऽन्याभ्यां स्वभाव उपहन्यते। तदैवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्व तिर्यङ्गरसुरात्मभिः ॥42॥ ‘सात्विकेषु त्रिषु यदा त्वेकस्य प्रतिबाधनम्। रजस्तमोभ्यां विष्णुहि तदा प्रादुर्भवत्यजः। राजसांस्तामसान् हत्वा सात्विकान् वर्धयिष्यति' इति स्कान्दे॥42॥ ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः। सन्नियच्छति तत्काले घनानीकमिवानिलः ॥43 ॥ 'मत्स्यादिरूपी पोषयति नृसिंहो रुद्रसंस्थितः।। विलापयेद्विरिञ्चस्थः सृजते विष्णुरव्ययः' इति वामने॥43॥


इत्थंभावेन कथित भगवान् भगवत्तमः। नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरयः॥44 ॥ भगवत्तमः। ना - पुरुषः॥44॥ न चास्य जन्मकर्माणि परस्य न विधीयते। कर्तृत्वं प्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥45॥ जन्मकर्माणि विधीयत इति क्रियाविशेषणम्। ‘प्रतिषेधाय बन्धस्य जीवानां परमेशितुः। स्वेच्छयैव तु कर्तृत्वं नित्यारूढं चिदात्मकम्' इति भविष्यत्पुराणे॥ रूपोपरिभावे इति धातुः। ‘सुभद्रां रथमारोप्य' इत्यादिवच्च। ‘स्वाभाविकी ज्ञानबलक्रिया च' इति


--


च॥45॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 101


अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः। विधिः साधारण यत्र सर्गाः प्राकृतवैकृताः ॥ 46॥ अन्यकल्पानां साधारणः। यत्रैव प्राकृतवैकृताः सर्वे सर्गाः। अन्यब्रह्मकल्पानां च


साधारणः॥46॥


॥ इति द्वितीयस्कन्धतात्पर्ये दशमोऽध्यायः ॥ 2 - 10॥


॥ द्वितीयस्कन्धः समाप्तः ॥2॥


!!


कन्धः ॥3॥


॥ प्रथमोऽध्यायः ॥ 3-1 ॥ श्रीशुक उवाच एवमेतत् पुरा पृष्टो मैत्रेय भगवान् किल। क्षत्री वनं प्रविष्टेन त्यक्त्वास्वगृहमृद्धिमत् ॥1॥


यदा त्वयं मन्त्रको भगवानखिलेश्वरः। पौरवेन्द्रपुरं हित्वा प्रिविवेशात्मसात्कृतम् ॥2॥ ‘युद्धकाले तु विदुरस्तीर्थयात्रां गतोऽपि सन्। प्राय आस्ते गजपुरे पाण्डवानां व्यपेक्षया' इति स्कान्दे॥1, 2॥ श्रीशुक उवाच यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टदृष्टिंः। भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥6॥


यदा सभायां कुरुदेव देव्याः केशाभिमर्श सुतकर्म गर्घम्।


Page 102


न वास्यामास नृपः स्नुषाया अखैर्हरन्त्याः कुचकुङ्कुमानि ॥7॥ यदा ददाह तदा केशाभिमर्शः प्राप्त इति यदाशब्दो हेत्वर्थः।। ‘यदा तदेति हेत्वर्थे कालार्थे चापि भण्यते' इत्यभिधानम्॥6,7॥


तत्राथ शुश्राव सुहृद्विनष्ठिं वनं यथा वेणुजवह्निनाऽऽश्रयम्। संस्पर्धया दग्धमथानुशचन् सरस्वतीं प्रत्यगिंयाय तूष्णीम् ॥ सहृद्विनष्टिं यदुकुलविनष्टिमेष्याम्। ‘विदुरस्तु प्रभासस्थः शापं सङ्खपतोऽशृणोत्। यदूनां विस्तरात् पश्चादुद्धवाद्यमुनामनु' इति स्कान्दे। भारतविरोधाच्चान्यथा॥20, 21॥


अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः। प्रत्यङ्कमुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति ॥23॥ प्रत्यङ्कमुख्यो विष्णुः।। ‘ब्रह्मा प्रत्यङ्कवान् विष्णुः सम्यग्लक्षणवत्तमः' इति तन्त्रमालायाम्॥23॥


कञ्चित् पुराणौ पुरुष स्वनाभ्यपद्मानुवृत्त्यैह कलावतीण।


आसात उर्व्यः कुशलं विधाय कुतक्षणौ कुशलं शूरंगेहे ॥26॥ ‘पद्मो ब्रह्मासमुद्दिष्टः पद्माश्रीरपि चोच्यते' इति ब्राह्म। ‘लोकानां सुखकर्तृत्वमपेक्ष्य कुशलं विभोः। पृच्छ्यते सततानन्दात् कथं तस्यैव पृच्छयते' इति पाझे॥26॥


कच्छित् कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः।


Page 103


Page 104


यो वै स्वसृणां पितृवद्ददाति वरान् वदान्यो वरतर्पणेन ॥27॥ वरतर्पणेन - भर्तृतप्रणेन॥27॥


कच्चित् सुखं सात्वतवृष्णिभोजशार्हकाणामधिपः स आस्ते। यमभ्यर्षिञ्चच्छतपत्रनेत्रो नृपासनाधिं परिहृत्य दूरात् ॥29॥ ‘आधिर्मनोवरूथं च आत्मास्वमिति चोच्यते' इत्यभिधानम्॥29॥


किं वा कृताधेष्यघमत्यमर्षी भीम गदी दीर्घतमं ब्यमुञ्चत्। यस्याङ्क्षिपातं रणभूर्न सेहे मार्गं गदायश्चरस्तो विचित्रम् ॥ अघं व्यमुञ्चत्। पुनरपराधबुद्धिं मुक्त्वाऽऽस्ते॥37॥


अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुग्रहणाय पुंसाम्। न त्वन्यथा कोऽर्हति देहयोगं परो गुणानमुत कर्मतन्त्रम्॥44।।


‘न देहयोगो हि जनिर्विष्णोर्व्यक्तिर्जनिः स्मृता' इत्याग्नेये। ‘हरिः कर्ताऽप्यकर्तेति फलाभावेन भण्यते' इति च॥44॥


॥इति तृतीयस्कन्धतात्पर्ये प्रथमोऽध्यायः ॥3-1॥


"



| ॥ द्वितीयोऽध्यायः ॥ 3-2॥


यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक् स्वस्त्ययनं त्रिलोकः। कात्यँन चात्रोफ्गतं विधातुक्सृतौ कौशलमित्यमन्यत॥13॥ त्रिलोकस्याज्ञानं बत। ‘आनन्दरूपं दृष्ट्वाऽपि लोको भौतिकमेव तु।


Page 105


मन्यते विष्णुरूपं च अहो भ्रान्तिर्बहुस्थिता' इति स्कान्दे॥13॥


-



मन्येऽसुरान् भागवतांख्यधीशे संरम्भमार्माभिनिविष्टचित्तान्। ये संयुगेऽचक्षत तार्थ्यपुत्रस्यांसे सुनाभायुधमापतन्तम् ॥ ‘असुरा अपि ये विष्णुं शङ्कचक्रगदाधरम्।


भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति॥ विद्विषन्ति तु ये विष्णुमृषिपुत्रा अपि स्फुटम्।


असुरास्तेऽपि विज्ञेया गच्छन्ति च सदातमः॥ जीवद्वयसमायोगाद्धिरण्यकमुखाः परे। भक्तिद्वेषयुताश्चस्युर्गतिस्तेषां यथा निजम्। कंसपूतनिकाद्याश्च बान्धवादियुता यतः। जीवद्वयसमायोगाद्गतिद्वयजिगीषवः। सर्वथा भक्तितो मुक्तिद्वेषात्तम उदीरितम्। नियमस्त्वनयोर्नित्यं मोहायान्यवचो भवेत्’ इति ब्रह्मवैवर्ते॥24॥


"



॥ इति तृतीयस्कन्धतात्पर्ये द्वितीयोऽध्यायः ॥3 - 2 ॥


यिः


॥3 - 3॥


समाहुता भीष्मककन्यया ये श्रियः सवर्णेन जिहीर्षयैषाम्। मान्धर्ववृत्त्या मिषतां स्वभागं जहें फ्दं मूर्ध्नि धत्सुपर्णः ॥3॥ भीष्मककन्याया अर्थे सवर्णेन सवर्णमात्रतया आहूताः। एषां श्रियो जिहीर्षयाऽऽह्वानबुद्धिर्भगवता


Page 106


कृता। ‘सुपर्णः सुपरानन्दात् काकुत्स्थो वाचि संस्थिते' इति पाझे॥3॥


तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः। एकैकस्यां दशदश प्रकृतेर्विबुभूषया॥9॥ ‘उत्तमैः सर्वतः साम्यं किञ्चित् साम्यमुदीर्यते' इत्याग्नेये॥9॥


भगवानपि विश्वात्मा लोकवेदपथानुगः। कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ।। 19॥ 'केवलं भगवज्ज्ञानं सायमित्यभिधीयते' इत्याग्नेये॥19॥


तस्येत्थं रममाणस्य संवत्सरगणान् बहून्। गृहमेधेषु योगेषु विरागः समजायत॥22॥ ‘सर्वदाऽपि विरक्तः सन् भासयीत विरागिवत्।


कादाचित्कः कुतस्तस्य लोकशिक्षार्थमिष्यते' इति पाझे॥


--


वैवाधीनेषु कामेषु वैवाधीनः स्वयं पुमान्। को विस्रम्भेत योगेन योगेश्वरमनुव्रतः॥23॥ तेनापि विरागः प्रदर्शितः। अतः कोऽन्यो विस्रम्भं कुर्यात्॥23॥


ततः कतिपयैर्मासैर्वृष्णिभॊजान्धकादयः। ययुः प्रभासं संहृष्टा स्थैर्दैवविमोहिताः॥25॥


-


Page 107


तत्र स्नात्वा पितृ देवान् ऋषींश्चैव तदम्भसा। तर्पयित्वाऽथ विप्रेभ्यो मा बहुगुणा ददुः ॥26॥


हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान्। हयान् स्थानिभान् कन्यां धरा वृतिंकरीमपि ॥27॥


अन्नं चोरुरसं तेभ्यो दत्वा भगवदर्पणम्। मौविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥28॥ एष्यच्च निश्चितं यत्तदतीतत्वेन भण्यते। चक्रवत् परिवृत्तेर्वा दुष्टानां मोहनाय वा’ इति नारदीये॥25 - 28॥


॥ इति तृतीयस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥ 3 ॥


यः ॥ 3 - 4॥


उद्धव वाच


भगवानात्ममायया गतिं तामवलोक्य सः । सरस्वतीमुपस्पृश्य वृक्षमूल उपाविषत् ॥3॥


अहं चोक्तो भगवता प्रसन्नार्तिहरेण ह। बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥4॥ आत्ममायायाः आत्मसामर्थ्यस्य गतिं पूर्वमेवावलोक्य। ‘ज्ञात्वा कतिपयैर्वष्यैः पूर्वमेव जनार्दनः। मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत्।


Page 108


5


स ज्ञानं तत्र विस्तीर्य पुनरवतीं ययौ॥ पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः। स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम्। पुनः श्रुत्वाबद्र्या तु वर्षत्रयमुवास है। ज्ञानं संस्थाप्य पश्चाचस्वेच्छया स्वर्गतः प्रभुः' इति गारुडे॥3,4॥


राजोवाच - निधनमुफ्तेषु वृष्णिभोजेष्यधिस्थयूथफ्यूथपेषु मुख्यः।


स तु कथमवशिष्ट उद्धव यद्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥28॥ आकृतिं - पृथिवीम्। ‘शरीरमाकृतिर्देहः कुः पृथ्वी च मही तथा' इत्यभिधानम्। ‘पृथिवीलोकसन्त्यागो देहत्यागो हरेः स्मृतः। चिदानन्दस्वरूपत्वादन्यन्नैवोपलभ्यते॥ दर्शयेज्जनमोहाय सदृशीं मृतकाकृतिम्। नटवद्भगवान् विष्णुः परज्ञानाकृतिः सदा' इति स्कान्दे॥ ‘राजन् परस्य तनुभृज्जननाप्ययेहां मायाविडम्बनमवैहि यथा नटस्य' इति च॥28॥


३F


नोद्धवोऽण्वपि मन्यूनो यद्णैर्निर्जितः प्रभुः। अतो मद्वत्पुनर्लोकं ग्राहयन्निह तिष्ठतु॥31॥ ‘उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा। उच्यतेऽपि तु नीचानां मोहार्थं वाऽप्युपेक्षया। मूढदृष्ट्यनुसाराद्वा किञ्चित् साम्येन वा क्वचित्‘इति ब्रह्मतकै॥31॥


Page 109


॥ इति तृतीयस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥ 3-4॥


यः ॥35॥


परावरेषां भगवन् कृतानि श्रुतानि मे व्यासमुखाभीक्ष्णम्। न तृप्नुमः कर्णसुखावहानां तेषामृते कृष्णकथामृतौघात् ॥10॥ ऋते - अवगमे। ऋ गताविति धातोः। तेषां तात्पर्यवगमे कृष्णकथामृतौघ एखासौ यतः॥10॥


मुनिर्विवक्षुर्भगवद्गुणानां सखाऽपि ते भारतमाह कृष्णः। यस्मिन्नुणां ग्राम्यसुखानुवादैर्मतिगृहीता न हरेः कथायाम्॥ यस्मिन् भारते अभ्यस्यमाने हरेः कथायां ग्राम्यसुखानुवादैर्मतिर्न गृहीता। ‘भारतान्नाधिकं विष्णोर्महिमावाचकं क्वचित्।


भारतान्नविरागाय भारतान्न विमुक्तये' इति पाझे॥12॥


सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः। हरेः सदाऽनुस्मृतिनिर्वृतस्य समस्तदुःखात्यममाशु धत्ते ॥13॥ सा ग्राम्यसुखानुवादैर्न गृहीता हरेः कथायां विवर्धमाना मतिः ॥13॥


॥इति तृतीयस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥3-5॥


॥षष्ठोऽध्यायः ॥ 3-6॥


मैत्रेय उवाच - भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः।


आत्मेच्छानुगतो ह्यात्मा नानाशक्त्युपलक्षितः ॥ 1 ॥


Page 110


आत्मनां विभुर्जीवाधिपः॥1॥


स वा एष तदा द्रष्टा नापश्यद्विश्वमेकराट्। मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥2॥ ‘परमात्मा यतो जीवं मेनेऽसन्तमशक्तितः।


असन्नसावतो नित्यं सत्यज्ञानो यतो हरिः' इत्याग्नेये॥ ‘शक्यत्वाच्छक्तयो भार्याः शक्तिः सामर्थ्यमुच्यते' इति ब्रह्मतर्के॥ ‘सुप्तिस्तुप्रकृतेः प्रोक्ता अतीव भगवद्गतिः।


अनास्थाऽन्यत्र च प्रोक्ता विष्णोश्चक्षुर्निमीलनम्’ इति व्योमसंहितायाम्॥2॥


सोप्यंशगुणकालात्मा भगवदृष्टिगोचरः।


आत्मानं व्यकरोदात्मा विश्वस्यास्य सिंसृक्षया ॥6॥ अंशो जीवः। ‘कालजीवगुणादीनामभिमानी चतुर्मुखः। सर्वजीवाभिमानित्वादंश इत्येव चोच्यते' इति ब्राह्म॥6॥



|


कालमायांशयोगेन भगवद्वीक्षितं नमः। तामसानुसृतं स्पर्श विकुर्वन्निर्ममेऽनिलम् ॥11॥


अनिलेनान्वितं ज्योतिर्विकुर्वत् परवीक्षितम्।


आधत्ताम्भो रसमयं कालमायांशयगतः ॥13॥


Page 111


ज्योतिषाऽम्भोऽनुसंसृष्टं क्कुिर्वत्परवीक्षितम्। महीँ गन्धगुणामाधात् कालमायांशयगतः ॥14॥ कालमायांशयोगतः। कालात् परिणामात्। प्रकृतेर्हिरण्यगर्भाच्च॥11 - 14॥


एते देवाः कला विष्णोः कालमायाँशलिंङ्गिनः। नानात्वात् स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥16॥ कालमायांशलिङ्गिनः। तन्निमित्तशरीराः। हिरण्यगर्भस्यैव कालाभिमानी जीवाभिमानीति द्विविधं


रूपम्।


‘कालजीवाभिमानेन रूपद्वन्द्वी चतुर्मुखः' इति पाझे॥16॥


ऋते यस्मिन् भव ईश जीवस्तापत्रयेणाभिहता न शर्म। आत्मन् लभन्ते भगवंस्तवाङ्ग्रिच्छायांशविद्यामत आश्रयेम॥18॥ ‘ब्रह्मविद्या हरेश्छाया तदंशो हि सुरेष्वपि।


सर्वविद्याः श्रियः प्रोक्ताः प्रधानांशश्चतुर्मुखः' इति ब्राह्मे॥18॥


17


मार्गन्ति यत् ते मुखपद्मनीडैश्चन्दः सुपर्णेऋक्यो विविक्ते। यस्याघमर्षो घुसरिद्धरायाः परं पदं तीर्थपदः प्रपन्नाः ॥19॥ घुसरित् धरायाश्च॥19॥


तथाऽपरे त्वात्मसमाधियोमबलेन जित्वा प्रकृतिं बलिष्ठाम्। त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेक्या ते॥25॥ ‘वायोश्च प्रकृतेर्विष्णोर्जयो भक्त्यैव नान्यथा इति दत्तात्रेययोगे॥25॥


Page 112


तत्ते क्यं लोकसिंसृक्षयाऽद्य त्वया विसृष्टास्त्रिभिराल्मभिर्ये। सर्वे विंयुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्प्रतिकर्तवे ते ॥26॥ त्रिभरात्मभिः कालमायांशैः॥26॥


ततो वयं सत्प्रमुखा यथै बभूविमात्मन् करवाम किं ते। त्वं नः स चक्षुः परिंदेहि शक्ता देव क्रियार्थे यदनुग्रहेण ॥29॥ सत्प्रमुखा महदादयः॥29॥


॥ इति तृतीयस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥ 3-6॥


॥सप्तमोऽध्यायः ॥ 3-7॥


इति तासां स्वशक्तीनामसतीनां समेत्य सः। प्रसुप्तलोकतन्त्राणां निशम्य गतिमीश्वरः ॥1॥ ‘शक्यत्वाच्छक्तयो विष्णोर्महदाद्या तथा रमा।


स्वरूपशक्तिः शक्तित्वान्मुख्यशक्तिर्हि सा यतः' इति ब्रह्मतकै॥ समेत्यासतीनां असमेतानां प्रसुप्तलोकतन्त्राणां अनाविर्भूतलोकसृष्टिशक्तीनाम्। 'तनुतेऽनेन कार्यं यत् तन्त्रं साधनमुच्यते। काराणानां स्वशक्तिर्वा प्रधानं साधनं यतः' इति ब्रह्मतकै॥1॥


कालसंज्ञां यदा देवीं बिंध्रच्छक्तिमुरुक्रमः। त्रयोविंशतितत्त्वानां गणं युगपदाविंशत् ॥2॥ ‘शब्दाद्या नभआद्याश्चमनोयुक्तेन्द्रियाणि च।


Page 113


अहङ्कारो महांश्चैव त्रयोविंशतिको गणः॥ देवतेन्द्रिययोरैक्यान्न पृथग्गणनं तयोः। प्रकृतिस्तुचतुर्विंशा पञ्चविंशो हरिः स्वयम्॥ यदा जडांशस्वीकारो जीवस्तत्पञ्चविंशकः। षड् विंशको महाविष्णुः श्रिया वा सप्तविंशकः' इति तत्त्वनिर्णये॥ ‘त्रयोविंशतितत्त्वानि प्राविशद्रमया सह। कालाख्यया स्वयं विष्णुः शक्यत्वाच्छक्तिरूपया॥2॥


सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं मणम्। भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥3॥ ‘सर्वचेष्टकरूपेण स्वसामर्थ्यन केशवः।


तानि भिन्नानि तत्त्वानि योजयामास चांशतः' इति च ॥3॥


प्रबुद्धकर्मा वैवेन त्रयोविंशतिको मणः। प्रेरितोऽजनयत् स्वाभिर्मात्राभिरभिपूरुषम् ॥4॥ मात्राभिरंशैः। ‘ईश्वरो दैवमुद्दिष्टं सर्वस्यापि प्रभुत्वतः' इति च॥4॥


स वै विश्वसृजां गर्भो दैवकर्मात्मशक्तिमान्। विबभाजाल्मनाऽऽत्मानमेकधा दशधा त्रिधा ॥7॥


आत्मशक्तिः - प्रकृतिः॥7॥


एष ह्यशेषसत्त्वानामात्मा अंशः परमात्मनः।


Page 114


आद्योऽवतारो यत्रासौं भूतग्रामो विभाव्यते ॥8॥ पुरुषेणात्मभूतेनेति योऽण्डमसृजत् स एष इत्युक्तः। ‘आद्योऽवतारो विष्णोस्तु पुरुषो नाम कीर्तितः।


असृजत् स महत्तत्वं स एवाण्डं समाविशत्॥8॥


साध्यात्म साधिदैवं च साधिभूतमिति त्रिधा। विराट् प्राणो दशविध एकधा हृदयेन च ॥9॥


निर्भिण्णान्यथ चर्माणि लोकपालोऽनिलोऽविशत्। प्राणेनांशेन संस्पर्श येनासौ प्रतिपद्यते॥16॥ ‘स ब्रह्मणो हृदिस्थत्वाद्धदयं चेति कीर्त्यते' इति च। ‘प्राणादिपञ्चकं चैव तथा नागादिपञ्चकम्। सनागकूर्मकृकलदेवदत्तधनञ्जयाः। एवं तु दशधा प्राणा अध्यात्मादि त्रिधाऽखिलाः इति च व्योमसंहितायाम्॥ ‘प्राणः प्रथमजो यस्तु प्रधानो वायुरीरितः। त्वगात्माद्यास्तु तत्पुत्रा द्विधा भूतमुदाहृतम् इति तत्त्वनिर्णये॥9, 16॥


आत्मानं चास्य निर्भिण्णं वाचस्पतिस्थाविशत्। बुद्ध्यो स्वांशेन येनासौ निश्चयं प्रतिपद्यते ॥24॥


Page 115


अहं चास्यविनिर्भिन्नमभिमानोऽविशत् पदम्। कर्जा स्वांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥25॥


सत्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत्। चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते॥26॥ “अहं सत्त्वमिति द्वेधा ब्रह्मनाड्य अवान्तरम्। कर्तृनामा ह्यहङ्कारस्त्वहंनाड्यां व्यवस्थितः। सत्वनाड्यां तथा चित्तमभिमानो हरस्तथा। अहंनाड्यां सत्वनाड्यां ब्रह्मा चैव व्यवस्थितः। आत्मनाड्यां तथा बुद्धिस्तत्रस्थश्च बृहस्पतिः' इति च॥24 - 26॥


मुखतोऽर्तत ब्रह्म पुरुषस्य कुरूद्धह। यत्रोन्मुखत्वाद्वर्णानां मुख्योऽभूद्वाह्मणो गुरुः ॥30॥ ‘ब्रह्माभिमानी तु भृगुरजनि ब्रह्मणो मुखात्॥30॥


बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः। यो जातस्त्रायते वर्णान् पुरुषान् कण्टकक्षतात् ॥31॥ क्षत्राभिमानी तु मनुर्ब्रह्मबाह्वोरजायत॥31॥


विंशोऽर्तन्त तस्योर्वोर्लोकवृतिंकरीविभोः। वैश्यस्तदुद्भव वार्ता नृणां यः समवर्तयत् ॥32॥ ऊर्वोर्विडभिमानी च वास्तुः ....॥32॥


Page 116


फ्यां भगवतो जज्ञे शुश्रूषाकर्मसिद्धये। तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥33॥ ..... पादात् कृतिस्तथा। ‘एते पूर्वं हरेर्जाता ब्रह्मणस्तदनन्तरम्। एवं रुद्राच्चवायोश्चतदन्तस्थहरेर्जनिः' इति षाड्ण्ये॥33॥


एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः।। कः श्रद्दध्यादुदाहर्तुं योगमायाबलोदयम्॥35॥ ‘अधिकत्वाद्देवशब्दो दैवतेष्वधिको यतः। दैवं हरिः कर्ममूलं कृतिरित्येव भण्यते। व्याप्तत्वादात्मशब्दश्च श्रीपतित्वाच्च माधवः' इति च॥35॥


अतो भगवतो माया मायिनामपि मोहिनी। यत् स्वयं चात्मवत्र्माऽऽत्मा न वेद किमुतापरे ॥39॥


योतोऽप्राप्य निवर्तन्ते वाचश्च मनसा सह।


अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ 40 ॥ ‘आत्मा न वेद ब्रह्मा'। अहम् - रुद्रः ‘गुणपूर्तेरात्मशब्दो ब्रह्माऽहीनत्वतो हरः।


अहं शब्दस्तथाऽप्येतौ न जानीतो हरिं परम्' इति ब्राह्मे। भगवतो मायां – भगवतो महिमानम्। ‘माया तु महिमा प्रोक्ता प्राचुर्ये तु मयड्यतः' इति पाझे।


Page 117


आत्मवत्र्मा - परमात्मगतिः॥39, 40॥


॥ इति तृतीयस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥3 - 2 ।।



यः ॥ 3 - 8॥


क्रीडायामुद्यतोऽर्हस्य कामं चिक्रीडिषाऽन्यतः। स्वतस्तृप्तस्य तु कथं निर्वृतस्य सदात्मनः ॥3॥ क्रीडायाः मुत्। अर्हस्यापूर्णसुखस्य। अन्यतः अरतितः॥3॥ देशतः कालतो योऽसावस्थातः स्वतोऽन्यतः। अविलुप्तावबोधात्मा संयुज्येताजया कथम् ॥5॥


भगवानेष एवैकः सर्वक्षेत्रेष्यवस्थितः। अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥6॥ दुर्भगक्लेशशरीरस्थत्वात् तस्यापि भाव्यम्। न च तद्युज्यते॥5, 6॥


सेयं भगवतो माया न्यायं येन विरुध्यते।


-


--


ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥9॥ सेयं भगवतो माया। अयं हि भगवन्महिमा। तस्य कार्पण्यं बन्धनादि न युज्यत इति यदुक्तं तन्याय्यमेव दुर्भगादिशरीरस्थस्यापि तद्दोषास्पर्श एव तन्महिमेत्यर्थः। ‘कथं देहपरो देवो न लिप्येत हि बन्धनैः। कथं न दुःखी स भवेदुःखी चेदीश्वरः कुतः। महिमा परमस्यैव यद्देहस्थो न बाध्यते। यददुःखी स ईशानो मायेति महिमोच्यते।


Page 118


प्रधानं मय इत्याहुः प्राधान्यान्मयता भवेत्। अतो मायामयं प्राहुर्महामायमनामयम्' इति भाल्लवेयश्रुतिः॥ ‘अलुप्तबोधरूपत्वान्नासौ प्राकृतदेहवान्। न च सृष्ट्यादिकं भ्रान्तिन्तिवादा हि दानवाः। अतो भ्रान्त्यादिसम्बन्धो नास्य क्वचन युज्यते॥9॥


यथाऽर्थेन विनाऽमुष्य पुंस आत्मविपर्ययः। प्रतीयत उपद्रष्टुः स्वशिरश्चेदनादिकः॥10॥


यथा जले चन्द्रमसः कम्पादिस्तत्कृत गुणः। दृश्यतेऽसन्नपिं द्रष्टुरात्मनोऽनाल्मनो गुणः ।। 11 ॥


स वै निर्वृरत्तिधर्मेण वासुदेवानुकम्पया। भगवद्भक्तियोगेन तिरोधत्ते शनैरिह॥12॥ भ्रान्त्या जीवस्य संसार ईशज्ञानाद्विलीयते। भ्रान्तिदेहाद्यभिमतिरीशज्ञानाद्विनश्यति' इति ब्रह्माण्डे॥10-12॥


यदेन्द्रियोपरामार्थो दृष्टात्मनि परे हरौ। विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्रशः ॥13॥ इन्द्रियोपरामाख्यः पुरुषार्थो मुक्तिः॥13॥ विदुर उवाच -


सञ्छिन्नः संशय मह्यं तव सूक्तासिना विभो।


Page 119


उभयत्रापि भगवन् मनो मे सम्प्रधावति ।। 15॥


साधु तयाहृतं विद्वन्नात्ममायायनं हरेः। आभात्यपार्थं निर्मूलं विश्वमूलं न यद्वहिः ॥16॥


यश्च मूढतम लोके यश्च बुद्धेः परं गतः। तावुभौ सुखमेधेते क्लिश्यत्यन्तरित जनः ॥17॥


अर्थाभावं विनिश्चित्य प्रतीतस्याप्यनात्मनः। तां चापि युष्मचरणसेवयाऽहं पराणुदे ॥18॥ स्वरूपसामर्थ्यश्रयम् ययाहृतम्। अपार्थं निर्मूलं च देहसम्बन्धित्वाद्याभाति। विश्वमूलं च ब्रह्म यन्मम ज्ञानाद्वहिर्न भवति। तस्माद्भयत्र धावति। तस्मादन्तरितोऽस्मि। तथाऽपि तां प्रतीतिं । पराणुदे। ‘आत्मनस्तु गुणाभावं वदतो नत्वसत्यता।


अपृष्टस्य दमार्थं च गुणायैव भवत्यऽपीति' इति व्यासस्मृतेः। विद्यमानमप्यनुभवमन्यथा वदति विदुरः। 'द्रोणद्रौणिकृपाः पार्था भीष्मो विदुरसञ्जयौ। ये चान्ये तत्र देवांशाः सम्यक्तत्त्वापरोक्षिणः' इति स्कान्धे॥15 -18॥ सृष्ट्वाऽग्रे महदादीनि सविकासण्यनुक्रमात्। तेभ्यो विराजमुद्धृत्य तमनुप्राविंशद्विभुः ॥21॥


यमाहुराचं पुरुषं सहस्राङवारुबाहुकम्। यत्र विश्व इमे लोकाः सविंकासं समासते।


Page 120


यस्मिन् दशविंधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् ॥22॥ विराजम् - ब्रह्माणम्। ‘ब्रह्माणं प्राविशद्विष्णुः सहस्राक्षः सहस्रपात्' इति ब्राह्म॥


अनुप्रविश्य ब्रह्माणं प्राणं दशविधं तथा। इन्द्रियाणीन्द्रियार्थाश्च वर्णाश्चैवासृजद्धरिः' इति गारुडे॥21,22॥


वर्णाश्रमविभागांश्च रूपशीलस्वभावतः।


ऋषीणां जन्म कर्माणि वेदस्य च विकर्षणम्। यज्ञस्य च वितानानि योगस्य च पथः प्रभो ॥29॥ विकर्षणम् - स विभागः॥29॥


॥ इति तृतीयस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥ 3 - 8॥


॥ नमोऽध्यायः ॥ 3 - 9॥


स्वमेव धिष्ण्यं बहुमानयन्तं यं वासुदेवाभिधमामनन्ति। प्रत्यक् धृतीक्षाम्बुजकोशमीषदुन्मीलयन्तं विबुधब्याय ।। 4 ।। ‘आधार आश्रयो धिष्ण्यं निधानं चाभिधीयते' इत्यभिधाने॥4॥


तस्यात्मसृक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान्। गुणेन कालानुगतेन विद्धः शुष्यंस्तदाऽभिद्यत नाभिदेशात् ॥13॥ 'उदकं वायुना शुष्कं भिन्नं पद्ममभूद्धरेः' इति पाझे॥13॥


स पद्मकोशः सहसौदतिष्ठत् कालेन कर्मप्रतिबोधितेन।


Page 121


Page 122


स्वरोचिषा तत्सलिलं विशालं विद्योतयन्न इवात्मयोनिः ॥14॥


आत्मा विष्णुरस्य योनिः॥14॥ तल्लोकपद्म स उ एव विष्णुः प्रावीविंशत् सर्वगुणावभासम्। तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥15॥ ‘पद्मसंस्थाद्धरेस्तत्र ब्रह्माऽजनि चतुर्मुखः' इति च।। सर्वगुणावभासं पृथिव्यात्मकम्। पृथिव्यां हि शब्दादयः सर्वेवभासन्ते। ‘तस्यासनविधानार्थं पृथिवी पद्ममुच्यते' इति च मोक्षधर्मेषु॥15॥


क एष योसावहमज्जपृष्ठ एतत् कुतो वाऽजमनन्यदप्सु। अस्ति ह्यधस्तादिह किंञ्चनैतदधिष्ठितं यत्र सदाऽनुभाव्यम् ॥18॥ ‘प्रधानवाचाकस्त्वेकश्वानन्यः केवलः स्वयम्' इति ब्राह्मे॥


सता - ब्रह्मणा। ‘स ब्रह्माऽचिन्तयत् कुतो नु पझं ब्रह्मणः स्यादिति’


इति मैत्रायणश्रुतिः ॥


पुंसां स्वकामाय विविक्तमार्गेभ्यर्चतां कामदुधाङ्किफ्यम्। प्रदर्शयन्तं कृपया नखेन्दुमयूखभिन्नाङ्गुलिंचारुपत्रम् ॥26॥ भिन्नमन्येभ्यो विलक्षणम्॥26॥


फ्रार्थ्यकेयूरमणिप्रवेकर्यस्तदोर्दण्ङसहस्रशाखम्।


अव्यक्तमूलं भुवनाङ्ग्रिपेन्द्रमहींन्द्रभोगैरधिवतवल्कम् ॥29॥ ‘तस्मादब्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम' इति मोक्षधर्मे॥29॥


Page 123


निवौतमाम्नायमधुव्रताश्रयस्वकीर्तिमय्या वनमालया हरिम्। सूर्येन्दुवावश्यममत्रिधामभिः परिक्रमप्राधनिकैर्दुरासदम्॥ सूर्येन्दुवाय्वन्यादिभिस्त्रिधाम्रो विष्णोरगच्छद्भिः प्राधनिकैः। ‘मुक्तवाय्वादिभिर्विष्णुं वृतं ब्रह्मा ददर्श है।


तदन्याभावतो नान्यदतस्तत् स्रष्टुमैच्छत' इति ब्रह्माण्डे॥31॥


॥ इति तृतीयस्कन्धतात्पर्ये नवमोऽध्यायः ॥ 3- 9॥


यः ॥3-16 ॥


ब्रह्मोवाच :


ज्ञातोऽसि मेद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यक्यम्। नान्यत् त्वदस्ति भगवन्नपि तत् त्वशुद्धं मायागुणव्यतिंकराद्यदुरुर्विभासि ॥1॥ स्वतो नास्ति। तदधीनं विद्यमानमप्यशुद्धम्। यच्च स्वनानात्वं तदपि स्थानभेदादसदेव भाति। ‘एकोऽपि स्थाननानात्वान्नानेव हरिरीयते। सर्वान्तर्यामिणस्तस्य न भेदो विद्यते क्वचित्' इति ब्रह्मवैवर्ते॥1॥


रूपं यदेतद्वबोधरसोयेन शस्वन्निवृत्ततमसः सदनुग्रहाय।


आदौ गृहीतमक्तारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम्॥2॥


नातः परं परम यद्भवतः स्वरूपमानन्दमात्रमविकारमविद्धर्चः। पश्यामि विश्वसृजमेकमविश्वमाद्यं भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥3॥ यन्नाभिपद्मभवनादहमाविरासम्। यच्चेदं भगवत्स्वरूपमानन्दमात्रं पश्यामि। यच्चाश्रितोऽस्मि अतः परं नास्ति। अतो न ज्ञायत इति अवद्यमत्युत्तमापेक्षया। अनादिगृहीतमेव नेदानीं गृह्यते।


Page 124


‘यत् तद्दिव्यं हरे रूपं क्षीरसागरमध्यगम्।


सज्ज्ञानानन्दैकमात्रं च न ततः परमं क्वचित्। अनादिनित्यादब्यक्तात् तस्माज्जज्ञे चतुर्मुखः' इत्याध्यात्मे। ‘भूतेन्द्रियाणामात्मकम्। यच्चाप्नोति' इत्यादेः॥2,3॥


-


-


ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम्।


भक्त्या गृहीतचरणः पस्या च तेषां नापैर्षि नाथ हृदयाम्बुरुहात् स्वपुंसाम्॥5॥ ‘हृदि व्यक्तं तु यदूपं हरेर्गन्धः स उच्यते। गन्धगन्धवतोर्यस्मान्न भेदः क्वचनेष्यते' इति ब्रह्मतकै॥5॥


यावत्पृथक्त्वमिंदमात्मन इन्द्रियार्थं मायाबलं भगवतो जन ईश पश्येत्। ताक्च्च संसृतिरसौ प्रतिसङ्कमेत व्यर्थापि दुःखनिवहं वहती क्रियाश्च ॥9॥ मायाबलं - भगवदिच्छाबलम्। ‘ज्ञेयत्वं दुर्घटस्यापि घटनाऽधिकशक्तिता।


अभेद ईश्वरेणापि सृष्ट्यादावन्तरङ्गता।


उच्येत यस्याः सा माया हरेरिच्छाऽथवा बलम्। भगवतन्त्रता यस्यास्तद्भार्यात्वं सुरूपता। उच्येत माया सा तु श्रीर्दोषयुक्ता जडा स्मृता। परिणामिनी च यस्यास्तु दोषाश्चेतनता तथा।। शैवली नाम सा माया जगद्वन्धात्मिका सदा' इति ब्रह्मतर्के। ध्याये मंस्ये तथा पश्ये श्रुणोमीति विभक्तता।


Page 125


जीवस्य तु हरेरिच्छाबलादीन्द्रियभुक्तयः' इति षाङ्गुण्ये। इन्द्रियाणं भोगार्थम्। व्यर्थाऽपि यज्ञादिक्रियार्था॥9॥


-




अध्याहृतार्थकरणा निशि निःशयाना नानामनोरथधियः क्षणभङ्गनिद्राः। दैवाद्धतार्थरचना ऋषयोऽपि देव युष्मप्रसङ्गविमुखा इह संसरन्ति ॥ 16 ।। अथैरध्याहृतानि करणानि येषाम्। ‘अज्ञानं तु निशा प्रोक्ता दिवा ज्ञानमुदीर्यते' इति स्कान्दे॥10॥


त्वद्भावयोगपरिभावितहृत्सरोजा ये सच्छुतेक्षितपथा ननु नाथ पुंसाम्। यद्यद्धिया तु उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे तदनुग्रहाय ॥11॥ तत्तद्वपुस्तेषां प्रणयसे। ‘यादृशो भावितस्त्वीशस्तादृशो जीव आभवेत्' इति तन्त्रसारे। ‘तं यथा यथोपासते तदेव भवति' इति च॥11॥


नातिप्रसीदसि तथोपचितोपचारैराराधितः सुरगणैर्हदि बद्धकामैः । यः सर्वभूतदयमाऽसदलभ्ययैको नानाजनेष्यवहितः सृहृदन्तराल्मा॥12॥ सर्वभूतदयया सुरगणैर्हध्याराधितस्त्वं बद्धकामैर्जनैरुपचितोपचारैर्नातिप्रसीदसि। ‘आराधितो यो ब्रह्माद्यैर्भक्तिज्ञानदयादिभिः। किं तस्य कामुकजनैः कृतया परिचर्ययाइति सत्यसंहितायाम्॥


|


|




शश्वत्स्वरूपमहसैव निपीतभेदमोहाय बोधधिषणाय नमः परस्मै। विश्वोदयस्थितिलयेषु निमित्तलीलारामाय ते नम इदं चकृमेश्वराय ॥14॥ ‘ईशस्यापूर्णताज्ञानं विष्णोरन्यस्य चेशता।


Page 126


भेदस्तस्यावतारेषु जीवस्येशत्वमेव च। तथा जीवत्वमीशस्य जडाभेदस्तयोरपि। भेदमोह इति प्रोक्तः स सदा न हरौ क्विचित्। अन्येषां तत्प्रसादेन शनैर्याति सतामपि' इति स्कान्दे॥14॥


यस्यावतामुणकर्मविडम्बनानि नामानि येऽसुविमर्म विक्शा मृणन्ति। ते नैकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥15॥ भक्तिविवशः।। ‘ये भक्त्या विवशा विष्णोर्नाममात्रैकजल्पकाः। तेऽपि मुक्तिं व्रजन्त्याशु किमु तच्यायिनः सदा इति व्योमसंहितायाम्॥15॥


यो वा अहं च गिरिशश्च विभुः स्वयं च स्थित्युद्भवप्रलयहेतव आत्ममूलाः । भूत्वा त्रिपाद्ववृध एक उरुप्ररोहस्तस्मै नमो भगक्ते भुक्नमाय ॥16॥ ‘ब्रह्मादिभावो विष्णोस्तुतन्नियामकता भवेत्। मत्स्यादिता स्वभावस्तु नान्यथा क्वचिदिष्यते' इति वामने। ‘अनन्तासनवैकुण्ठक्षीराब्धिस्थो हरिस्रिपात्' इति च॥16॥


लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे। यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्यनिमिषाय नमोऽस्तु


तस्मै॥17॥ नित्यज्ञानदृशा नित्यं लवकालमपीश्वरः।


Page 127


पश्येत् तत्कालिकं चैव तस्मादनिमिषो हरिः। कालस्यानिमिषत्वं च लवादेर्नित्यवीक्षणात्' इति तन्त्रसारे॥17॥


तिर्यमनुष्यविबुधादिषु जीक्योनिष्वात्मेच्छयाऽत्मकृतसेतुपरीप्सया यः । मेऽनिरस्तरतिरप्युपलब्धकाष्ठस्तस्मै नमो भगवते पुरुषोत्तमाय ॥19॥ अनिरस्तरतिर्नित्यरतिः॥19॥


सोऽयं समस्तजगतां सुहृदेक आत्मा सत्वेन यन्मृङयते भगवान् भगेन। तेनैव मे दृशमनुस्पृशताद्यथाऽहं सक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ‘स्वसामर्थ्यात् स्वकर्माणि रमया सह केशवः। कुरुते स्वयमेवैष कानिचित् पुरुषोत्तमः' इति नारदीये॥22॥


एष प्रसन्नवरदो रमयाऽऽत्मशक्त्या यद्यत् करिष्यति गृहीतगुणाक्तारः। तस्मिन् स्वविक्रम इदं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम्


॥23॥


‘आत्मशब्दस्य मुख्यार्थी विष्णुरेकः सनातनः।


सन्दोहदेहमनसो बुद्धिजीवाः स्वयं तथा। ब्रह्माऽप्यमुख्या क्रमश उत्कर्षो ह्यात्मता भवेत्’ इति प्रकाशसंहितायाम्॥23॥ श्री भगवानुवाच मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह। तन्मया चोदितं ह्यग्ने यन्मां प्रार्थयते भवान् ॥29॥


Page 128


प्रार्थनमपि मत्प्रेरणमेव॥29॥


भूयश्च तप आतिष्ठ विद्यां चैव मदाश्रयाम्। ताभ्यामन्तहृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान्॥30॥ ‘तप आलोचनं प्रोक्तं विद्या निष्ठाप्रकीर्तिता’ इति कपिलसंहितायाम्॥30॥




तत आत्मनि योगेन भक्तियुक्तः समाहितः। द्रष्टाऽसि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनि ॥31॥ 'देहे देहे हरिस्तस्मिंल्लोकाः सर्वे प्रतिष्ठिताः।। अङ्गष्ठमात्रेऽपि परे परशक्तिर्यतो विभुः' इति च। आत्मनि स्थिते मयि॥31॥


यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः। स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥33॥ स्वरूपेण मयोपेतं हृदिस्थं जीवरूपं हि परमेश्वरसहितं भवति। ‘त्यक्त्वा देहाद्यात्मभावं जीवरूपे हृदि स्थिते। दृष्ट्वाऽऽत्मभावं तं चापि हरिपादाब्जसंस्थितम्। यदा पश्यत्यापरोक्ष्यात् तदा मुक्ति व्रजत्यसौ' इति दत्तात्रेययोगे॥33॥


ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम्। यन्मा त्वं मन्यसे युक्तं भूतेन्द्रियमुणात्मभिः ॥36॥ ‘भूतेन्द्रियमनोबुद्धित्रिगुणादिषु सर्वशः।


Page 129


युक्तं नियामकतया पश्यन् जानाति केशवम्' इति च ॥36॥


प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया। यदस्तौषीद्णमयं निर्गुणं माऽनुवर्णयन् ॥39॥ ‘सार्वइयादिगुणैर्युक्तं सत्वादिगुणवर्जितम्।


यो जानाति हरिं तस्य प्रीतो भवति केशवः' इति व्योमसंहितायाम्॥39॥


य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत्। तस्याहं सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ 40॥ ‘आधिकारिकदेवानां स्वाधिकाराभिकामनम्। भवति प्रीतये विष्णोर्भक्त्यादेरपि यत् सदा' इति च॥40॥


पूर्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना। राज्यं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ 41 ॥ निःश्रेयसं राज्यम्। मोक्षेऽपि रञ्जनीया मत्प्रीतिरेव। ‘मुक्तस्यापि हरेः प्रीतिः सर्वतोऽप्यनुरज्यते' इति वामने॥41॥


अमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि। अतो मयि रतिं कुर्याईहार्यित्कृते प्रियः ।। 42॥ ‘सर्वतोऽपि प्रियो ह्यात्मा तस्यापि प्रियतां हरिः।


आपादयति यत् तस्मात् स्वात्मनोऽपि प्रियो हरिः' इति ब्रह्मवैवर्ते॥42॥


॥ इति तृतीयस्कन्धतात्पर्ये दशमोऽध्यायः ॥ 3-16॥


Page 130


॥एकादशोऽध्यायः ॥ 3-11॥ मैत्रेय उवाच : विरिंञ्चोऽपिं तथा चक्रे दिव्यं वर्षशतं तपः।


आत्मन्यात्मानमावेश्य यथाऽऽह भगवानजः ॥ 4 ॥ आत्मनि परमेश्वरे - मन आवेश्य॥4॥


एतावान् जीक्लोकस्य संस्थाभेदः समासतः । धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥9॥ अनिमित्तस्य ब्रह्मार्पणबुड्याकृतस्य। 'अ इति ब्रह्म' इति श्रुतेः॥9॥ विदुर उवाच :


यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः। कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ 10॥ ‘लक्षणं लक्ष्यमात्मा च स्वरूपमिति कथ्यते' इत्यभिधानम्॥10॥ मैत्रेय उवाच : गुणव्यतिंकराकारो निर्विशेषोऽप्रतिष्ठितः। पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत् ॥11॥ गुणव्यतिकरमाकरोति तद्रष्टा। अप्रतिष्ठितोऽन्यत्र। ‘स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि' इति श्रुतिः। तदुपादानम्। गुणव्यतिकरोपादानकर्तारम्। सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य। ब्रह्माविष्णुरीश्वर इति त्रीणि रूपाण्यात्मना सृष्टानि॥11॥


विश्व वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया।


ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥12॥


Page 131


ब्रह्मनिर्मातृकम्। मायया सामर्थ्यन। तत्र यत् संहर्तु ईश्वराख्यं रूपं तत् कालाख्यम्। 'कल छेदने’ इति धातोः। “अथ त्रयी वाव प्रकृतिः सत्वं रजस्तम इति तां नारायणः पर्यपश्यदनन्यप्रतिष्ठः तं वा एतमाहुः पुरुष इति पूर्णे ह्येष भवति स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वाव सत्वस्य रजसो ब्रह्मेशानो नाम तमसः स आविवेश। ब्रह्मा ब्रह्माणं नाम चतुर्मुखं ईश ईशानं नाम पञ्चमुखं यो वा ईश ईशानमाविवेश तं वा एनं काल इत्याचक्षते काल इत्याचक्षते इति सौकरायणश्रुतिः॥12॥


यथैदान तथा चाग्रे पश्चादप्येतदीदृशम्। सर्गो नवविधस्तस्य प्राकृत वैकृतश्च यः। कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्कमः ॥ 13, 14॥ ‘सृष्टिश्चप्रलयश्चैव संसारो मुक्तिरेव च। देवा ऋषिप्रभृतयो लोका भूरादयस्तथा। अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः। जगत्प्रवाहः सत्योऽयं नैव मिथ्या कदाचन। ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते। देवैर्ब्रह्मादिभिः शप्ताऋषिभिर्मानुषादिभिः। सेतिहासैस्तथा वेदैः सर्वे यान्त्यधरं तमः। सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः। अन्यसाम्यविदो विष्णोर्विष्णुद्वेष्टार एव च। सर्वे यान्ति तमो घोरं न चैषामुत्थितिः क्वचित्' इति स्कान्दे॥ ‘तामसस्य पदार्थस्य सत्वं हि लयकारणम्।


Page 132


सात्विकस्य तमश्चैव तयोरपि रजः क्वचित्। गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना। कालतः कालसङ्ख्याको लयः सर्वस्य वस्तुनः' इति ब्रह्मतर्के। 'तमसो रजस्तु द्विगुणं रजसः सत्वमेव च। परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः। तत्र सत्वं केवलं स्याद्रजस्यपि शताधिकम्। सत्वं रजःशतांशं तु तमस्तत्र प्रकीर्तितम्। तमस्यपि तथा सत्वं तमसस्तु दशोत्तरम्। तद्दशांशेन तु रजो मूलजं यद्रजस्तुतत्। विलये दशांशतः सत्व एकांशेन तमस्यपि। मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः।


यदा तु तद्रजः सर्वं तमसा सह सङ्गतम्। तदा त्वाहुर्महत्तत्त्वं तच्चतुर्भागसम्बवम्। तत्र त्रिभागो रजस एकांशस्तमसस्तथा। तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम्। तदेव केवलं सत्वमितरापेक्षया भवेत्। श्रीर्मूलसत्वं विज्ञेया भूर्मूलं रज उच्यते। मूलं तमस्ततथा दुर्गा महालक्ष्मीस्त्रिमूलिका। गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः॥13,14॥


Page 133


आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ द्वितीयस्त्वमस्तत्र द्रव्यज्ञानक्रियादयः। भूतसर्गस्तृतीयस्तु तन्मात्रद्रव्यशक्तिंमान् ॥15॥ ‘यद्रजो मूलरजसि मूले तमसि यद्रजः। तमश्च मूले तमसि महत्तत्त्वं तदात्मकम्। दशांशास्तत्र सत्वं स्युरेकांशो रज एव च। तदृशांशं तमो ज्ञेयमहङ्कारस्तदात्मकः। स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु। इतरापेक्षया सत्वं सत्वद्यास्तद्वदस्य च। तत्तमो अंशात् सात्विकांशो मनआद्याः प्रकीर्तिताः। रजसो अंशस्त्विन्द्रियाणि तमसो अंशश्चखादयः


इत्यादि तत्त्वविवेके॥15॥


चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः। वैकारिको देवसर्गः पञ्चम यन्मयं मनः ।। 16॥ ‘भूतानि द्रव्यशक्तीनि भूतेषु द्रवणं यतः।


तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः। क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि तु।


ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः। एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान्।


Page 134


मानुषापेक्षया देवाः सात्विकाः परिकीर्तिताः। तत्रापि सात्विकाः प्रोक्तास्तात्विका यास्तु देवताः। तत्रापि सात्विको रुद्रस्तत्रापि तु चतुर्मुखः।


अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे। विकारवन्त इन्द्राद्यास्तस्माद्वैकारिका मताः।


त एवन्त्रियरूपेण यतस्त्वतिविकारिणः। ज्ञानमात्रगुणोद्रिक्तास्तस्मात् तैजसनामकाः। अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु। वैकारिकत्वनामापि ततस्तेषां न विद्यते। यथा विप्रकुले मूर्खा मूर्ख इत्यभिधीयते। विद्यायोग्यत्वतः शूद्रो न मूर्खा मूर्ख एव सन्।


तामसानि हि भूतानि किञ्चिव्यवहितत्त्वतः। ज्ञानस्य सुष्टुज्ञत्वऽपि पूर्णज्ञानो हरिः स्वयम्' इति च॥16॥


षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः। षडिमे प्राकृताः सर्गा वैकृतानपि मे श्रुणु ॥17॥ ‘अबुद्धिपूर्वमिव तु ब्रह्मणो हरिबुद्धितः। तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः। अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः। तामसानां तु भूतानां सहस्रं सत्वभागिनाम्।


Page 135


शतांशरजसामेकतमसां सर्ववेदिनाम्। केवलस्तामसो यो अंशः साऽविद्या पञ्चपर्विका। जाताऽतिकृष्णातद्देहादैत्यरक्षः पिशाचकाः॥17॥


रजौभाजो भगवतो लीलेयं हरिमेधसः। सप्तम मुख्यसर्गस्तु षड्धिस्तस्थुषां च यः ॥18॥


वनस्पत्यौषधिलता त्वक् सारा वीरुध द्रुमाः। उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ।। 19॥


तिरश्चामष्टमः सर्गः सोऽष्टविंशद्विध मतः।


अविदो भूरितमसो घ्राणज्ञा हृदिवेदिनः ॥20॥


मौजो महिषः कृष्णः सूकरो गक्यो रुरुः। द्विशफाः पशवश्चेमे अविरुश्च सत्तम ॥21॥


खरोऽश्वोऽश्वतरो मौरः शरभश्चमरी तथा।


एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्॥22॥


श्वा सुगालो वृको व्याघ्रो मार्जारः शशशल्यकौ। सिंहः कपिगंजः कूर्मो गोधा च मकरायः ॥23॥


५०


कङ्कगृध्रबकश्येनभासबलूरबर्हिणः। हंससारसचक्राह्वकाकोंनूकादयः खाः ॥24॥


Page 136


अर्वाक् स्रोतस्तु नक्मः क्षतरेकविधो नृणाम्। रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥25॥


यद्रजो भौतिकं तेन मानुषाणां सदा जनिः। तमगृढे न रजसा वितरस्थास्नुचारिणाम् ॥25॥


14


वैकृतास्त्रय एवैते देवसर्गश्च सत्तम। वैकारिकस्तु यः प्रोक्तः कौमारस्तुभयात्मकः ॥26॥


देवसर्गश्चाष्टविंधो विबुधाः पितरोऽसुराः। गन्धर्वाप्सरसः सिंद्धा यक्षरक्षांसि चारणाः ॥27॥



भूतप्रेतपिशाचाश्च विद्याघ्राः किन्नरादयः। दशैते विंदुराख्याताः सर्गास्ते विश्वसृकृताः ॥28॥ ‘भौतिकेन तु सत्वेन गूढे ब्रह्मण आण्डजम्। रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम्। तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः। गृहितं भूतरजसा तत् सत्वं मानुषा यदा। देवा एवंगुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः। गुणातीतं च यदूपं ब्रह्मादीनां सुखात्मकम्। चिद्रूपं तच्चसत्वस्यैवोत्कर्षो यत्र विद्यते। तत्वोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः।


Page 137


उपगृहने तु नैवास्ति विशेष नित्यचिन्मये। प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित्। विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः' इति च॥26, 28॥


अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः। तदुपादानकः सर्गः प्राकृतः परिपठ्यते।


अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते॥13॥ ‘पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा। उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता। तत्स्रष्टत्वज्ञापनाय तस्मात् सा प्राकृता मता' इति च॥17॥ एते गुणा हरेः सम्यक्स्वातन्त्र्यविषयाः सदा। स्वतन्त्राः प्रकृतेश्चापि ब्रह्मणोऽन्येषु तु क्रमात्। देवेष्वेव तदन्येषु परतन्त्रा हि ते मताः' इति च। स्थानुभिर्नियमान्मुख्या स्थितेर्गतिरवाप्यते। प्रायः परोपकर्तृत्वात्ते मुख्यस्रोतसः स्मृताः॥18॥ नाधो नोवें तिरश्चां तु पुनस्तत्रैव यज्ञनिः। यज्ञोपयोगं च सतामुपकारं विनाऽपि च। तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः ॥20॥ प्रायोऽधोगमनं यस्मात् प्रयत्नेन विना भवेत्।


अर्वाक्स्रोतस इत्येव मानुषाः परिकीर्तिताः॥25॥ ‘नियमादूर्ध्वगन्तारो देवा मोक्ष्यैकभागिनः।


Page 138


ऊर्ध्वस्रोतस इत्येव तस्मात्ते परिकीर्तिताः' इति ब्राह्मे॥19॥ 'तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवृत्तिनाम्। असुराणां रक्षसां च पिशाचानां तथैव च। अर्वाक्स्रोतस्त्वमुद्धिष्टं नियमादसुरादिनाम्' इति च ॥25॥ मुख्यस्रोतस इत्यस्यार्थ उत्स्रोतस इति। 'ऊर्ध्व इत्येव यस्तूच्चतम एवाभिधीयते। ऊर्ध्वस्रोतस एतस्माद्देवा एव न तत्परे। उच्छब्द उच्चमात्रेऽपि तस्मात् स्थास्नुषु भण्यते' इति च॥19॥ ‘तिरश्चीनाः स्थावराश्च अन्तःस्पर्शा इतीरिताः। यतः प्रत्यक्षानुमाभ्यां हृद्भज्ञानं न शास्त्रतः' इति पाझे। यदप्रयत्नाद्धृदयङ्गमं तदेव जानन्ति नो शास्त्रयुक्तिभ्यामित्यर्थः॥ अष्टाविंशद्विशेषेण यज्ञेषुपकृतं यतः॥ तिरश्चां तावदेतस्माद्गण्यते शास्त्रवेदिभिः॥20॥ गौरजो महिषः कृष्णः सूकरो गवयो रुरुः। अव्युष्टौ च खराश्वौ च तथैवाश्वतरोऽपरः। गौरश्च शरभश्चैव चमरी श्वसृगालको। वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ।


कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथा' इति ब्रह्माण्डे। कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्वप्रदर्शनार्थं पृथगुक्तः। 'तत्तदाकारसंयुक्तान् सृज्यान् स्रष्टारमेव च।


Page 139


यः सदा संस्मरेद्योगी न स भूयोऽभिजायते' इति स्कान्दवचनात् प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थं तदुक्तिः। ‘उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित्।


अप्रसिद्धज्ञापनार्थ द्विधा शास्त्रवचः स्मृतम्' इति षाड्ण्ये। ‘वल्लूरो नृत्तपक्षी च सललूकश्च कथ्यते' इत्यभिधाने॥21 - 24॥ ‘अष्टाविंशत्प्रधानास्तुतिरश्चां यास्तु जातयः। यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत्। जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः। तेषां जलप्रदानत्वाच्छरीरस्य तु सर्वशः इति सत्यसंहितायाम्॥20॥ ‘रजोनिष्ठास्तमोनिष्ठाद्वेधाऽर्वाक्स्रोतसः स्मृताः।


असुराद्यास्तमोनिष्ठामानुषास्तु रजोऽधिकाः' इति व्योमसंहितायाम्। दुःखे च सुखमानिनोऽसुराः। ‘सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी' इति वचनात्। ‘सुखे सुखैकभावास्तु देवा नैवं तु दानवाः' इति षाड्ण्ये॥25॥ ‘कुमारन्तीति कौमारो देवानामण्डजोद्भवः। वैकारिकाणां जननात् प्राकृतो वैकृतश्च सः। वैकारिकेष्वेवान्येषामीषद्भोगत्वहेतुतः। उभयात्मकत्वेनैवैते प्रोच्यन्तेऽष्टगणा अपि' इति च ॥ देवसर्गश्चेति चकारार्थः उभयात्मक इति वैकारिकस्तु देवसर्गः प्राकृतत्वेनोक्तः॥26॥


Page 140


प्रोक्ता अष्टविधा देवा विबुधाः सर्व एव तु। पितृणां शतमेवात्र असुरस्त्रिंशदेव च।


गन्धर्वाप्सरसां चैव विशतं परिकीर्तितम्। सप्ततिर्यक्षरक्षस्सुत्रिंशच्चारणजातिषु। शतं सिद्धास्तथान्यासु सप्ततिः सर्वजातिषु। ऊर्ध्वस्रोतस इत्येव अन्येऽर्वाक्स्रोतसः स्मृताः। वैकारिकेषु देवेषु एते वै मुख्यभोगिनः।


अभोगिनस्तदन्ये च देवा एते ततः स्मृताः। सर्वज्ञस्ते सहाराध्या भक्तास्तेष्वन्तरेव च। नृत्तगानादिकर्तारो वाहनादिकृतस्तथा। सिद्धसिद्धेतिवक्तारश्चाराश्चैषां क्वचित् क्वचित्। सेनाकार इति ह्येतैर्भदैरष्टविधा मताः। अन्ये तु ये च सर्वज्ञा विबुधास्ते प्रकीर्तिताः। तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गताः' इति तत्त्वविवेके।


‘यदि देवायो दोषाज्जायेरन्मानुषादिषु।। तथापि देवा विज्ञेया असुराद्यास्तथा ध्रुवम्' इति च॥27, 28॥ अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च। एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः। सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना॥29॥ 'गुणाप्लुतो हरिर्नित्यं गुणानां मध्यगो यतः।


Page 141


अनहंवेदनात् तस्य गुणासंस्पर्श एव च' इति च ॥ ‘सृष्ट्वादेवादिदेहान् स आत्मानां बहुधाऽकरोत्।। तन्नियन्तृतयाऽऽत्मानं प्रकृतिं देहभेदतः' इति नारदीये। ‘कर्ता च करणं चैव कर्म चैव स्वयं हरिः।


आत्मनो बहुधाभावे प्रकृतेस्तुस्वतन्त्रता' इत्याग्नेये॥29॥


॥ इति तृतीयस्कन्धतात्पर्ये एकादशोऽध्यायः ॥ 3-11 ॥


यः ॥ 3-12॥


मैत्रेय उवाच :


चरमस्तु विशेषाणामनेकांसयुतः सदा। परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ 1 ॥ कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति। ‘मनुष्या देवलोकेऽपि विशेषेणैव दर्शने।


अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः। चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा। परमाणुः स विज्ञेयः कणादाद्या निरंशिनम्। अनन्तांशयुतत्वेऽपि यं ब्रूयन्तिदर्शनात्। ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि। अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुता' इति तत्त्वविवेके। अनेकांशैरा समन्ताद्युतः॥1॥ सत एव पदार्थस्य स्वरूपावस्थितस्य यत्।


Page 142


कैवल्यं परममहानविशेषो निरन्तरः॥2॥ कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव। सच्चब्दोऽन्यत्राप्युपचारतो भवतीत्यतः पदार्थस्येति। सत्पदस्य यो मुख्याभिधेयस्तस्य। ‘मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते।


अमुख्येष्वर्थशब्दस्तु नीचोपरिहितो भवेत्' इति ब्रह्मत। ‘यद्वेव समः प्लषिणा' इत्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति। जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्वमित्यतः कैवल्यमिति। तत्रापि बहुविधानि तस्य रूपाणि सन्तीत्यविशेष इति। सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति। परब्रह्मणो यः केवलो भावः। अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरषादिरूपान्तरं तदेकदेशं प्रादेशत्वादिविशेषं च विना यत् सर्वगतं रूपं तदेव परममहान्। ‘कालकोटिवहीनत्वं कालानन्त्यं विदुर्बुधाः। देशकोटिविहीनत्वं देशानन्त्यं तथैव च। गुणानामप्रयेत्वं वत्स्वानन्त्यं विदो विदुः।


आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित्। तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम्। तथाऽपि देशतस्तस्य परिच्छेदोऽपि विद्यते। परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते। तस्याचिन्त्याद्भुतैश्वर्यायवहारार्थमेव च। गुणतः कालतश्चैव परिच्छेदो न कुत्रचित्। व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि। न च भेदः क्वचित् तेषामणुमात्रोऽपि विद्यते।


Page 143


तथाऽपि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः। तस्माद्यवतारार्थमव्याप्तत्वं च भण्यते। यत् तस्य व्यापकं रूपं परं नारायणाभिधम्। शून्यं ब्रह्मेति तत् प्राहुद्वितीयं स्रष्टु यत् ततः। परमः पुरुषो नाम मितं तद्देशतो विभोः। तृतीयं वासुदेवाख्यं जगदावरकं मितम्।। देशतो जगदाविष्टं तुरीयं विष्णुनामकम्' इति ब्रह्मतकै॥ सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दान्तिकान्तर्भावात् तदन्यस्मिन्नवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम्।


'देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम्। उच्यतेऽनन्यगं यस्मादात्मवत् सा हरेर्विभोः। महदादिकतं यत् तु तदन्यगतमुच्यते' इति ब्रह्मतर्के॥2॥


एवं कालोऽप्यनुमितः सौक्ष्ये स्थौल्येच सत्तम। संस्थानभुक्त्यां भगवानव्यक्त व्यक्तभुग्विभुः ॥3॥


|


छ,


स कालः परमाणुर्वै यो भुङ्गे परमाणुताम्।


सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥4॥ अनुमितः शास्त्रलोकानुसारेण ज्ञातः। ‘अनुमेति द्वयं प्राहुर्यथाज्ञानं तु लिङ्गजम्' इत्यभिधानम्॥ ‘यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत्।


Page 144


महाप्राज्ञो देवजूकः स कालः परमाणुकः।। सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि। तथैव परमाण्वादिविशेषात्माऽपि नो भवेत्। पूर्वापरादिभेदो न स कालः परमो महान्' इति ब्रह्मतकै॥ स्वरूपावस्थितस्य कैवल्यं, अविशेषो, निरन्तरः , इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि। ‘देशतः कालतश्चैव वस्तुतःचत्रिधा हरेः। यथाऽऽनन्त्यं न चान्यस्य प्रकृतेर्देशकालतः। तथा शब्दस्य कालस्य देशानन्त्यं च कालतः। कालशब्दात्मिका सैव तथाऽपि तु हरेः सदा। नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि। ज्ञेयस्तदवरो वायुः शषवीन्द्रहास्ततः। अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः' इति ब्रह्मवैवर्ते॥ ‘अण्वादिकालसंस्थानभोक्तृत्वात् परमेश्वरः।


अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते' इति च ॥ सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्मभुझे। तदपि ब्रह्म परममहान्। तस्यापि त्रिधा परिच्छेदाभावात्। ‘सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्तृवत्। स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः' इति ब्रह्मतकै॥3, 4॥


अणु परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः।


Page 145


जालार्कश्म्यवगतः खमेवानुफ्तन्नगात् ॥5॥


अगात्॥5॥


लधूनि वै समाम्नाता दश पञ्च च नाङिका। ते द्वे मुहूर्त प्रहरः षड्यामः सप्त वा नृणाम् ॥8॥ राशिभेदात्। ऊनातिरेकात् सप्तवेति॥8॥


द्वादशार्धपोन्मानं चतुर्भिश्चतुरङ्गुलैः। स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थं जलं पिबेत् ॥9॥ ‘काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते। कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम्। चतुरङ्गुलदीर्घ तु कृते माषचतुष्टये। यावत् स्यात् परिणाहेन तावत् द्वरं विधीयते। प्रस्थस्य नाडीपात्रस्य षड् दलस्य शुभे जले। भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति।


अतिशैत्ये कलङ्के च मान्छे नैव तु पूरणम्। तस्माद्वसन्तकाले तु प्रायागस्थोदकेन तु।। नाडीशुद्धिपरिक्षा स्यादन्यथा न समं भवेत् इति पाझे॥ 'निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा। प्रवाहगेन कार्या स्यात् कालशुद्धिः सदैव तु' इति ब्रह्माण्डे॥9॥


यमाश्चत्वारश्चत्वारो मनामहनी उभे।


Page 146


पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥10॥ 'यत्रोभयोः स शब्दः स्यात् तत्र द्विवचनेऽप्युभे' इत्यभिधानम्॥10॥


ग्रहझैताराचक्रस्थः परमाण्वादिना जगत्। संवत्सरावसानेन फ्यॆल्यनिमिष विभुः ॥13॥


संवत्सरः पस्वित्सर इङावत्सर एव च। अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते॥14॥ 'इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः। तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः। वत्सरो यः स्थितस्त्वह्रां षष्ट्युत्तरशतत्रये। गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः। सौरद्वादशके मासे यः स्थः संवत्सरो हरिः। एवं स कालनामाऽपि कालस्थः परमेश्वरः' इति ब्रह्मतकै॥ ‘सर्वदा दर्शनात् तस्यानिमिषत्वं विदुर्बुधाः। सततं गमनाद्वाऽपि कालस्थस्य महात्मनः' इति च ॥13, 14॥



यः सृज्यशक्तिमुरुधोच्छ्सयन् स्वशक्त्या पुंसोऽभ्रमाय दिविं धावति भूतभेदः। कालाख्यया गुणमय क्रतुभिर्वितन्वन् तस्मै बलिं हरत वत्सरपञ्चकाय॥15॥ अभ्रमाया भूतभेदकः। क्रतुभिः स्वप्रज्ञाभिः।


Page 147


‘भूतानां च्यैष्ठ्यकानिठ्यज्ञप्त्यैयज्ञादिवृत्तये। बोधयन् सृज्यशक्तिं च कालस्थो वर्तते हरिः इति तन्त्रप्रकाशिकायाम्॥15॥ निशाक्सान आरब्धो लोककल्पोऽनुवर्तते। यावद्दिनं भगवत मनून् भुजंश्चतुर्दश ॥23॥ दिनस्थो भगवान् भोक्ता॥23॥


स्वं स्वं कालं मनुर्मुझे साधिकामेकसप्ततिम्। मन्वन्तरेषु मनवस्तद्वेश्या ऋषयः सुराः। भवन्ति चैते युगपत् सुरेशाश्चानु ये च तान्॥24॥ ‘युगैकसप्ततेरू सार्धाष्टादशलक्षणम्। वत्सराणां मनोभुक्तिः सहस्रं चतुरुत्तरम्। शतानां प्रलयश्चैव पञ्चोत्तरमथापि च।


आद्येषु षट्स प्रथमे द्विसहस्रं प्रकीर्तितम्। वत्सराणां मनोरन्तमेवमिन्द्रादिनां भवेत्’ इति महावाराहे॥24॥ तममात्रामुपादाय प्रतिसंरुद्धविक्रमः। कालेनानुगतः शेष आस्ते तूष्णीं दिनात्यये ॥27॥ ‘ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि' इति ब्राह्मे॥27॥


एवंविधैरहोरात्रैः कालगत्योफ्लक्षितैः।


Page 148


अपेक्षितमिवास्यापि परमायुर्वयः शतम् ॥32॥ अस्य ब्रह्मणः। ‘ब्रह्मणो दिनम्' इत्युक्तत्वात्


‘नायुर्मानं भगवतः कस्मिन् रूपेऽपि विद्यते।


अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः' इति हरिवंशेषु॥32॥


कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते।


अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥37॥


कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईरितः। नैवेष्टे स प्रभुर्भम्र ईश्वरो धाम मानिनाम् ॥38॥ ‘यमः कालो मानुष्याणां तस्य कालः सुदर्शनः। तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु। सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी। संहरन्ती सदा लोकान् सैव ब्रह्मादिषु स्थिता। तस्या नियामको विष्णुः परः कालः स उच्यते। कालाभिमानिनी सैव प्रभुर्न जगदीशितुः। तस्याः प्रभुः स एवैको विष्णुः सर्वेश्वरेश्वरः' इति च॥38॥


विकारैः षोडशैर्युक्तो विशेषादिभिरावृतः।


आण्ङकोशो बहिस्यं पञ्चाशत्कोटिविस्तृतः ॥39॥


बुशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत्।


Page 149


लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ।। 40॥ ‘दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु। विकारा इति विज्ञेया भूताहंमहतः परे' इति च ॥ ‘पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः। सा सूक्ष्मात्वादृणोत्यण्डं द्विगुणा तु दशोत्तराः। अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृताः' इति च। अन्तर्गताः शरीराणि।। ‘शरीराणां बहुत्वेन अतीतानागतैस्तथा। अस्यैव देवकायेषु प्रतिप्रति च दर्शनात्। विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा क्वचित्' इति ब्रह्मतर्के। ‘एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम्। ब्रह्माऽपश्यत् तथाऽऽत्मानं हरेस्तेषु पृथक् पृथक्' इति ब्रह्माण्डे॥ ‘बृहदण्डमभूकम्' इति च भारते॥39, 40॥


यमाहुरक्षरं ब्रह्म सर्वकारणकारणम्। विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ।। 41 ।। धाम गृहमण्डराशयः॥41॥


॥ इति तृतीयस्कन्धतात्पर्ये द्वादशोऽध्यायः ॥ 3-12॥


||


| ॥त्रयोदशोऽध्यायः ॥ 3 - 13 ॥


Page 150


ससर्जाग्रेऽथ तामिस्रमन्धतामिस्रमादिकृत्। महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥2॥ ‘तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः। तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते। मरणं त्वन्धतामिस्रमविद्या पञ्चपर्विका' इति भारते॥ ‘तमोऽज्ञता विपर्यासो मोहोऽन्ये तु तदाग्रहाः इति हरिवंशेषु॥2॥ दृष्ट्वा पापीयस सृष्टिं नात्मानं बह्वमन्यत।


भगक्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥3॥


सनकं च सनंदं च सनातनमथात्मभूः। सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ।। 4 । ‘कालतो बलतश्चैव ज्ञानानन्दादिकैरपि।


सर्वैर्गुणैर्विष्णुरेव श्रेष्ठस्तदवमा रमा। अनन्तांशेन कालात् तु समा तस्याश्चतुर्मुखः। अवरो बहुलांशेन तत्समो वायुरुच्यते। नियमाद्वायुरेवैको ब्रह्मत्वं याति नापरः। तस्मात् समानता मुक्तौ वायुत्वे किञ्चिदूनता। दशवर्ष तु तत्पश्चाज्जननं तत्स्त्रियोरपि।


आनन्दादिस्तद्दशांशः कालः संवत्सरात् परः।


Page 151


यावत् पश्चाज्ञनिस्तावत् पूर्वं देहक्षयो भवेत्। ब्रह्मवाय्वोस्तु ये देव्यौ तद्दशांशः सुखादिकः। शेषस्य गरुडस्यापि कालो दिव्यसहस्रकः। शेषरुद्रौ ब्रह्मवायू यथा तद्वत् परस्परम्। तद्देव्यस्तद्दशांशाः स्युस्ततस्त्विन्द्रादयो मताः। एवं मुक्तौ च पूर्वं च नान्यथा क्वचिदिष्यते।


अन्यतोक्तिर्यत्र च स्यात् तन्मोहार्थं भविष्यति। पूर्वापरविपर्यासो बहुरूपत्वहेतुतः ॥ इति विष्णुकृततत्वविवेके॥ ‘अथात आनन्दस्य मीमांसा'।


‘देवासुरेभ्यो मघवान् प्रधानः' इत्यादि च। ‘इन्द्राद्याः सनकाद्याश्च दक्षाद्या येऽपि चापरे।


ऋषयो मनवो देवास्तद्वशा ये च केचन। उमाया अवराः सर्वे गुणैः सर्वैर्न संशयः। तत्समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा। ऋते हरिं ब्रह्मवायू शेषवींद्रान् सभार्यकान्। शङ्करं चेति वेत्तव्यमन्यन्मोहार्थमुच्यते' इति विष्णुकृततत्त्वनिर्णये॥ स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन्। प्रजापतिपतिस्तन्वीं तत्याज वीडितस्तदा। तां विंशो जगूहुर्घोरां नीहारं यहिंदुस्तमः ॥33॥


Page 152


‘यां तत्याज विभुर्ब्रह्मामानुषी वाक सा स्मृता।


सरस्वती निजा भार्या दैवीं वाचं तु तां विदुः' इति च॥33॥


ऋग्यजुःसामाथवख्यान वेदान् पूर्वादिभिर्मुखैः। शस्त्रमिंज्या स्तुतिः स्तोमः प्रायश्चित्तं यथाक्रमात् ॥ 37॥


‘अभिमानिनः शब्दतश्च ब्रह्मा वेदान् ससर्ज है। यज्ञादींश्चक्लपे वाचा तथा सर्वाभिमानिनः॥37॥


इतिहासपुराणं च पञ्चमं वेदमीश्वरः। सर्वेभ्य एव वक्रेभ्यः ससृजे सर्वदर्शनः ॥39॥


‘इतिहासपुराणे तु श्रुत्वा हरिमुखात् स्वयम्। भारतादीन् विना पश्चाद्धरिणाऽन्यैश्च निर्मितान्' इति ॥39॥


सावित्रं प्राजापत्यं च ब्राह्म चाथ बृहत् तथा। वार्ताऽसञ्चयशालीनं शिलञ्च इति वै गृहे ॥42॥ ‘प्राजापत्यं ब्रह्मचर्यमेकभार्यार्तुगामिता' इति व्याससृतौ॥ ‘वार्ता यायावरं ज्ञेयमेकाहित्वमसञ्चयः' इति च॥42॥


|


"


वैखानसा वालखिल्योदुम्बराः फेनपा वने। न्यासे कुठीचकः पूर्वं बहूदो हंसनिष्क्रियौ ।। 43 ॥ 'वैखानसा मूलभक्षाः फलभक्षा उदुम्बराः।


Page 153


वालखिल्याः सर्वभक्षाः फेनपा वत्सफेनपाः' इति च॥43॥


आन्वीक्षिकी त्रयीं वार्ता दण्डनीतिस्तथैव च। एवं ब्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ 44 ॥ ‘आन्वीक्षकी तन्त्रविद्या सा च वेदानुसारिणी। विष्णुप्रोक्ताशिवायुक्ताज्ञेया वेदबहिष्कृता। दण्डनीती राजधर्मस्त्रयी वेदाः प्रकीर्तिताः। वार्ता वाणिज्यकादिः स्यादेताभिर्यत् तु जीवनम्। तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरा' इति च। प्रणवः पूर्ववक्रात्। ‘प्रणवः पूर्ववक्रेण भूराद्याश्च मुखत्रयात्।। प्रदक्षिणमवर्तन्त वेदाश्चैवाश्रमास्तथा' इति ब्राह्मे॥44॥


.


स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः। उष्माण इन्द्रियाण्याहुरन्तस्थाबलमात्मनः ।। 46॥ ‘स्पर्शास्तस्याभवन् जीवात् स्वरा देहादु प्रजज्ञिरे।


ऊष्माण इन्द्रियेभ्यश्च अन्तस्थाबलतो विभोः' इति च॥ ‘यस्माद्यज्जायते चाङ्गात् तत् तदङ्गाभिधं भवेत्' इति च ॥ 46॥


स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः।


शब्दब्रह्मात्मनस्तात ब्यक्ताव्यक्ताल्मनः प्रभोः ॥ 47॥ ‘शब्दब्रह्मात्मको ब्रह्मा सर्वशब्दाभिधो यतः।


Page 154


ऋते नारायणादीनि नाम्नां स विषयो यतः। व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि च। तब्यापकत्वाद्वह्मातु व्यक्ताव्यक्तात्मकः स्मृतः' इति च॥47॥


ऋषीणां भूरिवीर्याणामपिं सर्गमविस्तृतम्। ज्ञात्वा तद्धये भूयश्चिन्तयामास कौस्व ॥ 49॥ ‘ऋषीणां भूरवीर्याणाम्' इति सिंहावलोकनम्।। “यत्र पश्चात्तनः श्रेष्ठस्तत्र सिंहावलोकनम्' इति ब्रह्मतकै॥49॥


एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा। कस्य रूपमभूद्वेधा यत्कायमभिचक्षते॥51 ॥ केन व्याप्तत्वात् कायः ॥51॥


॥इति तृतीयस्कन्धतात्पर्ये त्रयोदशोऽध्यायः ॥ 3-13॥


॥ चतुर्दशोऽध्यायः ॥ 3-14॥



तद् विधेहि नमस्तुभ्यं कर्मस्विज्यात्मशक्तिंषु। यत् कृत्वेह यशो विष्वगमुत्र च भवेद् मतिः ॥8॥ इज्या – पूजा।





स्वदंष्ट्रयोद्धृत्य महीं विलग्नां स उत्थितः संरुरुहे रसायाः। तत्रापि दैत्यं गयाऽऽपतन्तं सुनाभसन्दीपिततीवमन्युः ॥33॥


Page 155


जघान रुन्धानमसह्यविक्रमः सलीलयेभं मृगराङिवाम्भसि। तद्भक्तपङ्काङ्किततुण्ङगण्डो यथा गजेन्द्र जगतीं विभिन्दन्। 34॥ ‘ब्रह्मजस्तु हिरण्याक्षः प्रथमं दंष्ट्रया हतः। स एव पार्षदाविष्टो द्वितीयः कर्णताडनात्। पूर्वं लयोदके मग्नां द्वितीयं तेन मज्जिताम्। भुवमुद्धरतैवासौ हरिणा क्रोडरूपिणा' इति ब्रह्माण्डे॥ ‘व्यत्यासेनापि चोच्यन्ते अविवेकेन कुत्रचित्। दुष्टानां मोहनार्थाय तत्र तत्र कथाः क्वचित्' इति स्कान्दे॥


अविवेकेनेत्यस्य विविच्य नोच्यत इत्यर्थः। न तु कर्तुरविवेकः। ‘सर्वज्ञस्य कुतोऽज्ञानं व्यासस्योदारकर्मणः' इत्युक्तत्वात्। ‘दुष्टानां मोहनार्थाय' इति च॥33, 34॥


॥ इति तृतीयस्कन्धतात्पर्ये चतुर्दशोऽध्यायः ॥ 3-14॥


॥ पञ्चदशोऽध्यायः ॥ 3 - 15॥


ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च मायया।


आज्ञाकरिं तस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् ॥28॥ ‘पिशाचचर्यामचरद्रो विष्ण्वाज्ञयैव तु। गर्भिणीवधनोदार्थमहो विष्णुर्विडम्बकृत्' इति वाराहे॥28॥


मैत्रेय उवाच :


श्रुत्वा भागवतं पौत्रममदत दितिभृशम्।


Page 156


पुत्रयोश्च वधं कुष्णाद्विदित्वाऽऽसीन्महामनाः ॥50॥ 'विष्णुहस्तवधालोको भक्तस्यान्यस्य न क्वचित्। तथाऽप्यसुरमोहाय न विविक्तं क्वचित् क्वचित्' इति स्कान्दे॥ ‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः' इति च॥43, 44॥ ‘स्वतः सद्गतियोग्यस्य पुत्रादेर्हेतुता भवेत्। योग्यताऽनादिभक्तिः स्यादयोग्यस्य कुतो गतिः' इति ब्रह्मत॥45॥


॥ इति तृतीयस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥ 3-15॥


॥ षोडशोऽध्यायः ॥ 3-16॥


वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः। ये नित्यमनिमित्तेन धर्मेणाराधयन् हरिंम् ॥14॥ अनिमित्तेन - विष्णवर्पितेन॥14॥


वैमानिकाः सललनाश्चरितानि यत्र गायन्ति लोकशमलक्षपणानि भर्तुः।


अन्तर्जले तु विकसन्मधुमाधवीनां गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ 17 ‘मुक्ताश्चैवाधिकारस्थाद्वेधा वैकुण्ठलोकगाः।।


अमुक्तानां भ्रमः क्वापि न मुक्तानां क्वचिद्भवेत्' इति भविष्यत्पुराणे। ‘कृष्णात्मनां न रजः आदधुः' इति च॥17॥


पारावतान्यभृतसारसचक्रवाकनत्यूहहंसशुकतित्तिस्बिर्हिभिस्तत्। कोलाहले विरचिते चिरमात्रयोचैभृङ्गाधिपे हरिकथामनुगायमाने॥18॥


|


"





Page 157


‘तिरश्चीनाः स्थावराश्च सर्वे ज्ञानाद्विकुण्ठगाः।


अमुक्ता मुक्तिमायान्ति नियमात् कर्मणः क्षये' इति च ॥18॥


मन्दारकुन्दकुरवोत्पलचम्पकोर्णफुन्नागनामबकुलाम्बुजपारिजाताः। गन्धेऽर्चिते तुलसिंकाभरणेन तस्या यस्मिंस्तपः सुमनसो बहु मानयन्ति॥19॥ भक्तैरर्चिते सति भगवता तुलसिकाभारणे कृते तस्या गन्धार्थं तपो बहु मानयन्ति॥19॥


यन्न व्रजन्त्यघभिंदोऽरचनानुवादाः शृण्वन्ति येऽन्यविफ्याः कुकथा मतिप्नीः यास्तु श्रुता हतभगैर्नुभिरात्तवीर्यास्तांस्तान् क्षिपन्त्यशरणेषु तमस्सु


हन्त ॥23॥


अरचनानुवादाः॥23॥


येऽभ्यर्थितामपि च न नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्म यत्र।


नाराधनं भगक्तो वितरन्त्यमुष्य सम्मोहिता विततया ननु मायया ते॥24॥ ये नृगतिं ज्ञानादियोग्यां न प्रपन्नाः ते मोहाद्भगवदाराधनं न कुर्वन्ति। धर्मज्ञानवर्जिता मानुषा एव न भवन्तीत्यर्थः॥24॥


मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयाऽसितचतुष्टयबाहुमध्ये। वक्रे भुवा कुटिंलया स्फुटनिंर्गतेन रक्तेक्षणेन च मनाम् रभसं दधानौ ॥28॥ वक्रस्थया भुवा सह निर्गतेन॥28॥


तान् विक्ष्य वातरशनाश्चतुरः कुमारान् वृद्धान् दशार्धवयस विदितात्मतत्त्वान्। वेत्रेण चास्खलयतामतदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥30॥


Page 158


‘जयस्य विजयस्यापि कदाचिद्बह्मशापतः। कृष्णावतारपर्यन्तं प्रातिकूल्यं च जायते' इति नारदीये॥30॥


को वा इहैत्य भगवत्परिचर्ययोच्चैस्तद्धर्मिणामपि सतां विषमस्वभावः। तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां को वाऽऽत्मवत्कुहकयोः परिंशङ्कनीयः ॥ युवयोर्यथा विरुद्धस्वभावत्वं तद्वद्भगवद्विषय इह शङ्कनीयः कः?तस्मान्निषेधो व्यर्थः इत्यर्थः॥32॥


न ह्यन्तरं भगवतीह समस्तकुक्षावात्मानमात्मनि नभो नभसीव धीराः। पश्यन्ति यत्र युक्योः सुरलिङ्गिनोंः किं व्युत्पादितं खुदरभेदि भयं यतोऽस्य। समस्तकुक्षौ स्थिते भगवति नहि भेदः। अस्मिंल्लोके। अन्तस्थं भगवदूपं बहिष्ठेक्येन पश्यन्ति नभो नभसीव। तत्र प्रत्युदरभेदनिमित्तं भयं युवाभ्यां व्युत्पादितं किम्। सर्वान्तर्यामित्वेनाभयस्य भयमस्तीति भावः कृतः।अन्यथा किमिति निवारणम्। ‘सर्वोदरगतं ब्रह्म ये भेदेन विचक्षते। सर्वत्रापिभयं तेषां मृतानां तम एव च' इति तत्त्वविवेके॥33॥


तद्वा अमुष्य परमस्य विकुण्ठभर्तुः कर्तुं न युक्तमिति धीमहि मन्दधीभ्याम् । लोकानित व्रजतमन्तभावदृष्ट्या पापीयसस्त्रय इमे रिपोऽस्य यत्र ॥34॥ त्रयोऽपि रिपवो देहत्रये॥34॥


भूयानधाद्धि भगवद्भरकारि दण्ङो यो नौ हरेत सुरहेलनमप्यशेषम्। मा वोऽनुतापकलया भगक्त्स्मृ तिघ्रो मोहो भवेदिह तु नौ व्रजतौरधोऽधः ॥36॥ सुरहेलनस्यापि दण्डो भवति। अत्र स्थितयोः पुनः पूर्ववन्मोहो न स्यादंशांशिनोः॥36॥


Page 159


तं त्वागतं प्रतिहृतौपयिंकं स्वपुम्भस्तेचक्षताक्षविषयं स्वसमाधिगम्यम्। हंसश्रियोजनयोः शिवायुलोलशुभ्रातफ्त्रशशिकेसरशीकराम्बुम्॥38॥


केसराः - रश्मयः॥38॥


कुत्नप्रसादसुमुखं स्पृहणीयधामस्नेहाक्लोककलया हृदि संस्पृशन्तम्। श्यामे पृथावुरसिं शोभितया श्रिया स्वग्रीवामणिं सुभगयन्तमिवात्मधिष्ण्यम्॥ कौस्तुभो ब्रह्मणो रूपं प्राणचूडामणिस्तथा' इति च ॥39॥


अत्रोपसृष्टमिति चोत्सृतमिन्दिरायाः स्वानां धिया विरचितं बहुसौष्ठवाळ्यम्। मह्यं भवस्य भक्तां च भजन्तमङ्गं नेमुनरीक्ष्य न वितृप्तशो मुदा कैः ॥ ‘अविद्यमानकरणं विद्यमानस्मृतिस्तथा।। उभयं रचनं प्रोक्तं पूर्वसिद्धेषु तु स्मृतिः' इति शब्दनिर्णये॥42॥


तस्यारविन्द नयनस्य पदारविन्दकिंञ्जल्कमिश्रतुलसीमकरन्दवायुः ।


अन्तर्गतः स्वविवरेण चकार तेषां सङ्घोभमक्षस्जुषामपि चिंत्ततन्वोः ॥43॥ अक्षरजुषामपि - तद्रूपसेवाभ्यासिनामपि॥43॥


नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किं चान्यदर्पितभयं ध्रुव उन्नयैस्ते। येऽङ्ग त्वदङ्घिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ 48 भक्तिज्ञानपरीपाकात् किञ्चित् पूर्वं च मुच्यते। दर्शनेन हरेस्तत्र नानन्दः पूर्णतां व्रजेत्' इति ब्रह्मतर्के। अतोऽनपेक्षाणामानन्दोद्रेको मोक्षेच्छुभ्यः। तेषां परिपाकतः पूर्वं ब्रह्मदृष्ट्या मुक्तिप्राप्तेः। ‘मुमुक्षोः केवलो भक्तो मुक्तावपि सुखी भवेत्' इति च॥48॥


Page 160


कामं व्रजेम वृजिनैर्निस्येषु नष्टाश्चेतोऽलिंवद्यदि नु ते पदयो मेत। वाचश्च नस्तुलसिंवद्यदिं तेऽङ्घिशोभाः पूर्यंत ते गुणगणैर्यदि कर्णरन्ध्रः ।। 49॥ ‘यावत् परमभक्तैस्तु भुज्यते दुःखमुल्बणम्। तवान्मुक्तौ सुखोद्रेकस्तत्र चेद्भक्तिवर्धनम्' इति च॥49॥


॥ इति तृतीयस्कन्धतात्पर्ये षोडशोऽध्यायः ॥ 3-16॥


॥ सप्तदशोऽध्यायः ॥ 3-17 ॥


यस्यामृतामलयशः श्रवणावगाहः सद्यः पुनाति जगदीश्वफ्वं विकुण्ठः। सोऽहं भक्य उपलब्धसुतीर्थकीर्तिश्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥6॥ 'सर्वोत्तमोऽपि भगवान् विप्रादेः पूजनाय तु। गुणलब्धिं ततो ब्रूते नित्यपूर्णगुणोऽपि सन्। ब्रूयुश्चान्ये क्वचित् तत् तु तदुक्तेरनुसारतः। उपादत्ते वरांश्चापि लोकानां मोहनाय च' इति कौमैं॥6॥


यत्सेक्या चरणपद्मपवित्ररेणोः सद्यः क्षताखिलमलं प्रतिलब्धशीलम्। न श्रीर्विरक्तमपिं मां विंजहातिं यस्याः प्रेक्षालवार्थमितरन्नियमोऽर्हते मत् विप्राणां चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलं श्रीर्न जहातीति यत्। अतश्चिन्द्याम्। ‘अनुक्ताश्च गुणा विष्णोरुक्तादोषा न तस्य तु।


आज्ञानाद्दोषविज्ञानं गुणज्ञानं यथार्थतः' इति पैङ्गीश्रुतिः॥


Page 161


‘विप्राणां चापि भक्तानामन्येषां च जनार्दनः। ब्रह्मणः शङ्कराद्वाऽपि देवताभ्यस्तथैव च।


आत्मनश्चश्रियश्चैव सकाशात् प्रियतामपि। पूज्यतामत्ययुक्तं च वदेत् क्वापि विमोहयन्' इति स्कान्दे॥7॥ ब्रह्मोवाच -


अथ तस्यशर्ती देवीमृषिकुल्यां सरस्वतीम्।


आस्वाद्य मन्युष्टानां तेषामात्माऽप्यतृप्यत ॥13॥ देवीं - द्योतमानाम्। ऋषिकुल्यां - ऋषितुलस्तुतिपराम्॥13॥


ते योगमाययाऽरब्यपारमेष्ट्य महोदयम्। प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः कम्पितत्वचः ।। 15॥ ‘तद्रूविजृम्भः परमेष्ठिधिष्ण्यम्' इत्युक्तम्॥15॥


त्वत्तः सनातन धर्मो रक्ष्यते तनुभिस्तव। धर्मस्य परम गुह्यो निर्विकारी भवान् मतः ॥18॥ धर्मस्यापि दुइँयः॥18॥


यं वै विभूतिरुफ्यात्यनुवेलमन्यैस्र्थार्थिभिः स्वशिस्सा धृतपाणुः । धन्यार्पिताङ्तुिळसीनवदामधाम्नो लोकं मधुव्रतपतेरिव कामयाना ॥20॥ मधुव्रतपतेः सारग्राहिणां पतेः। अङ्स्थितुलसीलोकं स्थानमुरसिस्थाऽपि स्पर्धयेव कामयाना। ‘लब्ध्वाऽपि वक्षसि पदम्' इति च॥20॥


Page 162


यस्ता विविक्तचरतैरनुवर्तमानां नाल्याद्रियः परमभागक्तप्रसङ्गः। स त्वं द्विजानुपथपुण्यरजःपुनीतिः श्रीक्त्सलक्ष्म किंमगा भगभाजनत्वम्॥21॥ परमभागवतत्वेन तस्यामत्यादरः। न तु कामात्। ‘हरिर्भक्तिर्हरेः प्रीतिर्ज्ञानानन्दादयो गुणाः।


अधिकारे च मुक्तौ च ब्रह्मवाय्वोश्चतत्स्तियोः। शेषवीन्द्रहराणां च तत्स्त्रीणां वासवादिनाम्। यथाक्रमं तु विज्ञेया भूमौ कारणतोऽन्यथा। देहस्य लक्षणं चैव भूमावप्यन्यथा भवेत्। ब्रह्मादिषु क्रमेणैव नित्यं स्याद्देहलक्षणम्। श्रियोऽधिका गुणाः सर्वे सर्वेभ्यो नियमेन तु। उक्ताश्चैवाप्यनुक्ताश्च ततो विष्णोर्न संशयः' इति तत्त्वनिर्णये॥21॥


धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद्भिश्चराचरमिदं द्विजदेवतार्थम्। नूनं भृतं तदभिंघाति जस्तमश्च सत्त्वेन नौ वरदया तनुवा निरस्य ॥22॥ ‘धारणाद्भगवान् धर्मो यमनाद्यम उच्यते' इति शब्दनिर्णये। ‘अनन्तासनवैकुण्ठक्षीरसागरगैस्त्रिभिः। रक्षां करोति भगवान् कपिलः सत्ववर्धनात्।


असत्वोऽपि रजश्चैव तमश्चापि निरस्य तु' इति मूर्तिभेदे॥ ‘कपिलो वरदश्चैव विकलश्चेति कथ्यते' इति च। अतः सत्वस्य कारणत्वमात्रम्। कपिलो वरदा तनुः॥22॥


Page 163



न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृष स्वर्हणेन सुसूनुतेन। तर्खेव नङ्वाति शिवस्तव देव पन्था लोकोऽग्रहीष्यदृफ्भस्य हिं


यत्प्रमाणम्॥23॥ आत्मैव गोपो यस्य तदात्मगोपम्॥23॥


तत्तेऽनभीष्टमिव सत्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्धृतारेः । नैताक्ती त्र्यदिपतेर्बत विश्वभर्तुस्तेजः क्षतिस्त्ववनतस्य स ते विनोदः ॥24॥ ‘असुरा अप्रियाश्चापि नित्यानन्दान्नलोकवत्। निषेध्यबुद्धिविषयमप्रियं हि हरेर्मतम्' इति च। तस्मादनभीष्टमिव॥24॥ श्रीभमवानुवाच - एतौ सुरेतरगतिं प्रतिपय सद्यः संरम्भसम्भृतसमाध्यनुबयौगौ। भूयः सकाशमुफ्यास्यत आशु यो वः शापो मयैव विहितस्तद्वैतविप्राः ॥26 अन्तर्भक्ता बहिः क्रुद्धा हिरण्याद्या हरि प्रति। सर्वक्रुद्धाः शम्बराद्या अन्तः क्रोधवशास्तथा' इति च॥26॥


भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च। प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥28॥ ‘स्वरूपश्रीस्तथा भार्या द्वेधा श्रीस्तुहरेर्मता' इति च॥28॥


मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम्। प्रत्येष्यथः सकाशं मे कालेनापीयसा पुनः ॥31॥


Page 164


‘अन्तर्भक्ता बहिर्वैरा हिरण्याद्या हरेर्मताः। तत्र भक्त्याऽभवन् पूता द्वेष आवेशकान् गतः। ब्रह्मजा असुरा ये तु विष्णोः पार्षदान् गताः। बल्यादींश्च हरेषं ततः कृत्वा तमो गताः' इति च ॥ तस्मात् संरम्भो नीचफलः कथ्यत एव। भक्तियोग एव ब्रह्महेलननिस्तारकः॥31॥


॥ इति तृतीयस्कन्धतात्पर्ये सप्तदशोऽध्यायः ॥ 3-17॥


॥ अष्टादशोऽध्यायः ॥ 3-18॥


ववौं वायुः सुदुःस्पर्शः फाट् कारस्ववान् मुहुः। उन्मूलयन्नगपतीन् वात्यानीको जोध्वजः ॥5॥ ‘फाट् कारश्चैव पूत्कारस्तथा किलकिलादयः।


अनुकारशब्दाविज्ञेया ये चान्ये तादृशा मताः' इत्यभिधानम्॥5॥


अन्तर्घामेषु मुखतो वमन्तो वह्निमुल्बणम्। सुगाला अपि ठङ्कारैः प्रणेदुरशिवाः शिवाः ॥9॥ ठङ्काऽरोप्यनुकारशब्दः। सृगालास्तत्र पुमांसः॥ ‘नाशस्तत्र सृगालानां शिवानां चान्यथास्वरे' इत्याग्नेये ॥9॥


खरोष्ट्राः कर्कशैः क्षत्तः खुरैन्तो धरातलम्। खात्काररभसा मत्ताः फ्र्यधावन् वरूथशः ॥11॥ खात्कारोऽप्यनुकारशब्दः॥11॥


Page 165


तं वीक्ष्य दुस्सहजवं रणत्काञ्चननूपुरम्। वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम्॥21॥


है



मनवीर्यमदत्सितमधृष्यमकुतोभयम्। भीता निलिल्यिरे देवास्तार्थ्यत्रस्ता इवाहयः॥22॥ 'न देवानां प्रजापानां विजेता वरतो विना। बलेन विद्यया वाऽपि न समस्तत्पतीन् विना। वरोऽपि तादृशो यावच्छरीरं नान्यदेहगः इति तत्त्वनिर्णये॥21, 22॥


॥ इतिं तृतीयस्कन्धतात्पर्ये अष्टादशोऽध्यायः ॥ 3-18॥


यायः ॥ 3-19॥


तयोः स्पृधोस्तिग्मगदाहताङ्गयोः क्षतस्रवाघ्राणविवृद्ध्युयोः। विचित्रमार्गाश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मेधः ॥19॥


आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकास्महार्यविक्रमम्। विलक्ष्य दैत्यं भगवान् सहस्रणीर्जमाद नारायणमादिसूकरम् ॥


अनेकल्प जननेतृत्वात् सहस्रणीः॥19, 21॥ ‘अक्षतः क्षतवद्विष्णुरसमः समवत् तथा।


अजितो जितवच्चैव ज्ञोऽज्ञवच्च प्रकाशयेत्। सर्वरूपेष्वनन्तोऽपि ब्रह्माद्याश्चैव तन्मतेः।


Page 166


अनुसारितया ब्रूयुः कुर्युश्च न स दुःखभाक्' इति ब्रह्माण्डे॥21॥



एषा घोरतमा सन्ध्या लोकशम्बटू करी प्रभो। उपसर्पति सर्वात्मन् सुराणां जयमावह॥26॥ ‘आदरं तु मुखं विन्द्याच्छम्बट् कारन्तु भक्षणम्' इत्यभिधानम्॥26॥


अधुनैवाभिजिन्नाम योग मौहूर्तिकोऽभ्यमात्। शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तस्म् ॥27॥ ‘मध्याह्नस्त्वभिजित्प्रोक्त आषाढोत्तर एव च। श्रवणस्यापि पूर्वार्धे विषुवं चाभिजित्स्मृतम्' इति च॥28॥


॥ इति तृतीयस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥3-19॥


॥ किंशोध्यायः ॥ 3- 20 ॥


गदायामपविद्धायां हाहाकारे विनिर्गते। मानयामास तं धर्मं सुनाभं चास्मरद्विभुः ॥5॥ ‘धर्म सत्यमिति प्रोक्तो धर्मश्चापि हरेः प्रियः' इति ब्राह्मे॥ ‘यथेच्छयैव सर्वं तु मनसा देहतोऽपि वा।


कर्तुं शक्तोऽपि शस्त्राद्या लीलैवानन्तशक्तितः' इति वाराहे॥5॥


॥ इति तृतीयस्कन्धतात्पर्ये विंशोऽद्यायः ॥3 - 20 ।।


॥एककिंशोऽध्यायः ॥ 3 - 21 ॥


Page 167


दैवेन दुर्वितर्येण परेणानिमिषेण च। जातक्षोभाद्भगवत महानासीद्गुणत्रयात् ॥12॥ 'सृष्टौलये तारतम्यं देवानां ज्ञायते स्फुटम्। तारतम्यपरिज्ञाने महातात्पर्यमिष्यते।


अतस्तद्वहुशस्तूक्तमन्यच्चैतत्प्रकाशकम्' इति वामने। ‘महतो ब्रह्मवायू च तद्भार्ये चाभिमानिनः।


अहमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतत्स्त्रियः। मनसस्त्वनिरुद्धश्च चन्द्रश्चान्ये यथोदितम्। एवं क्रमो व्यत्ययस्तु सूक्ष्मस्थूलविभेदतः। सृष्टौ गुणे च ज्ञानादौ मुक्तिस्थे वाऽप्ययं क्रमः। नियमेनान्यथोक्तिस्तुमोहायासुरजन्मनाम्' इति वाराहे॥


सोऽशयिष्टाधिसलिल आण्डकोशो निराल्मकः। साग्रं वै वर्षसाहस्रमन्ववात्सीत् तमीश्वरः ॥15॥


निरात्मकः न व्यक्तस्तत्रात्मा ॥12,15॥


सोऽनुविष्टो भगवता यः शेते सलिलाशये। लोकसंस्था यथापूर्वं निर्ममे संस्थया स्वया ॥17॥ संस्थया स्वया भगवति स्थितिसामर्थ्यन॥17॥


ततो हसन् स भगवानसुरैर्निरपत्रपैः। अन्वीयमानस्तरसा क्रुद्ध भीतः परापतत् ॥ 24 ।।


Page 168


‘चानन्नपि समर्थोऽपि क्वचिद्वह्मा हरेः प्रियम्।


ज्ञात्वा करोति कर्माणि ह्यज्ञवच्चाप्यशक्तवत्' इति च ॥24॥


|




सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः। विमुञ्चात्मतनु घोरामित्युक्तो विमुमच ह॥28॥ ‘व्यसृजन्मलवद्देहं बाह्यं न तु निजं पुरा। ब्रह्मा तच्चाहरादित्वं प्राप देवादिदैवतम्' इति कौ28॥


ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः।


साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः ।। 42॥ ‘ऊर्जा सारान्नमुद्दिष्टं तदेव पितृभक्षणं' इति ब्राह्मे॥42॥


स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः। तदा मनून ससर्जान्ते मनसा लोकभावनान्॥ 49॥


4.


तेभ्यः स ब्यसृजद्देहं परः पुरुष आत्मनः। तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिंम् ॥50 ॥


अहो एतजगत्स्रष्टः सकृतं बत ते कृतम्। प्रतिष्ठिताः क्रिया यस्मिन् साकमन्नमदामहे ॥51 ।। ये पुरा सृष्टा देवाः। ‘दृष्ट्वा तु पौरुष सृष्टिं देवाः सुकृतमूचिरे' इति च॥49 - 51॥


Page 169


तफ्सा विद्यया युक्तो योगेन सुसमाधिना।


आदावृषन् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ 52 ॥ 'यत्रापि तु हरेर्नाम तदन्यत्र प्रयुज्यते। तदाऽऽन्तरहरेस्तत्र गृहीतिर्नान्यथा भवेत् ॥ स्वातन्त्र्यावरत्वं च परस्यापि प्रयुज्यते। स्थितस्यापि यथा राज्ञः स्वानां जयपराजयौ' इति पाझे॥


अतो हृषीकेशो ब्रह्मान्तर्यामी॥52॥


॥ इति तृतीयस्कन्धतात्पर्ये एकविंशोऽध्यायः ॥ 3 - 21 ॥


यः ॥ 3 - 22 ॥


तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे। दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥8॥ शब्दविषयं ब्रह्म॥8॥


न तेऽजराक्षभ्रमिंरायुरेषां त्रयोदशारं त्रिंशतं षष्टिपर्व। षण्णेन्यनन्तच्छदिं यत्रिनाबि करालस्रोतो जगदाच्छिद्य धावत् ॥18॥ अनन्तच्छदि - अनन्तावयवम्। 'तृतीयोऽतिशये' इति महाव्याकरणे। ‘मथनान्मिथिलो जातः' इत्यादिवच्च॥18॥


नूनं चङ्कमणं देव सतां संरक्षणाय ते। वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ 50॥


Page 170


योऽर्केन्द्रग्नीन्द्रवायूनां यमधर्मप्रचेतसाम्। रूपाणि स्थान आधत्से तस्मै शुक्लात्मने नमः ॥ 51 ॥ ‘स्वायम्भुवो मनुश्चैव पृथुश्चैवार्जुनावपि। ब्रह्मशेषविपा रुद्र इन्द्र ऋष्यादयस्तथा। विष्ण्वावेशयुताः सर्वे न तु विष्णुस्वरूपकाः' इति तत्त्वनिर्णये॥51॥


ias


॥ इति तृतीयस्कन्धतात्पर्ये द्वाविंशोऽध्यायः ॥ 3 - 22॥


॥त्रयोकिंशोऽध्यायः ॥ 3- 23॥


कामः स भूयान्नरदेव तेऽस्याः पुत्र्याः समास्नायविधौ प्रतीतः। क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥16॥ स्वया कान्त्याऽन्याः क्षिपन्ती श्रीर्यथा तद्वत् स्थिताम्॥16॥


बर्हिष्मती नाम पुरीं सर्वसम्पत्समन्विता। न्यपतन्यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥29॥ ‘ज्ञानानन्दस्वरूपेभ्यो रोमभ्योऽस्य कुशादयः। विधुन्वतः प्रयागे तु वराहवपुषोऽभवन्।


रोमाणि तानि देवस्य रूपाण्यासन् सहस्रशः' इति स्कान्दे॥29॥


कुशकाशास्त एवासन् लसद्धरितवर्चसः। ऋषयो यैः पराभाव्य यज्ञम्नान् यज्ञमीजिरे ॥30॥ त एखासन् तेभ्य एवासन्। ‘सप्तसु प्रथमा' इति सूत्रात्॥30॥


Page 171


अयातयामास्तस्यासन् यामाः स्वान्तस्याफ्नाः। श्रुण्वत ध्यायतो विष्णोः कुर्वत ब्रुक्तः कथाः ॥35॥ ‘गतसारं यातयामं यामः सार इहोच्यते' इति नारदीये॥35॥



शारीरा मानसा दिव्याः पर्यासे ये च मानुषाः। भौतिकाश्च कथं क्लेशा बाधन्ते रिसंश्रयम् ॥37॥ पर्यासे मानुषत्वेनावस्थानेऽपि॥37॥


॥ इति तृतीयस्कन्धतात्पर्ये त्रयोविंशोऽध्याः ॥3 - 23॥


चतुर्विंशोऽध्यायः ॥ 3 - 24॥


द्वास्सु विद्रुमदेहल्या भातं वज्रकपाटिंमत्। शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिष्ठितम्॥18॥


देहली - द्वारबन्धः॥18॥


हंसाराक्तवातैस्तत्र तत्र निकूजितम्।


कुत्रिमान् मन्यमानैः स्वानधिरुह्यावरुह्य च ॥20॥ कृत्रिमान् शोभार्थं कृतान्॥20॥


अथादशैं स्वमात्मानं स्रग्विणं विरजाम्बरम्। विरजं कुतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥30॥


आदर्श ददर्श॥30॥


Page 172


तस्मिन्नलुरुमहिंमा प्रिंययाऽनुक्क्तो विद्याधरीभिरुपचीर्णवपुर्विमाने। बभ्राज उत्कचक उद्णपानवीच्यस्ताराभिरावृत इवोपतिर्नभस्थः ॥38॥ उद्गुणापानवीच्यः उत्तमामृतवीचीयुक्तः ॥38॥


==


तस्मिन् विमान उत्कृष्टां शय्यां तिंकरीं श्रिता। न चाबुध्यत तं कालं पत्याऽऽवीर्येन सङ्गता ।। 45॥ ‘प्राप्तषोडशवर्षः सन्नावीच्य इति कथ्यते' इत्यभिधानम्॥45॥




॥ इति तृतीयस्कन्धतात्पर्ये चतुर्विंशोऽध्यायः ॥3 - 24॥



॥पञ्चविंशोऽध्यायः ॥ 3- 25॥ मैत्रेय उवाच - निर्वेदवादिनीमेवं मनोर्डहिंतरं मुनिः। दयालुः शालनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ 1 ॥ ‘शालिनी मालिनी माल्या चार्या भार्येति चोच्यते' इति च॥1॥


तस्यां बहुतिथे काले भगवान् मधुसूदनः। कार्दमं वीर्यमापन्नो जज्ञेऽग्निवि दारुणि ॥6॥ ‘नावतारेष्वपि हरेर्देहः शुक्लादिसम्भवः। तथाऽपि शुक्लसंस्थः सन् मातृदेहं प्रविश्य च। विलाप्य शुक्लं तत्रैव केवलज्ञानरूपकः।


उदेति भगवान् विष्णुः काले लोकं विमोहयन्' इति वाराहे॥ अग्निरिव दारुणीति व्यक्तिस्थानमात्रे दृष्टान्तः॥6॥


Page 173


‘महागुणाभिपूर्णत्वं सत्वमित्युच्यते बुधैः' इति वामने॥10॥


अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः। लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥19॥ ‘सम्यज्ज्ञानं तु साङ्ख्यं स्यात् तदर्थो योग उच्यते इति कापिलेये॥19॥


स चावतीर्ण त्रियुगमज्ञाय विबुधर्षभम्। किंक्क्ति उपसङ्गम्य प्रणम्य समभाषत ।। 26 ॥ ‘युगत्रयावतारेण त्रियुगश्चेति कथ्यते' इति पाझे॥26॥



तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव।


यानि यानीह रोचन्ते स्वजनानामरूपिणः ॥31॥ यानि यानि ब्रह्मादिरूपाणि रोचन्ते स्वजनानां तान्येव ते व्यक्त्यर्थमभिरूपामि। ‘व्यक्तो भवेद्धरिस्तत्र यत् स्थानं युचितं सताम्' इति कौमैं॥31॥


फ्रं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम्। आत्मानुभूत्याऽनुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥33॥ ‘वेदैर्वृतत्वाद्भगवांख्रिवृदित्युच्यते बुधैः' इति च ॥33॥ श्रीभमवानुवाच - मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके। अथाजनिं मया तुभ्यं यदवोचमृतं मुने ॥35॥ सत्यलौकिके यथार्थज्ञानविषये।


Page 174


‘आभासो ज्ञानमालोको लोको भासश्चकथ्यते’इत्यभिधानम्॥35॥


विश्वमेतद्धिं शास्त्रेण विज्ञायात्मनमीश्वरम्।


मुनिः शान्तमनोवाक्यस्तदा न ख्यात्युपप्लवः ।।40॥ विश्वमेतदेतादृशं असारं यतः। अत ईश्वरं विज्ञाय। न ख्यात्युपप्लवः - दुःखाज्ञानाद्युपद्रवो


न॥40॥


निरहङ्कतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।। प्रत्यग्रः शान्तधीरः प्रशान्तोर्मिण्विदधिः ॥ 45॥


“अनन्याधीनशक्तित्वाद्धरिः स्व इति चोच्यते' इति मात्स्ये। प्रत्यग्रः - प्रत्यग्रतिः॥45॥


आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्। अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ।। 47 ॥ ‘भूतगर्भश्च भूतस्थः पूर्ण एवं द्विरूपवान्।


अत आत्मेति तं प्राहुः सदैवात्तगुणो यतः' इति च॥ 47॥


॥ इति तृतीयस्कन्धतात्पर्ये पञ्चविंशोऽध्यायः ॥3 - 25॥


मायः ॥ 3 - 25॥


॥ विंशोऽध्यायः ॥ 3 - 26॥


तं त्वा गताऽहं शरणं शरण्यं स्वभृत्यसंसास्तरोः कुठारम्। जिज्ञासया प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ॥11॥ ‘नारायणो ब्रह्मवायू वीन्द्रशेषौ हरस्तथा।


Page 175


कामः शक्रो गुरुर्दक्षो मन्वाद्या भास्करादयः। सर्वजीवाश्चक्रमशः पुरुषाख्याभिशब्दिताः। एतत्पन्यो बन्धशक्तिः स्त्रियः सर्वास्तथा जडम्।


क्रमात् प्रकृतिशब्दोक्तास्तज्ज्ञानाद्विप्रमुच्यते' इति दत्तात्रेययोगे॥ श्रीभमवानुवाच- योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे। अत्यन्तपतिंर्यत्र दुःखस्य च सुखस्य च ॥13॥ ‘परमात्मादिकं देहे यदध्यात्मं तदीरितम्' इति च। ‘सुखं शरीरभोग्यं स्याहुःखं सर्वं तथैव च। मुक्तौ विलयमायाति नित्यानन्दस्तुभुज्यते' इति च॥13॥


अहंममाभिमनत्थैः कामलोभादिभिर्मलैः। वीतं यदा मनः शुद्धमदुःखमसुखं समम् ॥16॥


तदा पुरुष आत्मानं केवलं प्रकृतेः परम्। निरन्तरं स्वयज्योतिरुणिमानमखण्डितम् ॥17॥ ‘बाह्ये सुखे त्वनासक्तेरसुखं दुःखवर्जनात्। अदुःखं हरिभक्त्यैव नित्यानन्दं यदा मनः। तदा तं परमात्मानं पश्यत्यात्मप्रसादतः' इति कापिलेये। ‘अभेदात् स्वावतारेषु निरन्तर उदाहृतः। गुणदेहेन्द्रियाभेदात् केवलोऽसदृशत्वतः।


Page 176


अखण्डः पूर्णशक्तित्वादहमेकः सुरोत्तमः' इति च॥16,17॥


अवर




ज्ञानवैराग्ययुक्तेन भक्तियोगेन चात्मना। परिपश्यत्युदासीनां प्रकृतिं च हतौजसम्॥18॥ ‘बन्धशक्तिः प्रकृत्याख्या विष्णुशक्त्या वियुज्यते' इति च॥18॥


मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्। मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥22॥ ‘यादृशी मयि भक्तिः स्यात् तादृश्यन्यत्र नैव चेत्।


अनन्यभक्तिरुद्रेकात् सा ययैव तरेत् स्मृतिम्' इति च॥22॥


मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च। तपन्ति विविधांस्तापानैकात्म्यगतचेतसः ॥23॥ ‘एकः पूर्णो हरिनन्यस्तदन्ये तद्वशा मताः। इति ज्ञानं स्थिरं यत् तदैकात्म्यज्ञानमुच्यते' इति ब्रह्माण्डे॥23॥ मैत्रेय उवाच - विदित्वाऽर्थं कपिल मातुरित्थं जातस्नेहो यत्र तन्वाऽभिजातः।


तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रावोचद्वै भक्तिवितानयोमम् ॥ ‘शुक्लेन जनिरन्येषां हरेः स्वतनुवैव तु। नित्योदितज्ञानतनोः कुतः स्याच्छुक्लतो जनिः' इति गारुडे॥31॥ श्रीभगवानुवाच - देवानां गुणलिङ्गानामानुश्रविककर्मणाम्।




Page 177


सत्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥32॥ ‘अनुश्रविककर्माऽसौ श्रुत्युक्तं यो न लङ्घयेत्' इति भविष्यत्पर्वणि। ‘सदा सर्वगुणाढ्यत्वात् सत्वो विष्णुरुदीर्यते' इति कापिलेये॥32॥


रू


अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी। जस्यत्याशु या कोशं निंगीर्णमनलो यथा ॥33॥ ‘अपूर्णभक्तेर्मुक्तौ तु न सुखं पूर्तिमेष्यति।


अतस्तादृशमुक्तेश्च भक्तिः पूर्णा गरीयसी' इति च॥33॥


नैकात्म्यतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः। येऽन्योन्यतो भागवताः प्रसज्य सम्भाजयन्ते मम पौरुषाणि ॥34॥ 'नेच्छन्ति सायुज्यमपि फलत्वेन हरिर्यदि। ददाति भक्तिसन्तुष्ट आज्ञात्वेनैव गृह्णते। तादृशानां सुखाधिक्यं पुनर्मुक्तौ भविष्यति' इति च ॥34॥


न हि कहिँचिन्मत्पराः शान्तरूपा नङ्ग्यन्ति मे नोऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सृहृदो दैवमिष्टम् ॥


आदानादिकर्तृत्वादात्मा॥38॥


॥ इति तृतीयस्कन्धतात्पर्ये षड्विंशोऽध्यायः ॥3 - 26 ॥


यिः


॥ 3 - 27॥


न जातो न प्रिंयेतात्मा स हि देहाद्युपाधिभिः।


Page 178


"



4:।


निमित्तैरात्तधर्मोऽयं यथा स्वप्न तदीक्षिता ॥ 4 ॥


स परमो न जायते न म्रियत इति प्रसिद्धं हि। देहाद्युपाधिभिरात्तधर्मो जीवोऽपि स्वप्नवद्धान्त्या जायते म्रियते च। भ्रान्तित्वाद्देहात्मत्वस्य। किमु सर्वज्ञत्वस्वतन्त्रत्वादिवैलक्षण्ययुक्त ईश्वरः। ‘परस्य जन्ममृत्याद्याः स्युः स्वतन्त्रस्य किं पुनः।


जीवस्यापि यतो भ्रान्त्या जन्ममृत्यादिसङ्गतिः' इति महाकौमैं॥4॥


स एव प्रकृतिं सूक्ष्मां देव गुणमय विभुः। यदृच्छयैवोपगतामभ्यपद्यत लीलया॥5॥ उपगतां सर्वदा समीपस्थाम्॥5॥


गुणैर्विचित्राः सृजत सरूपाः प्रकृतिं प्रजाः। विलोक्य मुमुहे सद्यः स इह ज्ञानगृहया ॥6॥


मुमुहे - मोहयामास। ‘तदेतन्मे विजानीहि । ‘कृत्वा विवाहम्' इत्यादिवत्। 'यत्र कारयिताऽतीव स्वतन्त्रस्तत्र कर्तृता। प्रोच्यते तु यथा ब्रह्मत्वज्ञं संसारभागिति' इति च। ‘लये वाऽप्यथवा सृष्टौत्वन्तरालेऽपि न क्वचित्। प्रकृत्या रहितं ब्रह्मकदाचिदपि तिष्ठति' इति कापिलेये॥6॥


एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्। कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते॥7॥ एवं पराभिध्यानेन परमात्मेच्छया। प्रकृतेः कर्तृत्वं जीव आत्मनि मन्यते॥7॥


Page 179


तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम्। भक्त्यकर्तुरीशस्य साक्षिण निर्वृतात्मनः ॥8॥ ‘विष्णोः सुराणां गुरूणां नित्या जीवस्य तन्त्रता। यत् तु तस्यान्यतन्त्रत्वं तज्ज्ञानाद्विनिवर्तते' इति च॥ अकर्तुरीशस्य सकाशात्। ‘अक्लिष्टत्वादकर्ताऽसावकार्यत्वादथापि वा' इति च।


'एष कर्ता न क्रियते कारणं च जगत्प्रभुः' इति भारते॥8॥


कार्यकारणकर्तृत्वे कारणं प्रकृतिं विंदुः। बोक्तृत्वे सुखदुःखानां पुरूषं प्रकृतेः परम् ॥9॥ ‘ब्रह्मादिभिः सर्गकरी श्रीविष्णुबलसंश्रयात्। सुखदुःखप्रदो विष्णुः स्वयमेव सनातनः। कर्तृत्वं सुखदुःखानामन्येषां तु तदाज्ञया। भोक्तृत्वं सुखदुःखानां करोत्येको हरिः स्वयम्। भोक्तृत्वमात्र हेतुत्वं जीवे नान्यत्र कुत्रचित्' इति भविष्यत्पर्वणि ॥ ‘प्रकृतिं पुरुषं चैव वियनादी' इति च ॥9॥ श्रीभमवानुवाच - यत्तत् त्रिगुणमब्यक्तं नित्यं सदसदात्मकम्। प्रधानं प्रकृतिं प्राहुरविशेषं विशेफ्क्त् ॥11॥ व्यक्ताव्यक्तात्मकं यत्तद्विद्यात् सदसदात्मकम्। असर्गा केवलाऽव्यक्ता सिसृक्षुरुभयात्मिका।


Page 180


व्यक्तैव कार्यरूपा तु प्रकृतिस्विविधा मता। कार्यतः सा प्रधानत्वात् प्रधानमिति कीर्त्यते।


अविशेषा ह्यकार्यत्वात् सा च श्रीविष्णुसंश्रया' इति हरिवंशेषु॥ ‘विशेष कार्यमुद्दिष्टं विशेषादृश्यते यतः' इति पाझे॥11॥


मनौबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः। चतुर्धा लक्ष्यते भेदो वृत्या लक्षणरूपया ॥15॥ ‘बुद्धिरध्यवसानाय संशयं कुरुते मनः।


अभिमाने त्वहङ्कारश्चित्तं स्मरणकारणम्' इति स्कान्दे॥15॥


एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य हि। सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥16॥


प्रभावं पौरुषं प्राहुः कालमेके यतो भयम्। अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥17॥ ‘हरिस्तु निर्गुणं ब्रह्मश्रीर्ब्रह्मसगुणं स्मृतम्।


तदङ्गजानि तत्त्वानि तस्मात् तद्रूपमुच्यते' इति हरिवंशेषु। ‘पुरुषो हृदिस्थः परमः कालः सर्गतो हरिः।


अथवा हुद्रदेहस्थो हरिः काल इतीरितः इति ब्राह्मे॥ प्रभावं - पौरुषम्। पुरुषस्य प्रकर्षेण भावं व्याप्तं रूपम्। एके सम्यज्ज्ञानिनः। न प्राकृताः॥17॥


Page 181


वैवात् क्षुभिंतधर्मिण्यां स्वस्यां योनौ पः पुमान्।


आधत्त वीर्यं साऽसूत महत्तत्वं हिरण्मयम् ॥20॥ ‘प्रकृतेः क्षोभकं रूपं दैवं नारायणात्मकम्। प्रकृतौ महतः स्रष्टा परमः पुरुषोत्तमः॥ तदेव वासुदेवाख्यं महत्तत्त्वनियामकम्॥ सङ्कर्षणाख्यस्तु हरिः सूक्ष्माहङ्कारयामकः। स्थूलाहङ्कारनियमी विष्णुः प्रद्युम्ननामकः।


अनिरुद्धो मनस्तत्त्वनियन्ता भगवान् हरिः। महत्तत्त्वादिजीवास्तु ब्रह्मशेषाङ्गजास्तथा। सूक्ष्मस्थूलविभेदेन कामजश्चानिरुद्धकः' इति कापिलेये॥20॥


=


=



विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्करः।


स्वतेजसाऽपिबत् तीव्रमात्मप्रस्वापनं तमः ॥21॥ ‘अङ्के रमयते यस्मात् केशवो जगदङ्करः। महान्तं योऽसृजज्जीवं मोहकं च तमोऽग्रसत्' इति च ॥21॥


यत् तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम्। यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥22॥ यद्वासुदेवाख्यं भगवतः स्वरूपं ततो महदात्मकं चित्तं जायते। ‘सत्वशब्देन चोच्यन्ते पूर्णानन्दादयो गुणाः' इति च। ‘महत्तत्त्वगतो योऽसौ वासुदेवाभिधो हरिः।


Page 182


स चित्तजनकः प्रोक्तः प्राणिनां च पृथक् पृथक्' इति च॥22॥


स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः। वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा ।। 23 ॥ चित्तस्य स्वच्छत्वादयः पृथग्गुणा उच्यन्ते स्वच्छत्वमित्यादि। ‘स्तिमितोदकचित्तादेरविकारोऽल्पविक्रया' इति तत्त्वविवेके। ‘वृत्तिः स्वभावो वृत्तं च स्थितिरित्यभिधीयते' इति शब्दनिर्णये। वृत्तिभिर्लक्षणं प्रोक्तमिति स्वाभाविकं लक्षणमित्यर्थः॥23॥


महत्तत्वाद्विकुर्वाणात् भगवद्वीर्यसम्भवात्। क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत॥24॥ 'ज्ञानप्रधानस्तु महानहङ्कार क्रियाधिकः। इतरापेक्षया सोऽपि ज्ञानाधिक उदाहृतः' इति च॥24॥


वैकारिकोऽधिदैवं तु बुद्धिः प्राणश्च तैजसः। तामसस्त्वर्थमा त्रं च गुणव्यतिकरस्त्रिवृत्॥26॥ ‘देवताधिकृतं यत्तदधिदैवमिति स्मृतम्' इति च। वैकारिकोऽधिदैवमित्यादि प्रथमा पञ्चम्यर्थे। ‘सप्तसु प्रथमा तत्र स्वातन्त्र्यम् यद्विवक्षितम्' इति शब्दनिर्णये॥26॥


कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम्। शान्तघोरविमूढ़त्वमिंतिं वा स्यादहङ्कतेः ॥28॥ ‘मनोरूपेण कर्तृत्वं देहरूपेण कार्यता।


Page 183


इन्द्रियात्मतया चैव करणत्वमहङ्कतेः। यतो मनस्यहम्भावस्तस्मात् कर्तृ मनः स्मृतम्। स्वभावकर्तुर्जीवस्य त्वासन्नोपाधि तद्यतः। कर्मज्ञाने करणता यतः करणमिन्द्रियम्। कार्यं देहः समुद्दिष्ट उत्पाद्यत्वात् पुनः पुनः' इति तत्त्वविवेके॥ ‘शान्तरूपो देवपिता घोरः करणसृङ्मतः। तावज्ज्ञानस्याप्रकाशान्मूढो भूतपिता स्मृतः। त्रिरूपोऽयमहङ्कारः शेष इत्येव तं विदुः' इति तत्त्वनिर्णये॥28॥


तैजसात्तु विकुर्वाणात् बुद्धितत्त्वमभूत सति। द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहात् ॥31॥ द्रव्यस्फुरणे यद्विशेषज्ञानम्॥31॥


संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च। स्वाप इत्युच्यते बुद्देर्लक्षणं वृत्तिभिः पृथक् ॥32॥


‘सामान्य मानसं जातं विशेषाद्बुद्धिजं भवेत्। अचलः संशयो बुद्धेश्चलो मानस उच्यते। चञ्चला तु स्मृतिर्बुद्धिश्चित्तजैव स्थिरा स्मृतिः' इति च॥ 'येन यज्ज्ञायते वस्तु तत्तल्लक्षणमुच्यते।


तत्स्वरूपं पृथक् चेति द्विविधं कवयो विदुः' इति कापिलेये॥32॥


Page 184


तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः। प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्क्तिता ॥33॥


तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात्। शब्दमात्रमभूत् तस्मान्नभः ओत्रं तु शब्दगम् ॥34॥ ‘प्रधानवायुः सूत्रात्मामहता सह जायते। तैजसश्चखजः स्पर्श इत्याद्यास्तत्सुताः स्मृताः। तदाविष्टा अन्यजीवास्तदाधाराश्च तद्वलाः' इति च ॥


अर्थाश्रयत्वं शब्दस्य द्रष्ट्रर्लिङ्गत्वमेव च। तन्मात्रत्वं च नभसो लक्षणं कक्यो विदुः ॥35॥ अर्थाश्रयत्वं - अर्थविषयत्वम्। ‘शब्देनैव यतो ज्ञेयो हरिर्लिङ्गं तु तस्य तत्। स्पर्शाद्यभावात् तन्मात्रा नभसश्चेति कीर्त्यते। स्पर्शादयश्च तन्मात्रा इतरे पूर्वसंस्थितेः। तिष्ठन्त्येको गुणो भूते प्रत्येकं पञ्चसु स्थितः।


शब्दो वर्णात्मको नित्यो ध्वनिराकाशसम्भवः। आकाश एवं सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते। स एव व्यज्यमानस्तु भवेत् कर्णैकगोचरः' इति च॥34, 35॥


नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः। स्पर्शोऽभवत् ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः ॥37 ॥


Page 185


नभसः शब्दतन्मात्राच्छब्दतन्मात्रगुणात्। 'स्पर्शादयोऽपि वाय्वादेः सूक्ष्मावस्थाः प्रकीर्तिताः' इति च। ‘सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः।


भूतेभ्यश्चोपचीयन्ते पुनर्ब्रह्मशरीरतः' इति च॥37॥


चालनं व्यूहनं प्राप्तिंर्नेतृत्वं द्रव्यशब्दयोः। सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ 39॥ ‘प्राप्नोति वायुः सर्वं तु स्वत एव हरेस्तथा। अतः प्राप्तिरिति प्राहुर्वायुं भूतपतिं प्रभुम्। प्रधानवायुरन्येषु नित्याविष्टो यतस्ततः। तद्गुणास्तेषु चोच्यन्ते नीचता नास्य तत्कृता' इति ब्रह्मवैवर्ते। ‘स्वरूपमपि कर्मेति विषयत्वादुदीर्यते' इति शब्दनिर्णये॥39॥


द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च। तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ 41 ॥ व्यक्तिसंस्थात्वं व्यक्तत्वेन स्थितिः। गुणता प्रकाशत्वम्। ‘तेजस्त्वमथ चोग्रत्वं क्रौर्यमित्यपि चोच्यते' इत्यभिधानम्। ‘आलोको गुण इत्येव प्रकाशश्चेति कथ्यते' इत्यभिधानम्॥41॥


क्लेदनं पिण्ङनं तृप्तिः प्राणानाप्यायनन्दनम्। तापापनौदो भूयस्त्वमम्भस वृत्तयस्त्विमाः ॥45॥ ‘उन्दनं बिन्दुभावः स्यात्स्यन्दनं स्रवणं स्मृतम्' इत्यभिधानम्।


Page 186


‘पृथिव्यन्यपेक्षया भूयस्त्वं देहे॥45॥


भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम्। सर्वसत्वगुणोद्वेदः पृथिवीवृत्तिलक्षणम्॥48॥ भावनमुत्पादकत्वम्। ‘ब्रह्मस्थानं तु पृथिवी शरीरे ब्रह्मदर्शनात्' इति कापिलेये।


सद्विशेषणं - विशेषेण व्यक्तत्वम्। ‘असदव्यक्तनाम स्याव्यक्तं सदिति चोच्यते' इति ब्राह्मे। सर्वसत्वगुणोद्वेदः - शरीरे हि प्राणिनां सर्वगुणा व्यज्यन्ते संसारावस्थायाम्। ‘शरीरं पार्थिवं ज्ञेयमिन्द्रियाण्यौदकानि तु। तैजसः कोष्ठगो वह्निश्छिद्रमाकाशसम्भवम्। प्राणा वायुमयाः सर्वे प्रत्येकं पञ्चधा पुनः' इति कापिलेये॥48॥


ततस्तेनानुर्विद्धेभ्यो युक्तेभ्योऽण्डमचैतनम्। उत्थितं पुरुषो यस्मादतिष्ठदसौ विराट् ॥54 ।। ‘अचेतनाद्यतस्त्वण्डाद्बह्मा समजनि स्फुटम्।


अतो ब्रह्माण्डमित्याहुर्विराड् ब्रह्मा प्रकाशनात्' इति च ॥54॥


हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्। पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥61॥ ‘यज्ञनामा तु देवोऽन्यो विज्ञेयः पाददेवता।


तदाविष्टो हरिर्नित्यं तमाहुः पाददैवतम्।


Page 187


तस्येन्द्रियाभिमानित्वं कुतः पूर्णामलात्मनः' इति च ॥61॥


अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्। मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरम्पतिः ।


अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥ 62॥ ‘चैत्योऽपि भगवान् विष्णुरन्तर्यामी चतुर्मुखात्। स्वेच्छया व्यक्तिमगमत् ततोऽसौ ब्रह्मजः स्मृतः' इति च॥62॥


विष्णुर्गत्यैव चरणौ नोंदतिष्ठत् ततो विराट्। नाङनंद्य लोहितेन नौदतिष्ठत् ततो विराट् ॥70॥ ‘यज्ञान्तस्थः स्वयं पादौ विशन्नोत्थापयद्धरिः। शक्तोऽपि ब्रह्मवाय्वोस्तु बलज्ञप्त्यै जनार्दनः। तत्स्थ उत्थापयामास ब्रह्मदेहं विशन् प्रभुः' इति च ॥70॥


बुद्ध्या ब्रह्माऽपि हृदयं नोंदतिष्ठत् ततो विराट्। रुद्रोऽभिमत्या हृदयं नोतिष्ठत् ततो विराट् ॥ 72 ॥ ब्रह्मा - बृहस्पतिः। ‘यस्मिन् ब्रह्मा राजनि पूर्व एति' इति श्रुतिः। ‘बृहस्पतिः पुरोधाश्च ब्रह्मा च ब्रह्मणस्पतिः' इत्यभिधानम्॥72॥


चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविंशद्यदा। विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥73॥


Page 188


‘अंशेन सुप्तो ब्रह्मा तु अंशेन निरगात् तथा। स्वदेहाद्वायुसहितो विष्णुना च जगत्प्रभुः। तमुत्थापयितुं देवास्तानृते त्रीन् महाबलान्। नाशक्नुवन्नेकसंस्थास्ततस्ते त्वविशंस्त्रयः। उदतिष्ठद्बह्मदेहस्तदा तेषां प्रभावतः। विशेषेण हरेरेव प्रभावेन श्रियः पतेः। चित्ताभिमानि ब्रह्मैव क्षेत्रज्ञस्तद्गतो हरिः। प्राणो वायुरिति प्रोक्तस्तयोरीशो हरिः स्वयम्' इति च ॥73॥


॥ इति तृतीयस्कन्धतात्पर्ये सप्तविंशोऽध्यायः ॥3 - 27॥


॥ अष्टाविंशोऽध्यायः ॥ 3 - 28॥


प्रबुद्धः स्वमसुप्तिभ्यां संस्मरन्नात्मवैशसम्। वैतथ्यं व्यभिचारं च नासौं ध्यायेद्यत भयम् ॥5॥ ‘अज्ञानं सुप्तिशब्दोक्तं स्वप्नश्चैव विपर्ययः' इति भारते॥5॥


निवृत्तबुझ्यवस्थानो दूरीभूतान्यदर्शनः। उपलभ्याल्मनाऽऽत्मानं चक्षुषेवार्कमेकदृक् ॥11॥ बुद्धेरवस्थानं निद्रादि॥11॥


मुक्तर्लिङ्गः सदाभासमसतिं प्रतिपद्यते। सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम् ॥12॥


Page 189


असति - प्रलये॥12॥


एवं त्रिंवृदहङ्कारो भूतेन्द्रियमनौगुणैः। स्वाभासैलक्षितोऽनेन सदाभासैन सल्यदृक् ॥14॥ ‘शेषस्य प्रतिबिम्बास्तु देवाः शेषस्तुब्रह्मणः।


स परब्रह्मणश्चैव ते स्वबिम्बप्रदर्शकाः। ततः स्वबिम्बद्वारेण परमात्मप्रदर्शनम्' इति ब्रह्मतकै॥14॥


भूतसूक्ष्मेन्द्रियमनबुयादिष्यिह निद्रया। लीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्कतिः ॥15॥ यो विनिद्रः स सत्यदृक्॥14, 15॥


-


--


न्यमानस्तदाऽऽत्मानमनष्टो नष्टक्न्मृषा। नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥16॥ योऽनष्टो नष्टवन्नाज्ञासिषमिति मन्यमानः स आतुरो द्रष्टा जीवः॥16॥


एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते।


साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥17॥ साहङ्कारं द्रव्यं जीवः तस्यावस्थानमनुग्राहकश्च परमात्मा। 'नित्यदृक् परमात्माऽसौ मृतवद्यो न किञ्चिन।


जानाति जीवः स ज्ञेयः परमात्मा तदाश्रयः' इति हरिवंशेषु॥17॥


॥ इति तृतीयस्कन्धतात्पर्ये अष्टाविंशोऽध्यायः ॥3 - 28॥


|




Page 190


॥एकोनत्रिंशोऽध्यायः ॥ 3 - 29॥ श्रीभगवानुवाच - योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे। मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ 1 ॥ ‘सबीजो वैष्णवो योगो निर्बीजस्त्वन्यदैवतः। बीजं विष्णुर्हि जगतः शाखाद्याश्चान्यदेवताः' इति कौमै॥1॥


स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्। वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥6॥ ‘समाधिरप्रयत्नेन मनसः संस्थितिर्भवेत्' इति च॥6॥


तस्मिंल्लब्धपदं चित्तं सर्वाक्यवसंस्थितम्। विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥20॥


सर्वस्मरणाशक्तावेकाङ्गे। ‘यावन्नच्यवते मनः' इत्युक्तत्वात्। ‘सर्वं स्मर्तुमशक्तः सन्नेकाङ्गं चिन्तयेद्बुधः' इति च॥20॥


कौमोदक भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन। मालां मधुव्रतवरूथगिरिपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे॥27॥ ‘ब्रह्माचित्ताभिमानेन चैत्यस्तन्नियमाद्धरिः।


स च ब्रह्मा हरेः कण्ठे कौस्तुभत्वेन भासते' इति भागवततन्त्रे॥27॥


Page 191


यच्छीनिकेतमलिभिः परिंसेव्यमानं भूत्यास्वया कुटिलकुन्तलवृन्दजुष्टम्। मीनद्वयश्रियमधिक्षिपदानेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद् ब्रु॥29॥ साक्षाच्छीस्तु हरे रूपमिन्दिरा तु तदाश्रयात्' इति च॥29॥


ध्यानायनं रहसि तद्वहुलाधरोष्ठ भासाऽरुणायिततनुद्विजकुन्दपङ्कि। ध्यायेत् स्वहृत्कुहरकेऽवसितस्यविष्णोर्भक्त्याऽऽर्द्रयाऽर्पितमना न पृथग्दिदैक्षेत्॥32॥ न पृथग्दिदैक्षेत्। तमेव दिदैक्षेदित्यर्थः॥32॥


एवं हरौ भगवति प्रतिलब्धभाव भक्त्या द्रवद्धृदय उत्पुलकप्रमोदः ।


औत्कण्ठ्यबाष्पकलया मुहर्घमानस्तच्चापिं चित्तबङिशं शनकैवियुड़े। चित्त बडिशवियोगो ध्यानानन्तरसमाधिः॥33॥


मुक्ताश्रयं यर्हि निर्विषयं स्वचित्तं निर्वाणमृच्छतिं मनः सहसा यथार्चिः।


आत्मानमत्र पुरुषोऽव्यवधानमेकमन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥34॥ मुक्ताश्रयं विष्णुविषयम्। स्वचित्तं जीवचैतन्ये ततं निर्वाणमृच्छति। शरीराभिमानं जहाति। चिदभिमानं न जहाति॥34॥


सोऽप्येतया चस्मया मनसो निवृत्त्या तस्मिन् महिंम्यवसितः सुखदुःखबार्छ। हेतुत्वमप्यसति कर्तरि दुःखयोंर्न स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥35॥ ‘असत्कर्ता तु जीवः स्यात् सत्कर्ता परमेश्वरः' इति शब्दनिर्णये। ‘दुर्दुःखमिति विज्ञेयं खं सुखं च तयोर्यतः। प्रदाता परमो विष्णुस्तस्माद्दुःखादिनामवान्' इति हरिवंशेषु॥35॥


Page 192


सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। ईक्षेतानन्यभावेन भूतेषु च तदात्मताम्॥41 ॥


अनन्यभावेन तद्रूपाणामभेदेन। तदात्मतां तस्यादानादिकर्तृत्वं च भूतविषये॥41॥


तस्मादिमां स्वां प्रकृतिं देवीं सदसदात्मिकाम्। दुर्विभाव्य पराभाव्य स्वरूपेणावतिष्ठते॥43 ॥ प्रकृतिं पराभाव्य तदुत्तमत्वेनैव सदाऽवतिष्ठते परः। ‘सर्वभूतस्थमीशेशं जेतारं प्रकृतेरपि।


अविशेषं सदैवैकं चन्तयन् विप्रमुच्यते' इति च॥43॥


॥ इतिं तृतीयस्कन्धतात्पर्ये एकोनत्रिंशोऽध्यायः ॥ 3 - 29॥


॥त्रिंशोऽध्यायः ॥ 3 - 30 ॥ देवहूतिरुवाच - यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रचक्षते। भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥2॥ यथा साङ्ख्येषूक्तं तथा कथितम्। यत्साङ्ख्यमूलं तल्लक्षणं प्रचक्षते॥2॥


विषयानभिसन्धाय यश ऐश्वर्यमेव वा।


अर्चादाक्र्चयेद्यो मां पृथग्भावः स राजसः ॥9॥ तद्रूपाणां पृथग्भावः॥9॥


कर्मनिहरमुद्दिश्य परस्मिन् वा तदर्पणम्।


Page 193


यजेद्यष्टव्यमिति वाऽपृथग्भावः स सात्विकः ।। 10॥


अपृथग्भावः स सात्विकः॥10॥


अर्चादाक्र्चयेत् तावदीश्वरं मां स्वकर्मकृत्। यावन्न वेद स्वहृदि सर्वभूतेष्यवस्थितम् ॥25॥ ‘अज्ञोऽर्चयेदेवार्चायामन्यथा दोषवान् भवेत्। ज्ञस्त्वर्चयन् सुगुणवानन्यथा दोषवान्न तु' इति कापिलेये॥25॥


आत्मनश्च परस्यापि यः करॊत्यन्तरोंदरम्। तस्य भिन्नदृशो मृत्युर्विधत्ते भयमुल्बणम् ॥26॥ अन्तरोदरं भिन्नं ब्रह्म। आत्मस्थमन्यस्थं च ब्रह्मयो भिन्नं पश्यति। ‘उदरं ब्रह्म' इति श्रुतेः॥26॥


जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे। ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥28॥ प्राणभृतश्चलनयुक्ताः॥28॥


ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः। ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥31॥


-


-


अर्थज्ञात् संशयच्छेत्ता ततः श्रेयावन् स्वधर्मकृत्। मुक्तसङ्कस्ततो भूयान् न दोग्धा धर्ममात्मनः। तस्मान्मय्यर्पिताशेषक्रियाल्मरतिर्नरः ॥32॥


Page 194


मय्यर्पितात्मनः पुंसो मयि सन्यस्तकर्मणः। न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥33॥ ‘पशुवृक्षादिभेदेन जीवा एख स्वतः स्थिताः। संसृतौ व्यत्ययस्तेषां मुक्तौ तत्तत्स्वरूपता। तत्र स्थावरमुक्तेभ्यो वरा जङ्गममुक्तकाः। तेभ्यो मानुषमुक्ताश्च विप्रमुक्तास्ततोऽधिकाः। तत्रोपदेशमात्रेण मुक्तेभ्यो वेदवेदिनः।। अर्थज्ञा ऋषयस्तेभ्योऽतो देवाः संशयच्छिदः। पूर्णधर्मा ततस्त्विन्द्रो निःसङ्गो गरुडस्ततः। भक्तिपूर्णो हरेब्रह्मातस्मान्नान्योऽधिकस्ततः। मुक्तौ वा संसृतौ वाऽपि सम्यगेषु हि ते गुणाः इति कापिलेये॥31 - 33॥


मनःसैतानि भूतानि प्रणमेद्वहुमानयन्। ईश्वरो जीवकलया प्रविष्ट भगवानिंतिं ॥34॥ जीवकलया सह भूतानि बहुमानयंस्तदालयत्वेनेश्वरं प्रणमेत् ॥34॥


भक्तियोगश्च योगश्च मया मानव्युदीरितः। ययौऐकतरेणैव पुरुषः पुरुषं व्रजेत्॥35॥ एकतरभावेऽन्यतरस्य नियतत्वादेकतरेणैव ॥35॥


यत्तद्भगवतो रूपं ब्रह्मणः परमात्मनः।


Page 195


परं प्रधानात् पुरुषादैवं कर्मविचेष्टितम् ॥36॥ सर्वकर्माणि यस्य विचेष्टानिमित्तानि तत् कर्मविचेष्टितम्॥36॥


रूपभेदास्पदं दिव्यं काल इत्यभिधीयते।


भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥37॥ भिन्नदृशां ईश्वरापेक्षयाऽल्पदृशाम्। ‘भिन्नमल्पं विजानीयादभिन्नं पूर्णमुच्यते' इति शब्दनिर्णये॥37॥


न चास्य कश्चिद्दयित न द्वेष्यो न च बान्धवः।


आविंशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥39॥ 'यथायोग्यातिरेकेण न द्वेष्यश्च प्रियो हरेः' इति कापिलेये॥39॥


॥ इति तृतीयस्कन्धतात्पर्ये त्रिंशोऽध्यायः ॥ 3 - 30 ।।


॥ एकत्रिंशोऽध्यायः ॥ 3-31 ॥


एवं स्वभरणाकल्पं तत्कलत्राद्यस्तदा। नाद्रियन्ते यथापूर्वं कीनाश झ्व गोजस्म् ॥13॥ कीनाशः कर्षको मतः॥13॥


वायुनोत्क्रमतत्तास्कफसंरुद्धनासिकः। काशश्वासकृतायासः कण्ठे घुरुघुरायते ॥16॥ उत्तारमुद्गतिं विन्द्यात्॥16॥


Page 196


योजनानां सहस्राणि नवतिं नव चाध्वनः। त्रिंभिर्मुहूर्तेभ्यां वा नीतः प्राप्नोति यातनाम् ॥24॥ 'त्रिभिर्मुहूर्तेर्वाभ्यां वा दिनैर्दशभिरेव वा। पक्षान्मासेन वा याति यमलोकमितो मृतः' इति नारदीये॥24॥


अत्रैव नस्कः स्वर्ग इति मातः प्रचक्षते। या यातना वै नारक्यस्ता इह्मप्युपलक्षिताः ॥29॥ अत्रैवेत्येवशब्दः सामिप्यार्थे। ‘सामीप्ये च प्रधाने च एखशब्दोऽवधारणे' इति शब्दनिर्णये।


अत्राप्यस्तीत्यर्थः॥29॥


-


-


॥ इति तृतीयस्कन्धतात्पर्ये एकत्रिंशोऽध्यायः ॥ 3-31 ॥


॥द्वात्रिंशोऽध्यायः ॥ 3-32॥


कलिलं त्वेकरात्रेण पञ्चरात्रेण बुद्दम्। दशाहेन तु कर्कन्धुः पेश्यण्डं वा ततः परम् ॥2॥ 'नानाविधा गर्भवृद्धिः कर्मभेदाद्भविष्यति।


अतो नानाविधं ग्रन्थे गर्भसंस्थानमुच्यते' इति षाड्ण्ये॥2॥


नाथमान ऋषिर्भीतः सप्तवधैिः कृताञ्जलिः। स्तवति तं विक्लवया वाचा येनोंदरेऽर्पितः ।। 12॥ ‘वध्यस्त्वीन्द्रियाण्याहुहृषीकाणीति चाप्युत' इति शब्दनिर्णये॥12॥


Page 197


ज्ञानं यदेतददधात् कतमः स देवस्त्रैकालिकं स्थिरचरेष्यनुवर्तितांशः। तं जीवकर्मपदवीमनुवर्तमाना स्तापत्रयोपशमनाय क्यं भजे ॥12॥ कथमः - सुखतमः॥17॥


पश्यत्ययं धिषणया ननु सप्तवधिः शारीरभेदमशरीस्वदस्य बेहे। यद्दत्तया स तमहं पुरुषं पुराणं पश्ये बहिर्हदि च चैल्यमिव प्रतीतम्॥20॥ अशरीरवत् - परमात्मवत्। परमात्मना एव देहोऽपि तद्वशत्वात्॥ 'तत्त्वज्ञानं तु देवानां गर्भस्थानां भविष्यति। उत्तमानामृषीणां चान्येषां बहुजन्मगम्' इति स्कान्दे॥20॥


-


-


तेष्यशान्तेषु मूढेषु खण्डितात्मावसायिषु। सङ्गं न कुर्याच्छोंच्येषु योषिक्रीडामृगेषु च ॥35॥ खण्डितात्मावसायिषु - जीवमात्रज्ञानिषु॥35॥


तत्सृष्टिसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्। ऋषि नारायणमृते योषिन्मय्येह मायया ॥38॥


बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्। या करोति पदाक्रान्तान् भ्रूविजृम्भेण केक्लम्॥39॥ ‘मयः प्रधान उद्दिष्टो मया तद्वश उच्यते' इति षाड्ण्ये॥38,39॥


"मयः अधा


सङ्ग न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः। मत्सेवया प्रतिलब्धात्मलाभो वदन्ति यां निस्यद्वारमस्य॥ 40॥


Page 198


योफ्याति शनैर्माया योषिदेवविनिर्मिता। तामिक्षेतात्मनो मृत्युं तृणैः कूपमिकावृतम् ॥ 41 ॥ ‘सत्पुंसु च तथा स्त्रीषु न सङ्गो दोषमावहेत्। यथायोग्यं गुणायैव दोषकृद्दष्टजन्तुषु' इति वाराहे॥40, 41॥


बेहेन जीवभूतेन लोकालोकमनुव्रजन्। भुञ्जान एव कर्माणि करोंत्यविरतं पुमान् ॥ 44॥ जीवभूतेन - जीवकर्मभूतेन॥44॥


यताऽक्ष्णोद्रव्याक्यवदर्शनार्योग्यता यदा। तदैव चक्षुषो द्रष्टुचिट्टत्वं योग्यताऽनयोः॥47॥ चक्षुः सकाशाद्रष्टुचिट्टत्वमक्ष्णोर्योग्यता॥47॥



\


15


आत्मनः केवलं ज्ञानम देहाद्यसङ्गिनः। सुखदुःखायो भावा न देहस्य न चात्मनः ॥ 49। केवलं ज्ञानं पुरुषार्थः। देहादिष्वसङ्गिनो जीवस्य तन्निमित्तसुखदुःखादयो न सन्ति किमुत देहस्याचेतनत्वात्॥49॥


15


॥ इति तृतीयस्कन्थदतात्पर्ये द्वात्रिंशोऽध्यायः ॥3 - 32॥


॥त्रयस्त्रिंशोऽध्यायः ॥ 3 - 33॥ श्रीभमवानुवाच - तच्छृङ्ख्याऽऽक्रान्तमतिः पितृदेवव्रतः पुमान्। गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥3॥


Page 199


'ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यति। अभक्तो निरयं याति सुकर्माऽपि न संशयः' इति वामने॥3॥


भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा। कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥12॥ अभिमानेन - पूर्णज्ञानेन॥12॥


स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना। जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥13॥ सङ्गत्य - लये परमेश्वरं प्रविश्य। यथापूर्वी प्रजायते उच्चनीचादिभावेन जायते। अगुणव्यतिकरे बहिः श्वेतद्वीपे निर्गच्छति॥ ‘गुणव्यतिकराभावेऽप्युच्चनीचादिपूर्ववत्। विष्णोश्चैव विमुक्तानां न कदाचन गच्छति' इति गारुडे॥13॥


ऐश्वर्यं पास्मेष्ट्यं यत् तेऽपि धर्मविनिर्मितम्। निषेव्य पुनरायान्ति गुणव्यतिकरेऽसति ।। 14॥ गुणव्यतिकरे असति। प्रलये प्राप्ते पुनः परमेश्वरमायान्ति॥14॥ ‘ब्रह्मा देवैः परिवृतः प्रलये परमेश्वरम्। प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते॥ ज्ञानधर्मफलास्तत्र भोगान् भुक्त्वालये पुनः। नारायणं समाविश्य ज्ञानव्यक्तं निजं सुखम्। भुञ्जते त्वेवमेवैषां काले संसर्गनिर्गमौ।


Page 200


नित्यौ नित्यसुखं चैव सृष्टौ भोगास्तथोत्तमाः। गुणव्यतिकराभावेऽप्युच्चनीचादि पूर्ववत्। विष्णोश्चैव विमुक्तानां न कदाचन गच्छति' इति गारुडे। ‘यथापूर्वं हरेः सर्वगुणैर्नीचोच्चता तथा। ब्रह्मणश्च तथाऽन्येषामन्येषां च यथापदम्' इति स्कान्दे॥13,14॥


ये विहासक्तमनसः कर्मसु श्रद्ध्याऽन्विताः। कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥16॥


रजसा कुण्ठमनसः कामात्मनोऽजितेन्द्रियाः। पितृन् यजन्त्यनुदिनं गृहेष्यभिरताशयाः ।। 17 ॥


त्रैवर्गिकास्ते पुरुषा विमुख हरिमेधसः। कथायां कथनीयौरुविक्रमस्य मधुद्विषः ॥18॥


==


नूनं वैवेन विहता ये त्वच्युतकथासुधाम्। हिंत्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विङ्जः ॥19॥


दक्षिणेन पथाऽर्यम्णः पितृलोकं व्रजन्ति ते। प्रजायां तु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥20॥


ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति। पतन्ति विक्शा देवैः सद्यो विभ्रंशितोदयाः ॥21॥


Page 201


अत्यल्पभक्ता विष्णौ च सदा श्राद्धादिकारिणः। पितृलोकं समाविश्य स्वसन्ताने पुनः पुनः। क्षिप्रमेव प्रजायन्ते ये तु तद्भक्तिवर्जिताः। अन्यसामान्यवेत्तारस्तदन्योत्तमवेदिनः। तद्भक्तनिन्दकाश्चैव यान्त्येव निरयं ध्रुवम्।


अपि धर्मैकनिलया नात्र कार्या विचारणा' इति च ॥ ‘मुक्तियोग्यास्तु देवाद्या मानुषा यज्ञभोगिनः।


मनुष्यभेदाः श्राद्धादिकृतो विद्वेषिणोऽसुराः' इति च॥ 16-21॥


ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम्। अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणाम् ॥28॥ ‘मत्स्यकूर्मादिरूपं च विष्णोझनैकमात्रकम्। तन्मन्यन्ते भौतिकं तु ये गच्छन्त्यधरं तमः' इति ब्राह्मे॥28॥


यथा महानहङ्कारस्त्रिवृत्पञ्चविंधः स्वराट्। एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥29॥ ‘एकादशेन्द्रियात्मा च पञ्चभूतात्मकस्तथा। सर्वाभिमानी भगवान् स्वराडिन्द्रः पुरन्दरः। इदमण्डं जगत्सर्वं शक्रदेहं विदुर्बुधाः। तत्पतिस्त्रिगुणो रुद्रस्तस्य ब्रह्मा ततो हरिः' इति वामने॥ यथैतान् पश्यन्ति तद्वदेव ज्ञानात्मकं मत्स्यादिरूपं पश्यन्त्यज्ञाः॥29॥


Page 202


ज्ञानं योगश्च मन्निष्ठो नैर्गुण्य भक्तिलक्षणः। द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः॥32॥ ‘ज्ञानभक्ती विना नैव मुक्तिः कस्यापि विद्यते। तयोरेकतरेणापि विष्णुगेनोभयं विना। एवमप्येतयोरेकभावेऽन्यनियतेर्भुवम्। एकेनापि भवेन्मुक्तिस्तदर्थं त्वन्यसाधनम्' इति हरिवंशेषु॥32॥


1-


॥ इति तृतीयस्कन्धतात्पर्ये त्रयस्त्रिंशोऽध्यायः ॥ 3 - 33॥


यिः ॥ 3 - 34॥


देवहूतिरुवाच


अथाप्ययान्ते सलिले शयानं भूतेन्द्रियात्ममयं वपुस्ते। मुणप्रवाहं सदशेषबीजं ब्यौ स्वयं यजठराजजातः ॥2॥ भूतेन्द्रियार्थात्ममयं तेभ्यः प्रधानम्। ‘त्वं प्रधानमयो देव प्रधानादधिको यतः' इति वाराहे॥2॥


त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये। यथावतारस्तव सूकरादयस्तथाऽयमप्याल्मपथोपलब्धये ॥5॥ देहतन्त्रः - देहप्रकाशः। ‘ततिः प्रकाशो विस्तारस्तन्त्रं चेत्युच्यते बुधैः


इति तन्त्रमालायाम्॥5॥


Page 203


ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये। निवृत्तजीवभावत्वाद्वीतक्लेशाप्तनिर्वृतिः ॥26॥ ‘जीवोपाधिप्रभृतय आमुक्तेः सर्वदेहिनाम्। नियमात् सन्त्यभावस्तु निष्फलत्वादुदीर्यते' इति वाराहे॥26॥


॥ इति तृतीयस्कन्धतात्पर्ये चतुत्रिंशोऽध्यायः ॥ 3 - 34॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिंते श्रीमद्भागवतात्पर्ये तृतीयस्कन्धः ॥


॥ चतुर्थः स्कन्धः ॥ 4 ॥


॥ प्रथमोऽध्यायः ॥ 4 - 1 ॥


मैत्रेय उवाच -


मनौस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे। आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥1॥ ‘पुनः पुनः कथां प्राहुरभ्यासादुत्तमं फलम्। विज्ञापयितुकामास्तु विद्वांसस्तत्र तत्र तु’ इत्याग्नेये॥1॥ मैत्रेय उवाच -


शरणं तं प्रपद्येऽहं य एव जगदीश्वरः। प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥20॥


तप्यमानं त्रिभुवनं प्राणायमोत्थिताग्निना। निर्गतेन मुनेमूर्ध्नि समीक्ष्य प्रभवस्त्रयः ॥21॥


Page 204



अप्सरोमुनिंगन्धर्वसिद्धविद्याधरोरगैः। वितायमानयशसो मुदाऽऽश्रमपदं ययुः ॥22॥ ‘ब्रह्मस्थश्चैव रुद्रस्थः स्वयं चापि हरिः प्रभुः। प्रजां त्रिपुरुषसमां यच्छत्वित्यत्रिरैच्छत। तस्मात् स ब्रह्मरुद्राभ्यां सह विष्णुर्जगत्पतिः।


आगत्य तु त्रिमूर्त्यशान् पुत्रान् प्रादाजनार्दनः। भावित्वाच्चैव कार्यस्य लोकानां वञ्चनाय च इति ब्रह्मवैवर्ते॥20 - 22॥ देवा ऊचुः -


यथा कृतस्ते सङ्कल्प भाव्यं तेनैव नान्यथा। तत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायसि ते क्यम् ।। 30 ॥ तत्स्थविष्ण्वपेक्षया ते वयमिति॥30॥


सौमोऽभूद्वह्मणो अंशेन दत्तो विष्णस्तु योगवित्। दुर्वासाः शङ्करस्यांशो निंबोधाङ्गिरसः प्रजाः ॥33॥ ‘ब्रह्मणो नावतारोऽस्ति सन्निधानं तु केवलम्।


ऋते विष्णोरात्मनश्च तदंशोक्तिः प्रवेशतः' इति च। सृष्टिभेदाद्विरूपं तु कथापञ्चोत्तरं शतम्। वैरूप्यमन्यद्विज्ञेयं तात्पर्यान्मोहनाय च' इति स्कान्दे। ‘ऋते तु पाण्डवकथां का रामायणं तथा। विष्णोर्ब्रह्मादिनां चैव क्रमाव्यत्यस्तशक्तिताम्।


Page 205


एतदापादकं चान्यदृते कल्पादिभेदतः। कथाभेदस्तुविज्ञेयो मोहायैतेषु भिन्नता' इति वाराहे॥33॥ देवा ऊचुः -


मूर्तिः सर्वगुणोत्पत्ती नरनारायणावृषी। ययोर्जन्मन्यद विश्वमभ्यनन्दत् सुनिवृतम् ॥53॥


यो मायया विरचितं निजयाऽऽत्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय। एतेन धर्मसदने ऋषिमूर्तिनाद्यप्रादुश्चकार पुरुषाय नमः परस्मै ॥ 56॥ खे रूपभेदोऽभ्रादिः। ‘यथाकाशस्थितो नित्यम्' इत्यादि च। “यथाकाशे विमानादिरूपभेदः प्रतीयते। तथा हरौ जगदिदं तत्सामर्थ्यात् प्रतीयते इति ब्राह्मे॥53,56,59॥ ताविमौ वै भगवतो हरेशाविहागौ। भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ।।59॥ ‘नरे विष्णुः समाविष्टः स्वयं नारायणो हरिः। अर्जुने च नरावेशः कृष्णो नारायणः स्वयम्' इति तत्त्वविवेके।


पितर्यप्रतिरूपे स्वे भवायानागसे रुषा।


अप्रौढेवात्मनाऽऽल्मानमजाद्योगसंयुता ॥ 66॥


अप्रौढेव - अस्वीकृतेव॥66॥


Page 206


॥ इति चतुर्थस्कन्धतात्पर्ये प्रथमोऽद्यायः ॥4 -1 ॥


॥ द्वितीयोऽध्यायः ॥ 4 - 2 ॥ नन्दिरुवाच - य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्वहिं। द्रुह्यत्यज्ञः पृथक् दृष्टिस्तत्त्वतो विमुखो भवेत् ॥22॥ 'ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम्। कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः। तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि। भगवन्नियतत्वात् तु शापादिर्नात्र कारणम्' इति वाराहे॥22॥


गिरेः सुतायाः पुष्टिण्या मधुगन्धेन भूरिणा। मथ्ना चन्मथितात्मानः सम्मह्यन्तु हरद्विषः ॥26॥ गिरिः प्राणः समुद्दिष्चस्तत्सुता वेदवाग्स्मृता। पुष्पं स्वर्गादयः प्रोक्ताः फलं मोक्ष उदाहृतम्' इति वामने॥ ‘अनङ्गो मन्मथ मन्था कामो अङ्गजः उदाहृतः इति शब्दनिर्णये॥26॥


॥ इति चतुर्थस्कन्धतात्पर्ये द्वितीयोऽध्यायः ।। 4 - 2 ॥


॥तृतीयोऽध्यायः ॥4 - 3॥


सत्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः। सत्वं च यस्मिन् भगवान् वासुदेव त्वधोक्षज मे मनसा विधीयते ॥23॥


Page 207


विशेषेण धीयते - चिन्त्यते।।


‘रुद्रेण धीयते विष्णुर्विष्णोर्थेयो न कश्चन' इति ब्रह्मवैवर्ते॥23॥


॥ इति चतुर्थस्कन्धतात्पर्ये तृतीयोऽध्यायः ।।4 - 3॥


""


.


॥ चतुर्थोऽध्यायः ॥4 - 4॥


यत्पादपझं महतां मनोऽलिभिर्निषेवितं ब्रह्मरसासवार्थिभिः। लोकस्य यद्वर्षति चाशिषोऽर्थिनस्तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ ब्रह्मरसासवार्थिभिः शिष्याणां मनोऽलिभिः। ‘सनकादयो रुद्र शिष्यास्तेषामन्ये तु योगिनः। ब्रह्मशिष्यस्तथा रुद्रो ब्रह्मा नारायणस्य च' इति ब्राह्मे॥15॥


किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने। तन्माल्यभस्मनुकपाल्यवसत्पिशाचैर्येमूर्धभिर्दधति तच्चरणावसृष्टम् ॥16॥ ब्रह्मादयो ब्रह्मपुत्राः। सुपर्णशेषप्राणेशब्रह्मविष्णून् श्रियं गिरम्। ऋते नमति नो रुद्रं क एव पुरुषार्थभाक्' इति गारडे॥16॥


कर्म प्रवृत्तं च निवृत्तमप्युत वेदे विविच्योभयलिंङ्गमाश्रितम्। विरोधि तद्यौगपढेककर्तरि द्वयं तथाऽऽब्रह्मणि कर्म नच्छति ॥20॥


आब्रह्मणि - सम्यग् ज्ञानिनि। ‘आब्रह्मास्थितधीर्जीवन्मुक्तश्चेत्यभिधीयते।


Page 208


यस्तस्य न निवृत्तं च प्रवृत्तं कर्म चेष्यते। यत्तुदेवाः प्रकुर्वन्ति स महानियमः स्मृतः। स्वर्गाद्यर्थं प्रवृत्तं स्यान्निवृत्तं मुक्तये तु यत्। स महानियमो नाम कर्म यत्त्वाधिकारिकम्। महतो नियमाद्विष्णोः प्रीत्या मुक्तौ सुखोन्नतिः केचिन्निवृत्तमित्याहुर्महानियममप्युत' इति भविष्यत्पुराणे॥ ‘यदि देवाश्च ऋषयो निन्द्यन्ते यत्र कुत्रचित्। न तावता गुणैनाः स्थितप्रज्ञा हि ते मताः। यथायोग्यं तु तात्पर्य निन्दायामन्यदेव तु' इति गारुडे॥20॥


॥ इति चतुर्थस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥4 - 4॥


यः ॥4 - 4॥


॥पञ्चमोऽध्यायः ॥ 4 - 5॥


ततः स्वभर्तुश्चरणाम्बुजासवं जगद्रोश्चिन्तयती न चापरम्। ददर्श देहे हतकल्मषा सती सद्यः प्रजज्वाल समाधिजाग्निना ॥ 4 ॥ न चापरं तस्मादवरं न चिन्तयती। परन्तु विष्ण्वादिकं चिन्तयती, चशब्दात्। ‘रुद्रं च ब्रह्मवायू च विष्णुं चैव श्रियं गिरम्। उमा चिन्तयती देहं तत्याजान्यं न चास्मरत्' इति तत्त्वनिर्णये॥


॥इति चतुर्थस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥4 - 5॥


यः ॥4 - 5॥


॥ षष्ठोऽध्यायः ॥ 4 - 6॥


Page 209


दृष्ट्वा संज्ञकपने योंगं पशूनां स पतिर्मखे। यजमानपशोः कस्य कायात् तेनाहरच्छिरः ॥24॥


जुहावैतच्छिरस्तस्मिन् दक्षिणाम्नावमर्पितः। तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥26॥ ‘वीरभद्राख्यरूपेण स्वेन पूर्वं ययौ हरः। मूलरूपेण पश्चात् तु गत्वा दक्षमथावदीत्। तत्रोपेन्द्रेण हरिणा जितो धर्मात्मजेन च। अन्यान् जिगाय प्रययौ कैलासं स्वं निकेतनम्’ इति ब्राह्मे॥24 -26॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये फ्छोऽध्यायः ॥ 4 - 6॥


यः ॥4 - ४ ॥


उपलभ्य पुरैवैतद्भगवानज्जसम्भवः। नारायणश्च विश्वात्मा न कस्याध्वस्मीयतुः ॥3॥ त्रिमूर्तिगेन रूपेण नारायणो नाययौ॥3॥


नाहं न यज्ञो न च यूयमन्ये ये देहभाज मुनयश्च तत्त्वम्। विदुः प्रमाणं बलवीर्ययोर्वा तत्स्वात्मतन्त्रस्य क उद्विधित्सेत् ॥7॥ यज्ञः - इन्द्रः। ‘यज्ञो यज्ञपतिस्त्विन्द्रः पुरुहूतः पुरुष्टुतः' इत्यभिधानम्। तस्मात्मतन्त्रस्य। तस्य विष्णोर्मनोवशस्य।


Page 210


'नाहं चेन्द्रो न चैवान्ये यत्तत्वं न विदुः परम्। तस्य विष्णोर्वशे रुद्रो मम वायोरथापि वा। नान्यस्य कस्यचित् पुंसस्तस्येत्थं वः कुतः कृतम्' इति ब्रह्मवैवर्ते। ‘मुमुक्षवो ब्रह्मणश्च शिवादिन्द्रादिभिस्तथा।


श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सह' इति कौमैं॥7॥


स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्खिम्। उत्थाय चक्रे शिरसाऽभिक्न्दनं महत्तमोऽर्कस्य यथैव विष्णोः ।। 40 ॥ महत्तमस्तेजस्वितमोऽर्कस्य सकाशादपि। 'तेजोऽर्थ उत्तमार्थे च पूज्यार्थे च प्रयुज्यते। महच्छब्दो महःशब्दो मान्यशब्दस्तथैव च' इति शब्दनिर्णये॥40॥ ब्रह्मोवाच -


जाने त्वामीश विश्वस्य जगतो योनिबीजयोः। शक्तेः शिवस्य च परं यत्तद्ब्रह्म निरन्तरम् ॥42 ॥


त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः। विश्व सृजसि पास्यत्सि क्रीङन्नूर्णपदो यथा ।। 43 ॥


अन्तर्याम्यपेक्षया शक्तेः शिवस्य च परमिति। ‘क्रियन्ते स्तुतयोऽन्यत्र तदन्तर्याम्यपेक्षया।


न जीवे हि गुणाः पूर्णा यथायोग्या हि तद्गताः' इति ब्राह्म। ‘तद्वशत्वात् स्वरूपं तु विष्णोः सर्वमुदीर्यते।


Page 211


स्वरूपं स तु सर्वत्र बिम्बत्वादेव तूच्यते। साक्षात्स्वरूपं मत्स्याद्या विष्णोर्नान्यत् कथञ्चन। तस्मादन्यगता दोषा न तस्मिन् पुरुषोत्तमे इति तत्त्वनिर्णये॥42, 43॥ त्वमेव धर्मार्थदुघाऽभिपत्तये दक्षेण सूत्रेण विसर्जिताध्वरः। त्वयैव लोकोऽवसिताश्च सैतव यान् ब्राह्मणाः श्रद्दधते धृतव्रताः ॥44॥ अभिपत्तये - प्रतीकाराय। सूत्रेण - दोषसूचकेन॥44॥


न वै सतां त्वचरणार्पितात्मनां भूतेषु सर्वेष्यभिपश्यतां तव। भूतानि चात्मन्यपृथग्विदृक्षतां प्रायेण रोषोऽभिभवेद्यथा पशः ।। 46 तव - त्वाम्। 'चतुषु षष्ठी' इति सूत्रात्॥ ‘विष्ण्वधीना जगत्सत्ता प्रतीतिश्चेष्टितं गतिः। इति यन्नियतं ज्ञानमपृथग्दर्शनं स्मृतम्। मिथ्याज्ञानं पृथग् ज्ञानमिति वेदविदो विदुः। यथैवार्थस्तथाज्ञानमपृथग्दृष्टिरुच्यते' इति गारुडे॥46॥


ये अस्मिन् यदा पुष्करनाभमायया दुर्लयया स्पृष्टधियः पृथग्दृशः। कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधको दैवबलात् कृताः कथम् ॥48॥ यदा - यस्मात्। ‘हृदयस्य द्रवीभावस्त्वनुकम्पेति कथ्यते।।


उपकारं कर्तुमिच्छां कृपेत्याहुर्मनीषिणः' इति शब्दनिर्णये॥48॥


Page 212


भवान् हि पुंसः परमस्य मायया दुरन्तयाऽस्पृष्टमतिः समस्तक्। तया हुतात्मस्वनुकर्मचेतः स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ 49 ॥ मायया - विष्यवधीनबन्धकशक्त्या। ‘विष्णुमाया हरेरिच्छा बन्धशक्तिश्च तद्वशा। सर्वत्रगा हरेरिच्छा बन्धशक्तिझैवर्जिता' इति शब्दनिर्णये॥49॥


॥ इति चतुर्थस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥4 - 2 ॥


॥ अष्टमोऽध्यायः ॥4 - 8॥




अप्यर्वाग्वृत्तयो यस्य महित्वं स्वभुवादयः। यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥24॥ ‘उत्पत्तिर्हरिरूपाणां व्यक्तिरेव न संशयः। उत्पत्तिरेव जीवानां देहोत्पत्तिरुदीर्यते' इति तत्त्वनिर्णये॥24॥


दक्ष उवाच -


शुद्धं स्वधाम्नुपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम्। तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्यामास्ते भवानपरिशुद्धमिवामनन्ति ॥26॥ ‘जडमाया न तस्यास्ति शरीरत्वेन कुत्रचित्।


सृष्ट्वातया शरीराणि तत् स्थितेः पुरुषः स्मृतः। मायायामशरीरायामपि विष्णुः स्वयं स्थितः। तस्मात् प्राकृत इत्येव जीववत् तं वदन्ति हि। अस्पृष्टत्वेऽपि तद्धर्मेस्तद्गत्वादेव कारणात्' इति तत्त्वविवेके॥26॥


Page 213


ऋत्विज ऊचुः तत्त्वं न ते क्यमनञ्जन रुद्रशापात् कर्मण्यवग्रहधियो भगवन् विदामः । धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं ज्ञातं यदर्थमधिदैक्मदस्त्वमास्थाः ॥27॥ अधिदैवम् - उत्तमदैवम्। यद्यज्ञभागार्थं यज्ञभुग्देवताशरीर आस्थाः। ‘भुङ्गे यज्ञभुजो देवानाविश्य पुरुषोत्तमः' इति च॥27॥ रुद्र उवाच - तव वरद वराङ्घावाशिषा चानभिध्ये ह्यपि मुनिभिः सक्तैरादरेणार्हणीये। यदि रचितधियं मां विद्धि लोकापविद्धं जगतिं न मणयेयं त्वत्परानुग्रहेण ॥29॥ अशिषोऽपि तत एव भवन्तीत्यतश्चशब्दः॥29॥





नैतत् स्वरूपं भक्तोऽसौ पदार्थभेद्ग्रहः पुरुषो यादीक्षेत्। ज्ञानस्य चार्थस्य गुणस्य चाश्रयान्माययाव्यतिरिक्तो यतस्त्वम् ॥31॥ ‘अव्यक्तादिपदार्थानां विशेषज्ञानिनाऽपि तु।।


न देहो वैष्णवो ज्ञेय आनन्दः प्राकृतो न हि' इति तन्त्रसारे। पदार्थभेदग्रहः - पदार्थविशेषज्ञः। ‘भेदोऽन्तरं विशेषश्चसूक्ष्मेक्षश्चाभिधीयते इति तत्त्वनिर्णये॥31॥


ऋषय ऊचुः - अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे। विभूतयो यत उपसेदुरीश्वरान् न मन्यते स्वयमनुवर्तिनीं भवान्॥34॥ ईश्वरान्॥34॥ लोकपाला ऊचुः -


Page 214


दृष्टः किं न दृम्भिरसद्धहैस्त्वं प्रत्यग्दृष्ट्या दृश्यते येन विश्वम्। माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ 37 ॥ माया ह्येषा भवदीया। भगवत्सामर्थ्यमेव। भगवन्महिमैवासौ यदृश्यो भगवान् स्वयम्' इति च॥37॥ योमेश्वरा ऊचुः - प्रेयान्न तेऽन्योऽस्त्यमृतप्रिय प्रभो विश्वाल्मनीक्षेन्न पृथग्य आत्मनः। अथापिं भृत्येश तयोफ्धाक्तामनन्यवृत्त्याऽनुगृहाण वत्सल ॥38॥ न पृथग्य आत्मनः। अन्यथा यो न पश्यति। ‘पृथग् ज्ञानं तदित्याहुर्यत्किञ्चिद्वीक्ष्यतेऽन्यथा।


ज्ञानज्ञेयाविरोधेन त्वपृथग्वस्तुनो दृशिः। केचिद्भेदं विनिन्दन्ति ह्यासुरज्ञानवृत्तयः। निराकुर्वन्त्यथो मन्दा भेदस्य परमार्थताम्।


ये तु तत्त्वविदो मुख्या भेदं ब्रह्मान्यवस्तुनोः। परमार्थमिति ज्ञात्वा नित्यं विष्णुमुपासते' इति गारुडे। हे भृत्येश। तयाऽनन्यवृत्त्योपधावतामस्माकमनुग्रहोऽस्त्येव। तथाऽपि पुनरनुगृहाण। 'यथार्थज्ञानिनो नान्यः प्रियो विष्णोस्तु कश्चन। तथाऽप्यधिकसन्तुष्यै प्रसीदेत्यर्थनं पुनः' इति च ॥38॥


जगदुद्भवस्थितिलयेषु लीलया प्रविभज्यमानगुणयाऽऽत्ममायया। रचितात्मभेदमतये स्वसँस्थया ह्यतिंवर्तितभ्रमगुणात्मने नमः ॥39॥


प्रकृत्या जड्या मिथ्याज्ञानं जनयतीश्वरः।


Page 215


तस्य भ्रमश्च सत्वाद्या न सन्ति परमेशितुः' इति च॥39॥ अग्निरुवाच -


यत्तेजसाऽहं सुसमिद्धतेजा हव्यं सम्यध्वर आज्यसिक्तम्। तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ‘यज्ञो यज्ञपुमांश्चैव योज्ञेशो यज्ञभावनः।। यज्ञभुक् चेति पञ्चात्मा यज्ञेष्विज्यो हरिः स्वयम्।


ओश्रावयास्तुश्रौषड्यजाथो ये यजामहे।। वषट्कारान्तकैर्नित्यं यजुर्भिः पञ्चभिर्विभुः' इति तन्त्रसारे॥41॥


ब्राह्मणा ऊचुः -


त्वं क्रतुस्त्वं हविंस्त्वं हुताशः स्वयं त्वं हि मन्त्राः समिंदर्भपात्राणि च । त्वं सदस्यविजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुस्त्वम् ॥45॥ 'सर्वशब्दाभिधेयत्वं सर्वान्तर्यामिकत्वतः।


न तु सर्वस्वरूपत्वात् सर्वभिन्नो यतो हरिः' इति मात्स्ये॥45॥


अहं ब्रह्मा च शर्वश्च जगतः कारणं परम्। आत्मेश्वर उपद्रष्टा स्वयंगविशेषणः ॥ 50 ॥ ‘अन्तर्यामिस्वरूपेण ब्रह्मरुद्राद्यभिन्नता। न तु जीवस्वरूपेण जीवा भिन्नायतो हरेः। विशेषाभेदवचनं सन्निधानविशेषतः।


सन्निधानं तु तत्र्पोक्तं सामर्थ्यव्यञ्जनं हरेः' इति भविष्यत्पर्वणि॥50॥


Page 216


तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि। देहात्मबुद्धिर्भूतानि भेदेनाज्ञोऽनुपश्यति ॥52॥ ‘हरेर्वशत्वदृष्टिस्तु भूतानामपृथग्दृशिः। प्रियत्वदृष्टिरथवा ब्रह्मादीनां विशेषतः' इति गारुडे॥52॥


त्रयाणामेकभावानां यो न पश्यति वै भिदाम्। सर्वभूतात्मना ब्रह्मन् स शान्तिमधिगच्छति ॥ 54॥ सर्वभूतात्मना - सर्वभूतान्तर्यामित्वेन॥54॥ मैत्रेय उवाच -


एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम्। अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ 55॥ उभयतः - सोमतो हविषश्च॥55॥


तमेव दयितं भूयस्त्ववाप पतिमम्बिका।


अनन्यभावैकमतिः शक्तिः सुप्तेव पूरुषम् ॥ 59॥ ‘शक्तित्वाद्विष्णुशक्तिस्तु शक्तिशब्देन चोच्यते। शक्यत्वात् प्रकृतिश्चापि स्वापः सृष्टिं विना हरौ। रतिस्तस्यास्तु कथितो न ह्यन्यः स्वाप इष्यते' इति तन्त्रसारे॥59॥


पीत्वाऽन्तरजरं वह्निश्चच्छदं शस्कान।


कुमारोऽभूत् ततस्तस्मैस्तनं षट् कृत्तिका ददुः ॥ 64 ॥ स्वाहाद्वारेण शरकानने चच्छर्द। भारतक्तेः॥64॥


Page 217


॥ इतिं चतुर्थस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥4 - 8॥


यः ॥4 - 9॥


अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह। स्वायम्भुवस्यापि मनोहरेशांशजन्मनः ॥7॥ ‘आविष्टाहरिणा जीवा ब्रह्मा दक्षो मनुः पृथुः। शक्राद्या ऋषयश्चैव मत्स्यव्यासादयो हरिः' इति ब्रह्मवैवर्ते॥7॥


है


।"


फ्रियव्रतत्तानपादौ शतरूपाऽलभत् सुतौं। वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥8॥ ‘प्रियव्रतोत्तानपादप्रमुखेषु हरिः स्वयम्।


आविष्टः सर्वभूतेषु ऋषभाद्याः स्वयं हरिः' इति हरिवंशेषु॥8॥


विंकल्पे विद्यमानेऽपि न ह्यसन्तोक्हेतवः। पुंसो मोहमृते भिन्नायल्लोका निजकर्मभिः ॥31॥ विविधकल्पने विद्यमानेऽपि॥31॥


स्मयमानमभिध्यायेत् सानुरामावलोकनम्। नियतेनैकभूतेन मानसा वरदर्षभम् ॥54 ।। परिणततया एकस्मिन्नेव भूतेन॥54॥


परिचर्या भगवतो यावतीः पूर्वसेविताः। ती मन्त्रहृदयेनैव प्रयुज्यान्मन्त्र मूर्तये ॥61।।


|


"


Page 218


मन्त्रहृदयेन मन्त्रेण च नमः शब्देन च॥61॥


सदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः। एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ 72॥ तस्यैव योग्यत्वाल्लोकपालानां दुष्करम्। ‘नाशक्यं देवतानां तु यदन्यैः शङ्कितं क्वचित्। शक्ता अपि न कुर्वन्ति यदन्यविहितं बुधाः' इति ब्राह्मे॥72॥


तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम्। समाहितः पर्यचरदृष्ट्याऽऽदेशेन पूरुषम् ॥74॥ दृष्ट्या - निरूपणया। आदेशेन - उपदेशेन॥74॥


|


|


देवाश्चकुस्तपोर्विघ्नं त्रासयन्तः स्वमायया। सर्पेभसिंहकूष्माण्डैस्तान्नापश्यत् परं गतः ॥ 80॥ 'यत्र देवैः कृते विघ्ने खण्डितो न पुमान् भवेत्। तत्र तद्यशसे विघ्नं कुर्युर्न तु विघातने। यत्र खण्डितता तत्र खण्डनायैव केवलम्। सत्यकामा यतो देवास्तचित्ताद्यभिमानिनः। ततो विमोहनायैव प्राप्नुयुस्ते पराजयम्। तेषामशक्तितोक्तिश्च विमोहाय सुरद्विषाम्' इति ब्रह्माण्डे॥80॥




सर्वतो मन आकृष्य हृदि भूतेन्द्रियाश्रयम्। ध्यायन् भगवत रूपं नाद्राक्षीत् किंञ्चनापरम् ॥ 82॥


Page 219


भूतेन्द्रियाश्रयं - भगवद्रूपम्॥81॥


तस्मन्नभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया। लोका निरुच्छासनिपीङिता भृशं सलोकपालाः शरणं ययुर्हरिम् ॥ विश्वम् - भगवन्तम्। आत्मनो द्वारं सर्वजीवोत्पत्त्यादि द्वारम्। लोकानामेव निरुच्छासः। लोकपालास्तदर्थमेव शरणं ययुः। ‘ध्यातुर्भुवस्य कीर्त्यर्थं हरिणा सह देवताः। लोकोच्छ्वास निरुध्याथ श्वासार्थं च हरिं ययुः। अन्यप्रवृत्तयस्तेभ्यो न तेषामन्यतः क्वचित्। स्वोत्तमेभ्यस्तु देवेभ्यस्तेषां स्युः स्वप्रवृत्तयः इति तत्त्वनिर्णये॥84॥ देंवा ऊचुः - नैवं विदामो भगवन् प्राणरोधं चसचस्स्याखिलसत्वधाम्नः। विधेहि शं नो वृजिनाद्विमोक्षं प्राप्ता क्यं त्वां शरणं शरण्यम्॥


अखिलसत्वसमूहस्य। ‘तेजः शक्तिः समूहश्च गृहं धामेति कथ्यते' इति तत्त्वनिर्णये॥85॥


॥ इति चतुर्थस्कन्धतात्पर्ये नवमोऽध्यायः ॥ 4 - ॥


॥दशमोऽध्यायः ॥4-10॥


या निर्वृत्तिस्तनुभृतां तव पादपद्मध्यानाद्भक्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिंमन्यपि नाथ मा भूत् किंम्वन्तकासिलुलितात् पततां विमानात् ॥


Page 220


परब्रह्मणि स्थितस्य ध्यानादिकं विना न भवति। सुप्तौदृष्टत्वात्॥10॥


ते न स्मरन्त्यतितरां प्रियमीशमाद्यं स्वान् सम्पदः सुतसहृद्हवित्तदारान् । ये त्वज्जनाभ भवदीयपदास्वविन्दसौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ 12 ॥ ये स्वान् सम्पदः स्मरन्ति ते त्वां न स्मरन्ति। ये भगवद्भक्तसङ्गाः ते स्वान् सम्पदो न स्मरन्ति॥12॥


तिर्यङ्गद्विजसरीसृपदेवदैत्यमर्यादिभिर्विरचितं सदसद्विशेषम्। रूपं स्थविष्ठमज ते महाद्यशेषं नातः परं परम वेद्मि न यत्र वाचः ॥13॥ पश्यमानोऽपि तु हरि न तु वेत्ति कथञ्चन। वेत्ति किञ्चित्प्रसादेन हरेरेव गुरोस्तथा' इति ब्रह्मतकै॥13॥


त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांख्यधीशः । यद्यवस्थितमखण्डितया स्वदृष्ट्या दृष्ट्वाऽऽस्थिता वधिमतो व्यतिरिक्त


आस्से॥15॥ वधिं - अवधिम्। अल्लोपेन। संसारावधिभूतं त्वामास्थिताः। सहैवास्ते॥15॥


यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति विद्या विविधशक्तय आनुपू ।


तद्ब्रह्म विश्वभवमेकमविश्वमाद्यमानन्दमात्रमव कामहं प्रपद्ये ॥16॥ ‘आनुपूर्वी श्रुतिश्चैव त्रयी चाम्नाय उच्यते’इत्यभिधानम्॥16॥


सत्याशिष हि भगवंस्तव पादमूलमाशिष्टयोऽनुभजतः पुरुषार्थमूर्तेः। अप्येवमार्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान्॥


Page 221


तवा पादमूलं भजत आचार्यस्याशिष्टयः शिक्षाः सत्याशीः प्रदा एख। तथाऽपि अस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः परिपाति भवान्॥17॥


अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत। भवच्छिदः पादमूलं गत्वाऽयाचे तदन्तवत् ॥31॥ ‘अधिपत्यमनित्यं तु ध्रुवलोकस्य यद् ध्रुवे। न तु तत्स्थानगन्तृणां यतीनां स्थितिरुत्तमा। तस्यापि मुक्तिर्नियता नियतं चापि तत्पदम्। तथाऽपि कामनानिन्दा ध्रुवेण सुकृता बत' इति भविष्यत्पर्वणि॥31॥


दैवी मायामुपाश्रित्य प्रसुप्त इव भिन्नधृक् । तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यजा ॥33॥ ‘द्वितीयस्य स्वतन्त्रस्य त्वभावाद्यवर्जितः। ईश्वरश्चेशितव्यस्य भावात् स परमेश्वरः' इति हरिवंशेषु॥33॥


भवच्छिदम्याचेऽहं भवं भाग्यविवर्जितः।। तादात्म्यं यच्छतो मौढ्यान्मनो मे भिक्षितं बत। ईश्वरात् क्षीणपुण्येन पुलाकानिंव चाधनः ॥35॥ ‘हरी नियतचित्तत्वाद्हवत् तत्प्रवेशनात्।


मोक्षं तादात्म्यमित्याहुर्न तद्रूपतः क्वचित्' इति भविष्यत्पर्वणि। तचित्ततैव च तादात्म्यम्। ‘नैकात्मतां मे स्पृहयन्ति' इत्युक्तत्वात्।


Page 222


‘हरीच्छितेच्छुतैकात्म्यं न तेनैकस्वरूपता' इति च। ‘कामेन मे काम आगात्' इति च श्रुतिः॥35॥


लाल्यमानं जनैवं ध्रुवं सभ्रातरं नृपः।।


आरोप्य करिणीं हृष्टः स्तूयमानोऽक्शित् पुरम् ॥53॥ ‘कलभश्चैव कन्यानां करिणी बालमङ्गला' इति राजनीतौ ॥53॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये दशमोऽध्यायः ॥4-16 ॥


॥एकादशोऽध्यायः ॥ 4-11 ॥


  • TI


निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः। व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥47॥ केचित् कर्म वदन्त्येनं स्वभावमपरे नृप। एके काले परे दैवं पुंसः काममुतापरे॥52 ॥ ‘हरिरक्लिष्टकारित्वादयस्कान्तवदुच्यते। कामकर्मस्वभावेषु काले चावस्थितो हरिः। सर्वकारणभूतः संस्तत्तन्नाम्नाऽभिधीयते' इति सत्यसंहितायाम्॥52॥


15


॥ इति चतुर्थस्कन्धतात्पर्ये एकादशोऽध्यायः ॥ 4 - 11 ॥


॥ द्वादशोऽध्यायः ॥ 4 - 12॥


Page 223


अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य छि। स्वाप्नीव भात्यनुध्यानाद्यया बन्धविपर्ययः ॥ 4 ॥ परमेश्वरं विनाऽहं त्वं कर्तेति भ्रान्तिः। ‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः' इति मोक्षधर्मेषु। विपर्ययो दुःखादिः सुखादिरूपस्य॥4॥


-


-


भजस्व भजनीयाङ्खिमभवाय भवच्छिदम्। युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥6॥


आत्मसामर्थ्याख्यया शक्त्या युक्तम्। गुणमय्या विरहितम्॥6॥



.


वृणीहि कामं नृप यन्मनगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः । वरार्हणोऽस्यम्बुजनाभपादयोर्निरन्तरं त्वां क्यमङ्ग शुश्रुम ॥ निरन्तरं भगवत्पादमानसम्॥7॥


अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः। द्रव्यक्रियादेवतानां कर्माकर्मफलप्रदम् ॥10॥ द्रव्यक्रियादेवतानां कर्म विषयम्। अकर्मफलप्रदं मोक्षफलप्रदम्॥10॥


सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन्। ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥11॥ ‘विश्वः पूर्णस्तथा सर्वः समस्तश्चाभिधीयते' इत्यभिधानम्॥11॥


मन्यमान इदं विश्व मायाचितमात्मनि। अविद्यारचितस्वमगन्धर्वनगरोपमम् ।। 15॥


Page 224


‘अन्यथात्वात् क्षिप्रनाशाज्जगत्स्वप्नादिवत् स्मृतम्। वर्तमानं नियत्यैव सदैव परमात्मनि' इति वाराहे॥ ‘महामायेत्यविद्येति नियतिर्मोहिनीति च। प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते' इति स्कान्दे॥15॥


तस्या विशुद्धकरणः शिववार्विंगाह्य बध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः । स्थूले दधार भगवत्प्रतिरूप एतच्यायंस्तव्यवहितो विसृजन् समाधौ ॥17॥ स्थूले - पातालादिके। शिलावत् प्रतिमारूपे। ‘शिलावत् प्रतिमैषा हि विष्णोर्लोकचतुर्दशी' इति च॥17॥


सुदुर्जयं विष्णुपदं जितं त्वया यत्सूयोऽप्राप्य विचक्षते पस्म्।


आत्तिष्ठ तच्छन्द्रदिवाकरायो ग्रहक्षताराः परियन्ति दक्षिणम् ॥25॥


अनास्थितं ते पितृभिरन्यैरप्यङ्ग कहिँचित्।।


आतिष्ठ जगतां क्न्यं तद्विष्णोः परमं पदम् ॥26॥ ‘शिंशुमारो ध्रुवश्चैव संस्थितौ यत्पुरे सदा। तत्पश्यन्ति न यान्त्यन्ये लोकं यान्ति सुरान् विना' इति च॥25,26॥


श्रावयेच्छधानानां तीर्थपादपदाश्रयः। नेच्छंस्तत्रात्मनाऽऽल्मानं सन्तुष्ट इति सिद्ध्यति ॥ 49॥ मनसा परमात्मानं प्रति सन्तुष्टः॥49॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये द्वादशोऽध्यायः ॥ 4 - 12॥


Page 225


॥त्रयोदशोऽध्यायः ॥ 4-13।। अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः। स्वरूपमवरुन्धानो नान्यदस्मात् तदैक्षत ॥9॥ स्वरूपं जीवस्य बिम्बरूपं परमात्मानम्। ‘भिन्नस्वरूपमभिदं स्वरूपं तु द्विधा हरेः।। भिन्नस्वरूपं ब्रह्माद्या मत्स्याद्यभिदमुच्यते' इति गारुडे।


तत्वा तं जङमुन्मत्तं कुलवृद्धाः समन्त्रिणः। वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥11॥ ‘कल्पः कल्पाभिमानी सन् शिंशुमारानुगः स्थितः। वत्सरो राज्यमकरोत् पित्रा दत्तं महाबलः' इति ब्राह्मे। ‘चक्रे नारायणः साक्षात् किंस्तुघ्नः कल्पमात्मजम्' इति पाझे॥11॥


सदस्या ऊचुः नरदेवेह भक्तो नावचं हि मनाक् स्थितम्। अस्त्येक प्राक्तनमधं यदीहेदृक् त्वमप्रजः ॥31॥


तथा साधय भद्रं त आत्मानं सप्रजं नृप। इष्टस्ते पुत्रकामस्य पुत्रं दास्यतिं यज्ञभुक्॥32॥


यथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः। यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥33॥ ‘अनपत्योऽपि सद्धर्मा लोकजिन्नात्र संशयः।


Page 226


देवैस्तु पृथुजन्मार्थे हविरङ्गस्य नो हृतम्॥ अनपत्यत्वकर्माऽसौ बालहत्याकृतेः पुरा। अतो दुष्टोऽभवत् पुत्र इष्टो विष्णुरतः पृथुः इति वामने॥31 - 33॥ स बाल एव पुरुषो मातामहमनुव्रतः। अधर्माशोद्भवं मृत्यु तेनाभधार्मिकः ॥39॥


|


स शरासनमुद्यम्य मृगयुर्वनगौचरः।। हन्त्यसाधुर्मुगान् दीनान् वेनोऽसावित्यरौज्जनः ।। 40॥ ‘मृत्युर्देवो यमभ्राता वेनमातामहोऽसुरः॥ पीडां वेनेति च प्राहुर्वेनोऽसौ पीडनादभूत्' इति च॥39,40॥


॥ इति चतुर्थस्कन्धतात्पर्ये त्रयोदशोऽध्यायः ॥4 - 13॥


मयः ॥4 - 13॥


॥ चतुर्दशोऽध्यायः ॥4 - 14॥


तं सर्वलोकामस्यज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपमयम्। यज्ञैर्विचित्रैर्यजत भवाय ते राजन् स्वदेशाननुरोद्भुमर्हसि ॥22॥ सर्वलोकान् सङ्ग्रह्णातीति तत्सङ्ग्रहः। ‘सर्वस्य ग्रहणाद्विष्णुः सर्वसङ्ग्रह उच्यते। वेदस्य तद्वक्तृकत्वात् प्राधान्यं तु त्रयीमयः। सर्वं तद्विषयत्वेन मुख्यं सर्वमयस्ततः' इति स्कान्दे॥22॥


Page 227


यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कला हरेः। स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम्॥ ‘विष्णोः सन्निहितत्वात् तु सर्वे देवा हरेः कलाः' इति च॥23॥


अक्जानन्ति ये मूढ़ा नृपरूपिणमीश्वरम्। नानुविन्दन्ति ते भद्रसिंह लोंके पत्र च ॥25॥


तस्मान्मां कर्मभिर्विप्रा यजध्वं कतमत्सराः। बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥29॥ “अहं ब्रह्मेति वेनस्तु ध्यायन्नापाधरं तमः। तद्राद्धान्तो महीं व्याप्तो भेर्या ख्यापयतोऽनिशम्। आसुरा राक्षसाश्चैव पिशाचास्तत्पथि स्थिताः। भूमौ तत्पृथुना सर्वं निरस्तं महितात्मना। पुनः कलियुगे प्राप्ते अष्टाविंशतिमे मनोः। वैवस्वतस्य समये जाताः क्रोधवशा भुवि। ख्यापयन्ति दुरात्मानो मणिमांस्तत्पुरःसरः इति भविष्यत्पुराणे॥25 -29॥ विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः। ममन्थुरूरू तरसा तत्रासद्वाहुको नरः ॥ 44॥


तं तु तेऽक्नतं दृष्ट्वा किङ्करोमीति वादिनम्। निषदेत्यभुवस्तात स निषादस्ततोऽभवत् ।। 46॥


Page 228


तस्य वंश्यास्तु नैषादा गिरिंकाननगोचराः। योऽपाहरज्जायमानो वेनकिल्बिषमुल्बणम्॥ 47 ॥


त्र्यंशो वेनः समुद्दिष्टः सत्वांशः पृतुतामगात्। रजोंऽशश्चदिवं यातो निषादस्तामसोऽभवत्। स्वयं वेनश्चतुर्थस्तु महातमसि पातितः' इति कौमैं। ‘पापरूपि पृथग् जातो निषादो वेनदेहतः। यस्मात् तस्मा पृथोः पुत्राद्रजो वेनो दिवं ययौ’ इति गारुडे॥


ऋषय ऊचुः एष विष्णोर्भगवतः कला भुवनपावनी। इयं च लक्ष्मीः सम्भूतिः पुरुषस्यानपायिनी ॥ 50 ॥ ‘पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम्। विशेषावेशतस्तेषु साक्षाद्धर्यंशतावचः। किंस्तुघ्नव्यासऋषभकपिला मत्स्यपूर्वकाः।


आकूतिचैतरेयौ च धर्मजत्रयमेव च। धन्वन्तरिर्हयग्रीवो दत्तात्रेयश्च तापसः। स्वयं नारायणस्त्वेते नाणुमात्रविभेदिनः। बलतः स्वरूपतश्चैव गुणैरपि कथञ्चन' इति तत्त्वनिर्णये। ‘तत्र सन्निहिता श्रीश्चयत्र सन्निहितो हरिः। नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव्रजेत्।


Page 229


साक्षादेव तु साक्षाच्छ हरेः सन्निधितः क्वचित्। गोप्यादिरूपा भवति विपरीतं न तु क्वचित्' इति च ॥50॥


॥ इति चतुर्थस्कन्धतात्पर्ये चतुर्दशोऽध्यायः ॥ 4 - 14 ।।


ias


यः ॥4 - 15॥


पाढ्योररविन्दं च तस्मिन् मेने हरेः कलाम्। यस्याप्रतिहतं चक्रमशः स परमेश्ठनः ॥10॥ तत्र सन्निहितः साक्षाद्भगवान्। ‘ब्रह्मण्यनन्ते गरुडे रुद्रे कामे शचीपतौ। अनिरुद्धे मनौ चैव पृथौ च कृतवीर्यजे। नारदे चैवमाद्येषु विशेषात् सन्निधिहरेः। सुदर्शनादिष्वस्त्रेषु तथा सन्निहितो हरिः। नरलक्ष्मणौ बलश्चैव शेषस्यांशाः प्रकीर्तिताः। तथा भरतशत्रुघ्नौचक्रशङ्खवुदाहृतौ। प्रद्युम्नश्चकुमारश्चस्कन्दः कामांशकाः स्मताः' इति स्कान्दे। ‘वैन्ये पृथौ सन्निहितो राजरूपी जनार्दनः' इति ब्राह्मे॥10॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥4 - 15॥


यः ॥4 - 16॥


सूत उवाच -


Page 230


अयं तु साक्षाद्भगवख्यधीशः कूटस्थ आत्मा कलयाऽक्तीर्णः। यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमिव प्रतीतम् ॥20॥ यल्लोके निरर्थकं तद्भगवद्रूपेषु प्रतीतनानात्वदृष्टान्तेन पश्यन्ति सन्तः। 'मत्स्यरूपादिनानात्वदृष्टिवद्यन्निरर्थकम्' इति पाझे। ‘एवं धर्मान् पृथक् पश्यन्' इति च॥20॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये


शोऽध्यायः ॥4 - 16॥


॥सप्तदशोऽध्यायः ॥ 4 - 17 ॥


ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः। पौरान् जानपदान् श्रेणिः प्रकृतीः समपूजयत् ॥2॥ ‘राज्ञा समानवयसः श्रेणयस्त्वङ्गरक्षकाः' इत्यभिधानम्॥2॥


यच्चान्यपि कृष्णस्य ब्रह्मन् भगवतः प्रभोः। श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम्॥6॥ पूर्वतनानां कथासम्बन्धेन हरेर्यशः॥6॥ धरण्युवाच - नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवेऽगुणात्मने। नमः स्वरूपानुभवेन निंधुतद्रव्यक्रियाकारकविभ्रमोर्मये ॥29॥ ‘ब्रह्मादिजीवदेहास्तु मायादेहाः प्रकीर्तिताः' इति वाराहे॥29॥



"


"


"



नूनं तवेशस्य समीहितं जनैः स्वमायया दुर्जययाऽकृतात्मभिः। न लक्ष्यते यस्त्वकरोदकायद्योऽनेक एकः परतः स ईश्वरः ॥32॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 231


स परतः ईश्वर इत्याक्ष्येपः॥32॥


सर्गादिं योऽस्यानुरुणद्धि शक्तिभिर्द्रब्यक्रियाकारकचेतनाल्मभिः । तस्मै समुन्नद्धविरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥33॥ ‘विरुद्धशक्तयो यस्य नित्या युगपदेव च।


तस्मै नमो भगवते विष्णवे सर्वजिष्णवे' इति वाराहे॥33॥





॥ इति चतुर्थस्कन्धतात्पर्ये सप्तदशोऽध्यायः ॥4-17॥


यिः


॥ 4 - 18॥


कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन्। हिरण्मयेन पात्रेण विर्यमोजोबलं फ्यः ॥15॥ ‘गुणाः स्वरूपभूताश्च बाह्याश्चेति द्विधा मताः। स्वरूपभूता व्यज्यन्ते हरेर्बाह्यान् दुहुः परे' इति ब्राह्मे॥15॥


दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम्। विधाय दुदुहुः क्षीस्मयःपात्रे सुरासम्॥16॥


‘प्रतिमन्वन्तरं प्रायः प्रह्लादाद्या बभूविरे' इति च॥16॥


ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च। घोषान् व्रजांश्च शिभिन्नगरान् खेटखटान्॥31॥ ‘गोष्ठं घोष इति प्रोक्तो व्रजस्तपालसंस्थितिः' इत्यभिधानम्॥31॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये अष्टादशोऽध्यायः ॥4 - 18॥


Page 232


| ॥एकोनविंशोऽध्यायः ॥4 - 19॥ एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा। अन्वधावदतिंक्रुद्ध रावणं गृध्रसङिव॥16॥


सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट्। धीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥17॥ 'देवाः शक्ताश्चमोहाय दर्शयेयुरशक्तवत्। ऋषीणां चैव राज्ञां च नहि ते देवतासमाः। आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित् क्वचित् इति गारुडे॥ ‘प्रणिपातादिकं देवैर्ऋष्यादिषु जनार्दने। क्रियतेऽतो न तेषां हि तेजोभङ्गः कथञ्चन।


अत्युत्तमानामवरे तेजोभङ्गो न विद्यते। यथा नराणां तिर्यक्षु प्रायः साम्ये हि स स्मृतः' इति स्कान्दे॥17॥


धर्म इत्युपधर्मेषु नग्नरक्तपठादिषु।। प्रायेण सज्जते भ्रन्त्या पेशलेषु च वाग्मिषु ।। 25॥ ‘धर्मोपमस्त्वधर्मोय उपधर्मः स उच्यते' इति हरिवंशेषु॥25॥


॥ इति चतुर्थस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥4 - 19॥


॥किंशोऽध्यायः ॥ 4 - 20 ॥ एकः शुद्धः स्वयज्योतिर्निर्गुणोऽसौं गुणाश्रयः। सर्वगोऽनावृतः साक्षी निरात्माऽनात्मनः परः ॥7॥


Page 233


‘अन्येषामावृतो विष्णुः स्वस्यानावृत एव च॥7॥


देहाद्यपार्थास्तद्धर्मा न स्युस्तद्धष्टुरात्मनः। कैवल्यं तस्य वै धर्मः सुषुप्तं तन्निदर्शनम् ॥8॥ ‘आत्मा सर्वस्य जगतः स्वस्यात्माऽन्यो न विद्यते।


सुषुप्तवच निर्दुःखो जाग्रद्वचप्रवृत्तिमान्। अनन्यसदृशत्वाच केवलोऽसौ हरिः स्मृतः' इति तन्त्रसारे। ‘आत्मनैवावगम्यत्वाद्धरिरेषः सुषुप्तवत्। केवलत्वेन विज्ञेयो मुक्तिस्तद्वदुःखता' इत्यध्यात्मे॥8॥


उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम्। कूटस्थमिममात्मानं यो वेवाप्नोति शोभनम् ॥12॥ ‘हरिरक्लिष्टकारित्वादुदासीन इतीर्यते' इति च ॥12॥


भिन्नस्य लिङ्गस्य गुणप्रवाहं द्रव्यक्रियाकारकचेतनात्मनः। दृष्ट्वाऽऽसु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥ ‘जीवाद्भिन्नस्य मनसो गुणाः सत्वादयो मताः। तज्ज्ञात्वान विकुर्वीत स्वस्वरूपं मनस्तथा' इति षाड्ण्ये॥13॥


स्पृशन्तं पादयोः शीष्र्णा व्रीडितं स्वेन कर्मणा। शतक्रतुं परिष्वज्य विद्वेषं विससर्ज है। 19॥ ‘आयासदुःखद्रीडादीन् प्रायशः सुखिनोऽपि तु।


Page 234


नियमादृषिभूतेषु मोहायादर्शयन् सुराः इति ब्रह्मतकै॥19॥ भगवानपि विश्वात्मा पृथुनोपहृतार्हणः। समुजिहानया भक्त्या गृहीतचरणाम्बुजः ॥20॥ ‘अपक्वभक्तियुक्ता ये न तेषां ब्रह्मदर्शनम्। प्रायो भवति दुःखस्य त्वभावः प्रायशो भवेत्’


इति प्रकाशसंहितायाम्।


‘जगत्समस्तं विश्वं च निखिलं पूर्णमुच्यते' इत्यभिधानम्॥20॥


जन्तर्जगत्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम्। करोषि फल्वप्युरु दीनवत्सल स्व एव धिष्ण्येऽबिस्तस्य किं तया ॥29॥ ‘धिष्ण्यं तेजश्चसामर्थ्य महिमा धाम चोच्यते' इत्यभिधानम्॥ अल्पपुण्यत्वान्न मद्भक्तियोग्यस्त्वमिति न वक्तव्यम्। यतः फल्ग्वप्युरु करोषि वात्सल्यात्। विना वात्सल्यं श्रियाऽपि किं तव ॥29॥


भजन्त्यथ त्वामत एव साधको व्युदस्तमायागुणविभ्रमोदयम्। भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे ॥30॥ अथान्यच्च। अतः वात्सल्यादेव॥30॥


यज्ञेश्वरधिया सज्ञा वाग्वित्ताञ्जलिभक्तितः। सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥37 ॥ ‘भूतेषु हरिरित्येव हर्यर्पणधिया तथा।


Page 235


सर्वभूतेषु च हरेः पूजा कार्याऽऽत्मवेदिभिः' इति पाझे॥37॥


॥ इति चतुर्थस्कन्धतात्पर्ये विंशोऽध्यायः ॥ 4 - 20॥


यिः ॥4 - 21॥


को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यहिंक्रमोच्छिष्टमशेषभूपाः। लोकाः सपाला उपजीवन्ति काममद्यापि तन्मे वद कर्म शुद्धम् ॥10॥ ‘देवेभ्य ऋषयो भूपाश्चोच्यन्ते शक्तिमत्तया। क्विचित् क्वचिच्चमोहार्थं कादाचित्काच्चहेतुतः' इति नारदीये॥10॥


अस्ति यज्ञपतिंर्नाम केषाञ्चिदिह सत्तमाः।


इहामुत्र च लक्ष्यन्ते ज्योत्स्नाक्त्यः क्वचिद्भुवः ॥26॥ ‘प्रकाशवद्भवो देवा मानुषाश्चापि केचन' इति वाराहे॥26॥


=


-


=


राज्यस्वर्गापवर्गाणां प्रायेणैकात्महेतुता। दौहित्रादीनृते मृत्योः शोच्या धर्मविमोहितान् ॥29॥ 'एकात्मा हरिरुद्दिष्टः प्रधानत्वात् समस्ततः' इति च॥ प्राय इत्यवधारणाक्षेपः।। ‘प्रायः पदं स्यात् प्राचुर्ये चाक्षेपात्मावधारणे। अर्थतोऽवधृतिः क्षेपो मुखाक्षेपोऽवधारणम्' इति च ॥29॥


असाविहानेकगुणाध्वरैः सता पृथग्विधैर्द्रव्यगुणक्रियोक्तिभिः। सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनस्वरूपतः ॥33॥


Page 236


सम्पद्यते - प्राप्यते॥33॥


प्रधानकालाशयकर्मसङ्ग्रहः शरीरशेष प्रतिपय चेतनः।। क्रियाफलत्वेन विभुर्विभाव्यते यथाऽनलो दारुषु तद्गुणात्मकः ।। प्रधानादीन् गृहीत्वा जीवं प्राप्य पुण्यकर्मभिर्जायते। यथा गुणवदिन्धनेऽग्निर्मथनादिना॥34॥


ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हर्त्यिचरणाभिवन्दनात्। अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥ 37 ॥ हरिरिन्द्रो यच्चरणाभिवन्दनादनपायिनीं लक्ष्मीमवाप। सोऽपि विष्णुर्ब्राह्मणप्रियः। ‘यत्प्रसादेन देवेन्द्रो वेदोदितयशा अभूत्।


सोऽपि विष्णुरमेयात्मा सदा ब्राह्मणवत्सलः' इति हरिवंशेषु॥37॥


पुमांल्लभेताप्यतिवेलमात्मनः प्रसादतोऽल्यन्तशमं स्वतः स्वयम्। यनिंत्यसम्बन्धनिषेवया ततः परं किंमत्रास्ति सुखं हविर्भुजाम् ॥37॥ तस्मान्मोक्षसुखात् परं सुखं हविर्भुजां देवानामप्यत्र संसारेऽस्ति किम् ?


अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहतं यन्मुख इज्यनामभिः। न वै तथा चेतनया बहिष्कृते हुताशने पास्महंस्यवर्यगुः ॥ 40॥ पारमहंस्यवर्या गावो यस्य॥ 40॥


पुत्रेण जयते लोकानिंतिं सत्यवती श्रुतिः। ब्रह्मदण्ङहतः पापो यद्वेनोऽल्यतरत् तमः ॥ 45॥ ‘वेनस्थो राजसो जीवः पृथुना स्वर्गतिं गतः। स्वयं तु तम एखाप सात्विकः पृथुतामगात्' इति गारुडे॥45॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 237


अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः। यदुत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनङ्खि ॥ 48॥ अहो वयमित्यादि तत्स्थपरमेश्वरापेक्षया। ‘यो ब्रह्मक्षत्रमाविश्य' इति वचनात्॥ 48॥


॥ इति चतुर्थस्कन्धतात्पर्ये एकविंशोऽध्यायः ॥ - 21 ॥


द्वाविंशोऽध्यायः ॥4 - 22॥


नैव लक्षयते लोको लोकान् पर्यटतोऽपि तान्। यथा सर्वशः सर्व आत्मानं येऽस्य हेतवः ॥9॥ ‘सर्वज्ञाश्च विञ्चिाद्या न जानीयुर्हरि परम्। हेतवो जगतोऽप्यस्य यथाऽसौ वेद केशवः' इति तन्त्रसारे॥9॥


व्यक्तं ह्यात्मवतामात्मा भगवानात्मभावनः।


स्वानामनुग्रहायेमां सिद्धरूपी चस्त्यजः ॥16॥ ‘हरेस्तु प्रतिमा प्राज्ञास्तत्रस्थः केशवः स्वयम्। ददाति ज्ञानमीशेशः परमात्मा स्वयं प्रभुः' इति च॥16॥


s


अस्त्येव राजन् भक्तो मधुद्विषः पादारविन्देऽस्य गुणानुवादिनी। तिः सदा या विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥20॥ कषणेन गच्छतीति कषायः पापं तदुभयमेव मलम्।


Page 238


शास्त्रेष्यियानैव सुनिश्चित नृणां क्षेमस्य सम्यग्विमृशेषु हेतुः। असङ्ग आत्मव्यतिरिक्तवस्तुनि दृढा रतिर्ब्रह्मणि निर्गुणे च या॥21॥


हरेर्मुहुस्तत्परकर्णपूरया गुणाभिधानेन विजृम्भमाणया। भक्त्या ह्यसङ्गः सदसत्पात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥25॥


यदा रतिर्ब्रह्मणि नैष्ठिकी पुमानाचार्यवान् ज्ञानविरागरंहसा। दहत्यबीजं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ ‘रतिः परात्मनि हरावन्यत्रा रतिरेव च। पुमर्थसाधनं ज्ञेयं नातोऽन्यन्मुख्यमिष्यते' इति॥20॥


अबीजं हृदयं बीजहृदयं स्वरूपोपाधिं विना। ‘जीवोपाधिद्विधा प्रोक्तः स्वरूपं बाह्यमेव च। बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः। सर्वोपाधिविनाशे हि प्रतिबिम्बः कथं भवेत्। कथं चात्मविनाशाय प्रयत्नः सेत्स्यति क्वचित्। अपुमर्थता च मुक्तेः स्यादभावात् पुंस एव तु। ज्ञानज्ञेयाद्यभावाच्च सर्वथा नोपपद्यते। तस्मादेतन्मतं येषां तमोनिष्ठा हि ते मताः' इति स्कान्दे॥21,26॥


ग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विंचष्टे। परात्मनोर्यव्यवधानं पुरस्तात् स्वप्ने यथाऽपुरुषस्तद्विनाशेः ॥ दग्धाशयः। बीजाशयनाशे तद्णानां ज्ञानादीनामभावान्न किञ्चिद्विचक्षीत। परात्मनोर्यदा व्यवधानं


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 239


संसारवस्थायां तदा स्वप्न इवेत्येतावद्वीजहृदयनाशे त्वपुरुष एव। आत्मनाश एवेत्यर्थः। अतः संसारावस्थैवोत्तमा स्यात्। ‘भिदा यदि न दृश्येत जीवात्मपरमात्मनोः। मुक्तौ तदा विमोक्षाय को यत्नं कर्तुमर्हति' इति ब्रह्माण्डे॥ ‘मग्नस्य हि परेऽज्ञाने किं न दुःखकरं भवेत्। प्रवृत्तिधर्ममेवाहं मन्ये भरतसत्तम' इति मोक्षधर्मे॥27॥


इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतो मनः। चेतनां हरते बुद्धेः स्तुम्बस्तूयमिव हृदात् ॥30॥ एवं विधाज्ञानकारणमाह - इन्द्रियैर्विषयाकृष्टैरित्यादि। ‘बहुस्मरणशक्तिस्तुचेतनेत्युच्यते बुधैः' इति शब्दनिर्णये॥30॥


भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मतिक्षये। तघ्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥31॥


-


नातः स्तरो लोके पुंसः स्वार्थब्यतिक्रमः। यद्यस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥32॥


अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम्। स्रसितो ज्ञानविज्ञानाद् येनाविंशतिं मुग्धताम्॥33॥


न कुर्यात् कहिँचित्सङ्ग तमस्तीनं तितीषुणा। धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥34॥


Page 240


‘स्वपक्षपातस्त्वभ्यासाद्भोगार्थं व्यापृतस्य तु।


भवेत् ततोऽनेकशास्त्रयथार्थस्मरणेशिता। नश्यत्यतः स्मृतेर्नाशाद्भगवत्पक्षपातिता। विनश्येत् तेन चैवास्य भवेज्ज्ञानविपर्ययः। न च ज्ञानविपर्यासादन्यन्नाशकरं क्वचित्। सर्वस्यैतस्य मूलं हि दुष्टसंसर्ग एव तु। दुष्टसङ्गो विरक्तस्याप्यन्यथाज्ञानकारणम्। दुष्टसङ्गाद्धि विष्णोश्च स्वात्मत्वं मन्यते बुधः।


अभावं स्वात्मनोऽन्यस्य मुक्तिं चापि निरात्मताम् इत्यादि स्कान्दे॥31 - 35॥ मनमात्रमिदं विश्वं यथा स्वप्ने मनःक्रिया। क्रिया च वासनामात्रं साऽनीहायां प्रलीयते ॥27॥ ‘मनोमात्रं हरेर्यस्मान्मनसा मीयते जगत्। व्याप्ते मनसि विष्णोश्च स्थितत्वाद्वासनामयम्। वस आच्छादनेत्यस्माद्धातोर्वा वासनामयम्।


अतो विष्णोरनीहायां लीयते सकलं जगत्॥37॥


आत्मा त्वनीहया साक्षात्स्वयज्योतिः प्रसिद्ध्यति। एवं व्युदस्यात्ममायां जानंस्तूपरमेन्मुनिः ॥38॥ ‘अनीहावस्थ एखासौ मुमुक्षुभिरवाप्यते।


Page 241


एवं विद्वान् बन्धशक्तिं व्यदस्य हरिमाप्नुते। प्रकृतिर्भिदा च माया च भ्रमश्चेत्यभिधीयते। बन्धशक्तिर्यया लोको बम्भ्रमीत्यनिशं भुवि' इति तन्त्रसारे॥38॥


न यत्र निद्रा मूछ वा नार्थदृक् च मनोरथः । नानुवृत्तिर्न प्रलयस्तद्ब्रह्म परमं विदुः ॥ 39॥ ‘अनुवृत्तिरिति प्राज्झैजीवन्मुक्तिरुदीर्यते' इति शब्दनिर्णये॥39॥


तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम्। यः क्षेत्रवित्वमनयोहँदि विष्यमाधिः प्रत्यक् चकास्ति भगवांस्तमवैहि सोऽस्मि सर्वसत्ताप्रदत्वात् तु सर्वतत्त्वं हरिः स्मृतः। सर्वत्र विततत्वाद्वासोऽहं त्वमिति चोच्यते। सर्वान्तर्यामकत्वात् तु न जीवात्मत्वतो हरिः' इति तत्त्वनिर्णये॥ त्वमनयोः स्थावरजङ्गमयोर्मध्ये एको जीवः विष्वगाधिः नाना दुःखः सन् हृदि तमवैहि अहं च


जीवोऽस्मि ज्ञानान्महान् भवामि यः क्षेत्रवित्। सर्वस्य प्रत्यक् चकास्ति स भगवानिति च। ‘व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेत्' इति शब्दनिर्णये॥


‘अभिमानस्त्वहङ्कार आत्मा चेत्यभिधीयते' इति च॥40॥ यस्मिन्निदं सदसदात्मतया विभाति मायाविवेकविधुतिः स्रजि वाऽहिबुद्धिः। तं नित्यमुक्तपरिशुद्धविबुद्धतत्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये॥41॥ ‘यत्स्वरूपतया भातमज्ञानं गगनादिकम्। विवेकज्ञानिनां रज्जौ सर्पमावद्विधूयते।


तन्नित्यमुक्तभावेन निरस्तप्रकृतिं भजेत्' इति ज्ञानविवेके॥


Page 242


'न भ्रान्तिर्जगतो दृष्टिर्न भ्रान्तिर्हरिदर्शनम्।


अन्योन्यात्मतया दृष्टिभ्रान्तिरित्यवधार्यताम्' इति च। ‘मायेति ज्ञाननाम स्यान्मायेति प्रकृतिस्तथा। ज्ञानं स्वरूपं विष्णोस्तु प्रकृतिर्न हरेस्तनुः। एवं विवेकिनो विश्वं ब्रह्मरूपेण नेष्यते' इति वाराहे॥ ज्ञानप्रकृत्याख्यमायाद्वयविवेकज्ञानात् सदसतोर्विष्ण्वात्मतया प्रतीतिः स्रज्यहिबुद्धिरिव विधूयत


इत्यर्थः।। ‘पञ्चभूतात्मकं देहं विष्णोः पश्यन्त्ययोगिनः। तथा न योगिराद्धान्तो ज्ञानं देहो यतो हरेः इति षाङ्गुण्ये॥41॥ यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयग्रथितमुद्रथयन्ति सन्तः। तत्त्वं न तद्विमतयोऽपि विरुद्धमार्गस्तोतोगुणास्तमरणं भज वासुदेवम् ॥ द्विमतयः जगति भगवति च प्रतीतियुक्ता अपि भक्तिविशेषात् तत्त्वं नोड्रथयन्ति। प्रतिसंसारं गुणास्तेषां विरुद्धा एव प्रतीयन्ते यतः॥ 42॥


मातरिश्वेव सर्वात्मा बलेन महतौजसा।


अविषह्यतया देव भगवान् भूतराङिव॥63॥ ‘नैजः सर्वगुणोत्कर्षः सर्वेभ्यो महदुच्यते' इति शब्दनिर्णये॥63॥


कन्दर्प इव सौन्दर्ये मनस्वी मृगसङिव। वात्सल्ये मनुवन्नृणां प्रभुत्वे भगवानजः। बृहस्पतिर्ब्रह्मवादे आत्मतत्वे स्वयं हरिः ॥64॥


Page 243


‘अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः। एकस्तद्वेद भगवान् प्रभुर्नारायणः स्वराट्' इति मोक्षधर्मेषु॥64॥


भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । हिंया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे ॥65॥


--


-


कीर्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र है। प्रविष्टः कर्णरन्द्रेषु स्त्रीणां समः सतामिव ॥66॥


‘गुरुविप्रेषु भक्त्या च परेषां हितकृत्तया। प्रश्रयेण च की च पृथू राममनुव्रतः' इति ब्रह्माण्डे। ‘न गुरुर्न च धर्मोऽस्ति रामदेवस्य कुत्रचित्। तथाऽपि धर्मरक्षार्थ गुरुभक्तिमदर्शयत्' इति वाराहे॥65, 66॥


॥ इति चतुर्थस्कन्धतात्पर्ये द्वाविंशोऽध्यायः ॥4 - 22॥


यः ॥ 4 - 23॥


तस्यानया भगवतः परिशुद्धकर्म सत्वात्मनस्तदनुसंस्मरणानुपर्थ्यो। ज्ञानं विरक्तिमदभून्निशितैन येन चिच्छेद संशयपदं निजजीवकोशम् ॥11॥ ‘आविर्भावतिरोभावौ ज्ञानस्य ज्ञानिनोऽपि तु।


अपेक्ष्याज्ञस्तथा ज्ञानमुत्पन्नमिति चोच्यते' इति तन्त्रसारे॥11॥


छिन्नान्यधीरधिंगतात्मगतिर्निरीहस्तत्तत्यजेऽच्छिनदिदं क्युनेन येन। तावत् तु योगगतिभिर्यतिरप्रयत्न यावद्दाग्रजकथासु रतिं न कुर्यात् ॥


Page 244


‘अपरोक्षतया वृत्तिज्ञानभेदनिरीक्षणम्। स्वरूपज्ञानसंस्थित्या ज्ञानत्याग उदीर्यते। स्वरूपज्ञानतः सम्यग्रतिर्विष्णुकथासु च' इति ब्रह्मतर्के॥12॥


एवं स वीरप्रवरः संयोज्यात्मानमात्मनि। ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥13॥ ब्रह्मणि भूतः॥13॥


उत्सर्पयन्नसून मूर्ध्नि क्रमेणावेश्य निःस्पृहः। वायुं वायौ क्षितौ कायं तेजस्तेजस्ययुयुजत् ॥15॥ ‘अस्येदं कारणमिति ज्ञानमेव विलापनम्।


समाधिकाले विज्ञेयं देहादेर्दर्शनात् पुनः' इति च॥15॥


क्षितिमम्भसि तत् तेजस्यदो वायौं नभस्यमुम्। इन्द्रियाणि समस्तानि तन्मात्राणि यथोद्भवम्॥16॥


भूतादिस्थान् सुमुत्क्षिप्य महत्यात्मनि सन्दधे। तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ॥17॥


तं चानुशयमात्मस्थमसावनुशय पुमान्। ज्ञानवैराग्यवीर्येण स्वरूपस्थ व्यधात् प्रभुः ॥18॥ ‘मायेति प्रकृतिश्चेति माया जीवश्च कथ्यते।


शेतेऽनुकेशवं यस्मात् तस्मादनुशयोऽपि च।


Page 245


एतैस्तु नामभिर्वाच्या श्रीविष्णोरनपायिनी। तयैवानुशयी जीवस्तया बद्धो यतः सदा। परुषः शयनात् पूर्षु तथा हानादहं स्मृतः। अप्राकृततनुत्वात् तु स्वरूपं हरिरुच्यते। नित्यचिद्दर्शनान्नित्यं ब्रह्मपूर्णत्वतः सदा' इति भागवततन्त्रे॥16 -18॥


अहो इयं वधूर्धन्या या चैवं भूभुजां पतिंम्। सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥25॥ ‘अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैः' इति शब्दनिर्णये॥25॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये त्रयोविंशोऽध्यायः ॥ 4 - 23॥


॥ चतुर्विंशोऽध्यायः ॥4 - 24॥


|


"


सामुद्र देवदेवक्तामुपयेमे शततिम्। यां वीक्ष्य चारुसर्वाङ्गी किशोरी सुष्ट्वालङ्कृताम्। परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकमिव ।। 11 ॥ ‘राजपुत्रीं शुकीमग्निरावर्तन्तीं प्रदक्षिणम्।


आदायान्तरधाद्दानसमये मन्मथातुरः' इति ब्राह्मे॥11॥


स्वधर्मनिष्ठः शतजन्मभिः पुमान् विञ्चितामेति ततः परं हि माम्।


अव्याकृतं भगावतोऽथ वैष्णवं पदं यथार्ह विविधैः कलात्यये ।


मां - श्रियम्।


Page 246


‘ऋजवो नाम ये देवा योग्या बह्मपदस्य तु।


त एव शतजन्मानि विशेषोपासका हरेः। प्राप्य ब्रह्मपदं पश्चाच्छियं प्राप्यानुमोदिताः। तया ततो हरिं यान्ति वसन्ति हरिसन्निधौ। अनादिकालभक्ताश्च ज्ञानिनस्ते न संशयः। विशिष्टज्ञानभक्त्याद्यौ सर्वजीवनिकायतः। सर्वदाऽपि विशेषेण शतजन्मप्रयत्नतः। स्वपदप्राप्तिरुद्दिष्टा ततो मुक्तिरवाप्यते। तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः। विंशद्भिरैन्द्रं दशभिरन्येषामप्युदीरितम्' इति षाड्ण्ये॥29॥


अथा भागवता यूयं प्रिंयाः स्थ भगवान् यथा। न मे भागवतानां च प्रेयानन्योऽस्ति कहिँचित् ॥30॥ अथ एवमनादिभक्तोऽहं यतः अतः प्रिया यूयम्॥30॥ रुद्र उवाच जितं व आत्मविंडुर्याः स्वस्तये स्तस्तिरस्तुवः। भवतां राधसे राध्यं सर्वस्मा आत्मने नमः ॥33॥ ‘सर्वान्तर्यामिकत्वात् तु सर्वनामा जनार्दनः। न तु सर्वस्वरूपत्वात् सर्वेशोऽसौ हरिर्यतः' इति ब्रह्मतकै॥33॥


| Tw!,


"



भवान् भक्तिंमत लभ्यो दुर्लभः सर्वदेहिनाम्।


Page 247


स्वाराज्यस्याप्यभिमता एकान्तैनात्मविद्गतिः ॥ 55॥ स्वाराज्यस्य – इन्द्रादेः॥55॥


क्षणार्दैनापि तुलये न स्वर्गं नापुर्नभवम्। भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥58॥ ‘सङ्गो भागवतैर्भूयानपुनर्भवमात्रतः। यतो विशिष्टमानन्दं मुक्तौ जनयति स्फुटम्' इति च॥58॥


अथानघाङ्योस्तव कीर्तितीर्थयोस्न्तर्बहिः स्नानविधूतपाप्मनाम्। भूतेष्वनुक्रोशसुसत्वशीलिंनां स्यात् सङ्गमऽनुग्रह एव नस्तव ॥ 59॥ अयोर्जातयोः कीर्तितीर्थयोः॥59॥ यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत्। तत्त्वं ब्रह्म परज्योतिराकाश इव विस्तृतम् ॥61 ॥ विश्वमस्मिन् स्थितमपि न भात्यज्ञानाम्॥61।


यो माययेदं पुरुरूपयाऽसृजद्विभर्ति भूयः क्षपयल्यविक्रियः। यद्भेदबुद्धिः सदिवात्मसंस्थया तमात्मतन्त्रं भगवन् प्रतीमहि ॥62॥ यद्वेदबुद्धिः यस्य जीवादिभ्यो भेदबुद्धिः। स दिवा सम्यज्ञानं सम्यग् ज्ञानविषया सत्यैवेत्यर्थः। ‘रात्रिरज्ञानमुद्दिष्टं सम्यज्ज्ञानं दिवा स्मृतम्' इति शब्दनिर्णये॥ ‘जीवेभ्यो जडतश्चैव भेदज्ञानं हरेः सदा।। वास्तवं ज्ञानमुद्दिष्टं तेन मुक्तिरवाप्यते' इति षाहूण्ये॥62॥


Page 248


क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिंद्धये। भूतेन्द्रियान्तःकरणोफ्लक्षणं वेदे च तन्त्रे च त एव कोविंदाः ।। भूतेन्द्रियान्तःकरणैरुपलक्ष्यते॥63॥


त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजः सत्वतम विभिद्यते। महानहं खं मरुदग्निवार्धराः सुरक्ष्यो भूतगणा इदं यतः ॥ सुप्तशक्तिः - स्वात्मन्येवाप्तशक्तिः। ‘प्रकृतेःस्वाप उद्दिष्टो हर्यन्यस्य त्वदर्शनम्। विशेषेण हरौ चापि रतिझनात्मिका यतः इति सत्यसंहितायाम्॥64॥


सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन।। अथो विंदुस्त्वां पुरुषं सन्तमत्र भुर्के हृषीकैर्मधु साधं यतः ॥ 65॥ ‘अवधारणे घशब्दः स्यात् सारमात्रं तु सारघम्’ इति शब्दनिर्णये॥65॥ कस्त्वत्पदानं जिहाति पण्डितो यत् ते पुमानप्ययमकेतनः। विशङ्कयाऽस्मद्गुरुर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥68॥


अस्मादेतद्भवतीत्युपपत्त्यपेक्षां विना स्वभावत एव॥68॥


--


यत्सृष्टोऽहरहर्मुक्तक्लेशः शेतेऽमृताम्बुधौं। तावद्वेदाथ तत्तेऽद्धिं जनोऽनुस्मरते च तत् ॥69॥ अहरहः क्लेशमोक्षः सुप्तौ। तावद्वेदेत्याक्षेपः दौर्लभ्यज्ञापनार्थम्



है


॥69॥


Page 249


॥ इति चतुर्थस्कन्धतात्पर्ये चतुर्विंशोऽध्यायः ॥4 - 24॥


॥पञ्चविंशोऽध्यायः ॥4 - 25॥


नारद उवाच - श्रेयस्त्वं कतमद्राजन् कर्मणाऽऽत्मन ईहसे। दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ 4 ॥


1


=


=


एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव। सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः ॥8॥ 'यथावत् कर्म कर्तुस्तु ज्ञानसाहाय्यकारकम्।


अन्यथाकुर्वतः कर्म निरयाय भविष्यति। तथाऽपि कर्म निन्दन्ति न यतः कर्तुमञ्जसा। शक्यं ज्ञानफलस्यापि बहुत्वान्मोहनाय च' इति ब्रह्माण्डे॥4,8॥


आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छवाः। तस्याविज्ञातनामाऽऽसीत् सखाऽविज्ञातवेष्टितः ॥10॥ ‘देवजीवाभिमानि च ब्रह्मैव तु चतुर्मुखः। मानुषाणां तु जीवानामभिमानी पुरञ्जनः। सतु राजा हरेः पुत्रस्त्वासुराणां कलिः स्वयम्। जीवसंसृतिवत् तस्मात् पुरञ्जनकथा अपि तु। तस्माज्जीवसृतिज्ञप्त्यै पुरञ्चनकथां मुनिः। नारदोऽश्रावयद्विद्वान् नृपं प्राचीनबर्हिषम्।


Page 250


प्रायस्तु तत्कथा जीवे स्थिता प्रत्येकशोऽपि तु। प्रत्येकं यत् तु युज्येत तदुन्नेयं यथा तथा। उक्तं भागवतेऽप्येतत् पुराणे यावदिष्यते। प्रत्येकशस्तु जीवानां तदन्यत्तस्य केवलम्' इति तन्त्र भागवते॥10॥


यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम्। भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः॥20॥


तेषां परिवृढ राजन् सर्वेषां बलिमुद्वहन्। सस्त्रीकाणां सखा तस्या बहुरूपोऽग्रणीः स्त्रियाः ।।21 ॥ 'ये पुरञ्जनभृत्याद्या भार्याद्याः सर्व एव च। तेऽपि मानुषबुद्ध्यादेर्विज्ञेया अभिमानिनः। गायत्र्याद्यास्तु देवानां तेऽपि चैतेषु संस्थिताः। अलक्ष्मीद्वापराद्यास्तु आसुरास्तेऽपि मानुषाः' इति च॥20,21॥


पितृभूर्नाम पुर्या द्वाः दक्षिणेन पुरञ्जनः।


राष्टं दक्षिणपाञ्चालं याति श्रुतधरान्वितः ॥ 51 ॥


47


देवभूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः। राष्ट्रमुत्तरपाञ्चालं यातिं श्रुतधरान्वितः ॥52 ॥ ‘दक्षिणश्रोत्रमार्गेण देवलोकं व्रजत्यसौ। वामश्रोत्रेण पितृणामिति वेदविदो विदुः' इति प्रवृत्तितन्त्रे॥


Page 251


॥ इति चतुर्थस्कन्धतात्पर्ये पञ्चविंशोऽध्यायः ॥ 4 - 25॥


॥षड्विंशोऽध्यायः ॥ 4 - 26॥


तीर्थेषु श्रुतिदुष्टेषु राजा मेध्यपशून् क्ने। यावदर्थमलं लुब्धो हुन्यादिति नियम्यते ॥6॥


य एवं कर्म नियतं विद्वान् कुर्वीत वा न वा। कर्मणा तेन राजेन्द्र ज्ञानेन स न लिप्यते॥7॥ अलुब्धो लोकोपकारार्थं घ्नन्नात्मार्थादधिकमपि हन्यात्। 'उपकार सतां येन तत्कृत्वानैव दुष्यति। अतीव निन्दितमपि बहुहिंसायुगेव वा।। अथवा ज्ञानिनः कर्म न दुष्टमपि लिप्यते' इत्यध्यात्मे॥6,7॥


॥इति चतुर्थस्कन्धतात्पर्ये षड्विंशोऽध्यायः ॥4 - 26॥


॥सप्तविंशोऽध्यायः ॥4 - 27॥


द्वाविमाक्नुशोचन्ति बालाक्सवग्रहौ। यल्लोंकशास्त्रोपनतं न राति न तदिच्छति ॥25॥ ‘अलौकिकं च शास्त्रीयं कर्तव्यं लौकिकं कृतः। लोकार्थं शास्त्रहा याति निरयं त्वितरः सुरान्' इति पाझे॥25॥


| ॥इतिं चतुर्थस्कन्धतात्पर्ये सप्तविंशोऽध्यायः ॥4 - 22॥


॥ अष्टाविंशोऽध्यायः ॥4 - 28॥


Page 252


|


-


-


--


स ब्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि। विद्वान् स्वम इवामृश्य साक्षिणं विरराम ह॥ 40 ॥ ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति' इति श्रुतिप्रसिद्धः। स्वप्न इवेति दृष्टान्तत्वेनोच्यते। स्स्वप्ने हि जीवस्यास्वातन्त्र्यं प्रसिद्धम्। अतस्तत्र परमेश्वराधीनत्वं सिद्धमेव। अतो जीवव्यतिरिक्त ईश्वरः सिद्धः।। ‘स्वप्नो यतो न स्वतन्त्रस्तत्र तद्दर्शकः परः।


जीवादन्यस्तु विज्ञेयः स विष्णुरवधार्यताम्' इति वाराहे॥40॥


पञ्चेन्द्रियार्थी आरामा द्वारो घ्राणादयः प्रभो। तेजोऽबन्नानि कोष्ठानि गोलकेन्द्रियसङ्ग्रहः ॥ 57 ॥ इन्द्रियाणि यत्र सङ्गृह्यन्ते स गोलकेन्द्रियसङ्ग्रहः॥57॥


अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्वभो। न नौ पश्यन्ति कवयश्चिद्रं जातु मनामपि ॥ 62॥ ‘जीवसत्ताप्रदत्वाच्च सदृशत्वाच्च केशवः। कथ्यते तदभेदेन न तु जीवस्वरूपतः' इति च ॥62॥




॥ इति चतुर्थस्कन्धतात्पर्ये अष्टाविंशोऽध्यायः ॥4 - 28॥


12.


॥एकोनत्रिंशोऽध्यायः ॥4 - 29॥


पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः।


आकूतिर्विक्रमो बाल्ले मृगतृष्णां प्रधावति ॥20॥ ‘सुखवटूरतो दृश्यं तत्काले दुःखमेव यत्।


Page 253


मृगतृष्णेत्यतः प्राहुर्भागं वैषयिकं बुधाः इति शब्दनिर्णये॥20॥


दुःखेश्वेकतरेणापि दैवभूतात्महेतुषु।


जीवस्य न व्यवच्छेदः स्याचेत् तत्तत्प्रतिक्रिया ॥33॥ तत्तत्प्रतिक्रियाऽपि दुःखमेव॥33॥




-


-


अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। मनसा लिङ्गरूपेण स्वप्ने विंचरतो यथा ।। 36॥ ‘संसृतेः स्वप्नसाम्यं तु यथार्थज्ञानवर्जनम्' इति च।


जाग्रत्यविद्यमानं तु देहात्मत्वादि केवलम्। अविद्यमानं स्वप्न तु जग्रत्त्वज्ञानमेव हि' इति षाङ्गुण्ये॥36॥


प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः।


दक्षादयः प्रजाध्यक्षा नैष्ठिंकाः सनकादयः ।।43॥


मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥ 44 ।। ‘प्रजापतिपतिब्रह्मा विरिञ्चश्चेति कथ्यते' इति शब्दनिर्णये॥43, 44॥


शब्दब्रह्मणि दुष्यारे चरन्त उरविस्तरे।। मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ 46॥ ‘मन्त्रलिङ्गैर्व्यवच्छिन्नं वेदशब्दोक्तमात्रकम्। वेदो वदन्नपि हरि न सम्यग् वक्ति कुत्रचित्।


Page 254


नारोहयत्यनुभवमप्रसिद्धस्वरूपतः। अथाप्यनुभवारोहः प्रसन्ने केशवे भवेत्। किञ्चिदेव सुसम्यक् च स्वयं त्वनुभवत्यमुम्' इति वाराहे॥46॥


यदा यस्यानुगृह्णाति भगवानात्मभावितः। स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ 49॥ ‘यदा त्वनुभवी भूयाच्छब्दमात्रानुरोधनम्। त्यक्त्वाऽथ तं विदुः प्राज्ञास्त्यक्तवेद इति स्मृतः। यदैव त्यक्तवेदः स्यादथास्मान्मुच्यते भयात्। प्रायस्तु वैदिका एव रुद्राद्या अपि वै पुरा। वैदिकस्त्यक्तवेदश्च ब्रह्मैवैकः प्रजापतिः। ततस्तु केशवं भक्त्या सम्पूज्य बहुजन्मसु। त्यक्तवेदत्वमापन्नाः प्रसादात् परमेष्ठिनः' इति महासंहितायाम्। 'केवलं वेदशब्देन जानन् वैदिक उच्यते। वेदं विनाऽप्यनुभवाज्जानंस्तुत्यक्तवैदिकः' इत्यध्यात्मे॥ 'तत्त्वं वेदानुसारेण चिन्तयन् वैदिको भवेत्। वेद ऊहामनुसरेद्यस्य स त्यक्तवैदिकः' इति षाडूण्ये॥49॥


स त्वं विचक्ष्व मृगचेष्टितमात्मनोऽन्तःश्चित्तं नियच्छ हृदि कर्मधुनीं च चित्तिम्। जह्यङ्गनाभ्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ।। 57 ॥ ‘चित्तिबुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम्' इति शब्दनिर्णये॥57॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 255


=


=


एकं पञ्चविंधं लिङ्गं त्रिवृत् षोड्शविंस्तस्म्। एष चैतनया युक्तो जीव इत्यभिधीयते ॥76॥ ‘प्राणेन्द्रियान्तःकरणभेदेन त्रिविधं मतम्। पञ्च पञ्चैव ते सर्वे प्राणबुद्धीन्द्रियाणि च। कर्मेन्द्रियाणि च तथा तस्मात् पञ्चविधं स्मृतम्। लिङ्गं षोडशकं प्राहुर्मनसा सह तत्पुनः' इति ब्राह्मे॥76॥


-


भक्तिः कृष्णे या जीवेष्यकुण्ठज्ञानमात्मनि। यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥82॥ ‘देहादिव्यतिरेकेण चिद्रूपोऽहमिति स्फुटम्।


सदैवानुभवो भक्तिर्विष्णौतद्दर्शनादनु। यस्यासौ मुच्यते क्षिप्रं संसारान्नात्र संशयः' इति हरिवंशेषु॥82॥


अदृष्टं दृष्टवन्नयेडूतं स्वप्नवदन्यथा। भूतं भवद्भविष्यच्च सुप्तं सर्वरहो रहः ॥83॥ ‘संसारस्थमिदं सर्वमनित्यत्वाद्वथा यतः।


अतः प्राहुः स्वप्नसमं प्राज्ञा जगदिदं मृषा' इति विष्णुसंहितायाम्। ‘सुषुप्तिस्वप्नयोश्चैव स्वर्गव्योम्नोस्तथैव च।।


अन्योन्यनामता ज्ञेया मनोबुद्ध्योस्तथैव च' इति शब्दनिर्णये॥ अतो भूतं भवद्भविष्यच्च स्वप्न इत्यर्थः। ‘रहो ब्रह्म तथा यज्ञः स्वः सत्यमिति गीयते' इति च॥83॥



न ३त्यर्थः।


Page 256


॥ इति चतुर्थस्कन्धतात्पर्ये एकोनत्रिंशोऽध्यायः ॥4 - 29॥


॥ त्रिंशोऽध्यायः ॥4 - 30॥ मैत्रेय उवाच - प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः। जफ्यज्ञेन तपसा पुरञ्जनमतोषयन्॥3॥ ‘पुरेषु त्वञ्जनाज्जीवः पुरञ्जन इतीरितः। पुराणां जननाद्विष्णुर्व्यञ्जकत्वं तयोरपि' इति तन्त्रभागवते॥3॥


दिव्यवर्षसहस्राणां सहस्रमहतौजसः ।। भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ 17 ॥ दिव्यवर्षसहस्राणामिति सहस्रशब्दो बहुत्ववाची। ‘मानुषाणां वत्सराणां लक्षद्वादशकं पुरा। प्रचेतोभिरियं पृथ्वी पालिताऽव्याहतेन्द्रियैः' इति ब्रह्माण्डे॥17॥


5


न व्यवह्नियते यज्ञो ब्रह्मैतत्ब्रह्मवादिभिः। न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥20॥ यज्ञो ब्रह्म विष्ण्वाख्यं ब्रह्म यथानुभवं न व्यवह्रियते। ‘सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः' इति भारते॥20॥


शुद्धाय शान्ताय नमः स्वनिष्ठमनस्यपार्थे विलसद्याय। नमो जगत्स्थानलयोदयेषु गृहीतमायामुणविग्रहाय ॥23॥


सु अनिष्ठमनसि।


Page 257


‘अनवस्थितबुद्धीनां द्वितीयं दृश्यते हरेः। सम्यक् स्वस्थितबुद्धीनामिदं सर्वं हरेर्वशे' इति च। ‘नित्यं गृहीताः सत्वाद्या विग्रहाश्च त्रयः सदा। ज्ञानानन्दात्मकास्ते तु विग्रहा निर्गुणास्तथा। द्वौ तत्र ब्रह्मरुद्रस्थावेको वैकुण्ठधामगः इति प्रवृत्तसंहितायाम्॥23॥ नमो विशुद्धसत्वाय हस्ये हरिमेधसे। वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥24॥


‘हरणाज्ज्ञानरूपत्वाद्धरिमेधा विभुः स्मृतः' इति च। ‘हरिः सर्वगुणात्मत्वात् सत्व इत्यभिधीयते' इति षाङ्गुण्ये॥24॥


॥ इति चतुर्थस्कन्धतात्पर्ये त्रिंशोऽध्यायः ॥ 4 - 30॥


॥एकत्रिंशोऽध्यायः ॥ 4 - 31 ॥ मैत्रेय उवाच - दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा। प्रतीच्यां दिशि वेलायां सिद्धोऽभूत्र जाजलिः ॥2॥ ‘पारिव्राज्यं ब्रह्मसत्रं न्यास इत्यभिधीयते' इत्यभिधानम्॥ सर्वभूतात्मनि हरौ मेधा यत्र तद्ब्रह्मसत्रं सर्वभूतात्ममेधः। ‘हरिमेधास्तु संन्यासो हरौ मेधाऽत्र यद्भवेत्' इति षाङ्गुण्ये॥2॥


श्रेयसामपि सर्वेषामात्मा स्ववधिरर्थितः ।


Page 258


सर्वेषामपि भूतानां हरिरात्माऽऽल्मदः प्रियः ॥13॥ तावत्पर्यन्तमेव फलमित्यवधिः॥13॥


एतत्परं तज्जगदात्मनः पदं सद्विभातं सवितुर्यथा प्रभा। यथाऽसव जाग्रति सुप्तवृत्तयो द्रब्यक्रियाकास्कविंभ्रमात्ययः ॥ ‘आत्मभावः शरीरे तु द्रव्यभ्रम उदाहृतः। क्रियाभ्रमस्त्वहं कर्ता मदीयानीन्द्रियाणि तु।


कारकभ्रम इत्युक्तस्त एते विभ्रमा यदा। श्वासादिवृत्तिलोपेन प्राणा उद्योगिनस्तदा। विलीयन्ते प्राणभक्त्या नित्यस्वापवतां स्फुटम्। उद्योग एव जाग्रत्स्याद्योगिनां मुक्तिसिद्धये' इत्यध्यात्मे॥16॥


तेनैकमात्मनमशेषदेहिनां कालं प्रधानं पुरुषं परेशम्। स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमा ।। 18॥ ‘पूर्णो विष्णुः स एवैक इति भावो य ईरितः।


आत्मैकभाव इति तं विदुर्ब्रह्मात्मदर्शिनः' इति सत्यसंहितायाम्॥18


निरस्तसङ्कल्पविकल्पमद्वयं द्वयाफ्वादपरमोफ्लम्भनम्।


अनादिमध्यान्तमजस्रनिर्वृतिं संज्ञप्तिमात्रं भजतामुया दृशा ॥ ‘सङ्कल्पश्च विकल्पश्य ऋते विष्णुप्रसादतः। नैव सम्भवतो विष्णोः समाभावात् तु सोऽद्वयः। इति तन्त्रभागवते॥19॥


Page 259


न भजति कुमनीषिणां स इज्यां हरिरधनाल्मधनफ्रियो रसज्ञः। श्रुतधनकुलकर्मणां मदैयँ विदधतिं पापमकिंञ्चनेषु सत्सु ॥22॥


अधनाश्च त एखात्मधनाश्चाधनात्मधनाः॥22॥


श्रियमनुचरत तदर्थिनश्च द्विपदपतीन् विबुधांश्च यः स्वपूर्णः। न भजति निजभृत्यवर्मतन्त्रः कथममुमुद्विसृजेत्पुमान् रसज्ञः ॥23॥ ‘श्रियं देवांश्च भृत्यत्वान्मनुते बहु केशवः।।


नात्मार्थाय यतस्ते तु भक्त्या सर्वोत्तमोत्तमाः' इति च॥23॥


त्यक्त्वा स्त्रैणं च तं गच्छन् दृष्टो मे पथ्युदारथः। पञ्चवर्षो मदादेशैः संराध्य पुरुषोत्तमम् ॥25॥


तत्परं सर्वधिष्णेभ्यो मयाधिष्ठितमारुहत्। मुनयोऽद्वाप्युदीक्षन्ते परं नापुरवा नृपाः ॥26॥ 'सर्वोत्तमत्वाद्विष्णुहि माया इत्येव शब्द्यते इति व्योमसंहितायाम्। ‘देवानत्युत्तममुनीन् विना के औंशुमारकम्। हरेगृहं प्रविष्टास्तु ध्रुवो देवाश्च तद्गताः' इति मात्स्ये॥25, 26॥


॥ इतिं चतुर्थस्कन्धतात्पर्ये एकत्रिंशोऽध्यायः ॥ 4 - 31 ॥


॥ इति श्रीमदानन्दतीर्थभमक्त्पादाचार्यविरचिते श्रीमद्भागक्ततात्पर्ये चतुर्थस्कन्धः ॥4॥


॥ पञ्चमकधः ॥5॥



Page 260


|


t;


यः ॥5 - 1 ॥


त्वं त्वज्जनाभाङ्ग्रिसरोजकोशदुर्गाश्रितो निर्जितषट् सफ्नः। भुल्लेह भोगान् पुरुषातिसृष्टान् विमुक्तसङ्गः प्रकृतिं भजस्व ॥19॥ ‘विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना। तेन मुक्तिर्भवेत् तस्य तं गुरुर्वेद सर्ववित्’ इति प्रवृत्तसंहितायाम्॥19॥ मद्यं ॥ यो वा इह तथचरणनेमिकृतपरिखास्ताः सप्तसिन्धव आसन् यत एव कृती सप्त भु द्वीपाः॥31॥ ‘पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्रे प्रियव्रतः। समुद्रांस्तेन तत्कर्तेत्याहुरेनं प्रियव्रतम्' इति गारुडे॥31॥


॥ इति पञ्चमस्कन्धतात्पर्ये प्रथमोऽध्यायः ॥ 5-1 ॥


--



॥ द्वितीयोध्यायः ॥5 - 2॥


का त्वं चिकीर्षसि च किं मुनिंर्य शैले मायाऽसि कापिं भगवत्परदेवतायाः। विज्ये बिभर्षि धनुष सुहृदात्मनोऽर्थे


किं वा मृगान् मृगयसे विपिने प्रमत्तान्॥8॥


‘परिहासप्रलापादिष्वन वाग्भवेत् क्वचित्' इति शब्दनिर्णये॥8॥




॥इति पञ्चमस्कन्धतात्पर्ये द्वितीयोऽध्यायः ॥5-2॥


॥ तृतीयोध्यायः ॥5-3॥


Page 261


श्रीभगवानुवाच - मद्यं । किञ्चायं राजर्षिरपत्यकामः प्रजां भवाशीमाशासन ईश्वरमाशिषां स्वर्गापर्मयोरपिं भगवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणं को वा ईहते ॥14॥ अपराजितापराजितया माययाऽनवसितपदध्यानव्यावृत्तमतिर्विषमषयव्यापृतप्रकृतिः अनुपासितमचरणः॥15॥ 'नास्ति विष्णोः सम इति जानन्तोऽप्यृषयः सदा॥ तज्ज्ञापनाय लोकानामन्येषां प्रार्थयन् समम् इति ब्रह्माण्डे॥15॥


॥ इति पञ्चमस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥5 - 3॥


॥ चतुर्थोऽध्यायः ॥ 5-4॥


यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष, तद्वधार्य भगवान्, ऋषभदेव योगेश्वरः प्रहस्यात्मयोममायया स्ववर्षमजनाभं नामाभ्यवर्षीत् ॥3॥ ‘दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः। पस्पर्थ ऋषभेणैव स्वरूपेण हरिः स्वयम्' इति वाराहे॥3॥


॥ इति पञ्चमस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥ 5-4॥


यः ॥5-5॥


पराभवस्तावबोधजातो यावन्न जिज्ञासत आत्म तत्त्वम्। तावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीस्बन्धः ॥5॥ क्रियाफलं तावदेव। कर्मात्मकं कर्मवशम्॥5॥


Page 262


एवं मनः कर्मवशं प्रयुङ्के अविद्ययाऽऽल्मन् ब्यवधीयमाने। प्रीतिर्न यावन्मयिं वासुदेवे न मुच्यते देहयोगेन तावत् ॥6॥ अविद्यया प्रयुङ्गे॥6॥


पुंसः स्त्रिया मिथुनीभाव एष तयोर्मथो हृदयग्रन्थिमाहुः। यतो गृहक्षेत्रसुताप्तवित्रैर्जनस्य मोहोऽयमहं ममेति ॥8॥ ‘ब्रह्माद्या याज्ञवल्क्यद्या मुच्यन्ते स्त्रीसहायिनः।। बध्यन्ते केचनैतेषां विशेषं च विदो विदुः ॥ इति सत्यसंहियाम्॥


हरौ गुरौ मयि भक्त्याऽनुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च।


सर्वत्र जन्तोर्व्यसनावमल्या जिज्ञासया तपसेहानिवृत्त्या। मत्कर्मभिर्मत्कथया च नित्यं मत्पादसङ्गाद्णकीर्तनान्मे ॥10॥ ‘आत्मनो विहितं कर्म वर्जयित्वाऽन्यकर्मणः।।


कामस्य च परित्यागो निरीहेत्याहुरुत्तमाः' इति च ॥10॥



सच्छङ्ख्या ब्रह्मचर्येण शश्वदसंप्रमादेन जयेन वाचाम्। सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन ॥12॥ ‘सर्वस्मादुत्तमो विष्णुरिति ज्ञानमुदाहृतम्।


प्रतिजीवं येन मुक्तिस्तद्विज्ञानं विदां मतम्' इति च। ‘ज्ञानं विष्णोरुत्तमत्वे तदेव प्रतिपूरुषम्। विशेषेण तु विज्ञानं तच्च जानाति सर्ववित्। द्वात्रिंशल्लक्षणैर्युक्तस्तीक्ष्णदंष्टश्च सौम्यदृक् ।


Page 263


घोररुक् चेति पुरुषः स सर्वज्ञ उदाहृतः' इत्यध्यात्मे॥ ‘घण्णवत्युङ्गलो यस्तुन्यग्रोधपरिमण्डलः।


सप्तपादश्चतुर्हस्तः स देवैरपि पूज्यते' इति वायुप्रोक्ते॥ ‘न्यग्रोधमण्डलो व्यामो बाहू न्यग्रोध उच्यते' इति च॥12॥


तस्माद्ववन्तो हृदयेन जाताः सर्वे महीयांसममुं सुनाभम्। अक्लिष्टबुच्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥20॥ ‘नाभिरित्यथ नाम स्याद्धरेः सर्वाश्रयो यतः' इति च।


तत्तस्य मम शुश्रूषणम्॥20॥


देवासुरेभ्यो मघवान् प्रधानो दक्षादयो ब्रह्मसुताश्च तेषाम्। भवः परः सोऽथ विञ्चिवर्यः स मत्परोऽहं द्विजदेवदेवः ॥22॥ द्विजानां देवानां देवः॥22॥


सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि। सम्भावितव्यानि पदे पदे व विविक्तदृष्टिस्तदुताहणं मे ॥26॥ विविक्तदृष्टिः - जीवानां धिष्ण्यतया परमेश्वरस्य भेददृष्टिः। ‘उपपादयेत्परात्मानं जीवेभ्यो यः पदे पदे। भेदेनैव न चैतस्मात् प्रियो विष्णोस्तु कश्चन' इति पाझे॥ ‘यो हरेश्चैव जीवानां भेदवक्ता हरेः प्रियः' इति च॥26॥


॥ इति पञ्चमस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥5-5॥


॥ षष्ठोऽध्यायः ॥ 5-6॥


Page 264


राजा - न नूनं भगवन्नात्मरामा यमसमीरितज्ञानावभर्जितकर्मभीजानामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपमतानि॥ ऋषिः :- सत्यमुक्तं किन्त्विह वा एकैन मनसो विस्रम्भमनवस्थानस्य घटकिरीट झ्व न सङ्गच्छति ॥2॥ तथा चोक्तम् - न कुर्यात् कहिँचित् सङ्गं मनसि ह्यनवस्थिते। यद्विस्रम्भाचिरं चीर्णं चस्खन्देत् तप ऐश्वरम् ॥3॥


नित्यं ददातिं कामस्य च्छिद्रं तदनु येऽरयः।


योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ 4 ॥


कामो मन्युर्मदो लोभः शोकमोहभयादयः। कर्मबन्धश्च यन्मूलः स्वीकुर्यात् को नु तद् बुधः ॥5॥ ‘महैश्वर्यस्वरूपो हि भगवान्नृषभः स्वराट्। नैश्वर्याणि स्वकीयानि ख्यापयामास सर्ववित्। उत्तमानां ज्ञापनार्थं धर्मतत्त्वस्य केशवः। तेषामैश्वर्यभोगे हि मनः सक्तिं व्रजेद्यदि।


आनन्दो मुक्तिगो ह्रासं विकर्मकरणाद्वजेत्। धर्माधर्मविहीनोऽपि भगवान् ऋषभस्ततः। तेषां धर्मस्थापनार्थं नाविश्वक्रे परां स्थितिम्। देवानां नाशुभाद्रासः शुभात् काचित् सुखोन्नतिः।


आधिकारिकजीवानामेवमन्येषु तद्व्यम्।


Page 265


अल्पाधिकारिणां तत्र हासोऽपि भवति ध्रुवम्। अशुभाभावजोन्नाहो महाधीकारिणामपि। अशुभे कृते न भवति तारतम्याच्च स स्मृतः। प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः। ऋष्यशीतिस्तथा सप्तपितरोऽप्सरसां शतम्। गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु। अल्पाधिकारिणः प्रोक्ता अनधीकारिणः परे' इति ब्रह्माण्डे॥2 - 5॥


अथैवमखिललोकपालललामो विलक्षणे जडववधूतवेषभाषाचरितैरविलक्षितभमक्त्स्वभाव योमिनां साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिंहासुरात्मन्यात्मानमसंव्यवहिंत- मनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरूपराम ॥6॥ ‘विष्णोः कलेवरत्यागो भूत्यागोऽन्यो न विद्यते। कलेवरत्यागोऽन्येषां पञ्चत्वम् समुदीरितम्' इति कौमैं। अनर्थान्तरभावेन अर्थान्तरं नास्तीति मनसा॥6॥ तस्य ह वा एवं मुक्तलिङ्गस्य भमक्त ऋषभस्य योममायावसानो देह इमां जमतीमभिमानाभासेन चङ्कममाण एकदा तु काङ्कटकर्णाटकाद् दक्षिणकर्णाटकान् देशान् यदृच्छयोपमतः कुठचाचलोपवन


आस्यकृताश्मकबळ उन्माद इव मुक्तमूर्धजोऽसंवीत एव किंचचार ॥ 2 ॥ अभिमानाभासेन - अभितो ज्ञानप्रकाशेन॥7॥


अथ समीरवेमविधुतवेणुनिकर्षांपजातो। दावानलस्तद्वनमालेलिहानः समन्तात् सह तेन ददाह॥9॥


यस्य किलानुरचितमुपाक कोङ्कटकर्णाटकानां दक्षिणकर्णाटकानां राजाऽर्हतनामपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथं पाषण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रर्तइष्यते॥10॥


Page 266


योन है वो कलौं मनुजापसदा देवमायाक्मिोहिताः स्वकिधिनियोगशौचाचारविहींना देवहेलनादीन्यपव्रतानि निजेच्छया मृह्णाना अस्नानाचमनशौंचकेशोलुञ्छनादीनि कलिनाऽधर्मबहु- लोपब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥11॥


तैरपि वक्तनया निजलोकयात्रयाऽन्धपरम्परयाऽत एखानाश्वस्तास्तमस्यन्धे स्वयमेक प्रपतिष्यन्ति॥12॥ ‘ज्ञानानन्दात्मको देहो ऋषभस्य महात्मनः।


तादृशेनैव मनसा क्रमंस्तुकुटचाचले। दावाग्निमनुविश्याथ तत्रस्थः प्रादहज्जगत्। एवमग्नेरभिव्यक्तस्तत्स्थो विष्णुः सनातनः। ऋषभत्वेन सङ्गोप्य धर्मानद्यापि तत्रगः। आस्ते स वासुदेवात्मा वासुदेवोऽहमित्यजः॥ सदा स्थितः स्थितिं तां तु सुश्रावार्हो दुरात्मवान्। पूर्वं तु पौण्ड्रको नाम वासुदेवः सुदुर्मतिः।


जातिस्मरो द्विधा शास्त्रं पाषण्डं निर्ममे नृपः। एकं तु वासुदेवाख्यं वासुदेवोऽहमित्यपि। कत्सितं वासुदेवत्वप्रतिपादकमात्मनः। लोकार्थं चापरमपि चकारार्हतनामकम्॥ तत्प्रशिष्यः क्रमुर्नाम न जानेस्तन्मतं परम्। वासुदेवात्मतां सर्वजीवानामवदत् कुधीः। क्रम्वाख्यं शास्त्रमकरोदभेदप्रतिपादकम्।


Page 267


कुशास्त्रं सर्ववेदानां विरुद्धं तामसालयम्। तदृष्ट्वाऽद्यापि वर्तन्ते वर्तिष्यन्ति तथा कलौ। अशौचा अव्रताचारा वासुदेवोऽहिमित्यपि' इति ब्रह्माण्डे॥


अहो भुवः सप्तसमुद्रक्त्या द्वीपेषु वर्षेष्यधिपुण्यमेतत्। गायन्ति यत्रत्यजना मुरारे: कर्माणि भद्राण्यवतारयन्ति ।। 14 ।। ‘विशेषाद्भारते पुण्यं चरेयुः पापमप्यथ। तथैव भगवद्भक्तिं पृथिव्यां नान्यवर्षगाः' इति ब्रह्माण्डे॥14॥


को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवाय योगी। यद्योगमायां स्पृहयन्त्युदस्तां महत्ममा येन कृतप्रयत्नाः ॥ योगमायां योगमायाफलं बाह्यम्। 'नित्योदस्ता योगशक्तिरनपेक्ष्यं फलं यतः। नित्यस्वरूपभूताऽपि बहिः फलविवर्जनात्।


अकर्मेत्युच्यते यद्वन्मोक्षः फलविवर्जनात्' इति पाझे॥16॥ यस्यामेव कक्य आत्मानमक्रितसिंविधवृजिनसंसारपरितापोपतष्य मानमनुसक्नं स्नाफ्यन्तस्तयैव परया निवृत्या ह्यापवर्मिकमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नैवाट्रियन्ते भामक्तत्वेनैव परिसमाप्तसर्वार्थाः॥18॥


राजन् पतिंर्गुरुरलं भवतां यदूनां देवप्रिंयः कुलपतिः क्वच किंङ्करो वः । अस्त्वमङ्गभगवान् भजनां मुकुन्दो मुक्तिं ददाति कहिँचित्स्म न भक्तियोगम् ॥ 19


Page 268


‘ब्रह्मणोऽन्यस्य नो पूर्णा दद्याद्भक्तिं जनार्दनः।


मुक्तिं ददाति सर्वेषां मुक्तानां को ह्यधीशिते' इति ब्रह्मतर्के। ‘नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम्। स्वयोग्यं व्यज्यते मुक्तौ तच्चोक्तं तारतम्ययुक् इति व्योमसिंहितायाम्॥18,19॥


॥ इति पञ्चमस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥5-6॥


॥सप्तमोऽध्यायः ॥ 5-7 ॥ परोरजः सवितर्जातवेदो वेदस्य गर्भो मनसेदं जजान। स्वरेतसाऽदः पुनराविश्य च स्वं हंसं गृध्राणामृषभं सङ्गणमः ॥13


‘परोरजाऽरजस्कत्वात् त्रयीढ्यत्वात् त्रयीसुतः। गुणात्ययात् तुरीयश्च जातवेदाश्च सर्ववित्। हंसो दुःखादिहानेन जीवेशत्वाचगृध्रराट्। कालः सर्वनियन्तृत्वात् परमात्मा प्रकीर्तितः' इति तन्त्र निरुक्ते॥13॥


॥ इति पञ्चमस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥5 - 2 ।


१४::::


॥दशमोऽध्यायः ॥ 5- 16 ॥



एवं क्ह्वब्द्धमभिभाषमाणं नरदेवाभिमानिनं रजसा तमसाऽनुद्धेिन मर्दैन तिरस्कृताशेषभमवत्प्रियनिकेतं पण्डितमानिनं स भमवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसृहृदात्मा योमेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विमतस्मय इदमाह ॥ 9 ॥ अशेषभगवत्प्रियाणां निकेतः स एव भरतो मानुषापेक्षया।


Page 269


'तत्कालस्थितभक्तेषु मानुषेष्वृषभात्मजः। वरोऽपि धिकृतो राज्ञा सुहृदा वैष्णवेष्वपि' इति गारुडे॥9॥


ब्राह्मण उवाच - त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर भारः। गन्तुर्यदि स्याधिगम्यमध्वा पवेति चासौ न विदां प्रवादः ॥10॥ ‘भरणादिकृद्धरिरिति चिन्तयन् नृपमब्रवीत्' इति च॥10॥


स्थौल्यं कार्यं व्याधय आधयश्च क्षुत्तृङ्यं कलिस्च्छिा जरा च। निद्राऽरतिर्मन्युरहं मदश्च देहेन जातस्य हि मे न सन्ति11॥ देहेन जातस्य देहाभिमानिनः। ‘देहमानी देहजातो विदेहो मानवर्जितः' इति च ॥11॥


जीवन्मृतत्वं नियमेन राजन्नाद्यन्तवद्यद्विकृतस्य दृष्टम्। स्वस्वामिभाव ध्रुव एष यत्र तर्छच्यतेऽसाविति कृत्ययमः ॥12॥ ‘प्राणयुक्तेररत्या च जडं जीवन्मृतं स्मृतं' इति च।


स्वामित्वं तु हरेरेव मुख्यमन्यत्र भृत्यता॥12॥


विशेषबुद्धेर्विवरं मनाक् च पश्यामि यत्र व्यवहारतोऽन्यत्।


क ईश्वरस्तत्र किंमशितव्यमथापि राजन् कस्वाम किं ते ॥13॥ ‘देवेषु तन्नियत्या च त्वदादेर्व्यवहारिकम्। मानुषेषु विशेषः को व्यवहारमृते वद। व्यत्यासान्न हि देवेषु व्यत्यासः स्वामितागतः' इति च॥13॥


Page 270


न विक्रिया विश्वसहृत्सखस्य साम्येन वीतभिमतेस्तवापि। महद्विमानात् स्वकृताद्धिं माक् धक्षत्यदूरादपि शूलपाणिः ॥26॥ ‘स्वतो महदवज्ञानाद्रोऽप्यात्मानमादहेत्' इति च॥26॥


आत्मा


26॥


॥ इति पञ्चमस्कन्धतात्पर्ये दशमोऽध्यायः ॥ 5-10 ॥


॥एकादशोऽध्यायः ॥ 5-11 ॥


ब्राह्मण उवाच -


|




तथैव राजन्नुरगार्हमेधवितानविद्यारुविजृम्भितेषु। न वैदवादेषु हि तत्त्ववादः प्रायेण शुद्ध नु चकास्ति साधु ॥2॥


न तस्य तत्वग्रहणाय साक्षाद् वरीयसीपिं वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ॥3॥ 'न वेदेश्वल्पबुद्धीनां ब्रह्मतत्त्वं समीक्ष्यते। महाबुद्धिस्तु वेदेषु पश्येद्बह्मैव केवलम्' इति च॥2,3॥ स वासनात्मा विषयपरक्तो गुणप्रवाहो विकृतः षोड्शात्मा। चित्रं पृथङ्गामभी रूपभेदमन्तर्बहिष्ठः स्वपुरैस्तनोति ॥5॥


दुःखं सुखं व्यतिमिश्रं च तीवं कालोपपन्नं फलमाव्यनक्ति।


आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटम् ॥6॥


अन्तरात्मा मनः॥4 - 6॥


Page 271


तावानयं व्यवहारः सदा वै क्षेत्रज्ञसाक्ष्योर्भवति स्थूलसूक्ष्मः। तस्मान्मनोलिङ्गमदो वदन्ति गुणागुणस्यास्य परावरस्य ॥7॥ ‘क्षेत्रवित् तु हरिः प्राणः साक्षी ताभ्यां पुमान् सरेत्' इति च॥7॥


गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथ मनः स्यात्। यथा प्रदीपो घृतवर्तिमास्थितो स्थितिं सधूमां भजतिं ह्यन्यदा स्वम्।


पदं तथा गुणकर्मानुबद्धं बहिर्मनः श्रयतेऽन्यत्र तत्त्वम्। एकादशासन्मनसोऽस्य वृत्तीराकूतयः पञ्च धीयोऽभिमानाः ॥8॥


मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमिम्॥9॥ पदं - विषयम्॥8 - 9॥ गन्धाकृतिस्पर्शरसश्रवांसि विसर्गगत्यत्त्यभिजल्पशिल्पाः।


एकादशं स्विकरणं ममेति मायामहं द्वादशमेकमाहुः ॥11॥ ‘एकादशेन्द्रियद्वारा स्युरेकादशवृत्तयः।


शब्दाद्यास्तदभीमानास्तदिच्छाश्चैव पञ्चशः। स्पर्शान्तर्भवातः कर्मखानां नैव पृथग्गतिः। एकादशैव चेष्टाः स्युरिन्द्रियाणां पृथक् पृथक्। गोलकास्तदधिष्ठानं चैकादश निगद्यते॥ एष संसृतिसम्भारो द्वादशैवाथवा भवेत्। दशकं विषयाणां च ममाहमिति च द्वयम्। द्वयमेव ममाहं वा संसृतिस्त्वहमेव वा' इति च ॥


Page 272


अत्तिरुपस्थविषयः॥10 - 11॥


द्रव्यस्वभावाशयकर्मकालैरेकादशमी मनसो विकाराः। सहस्रशः शतशः कोटिशश्चक्षेत्रज्ञ न मिथ न स्वतः स्युः ॥12॥ द्रव्यं - देहादिः। स्वभावः - योग्यता। जीवस्य क्षेत्रज्ञतः स्युः। मिथः स्वतश्च न स्युः॥12॥


क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयञ्ज्योतिरजः परेशः। नारायण भगवान् वासुदेवः स्वमाययाऽत्मन् व्यवधीयमानः यथाऽनिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईष्टे। एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मैदमनुप्रविष्टः ॥14॥ स्वमाययाऽऽत्मन्व्यवधीयमानः। स्वेच्छया स्वस्मिन्नेव तिरोहितत्वेन स्थितः। ‘स्वात्माधारः स्वेच्छयैव जीवदृष्टेस्तिरोहितः।


क्षेत्रज्ञेत्युच्यते विष्णुर्जीवस्थः पुरुषोत्तमः' इति च॥13, 14॥


न यावदेतां तनुभृन्नरेन्द्र विधूय मायां क्युनोदयेन। विमुक्तसङ्गो जितषट्सपत्नो वेदार्थतत्त्वं भ्रमतीह तावत् ॥15॥


न तावदेतन्मन आत्मलिंङ्गम् संसास्तापावपनं जनस्य। यच्छोकमहामयरागलोभवैरानुबन्धं ममतां विंधत्ते ॥16॥


भ्रातृव्यमेनं त्वमदभ्रवीर्यमुपेक्षयाऽप्येधितमप्रमत्तः। गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलकं स्वयमात्ममोहम्॥ अभिमानादेव संसारोऽन्यथा नेति परिहारः॥15 -18॥


Page 273


॥ इति पञ्चमस्कन्धतात्पर्ये एकादशोऽध्यायः ॥ 5-11 ॥


| ॥द्वादशोऽध्यायः ॥ 5-12॥


ब्राह्मण उवाच -


अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः।


तस्यापि चाङ्योरधि गुल्फजङ्घा जानूरुमध्योरःशिरोधरांसाः ॥ यस्मान्मूलकारणभूतो विष्णुरेव। अतो मुख्यं सर्वकारणत्वं तस्यैव। मूलाश्रयविवक्षा यदि न स्यात् कुतः पृथिव्यां चलतीति व्यवहारः ? यतोऽवान्तराश्रया बहवः सन्त्यङ्ख्याद्याः॥5॥


अंसेऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते। यस्मिन् भवानृढ़निंजाभिमान राजाऽस्मि सिन्धुष्वितिं दुर्मदान्धः ॥


शोच्यानिमांस्तानधिं कः समाधिर्विष्या निगृह्णन् निरनुग्रहोऽसि। जन्यस्यगोप्तेति विकत्थमान न शोभसे वृद्धसभासु दुष्टः ॥7॥ एवं मूलगोप्तृत्वं च विष्णोरेव॥6,7॥


एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानं परमाणवो ये।


अविद्यया मनसा कल्पितास्ते येषां समृहेन कुतो विशेषः ॥9॥ आश्रयत्वात् क्षितिरिति निर्वचने क्षितिशब्दोऽपि तस्मिन्नेव। परमाणुमात्रायाः पृथिव्या अयुक्तत्वात् परमाणवोऽप्यस्याविद्ययैवाधारत्वेन कल्पिताः॥9॥


एवं कृशं स्थूलमणुर्बुहद्यदसच्च सज्जीक्मजीवमन्यत्। द्रव्यस्वभावाशयकालकर्मनाम्याऽजयाऽवैहि कृतं द्वितीयम् ॥10॥


Page 274


ज्ञानं विशुद्धं परमार्थमेकमनन्तरं न बहिब्रह्म सत्यम्। प्रत्यक् प्रशान्तं भगवच्छब्दवाच्यं यद्वासुदेवं कक्यो दन्ति ॥11॥ एवं सर्वं तथा प्रकृत्यैव कल्पितं विष्णोरन्यत्। एवं प्रकृत्याधारः स्वयमनन्याधारो विष्णुरेव। अतः सर्वशब्दाश्च तस्मिन्नेव। ‘राजा गोप्ताऽऽश्रयो भूमिः कारणम् चेति लौकिकः। व्वयहारो न तत्सत्यं तयोर्ब्रह्माऽऽश्रयो विभुः। गोप्ता च तस्य प्रकृतिस्तस्या विष्णुः स्वयं प्रभुः। तव गोम्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः। अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः। सर्वशब्दाभिधेयश्च शब्दवृत्तेर्हि कारणम्। सर्वान्तरः सर्वबहिरेक एव जनार्दनः। शिरआधारता यद्वद्गीवायास्तद्वदेव तु।


आश्रयत्वं च गोतृत्वमन्येषामुपचारतः” इति च॥10,11॥


॥ इति पञ्चमस्कन्धतात्पर्ये द्वादशोऽध्यायः ॥5-12॥


-


॥त्रयोदशोऽध्यायः ॥ 5-13॥


आर्षभस्येह राजर्षेर्मनसाऽपि महात्मनः। नानुवर्मार्हति नृपो मक्षिकेव गरुत्मतः ॥26॥ ‘ऋते हैहयवैन्यादीनार्षभस्येह कः समः।


यस्योपदेशात् सिन्ध्वीशो ददर्श कपिलं प्रभुम्' इति च॥26॥


Page 275


यज्ञाय धर्मपतये विधिनैपुणाय योगाय साङ्ख्यशिरसे प्रकृतीश्वराय।


नारायणाय हरये नम इत्युदारं गायन् मृगत्वमपि यः समुदाजहार ॥29॥ युज्यते अनेनेति योगो हरिः। साङ्ख्यशिरसे - उत्तमज्ञानस्वरूपाय॥29॥


॥ इति पञ्चमस्कन्धतात्पर्ये त्रयोदशोऽध्यायः ॥ 5-13 ॥


यः ॥5 - 15॥


गयं नृपं कः प्रतियाति कर्मभिर्यज्वाऽभिमानी बहुविद्धर्मगोप्ता। सदागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ॥7॥ ‘प्रियव्रतो गयश्चैव कर्मदेवसमौ गुणैः' इति षाडुण्ये॥7॥


॥ इति पञ्चमस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥ 5-15॥


यः ॥ 5-16 ॥


'यथा भागवते तूक्तं भौवनं कोशलक्षणम्। तस्याविरोधतो योज्यं सर्वं ग्रन्थान्तरस्थितम्। मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे। राहुसोमरवीणां च मण्डलाद्विगुणोक्तिताम्। विनैव सर्ममुन्नेयं योजनाभेदतोऽत्र तु' इति ब्रह्माण्डे॥7॥


॥ इति पञ्चमस्कन्धतात्पर्ये फेडशोऽध्यायः ॥5- 16॥


यः ॥ 5-1



श्रीशुक उवाच -


Page 276


तत्र भमक्तः साक्षाद्यज्ञलिंङ्गस्य विष्णोर्विक्रमतो


कामपादाङ्गुष्ठ- नखनिर्भिन्नोर्ब्राण्डकटाहविवरेणान्तःप्रविष्टा । यो बाह्य जलधारा तरणपङ्कजीवनैजनारुणकिञ्जलकोपरञ्जिताखिलजगदमलाप-पस्पर्शानामला


साक्षाद्भगवत्पदत्यनुपलक्षितक्चभिरभिधीयमानाऽतिमहता कालेन युमसहस्रोपलक्षणेन दिवो मूर्धन्यक्ततार॥1॥ ‘वाराहे वामपादं तु तदन्येषु तु दक्षिणम्। पादं कल्पेषु भगवानुज्जहार त्रिविक्रमः' इति च ॥1॥ भवानीनाथैः स्त्रिमणार्बुदसहसैस्क्रुध्यमानो भमक्तश्चतुर्भूर्तेर्मह्मपुरुषस्य तुरीयां तामस मूर्ति प्रकृतिमात्मनः सङ्कर्षणसंज्ञां आत्मसमाधिरूपेण सन्निधाप्यैतदभिमृणन् भव उपधावति ॥15॥


|


भव उवाच : ओम् नमो भगवते महापुरुषाय सर्वमुणसङ्ख्यातायानन्तायाव्यक्ताय नम इति ॥16॥ ‘अनन्तान्तः स्थितो विष्णुरनन्तश्च सहामुना। पूज्यते गिरिशेनेश इलावृतगतेन तु' इति च ॥ ‘जीवव्यपेक्षया चैव तथाऽन्तर्याम्यपेक्षया। मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्यत्र केवलम्' इति च ॥16॥


॥ इति पञ्चमस्कन्धतात्पर्ये सप्तदशोऽध्यायः ॥5-17॥


-


॥ अष्टादशोऽध्यायः ॥ 5-18॥


विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतम्।


युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मके व्यतिरिक्ते च वस्तुनि ॥5॥ ‘अप्रयासेन कर्तृत्वमकर्तृत्वमिहोच्यते।


महाशक्तित्वतस्तच्च युज्यते परमस्य तु' इति तन्त्रसारे॥5॥


Page 277


तद्भमक्तो मायामयं रूपं परमसमाधियोमेन रमादेवी संवत्सरस्य रात्रिषु प्रजापतेढुंहितृभिरुपेताऽहस्सु तद्भर्तृभिरुपेतोपास्ते॥ इदं चोदाहरति॥17॥ ‘कामदेवस्थितं विष्णुमुपास्ते श्री रतिस्थिता। कामदेवं रतिश्चापि विष्णोस्तु प्राकृतां तनुम्' इति ब्रह्माण्डे ॥17॥


यं लोकपालः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च। पातुं न शेकुर्दैि पदश्चतुष्पदः सरीसृपस्थास्नु यत्र दृश्यते ॥27॥ ‘स्पर्धन्त इव देवास्तु हरिणा यत्र कुत्रचित्। हरेरेवाज्ञया क्वापि दैत्यावेशादथापि वा' इति च॥27॥


यद्पमेतक्रिजमाययाऽर्पितमर्थस्वरूपं बहुरूपरूपितम्। सङ्ख्या न यस्यास्त्य यथोपलम्भनात्तस्मै नमस्तेऽव्यपदेश्यरूपिणे ॥31॥ उपलम्भनादयथा। यथा दृष्टं तथा न तिष्ठत्यन्यथाभवतीत्यर्थः॥31॥


जरायुजं स्वेदजमण्ङजोद्भिजं चराचरं देवर्षिपितृभूतभेदम्।


द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहत्यभिधेय एकः ॥32॥ ‘सर्वान्तर्यामिकत्वात् तु सर्वनामा हरिः स्वयम्। न तु सर्वस्वरूपत्वादूपत्वमुपचारतः' इति च॥32॥


यस्मिन्नसङ्ख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयम्। सङ्ख्या यया तत्त्वदृशा विनीयते तस्मै नमः साङ्ख्यनिदर्शनाय हिं॥ दशावतार इत्यादिसङ्ख्या विनीयते विशेषेण नीयते तज्ज्ञानं तद्रूपमेव हि॥33॥


Page 278


यस्य स्वरूपं कवयो विपश्चित गुणेषु योनिष्विव जातवेदसम्। मश्चन्ति मश्ना मनसा दिटक्षक गूढे क्रियार्थैर्नम ईरिताल्मने । क्रियार्थेयज्ञद्यर्थैरिन्द्रादिनामभिरीरितात्मने॥36॥


द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने। तथैव तत्रातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः ॥37॥ मायागुणैस्तदिच्छानुसारिभिः। ‘द्रव्येशः शङ्करः प्रोक्तः क्रियेशो गरुडः स्मृतः। करणेशस्तथा ब्रह्मा वायुराधारपः स्मृतः' इति ब्रह्मतकै॥37॥


॥ इति पञ्चमस्कन्धतात्पर्ये अष्टादशोऽध्यायः ॥ 5-18॥


॥एकोनविंशोऽध्यायः ॥ 5- 19॥


यथैहिंकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन्। शङ्केत विद्वान् कुकलेवरात्ययाद्यस्तस्य यत्नः श्रम एव केक्लम्॥14॥ ‘यस्य सम्यक् च भवति ज्ञानं भक्तिस्तथैव च। निश्चितस्तस्य मोक्षः स्यात् सर्वपापकृतोऽपि तु। यो ममत्वादिना दोषः स त्वन्यविषयः स्मृतः' इति च ॥14॥


यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य दत्तस्य कुतस्य शोभनम्। तेनानाभस्मृति जन्म नः स्याद्वर्षे हरिद्भजतां शं तनोति ।। ‘अनधीकारिणो देवाः स्वर्गस्था भारतोद्भवम्।


Page 279


वाञ्चन्त्यात्मविमोक्षार्थमुद्रेकार्थेऽधिकारिणः' इति कौमैं॥28॥


॥ इति पञ्चमस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥ 5-19॥


॥विंशोऽध्यायः ॥5- 20॥


प्रत्नस्य विष्णोः रूपं यत् सत्यर्तस्य ब्रह्मणः।


अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥ इति ॥5॥ ‘सूर्यसोमाग्निवारीरविधातृषु यथाक्रमम्।। प्लक्षादिद्वीपसंस्थास्तु स्थितं हरिमुपासते' इति च॥5॥


""


-


तथा बहिः क्रौञ्चद्वीपः कुशद्वीपाद्विमुणसमानेन क्षीरोदेन परित उपक्कसो यथा कुशद्वीपणे घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराज द्वीपनामनिर्तक आस्ते ॥18॥



एवं परस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परित उपक्लप्तः। यस्मिन् हि शाको नाम महीरुहः स्वक्षेत्रब्यपदेशको यस्य ह महान् सुरभिमन्धस्तं द्वीपमनुवासयति॥24॥ ‘अनाम्लं तु दधि क्षीरं क्षीरं सान्द्र तथा दधि' इति शब्दनिर्णये॥18, 24॥


स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्मा ज्योतिर्मणानां मभस्तयोऽर्वाचीनास्त्रिलोकान् क्तिन्वाना न कदाचित् फ्राचीना भुक्तुिमुत्सहन्ते ताक्दुन्नहनायामः ॥ ‘ज्ञानानन्दात्मके विष्णो शिंशुमारवपुष्यथ। ऊर्ध्वलोकेषु संव्याप्त आदित्याद्याः समाश्रिताः' इति ब्रह्माण्डे॥


॥ इति पञ्चमस्कन्धतात्पर्यो विंशोऽध्यायः ॥ 5- 20 ॥


==


॥त्रयोविंशोऽध्यायः ॥5-23॥


Page 280


उत्पत्तिस्थितिलयहेतवऽस्य कल्याः सत्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन्। यद्रूपं ध्रुक्मकृतं यदेकमात्मन् नाना धात्कतमु ह वेद तस्य वर्म ।। 41 ॥ इलावृतस्थस्तुतिवत् पातालमूलस्थस्तुतिर्योजनीयाऽनन्तविषया॥41॥


॥ इति पञ्चमस्कन्धतात्पर्ये त्रयोविंशोऽध्यायः ॥ 5-23॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्ये पञ्चमस्कन्धः ॥5॥


॥ षष्ठः स्कन्धः ॥6॥


॥ प्रथमोऽध्यायः ॥ 6 -1 ॥


यमदूता ऊचुः - वेदप्रणिहितो धर्मो स्वधर्मस्तद्विर्ययः। वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ।। 40॥ ‘वेदानां प्रथमो वक्ता हरिरेव यतो विभुः।


अतो विष्ण्वात्मका वेदा इत्याहुर्वेदवादिनः' इति शब्दनिर्णये॥40॥


॥ इति षष्ठस्कन्धतात्पर्ये प्रथमोऽध्यायः ॥6-1॥


॥ द्वितीयोऽध्यायः ॥6 - 2 ॥


साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुः॥14॥ नारायणोऽयमित्यन्यहेलनविषयत्वोनोक्तमघहरम्। 'सर्वथाऽघहरं विष्णोर्नाम तद्भक्तिपूर्वकम्।


Page 281


अभक्त्योदाहृतं नैव फलदातृभविष्यति। नामस्वामितया तस्य स्मरणं जायते यतः। भक्तस्यातो नामकीर्तिः सङ्केतादावपीरिता। अजामिलोऽपि स्मरणाद्भक्त्या मृत्योरमुच्यत' इति नारदीये॥


॥ इति षष्ठस्कन्धतात्पर्ये द्वितीयोऽध्यायः ॥ 6 -2॥


यः ॥6 - 3॥


यम उवाच -


परौ मन्यो जगतस्तस्थुषश्च ओतं प्रौतं पटवद्यत्र विश्वम्। यदंशतोऽस्य स्थितिजन्मनाशा नस्र्योतक्यस्य क्शे च लोकः ॥12॥


ओतं प्रोतं पटवत्। ‘यथा कन्थापटाः सूत्र ओताः प्रोताश्च संस्थिताः।


एवं विष्णाविदं विश्वमोतं प्रोतं च संस्थितम्' इति स्कान्दे॥12॥


-


॥ इति फ्छस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥ 6-3॥


यः ॥ 6 - 4॥


न यस्य सख्यं पुरुषो वेत्ति सख्युः सखा वसन् संवसतः पुरेऽस्मिन्। गुणो यथा गुणिनोऽव्यक्तदृष्टिस्तस्मै महेशाय नमस्करोमि ॥24॥ गुणो यता गुणिनः। कश्चित् पुरस्थो गुणभूतः प्रधानभूतस्य राज्ञः। ममासो सखेति राज्ञा चिन्तितमपि न जानाति। ‘यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः।


Page 282


तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोऽस्तुते' इति स्कान्दे॥24॥


देहोऽसवऽक्षा मनव भूतमात्रा नात्मानमन्यं च विदुः परं यत्। सर्वं पुमान् वेद गुणांश्च तज्ज्ञों न वेद सर्वज्ञमनन्तमीडे॥25॥


'देहमानी वैश्रवणो मरुतः प्राणमानिनः। इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः। नैते विन्दन्ति स्वात्मानं परं चापि विमोहिताः। जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः। सोऽपि वेद हरि नैव सम्यक् सैव हि सर्ववित्' इति च ॥25॥


यदोपरामो मनसो नामरूपरूपस्य दृष्टिस्मृतिसम्प्रमोषात्। य ईयते केलया स्वसंस्थया हँसाय तस्मै शुचिषद्मने नमः ।। केवलया स्वसंस्थया। स्वप्नसुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्यदर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते। जीवेच्छाभावात् केवलत्वम्। ‘यदोपरामो मनसः स्वप्नसुप्तिलयादिषु।


तदाऽवस्थाप्रबोधादिकारणत्वेन केशवः। अस्वतन्त्र्यात् तु जीवस्य विद्यतेऽन्यो नियामकः। जीवप्रवृत्यानुकूल्याज्ज्ञायतेऽसौ सदा विभुः' इति हरिवंशेषु॥26॥


मनीषिणोऽन्तर्हदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः। वह्नि यथा दारुणि पाञ्चदश्यं मनीषया निष्कृषन्तीह गूढम्॥27॥ इच्छादिरूपेण त्रिवृद्भिः।


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 283


‘इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः। विष्णोः स्वरूपभूता यास्ताभ्यस्तन्नामिकाः पराः। जायन्ते तत्प्रसादेन ताश्च पीठे प्रपूजयेत्। तद्भिन्नजीवास्तस्यैव प्रसादात् तत्समीपगाः' इति तन्त्रनिर्णये। ‘दशेन्द्रियाणि च मनो बुद्धिप्राणप्रधानकाः। चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः। बुद्धेभैदेन चैतेषु पाञ्चदश्योऽथ संस्थितेः' इति च ॥27॥


स वै ममाशेषविशेषमायानिषेधनिर्वाणसुखानुभूतिः। स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥28॥


यद्यन्निरुक्तं वयसा निरूपितं धियाऽक्षभिर्वा मनसा त यस्य। मा भूत् स्वरूपं गुणरूपबृंहितं स वै गुणापायनिसर्गलक्षणः ।। ‘इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः। सर्वैर्विशेषै रहित उच्यते हरिरव्ययः।। अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते' इति च। 'तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा।


सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः' इति च। ‘अलौकिकत्वान्नो विष्णुर्निरुक्तोऽत निरूपितः।


तथाऽपि वेदेषूक्तत्वादुक्तो रूपित एव च इति व्योमसंहितायाम्॥28, 29॥


Page 284


यस्मिन् यतो येन च यस्य यस्मै यं यो यथा कुरुते कार्यते वा। परावरेषां परमं प्राक् स्वसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥30॥ सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव। ‘विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम्। एक एव परो विष्णुः सर्वसत्ताप्रदत्वतः' इति भविष्यत्पर्वणि॥ ‘अनन्यः सदृशाभावादेको रूपाद्यभेदतः' इति च ॥30॥


अस्तीति नास्तीति च वस्तुनिष्ठयोस्कस्थयोर्भिन्नविरुद्धधर्मयोः। अपेक्षितं किंञ्चन साङ्ख्ययोगयोः समं परं ह्यनुकूलं बृहत्तत् ॥ ‘मदन्यो नास्ति सर्वेश इति विद्यासुरं मतम्।


अस्तीति दैवमुभयोर्हरिरेव ह्यपेक्षितः। निषेधविध्योर्विषयः फलदाता च केशवः।


तादृग्बुद्धेः कारणं च स्थानयोश्चोच्चनीचयोः' इति च ॥32॥


योऽनुग्रहार्थं भजतां पादमूलमनामरूप भगवाननन्तः। नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ॥ ‘तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात्। अरूपस्त्ववतारेण रूपकर्माणि दर्शयेत्। नित्यरूपो नित्यकर्माऽप्यव्यक्तत्वमपेक्ष्यतु अरूपकर्मेत्युदितो रूपकर्मोज्झितेनं तु’ इति प्रकाशसंहितायाम्।


Page 285


‘अनामासोऽधिकार्थत्वादव्यक्तात्वादरूपकः। कंसारित्वादिसाम्याख्योऽव्यक्तरूपोऽवतारगः' इति च। ‘लोकदृष्ट्याधिकार्थानि मूलनामानि केशवे। अथ दामोदरादीनि लोकदृष्ट्या समानि तु। आनन्दोऽव्यक्तरूपस्तु मूलरूपमुदाहृतम्। स एव व्यक्तिमापन्नः प्रादुर्भाव उदीरितः' इति च ॥33॥


यः प्राकृतैनपथैर्जनानां यथाशयं देहगत विभाति। यथाऽनिलः पार्थिवमाश्रितो मुणं स ईश्वरो मे कुरुतान्मनौरथम् ॥34॥ ‘स्वेदेहस्थं हरि प्राहुरधमा जीवमेव तु। मध्यमाश्चाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम्। पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम्। उत्तमास्तु हरि प्राहुस्तारतम्येन तेषु च। बुद्धिशुच्यनुसारेण यथाप्राणं शरीरगम्। श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः। देवदेवेश्वरं सूत्रानामानं प्राणवेदिनः' इति च॥34॥


ब्रह्मा भव भवन्तश्च मनवो विबुधेश्वराः। विभूतयो मम खेता भूतानां भूतिहेतवः ॥ 45॥ ‘विशेषव्यक्तिपात्रत्वाद् ब्रह्माद्यास्तु विभूतयः। तदन्तर्यामिणश्चैव मत्स्याद्या विभवाः स्मृताः' इति तन्त्रनिर्णये॥45॥


Page 286


तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः। अङ्गानि क्रतव जाती धर्म आत्माऽसवः सुराः ।। 46॥ ‘तपोऽभिमानी रुद्रस्तु विष्णोर्हदयमाश्रितः। विद्यारूपा तथैवोमा विष्णोहृदयमाश्रितः। विद्यारूपा तथैवोमा विष्णोस्तनुमुपाश्रिता।


शृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः। अङ्गेषु क्रतवः सर्वे मध्यदेहे च धर्मराट्। प्राणो वायुश्चित्तगतो ब्रह्माद्याः खेषु देवताः' इति च ॥ यदाश्रितं यद्भवति तत्तन्नामकमीरितम्' इति शब्दनिर्णये॥46॥


अहमेवेदमासाग्रे नान्यत्किञ्चान्तरं बहिः। संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः॥47॥ संज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत्। ‘नानावर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात्।


आसील्लये तदन्यत् तु सूक्ष्मरूपं श्रियं विना। असुप्तः सुप्त इव च मीलिताक्षोऽभवद्धरिः। अन्यत्रानादराद्विष्णोः श्रीश्च लीनेव कथ्यते। सूक्ष्मत्वेन हरौ स्थानाल्लीनमन्यदपीष्यते' इति माहात्म्ये॥47॥


मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे। यदासीत् तत एवाद्यः स्वयम्भूः समभूजः ॥ 48॥


Page 287


गुणतः अनन्ते। प्रत्येकशी गुणानां तु निःसीमत्वमुदीर्यते। तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया। अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च‘इति तन्त्रभागवते॥48॥


॥ इति षष्ठस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥6 - 4॥


यः ॥6 - 8॥


सनत्कुमारोऽवतु कामदेवाद्धयशीर्षो मां पथि देवहेलनात्। देवर्षिवर्यः पुरुषान्तरार्चनात् कूर्मो हरिं निरयावशेषात् ॥17॥ सनत्कुमारोऽवतु कामदेवात्।। 'सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिः। सनत्कुमारमपरं ब्रह्मपुत्रं विवेश यः। स मां योग्येतरात् कामात् पातु विश्वेश्वरः प्रभुः' इति च। देवर्षिवर्यः पुरुषान्तरार्चनात्। 'विष्णोरपरिवारत्वदृष्ट्या देवान्तरार्चनात्।


महिदासो देवऋषिः पातु मां विष्णुरव्ययः। तदनर्पितकर्मभ्यस्तदस्मरणस्तथा' इति च॥17॥


यथा हि भागवानेव वस्तुतः सदसच्च यत्। सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥31॥ यथा हि भगवानेव।


Page 288


सदसन्नियामकतया सदसद्रूप उच्यते। सत्येनानेन मा मां देवः पातु विष्णुश्चतुर्भुजः' इति च ॥31॥


यथैकात्म्यानुभावेन विकल्परहितः स्वयम्। भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥32॥


तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः। पातु सर्वैः स्वरूपैनः सदा सर्वत्र सर्वगः ॥33॥ ‘एक एव परो विष्णुर्भूषाहेतिध्वजेष्वजः। तत्तच्छक्तिस्वरूपेण स्वयमेव व्यवस्थितः।


सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः' इति च॥33॥


एतद्धारयमाणस्तु यं यं पश्यतिं चक्षुषा। पदा वा संस्पृशेत् सद्यः साध्वसत् स विमुच्यते ।।36॥


न कुतश्चिद् भयं तस्य विद्यां धास्यतो भवेत्। राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ 37॥


‘गुरुशिष्ययोरयोग्यत्वाद्रुवृत्तेरपूर्तितः।


अप्रसादाद्रोर्विद्या न यथोक्तफलप्रदा' इति च ॥ ‘विद्याः कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः।


अन्यथा नैव फलदाः प्रसन्नोक्ताः फलप्रदाः' इति च तन्त्रसारे॥36, 37॥


Page 289


॥ इति फ्छस्कन्धतात्पर्ये अठ्मोऽध्यायः ॥ 6 - 8॥


| ॥नमोऽध्यायः ॥ 6 - 9॥ देवा ऊचुः


वाय्वंबराश्यप् क्षितयस्त्रिलोका ब्रह्मादयो ये क्यमुद्विजन्तः। हराम यस्मै बलिन्तकोऽसौ बिभेति यस्मादरणं ततो नः ॥20॥ ‘कालोऽन्तकः प्रधानं च मृत्युरव्यक्तमित्यपि। उच्यते प्रकृतिः सूक्ष्मा श्रीभूदुर्गेति नामभिः। सैव ब्रह्मादिभयदा विष्णोस्तुवशवर्तिनी। अभयाऽपि भिभेतीव तद्वशत्वादुदीर्यते' इति मात्स्ये॥20॥


पुरा स्वयम्भूरपि संयमाम्भस्युदीर्णवातोर्मिस्वैः कराले। एकोऽरविन्दात्पतितस्ततार तस्माद्भयाद्येन स नोऽस्तु पारः ॥23॥ ‘यत्र वायूदपद्मादिरूपेण प्रकृतिः स्थिता। एकस्तत्राबिभेद्बह्माविचार्य भयमत्यगात्।


अन्तर्गतो हरिस्तस्य ध्यातो भयमपानुदत्' इति च॥ ‘जनिष्यतां जनानां तु स्वभावानां प्रसिद्धये। ज्ञानादिगुणपूर्णस्य ब्रह्मणोऽपि क्षणार्धगाः। भयादिका भवन्तीव कथं तस्मिन् स्थिरालयाः' इति च॥ ‘भगवत्प्रीतये नित्यं ब्रह्मणो ये भयादयः। न वृथा तस्य भावः स्यात् कश्चित् तेऽपि क्षणार्धगाः।


Page 290


अज्ञानं च चतुर्वारं द्विवारं भयमेव च। शोकोऽपि तावान्नान्यत्र कदाचिद्बह्मणो भवेत्। तत्रापि भगवत्प्रीत्या उन्नत्यै चास्य तद्भवेत्' इति ब्रह्मतर्के॥23॥


य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम्। क्यं न यस्यापि पुरः समेताः पश्याम लिङ्ग पृथगीशमानिनः ॥24॥ लिङ्गमेव पश्यामः। ‘कदाचिदभिमानस्तु देवानामपि सन्निव। प्रायः कालेषु नास्तेव तारतम्येन सोऽपि तु' इति च॥24॥


आत्मतुल्यैः षोड्शभिर्विना श्रीवत्सकौस्तुभौ। पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम्॥28॥ श्रीवत्सकौस्तुभौ विनाऽऽत्मतुल्यैः प्रकृतिपुरुषातीतत्वात् सप्तदशरूपाण्यपि तुल्यानीत्यर्थः। आत्मभूतैश्च तुल्यैश्च आत्मतुल्यैः। ‘अपुंप्रकृत्यधीनत्वाद्वासुदेवादिका हरेः। तुल्याश्च केशवाद्याश्च न च भिन्नाः कथञ्चन' इति तन्त्रसारे॥ ‘श्रीवत्सकौस्तुभाभ्यां तु विनाभावं प्रदर्शयेत्। पुंप्रकृत्यात्मकाभ्यां स धत्ते नित्यं जनार्दनः। यदस्याभ्यामतीतत्वं यद्वशो नानयोर्हरिः। श्रीवत्सकौस्तुभाभ्यां तु विनाभावः स एव तु' इति च॥ ‘आत्मैव सप्तदशधा स्वयं भूत्वा जनार्दनः। मध्यस्थावृतिरूपेण क्रीडते पुरुषोत्तमः' इति च॥28॥


Page 291


देवा उचुः - नमस्ते यज्ञ वीर्याय वयसे उत ते नमः। नमस्ते अस्तु चक्राय नमोऽस्तु पुरुहूतये ॥30॥ ‘वयः सर्वस्य वयनाद्भगवान् पुरुषोत्तमः' इति च। ‘मा तंतुश्चेदि वयतो धियं मे' इति श्रुतिः॥30॥ यत् ते गतीनां तिसृणामीशितुः परमं पदम्। नार्वाचनो विसर्गस्य धातुर्वेदितुमर्हति ॥31॥ ‘देवलोकात् पितृलोकान्निरयाच्चापि यत्परम्। तिसृभ्यः परमं स्थानं वैष्णवं विदुषां गतिः' इति माहात्म्ये॥31॥


अथ तत्र भमवान्, किं देवदत्तवदिह मुणक्सिमपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलफलमुपदिदाति। आह्वस्विदात्माराम उपशमशीलः समञ्जसदर्शन उतास्त इति ह वाव न विदामः॥न हि क्रोिध उभयं भमक्त्यपरिमणितमुणमण ईश्वरे अनक्माह्यमाहात्म्ये अर्वाचीनवितर्कविकल्पविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तः करणढस्क्ग्रहवादिनां च विवादानवसरे उपरतसमस्तमायामये केवलस्वात्ममायामन्तर्धाय को नु दुर्घट इव भवति स्वरूपद्वयभावात् समविषममतीनां मतमनुचरसि। यथा रज्जुखण्डः सर्पादिधियाम्। स एव हि पुनः सर्ववस्तुषु वस्तुस्वरूपः सर्वेश्वरः सकल जगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्व- मुणाभासोपलक्षित एक एख पर्यवशेषितः।


....त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयोऽभूवन्, दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनस्मृममिश्रितजलचरा- कृतिभिर्यथापराधं दण्डं ददर्थ ॥33॥ । अथ तत्र भमकान्, किं देवदत्तवदित्याक्षेपः। अचिन्त्यशक्तेरनन्तगुणस्य कुतः पारतन्त्र्यादिकमित्यभिप्रायः। उपरतसमस्तमायामये प्राकृतस्वभावर्जिते। केक्लस्वात्ममायां निजसामर्थ्यम्।


Page 292


स्वरूपद्वयाभावादित्यादि समाधानम्। ‘स्वतन्त्रः परतन्त्रो वा ज्ञोऽज्ञो दुःखी सुखी नु किम्। इत्यादि संशयः क्व स्याज्ज्ञानिनां पुरुषोत्तमे। तस्यानन्तगुणत्वाच्च पूर्णशक्तित्वतो हरेः। स्वातन्त्र्यादिकमेवास्य विदो जानन्ति निश्चयात्। घडकत्वादुर्घटस्य दुर्जेयत्वाच्च सर्वशः। तच्छक्तेरविदो जीवं परतन्त्रं वदन्त्यमुम्। एवं दुर्घटया शक्त्याज्ञाज्ञानां परमेश्वरः। यथा रज्जुः सर्पधिया रज्जबुद्ध्याऽवगम्यते। तथा यथार्थबुद्ध्या च मिथ्याबुच्याऽवगम्यते। स्वेच्छयैव महाविष्णुः फलदश्चानुसारतः' इति तन्त्र भागवते। त्रिनयनः - नृसिंहरूपी। विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि तु' इति शब्दनिर्णये। ‘विविधं भावपात्रत्वात् सर्वे विष्णोर्विभूतयः' इति च॥33॥


हंसाय भ्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय। सत्सङ्ग्रहाय भवपान्थनिंजाश्रयाय शश्वद्वरिष्ठगतये हरये नमस्ते ॥35॥ ‘निरुपक्रमो हरिर्नित्यमप्रयत्नो छुपक्रमेत्' इति च॥35॥


न वेद कृपणः श्रेय आत्मनो गुणवस्तुटक्। तस्य तानिच्छतो यच्छे यदि सोऽपि तथाविधः ॥39॥


Page 293


यदि सोऽपि तथाविदः। अत्युत्तमो न भवति चेत्॥39॥



स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्मभिः।


न राति सेमिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः। 40॥ युष्मत्कामो मत्प्रिय एव। अन्यथा न दद्यामिति भावः। ‘विष्णोः प्रियं कामयन्ति देवा नैवाप्रियं क्वचित्। यद्यप्रियं कामयन्ति न रातीशो हितो हि सः' इति तन्त्रभागवते॥40॥


मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम्। विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ 41 ॥ ‘समर्था अपि याचन्ते देवा मुन्यादिकान् क्वचित्।


आज्ञयैव हरेस्तेषां यशोऽर्थमपि नान्यथा' इति च॥41॥


॥ इति षष्ठस्कन्धतात्पर्ये नवमोऽध्यायः ॥6 - 9॥


15


यः ॥ 6 -18 ॥


नूनं स्वार्थपरो लोको न वेद परसङ्कटम्। यदि वेद न याचेत नेति नाह यदीश्वरः ॥6॥


‘आज्ञयैव महाविष्णोः कार्यर्थमपि च क्वचित्। नीचानपि च याचन्ते स्वात्मनो गुणवत्तराः। नीचवाक्यं वदेयुश्च सुरा नैतावता क्वचित्। तेजःक्षतिर्भवेदेषां जनकस्य यथाऽर्भके' इति तन्त्रमालायाम्॥6॥


Page 294


॥ इति षष्ठस्कन्धतात्पर्ये दशमोऽध्यायः ॥ 6 -10 ।।


॥ द्वादशोऽध्यायः ॥6 - 12॥


पुरुषः प्रकृतिर्व्यक्तमात्माभूतेन्द्रियाशयाः। शकुन्त्यस्य सर्गादौ न विना यदनुग्रहम्। अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ॥ 11, 12॥ मन्यतेऽनीशमीश्वरम्। ‘अनीशं जीवरूपेण परमात्मानमीश्वरम्।


ये मन्यन्ते तान् समीक्ष्यस्नेहान्निरयभाग्भवेत्' इति च। ‘हिरण्यगर्भः पुरुष आत्मा वायुरुदाहृतः।


शेषोऽव्यक्तस्तथैवेन्द्र आशयः समुदाहृतः' इति॥11, 12॥


क्ज्रस्तुतत्कन्धरमाशुवेगः कुन्तन् समन्तात् परिवर्तमानः। न्यपातयत् तावदहणेन यो ज्योतिषामयने वात्रहत्ये ।। ‘सन्धितः समयेनेन्द्रो वृत्रेणाथो करग्रहः। समुद्रतीरे विचरन् फेनेन वधमस्य तु। नर्मणा जहि फेनेति वाचयित्वा सुरेश्वरः। पादस्पर्शविवादं च कृत्वा युद्धाय दंशितः। फेने वज्र समावेश्य विष्णुयुक्तं व्यसर्जयत्। अपानुदुच्छरस्तस्य ध्यायतो वत्सरेण सः' इत्याग्नेये॥33॥


॥इति षष्ठस्कन्धतात्पर्ये द्वादशोऽध्यायः ॥6 - 12॥


Page 295


यः ॥ 6 - 13॥


॥ त्रयोदशोऽध्यायः ॥6-13॥ श्रीशुक उवाच एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम्। ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥10॥ ‘प्रारब्धकर्मणैवैषां ऋतदुःखस्य सूचकम्। इदानींतनकर्म स्याद् व्रणहेतुर्यथा रणः। देवादीनां स्थितप्रज्ञभावान्नैवान्यथा भवेत्। प्रारब्धमपि तु क्वापि किञ्चिद्विघटितं भवेत्' इति च॥10॥


॥ इति स्कन्धतात्पर्ये त्रयोदशोऽध्यायः ॥ 6 - 13॥


यः ॥ 6 - 14॥


मुक्तानामपि सिद्धानां नारायणपरायणः। सुदुर्लभः प्रशान्तात्मा कोठिष्यपि महामुने॥5॥ ‘नवकोट्यस्तु देवानामृषयः शतकोटयः। नारायणायनाः सर्वे ये केचित् तत्परायणाः' इति च। 'नारायणायना देवा ऋष्याद्यास्तत्परायणाः। ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यं सुखं लभन्’ इति तन्त्र भागवते॥5॥ अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्यप्रतिरूपमहसे। परे तु जीवत्यपरस्य या मृतिर्विंफ्र्ययश्चेत् त्वमपि ध्रुवं परः ॥


Page 296


‘सन्तापक्रोधरागादिष्वनर्थकवचः क्वचित्' इति शब्दनिर्णये॥54॥


॥ इति फ्छस्कन्धतात्पर्ये चतुर्दशोऽध्यायः ॥6 - 14॥


॥पञ्चदशोऽध्यायः ॥6 - 15॥


अधुना पुत्रिंणां तापो भवतैवानुभूयते। एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥25॥


दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः। कर्मभिध्यतो नानाकर्माणि मनसोऽभवन् ॥28॥


"


‘मनसो रागद्वेषाभ्यां पुण्यपापसमुद्भवः। पुत्रादिपुण्यपापाभ्यां तस्मात् सर्वं मनोभवम् इति नारदीये॥25, 28॥


अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः। देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥29॥ ‘द्रव्यात्मकः स्थूलदेहः क्रिया कर्मेन्द्रियाणि च। ज्ञानेन्द्रियाणि च मनो ज्ञानात्मकमुदाहृतम् इति ब्रह्मवैवर्ते॥ ‘कार्यकारणयोरेकशब्दव्यवहृतिर्भवेत्' इति शब्दनिर्णये॥29॥


तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः। द्वैते ध्रुवार्थविस्रम्भं त्यजोपशममाविश॥30॥ 'अनन्यापेक्षतस्त्वेको हरिरन्यद्वयं स्मृतम्।


Page 297


अन्यापेक्षत्वतस्तेन प्राप्तत्वाद्वैतमुच्यते' इति च॥30॥


नारद उवाच - यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य। सद्यस्तदीयमतुलनधिकं महित्वं प्रापुर्भवानपि परं न चिरादुपैति ॥36॥ ‘रुद्राद्याः शेषदेहस्थं विष्णु सङ्कर्षणाभिधम्।


शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा' इति तन्त्रभागवते॥36॥ 'द्वैतेन बन्धसन्त्यागाद्वैतत्यागी भवत्युत' इति शब्दनिर्णये। देहाद्यहंममाभिमानो भ्रमः। ‘तेषां तेषां पदान्येव वैष्णवानि पदानि तु। तेषां महित्वं च तथा हरेस्तद्वशगं यतः। अतुल्यानधिकं चैव तस्य तस्यैव मुक्तिगम्। स्वस्यैव पूर्वमाहात्म्यमपेक्ष्य न हरेः क्वचित्। महात्म्यमन्यप्राप्यं स्यान्न ते विष्णाविति श्रुतेः' इति तन्त्रभागवते॥ ‘ब्रह्मशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते।। तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरिः' इति स्कान्दे॥ तत्प्रसादलभ्यत्वात् तदीयमपि तेनातुलमनधिकं चान्यमाहात्म्यम्


॥36॥


॥ इति षष्ठस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥6 - 15॥


-


-


यः ॥6 - 16॥


एष नित्योऽव्ययः सूक्ष्म एकः सर्वाश्रयः स्वदृक् । आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥9॥


Page 298


एष नित्योऽव्ययः। ‘अनित्यसम्बन्धयुताः पित्राद्या नित्ययुग्घरिः' इति च।


आत्मानं चावताररूपेण सृजते॥9॥


नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम्। उदासीन इवासनः परावरटमीश्वरः॥11॥ “भोक्ता स गुणभोक्तृत्वान्न भोक्तातदवृद्धितः।


अचिन्त्यशक्तितस्तच्च युज्यते परमेशितुः' इति च ॥11॥


वचस्युपस्ते प्राप्यो य एको मनसा सह।


अनामरूपश्चिन्मात्रः सोऽब्यान्नः सदसत्परः ॥21॥ बाह्यमनस्युपरते चिन्मात्रमनसा सह प्राप्यः॥21॥


यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते। मृन्मयेष्विव मृजातिस्तस्मैते ब्रह्मणे नमः ॥22॥ मृन्मयेष्विव मृज्जातिः। ‘पृथिवीपर्वर्ताश्चैव मृन्मयाः समुदीरिताः। तेषु मृज्जातयः सर्वे जायन्ते स्थावरादयः' इति च॥22॥


ततः कतिफ्याहोभिर्विद्ययेद्धमनौगतिः। जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥29॥ ‘अन्यान्तर्यामिणं विष्णुमुपास्यान्यसमीपगः।।


भवेद्योग्यतया तस्य पदां वा प्राप्नुयान्नरः' इति नारदीये॥


Page 299


तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणोऽभ्ययान्मुहुः। प्रवृद्धभक्त्या प्रणयाश्रुलचनः प्रष्टरोमा तमनादिपूरुषम् ॥31॥


स उत्तमश्लोकपदाविष्टरं प्रेमाशु लेशैरुपसेचयन्मुहुः। प्रेमपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम् ॥ अनेन प्रकारेण मुहुस्तत्सकाशमभ्ययात्। ‘शेषान्तर्यामिणं विष्णुं चित्रकेतुरुपास्य तु।


शेषाविष्टहरेश्चापि वरान् प्राप्याप सद्गतिम्' इति तन्त्रमालायाम्॥


अहं वै सर्वभूतानि भूतात्मा भूतभावनः। शब्दब्रह्म परब्रह्म ममोभे शाश्वती तनू ॥51 ॥ ‘हरिस्तु सर्वभूतानि तदन्तर्याम्यपेक्षया। तिङ पदान्यपि सर्वाणि सुप्पदानि तथैव च। तस्मिन्नेव प्रवर्तन्ते मुख्यवृत्त्या विशेषतः' इति च॥51॥ लोके विततमात्मानं लोकं चात्मनि सन्ततम्। उभयं च मया व्याप्तं मयि चैवोभयं कृतम्॥52॥ लोकं चात्मनि सन्ततम् वासनारूपेण॥52॥


एवं जागरणादीनि जीवस्थानानि चात्मनः। मायामात्राणि विज्ञाय तद्दष्टारं परं स्मरेत् ॥54 ॥ मायामात्राणि - प्रकृतिर्निमित्तानि॥54॥


Page 300


उभयं स्मस्त पुंसः प्रस्वापप्रतिबोधयोः। अन्वेतिं व्यतिरिच्येत तज्ज्ञानं ब्रह्मतत्परम् ॥ 56 ॥ प्रतिबोधेऽन्वेति स्वयमपि प्रतिबुद्धः। सुप्तावस्वपन् व्यतिरिच्येत॥56॥


यद्येष विस्मृतः पुंसो मद्वा भिन्न आत्मनः। ततः संसार एतस्य देहाइँहो मृतेर्मुतिः॥57॥ ‘सर्वभिन्नं परात्मानं विस्मरन् संसरेदिह।


अभिन्नं संस्मरन् याति तमो नास्त्यत्र संशयः' इति च ॥57॥


॥ इति षष्ठस्कन्धतात्पर्ये षोडषोऽध्यायः ॥ 6 - 16॥


| ॥सप्तदशोऽध्यायः ॥6-17॥


|


..


.


-


एषामनुध्येयपदाजयुग्मं जगद् मङ्गलमङ्गलं स्वयम्। यः क्षेत्र बन्धुः परिंभूय सूरीन् प्रशास्ति धृष्टतयं हि दण्ड्यः ॥13॥ एषां पक्षे तदवताराणामनुध्येयपदाङलयुग्मम्।। ‘विष्णुब्रह्मप्राणवीन्द्रास्तद्दारानप्य॒ते हरः। ध्येयो हरेः पार्षदायैयन् हरिचतुर्मुखौ। प्राणमेषां तथा दारान्नस्वतन्त्रतया क्वचित्’ इति तन्त्रमालायाम्॥13॥ न चास्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः। समस्य सर्वत्र निरञ्जनस्य कुतोऽनुरागः कुत एवं रोषः ॥22॥ ‘सेवायोग्यातिरेकेण स्वानामपि न दास्यति।


Page 301


अपराधातिरेकेण नान्यस्यातः समो हरिः' इति माहात्म्ये॥22॥


14


देहिनां देहसंयोगाद्वन्द्वानीश्वरलीलया। सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥29॥



अविवेककृतः पुंसो ह्यर्थभेद इहात्मनि। गुणदोषविंकल्पश्च भिदेव स्वप्रकल्पिता ॥30॥ यत्तद्भगवता ऋतं तदेव नियतं भवेत्॥ ‘अतोऽन्येषां वरः शापो गुणदोषप्रकर्तृता। स्वतः प्राप्ताभेदकृतिर्वासनारूपिणो यथा। विद्यमानस्य मनसि यथा स्वप्नेषु दर्शनम्। भगवद्वशता यस्मात् सर्वेषां ज्ञेयमेव तत्’ इति प्रकाशसंहितायम्॥19, 20॥ इति भागक्तौ देव्याः प्रतिशतुमलन्तमः। मूर्धा सञ्जगृहे शापमैतावत्साधुलक्षणम् ॥37 ॥ प्रतिशप्तुमलंन्तमः। ‘देवा एव तदन्येभ्यः शक्ता नास्त्यत्र संशयः।


अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम्। तथाऽप्यशक्तैर्विहिताः शापाद्याःशक्तिमत्सु तु। अत्यल्पाश्चाल्पकालाश्च न सम्यक् प्रभवन्ति च। यत्नेनापोहितुं शक्या उत्तमैस्तु न शंशयः।


Page 302


उत्तमेषु कृताः शापाः कर्तृणां ज्ञानपुण्ययोः। निःशेषेण निहन्तारस्तदनुग्रहमन्तरा।


सदारयोर्ब्रह्मविष्णोर्वरशापादयोऽखिलाः। तदन्येन कृताः सर्वे निष्फला एव निश्चयात्। न चाप्यवान्तराः शापा भवन्त्येषां तु कुत्रचित्। वरा विष्णोः श्रियश्चस्युर्ब्रह्मणश्चयथाक्रमम्। उत्तमैरधमानां तु वराः शापा यथोदितम्। सम्पूर्णफलदा एव नात्र कार्या विचारणा' इति स्कान्दे॥37॥


॥ इति षष्ठस्कन्धतात्पर्ये सप्तदशोऽध्यायः ॥ 6 - 17॥


1


.


॥एकोनविंशोऽध्यायः ॥ 6 - 19॥ तस्या अधीश्वरः साक्षात् त्वमेकः पुरुषः परः। त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुम् भवान् ॥11॥ इज्या – क्रिया ‘अन्तर्यामी तु यज्ञादेर्विष्णुरिज्यादिनां रमा। तत्तच्छब्दैस्ततो वाच्यो न तु सर्वस्वरूपतः। अन्तर्यामी श्रियश्चापि विष्णुरेव न संशयः। नान्तर्यामि कश्चिदस्ति विष्णोः क्वापि कुतश्चन' इति ब्रह्मतकै॥


॥इति षष्ठस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥ 6-19॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवत तात्पर्ये षष्ठः स्कन्धः ॥6॥


Page 303


॥ सप्तमः स्कन्धः ॥7॥


यः ॥


-- 1॥


है



निर्गुणोऽपि ह्यजोऽव्यक्त भगवान् प्रकृतेः परः।


स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥6॥ ‘बाध्यादिस्थो हरिर्नित्यं बाध्यतादिगतेत्यपि। गीयते न तु बाध्यत्वादिदोषयुतत्वतः' इति भविष्यत्पर्वणि॥6॥


ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते। विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥9॥ दधिस्थघृतवत्काष्ठे वह्निवच्च जनार्दनः।। देहेन्द्रियासुजीवेब्यो विविच्य ज्ञायते न तु' इति च॥9॥


कालं चरन्तं सृजतीश आश्रयः प्रधानपुम्भ्यां नरदेव सत्यकृत्। स तत्र तत्रोभयसिद्धिमाप्नुयाल्लिंङ्गात्मनो लिंङ्गगुणाश्च सन्ति ॥11॥ प्रधानपुम्भ्यां सह॥11॥


य एष राजन्नपि काल ईशिता सत्वं सुरानीकमिंवैधयत्यजः। तत्प्रत्यनीकानसुरान् सुरप्रिंय जस्तमस्कान् प्रमिणत्युरुश्रवाः ॥ काले कालविषयेऽपीशिता। देहादिकारणत्वात्सुरानीकमिव स्थितं सत्वम्। ‘स्वाभावतः प्रियत्वात्तु सदा देवप्रियो हरिः।


अप्रियश्चासुराणां तु स्वभावात् तूभयं नृणाम्।


Page 304


देशकालौ गुणांश्चैव भक्त्यादीनप्यपेक्ष्यतु। योग्यतां च तथा कर्म सम इत्यभिधीयते। स्वतः प्रियोऽपि देवानामुत्पाद्यैव गुणानिमान्। इतरेषां तथा दोषान् सुखदुःखे ददात्यजः। उभयं तु मनुष्याणामतः सम इतीरितः। अनादिनियताश्चैव गुणदोषाः सुरादिषु। यथाक्रमं पुनश्चैव नियमाद्वर्धितास्तथा। विष्णुनैव ततो नित्यं विषमश्च जनार्दनः' इति ब्रह्मतर्के॥ 'न विष्णोर्विषमत्वं तु योग्यतापेक्षया चित्। योग्यतायास्तन्नियत्या विषमत्वं भवेदिति' इति स्कान्दे॥ ‘विषमत्वं तु दोषाय शुभाशुभविपर्यये।


अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम्। शुभाशुभनियन्तृत्वं न दोषो गुण एव सः। अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः' इति तन्त्रनिर्णये॥12॥


शपतोरसकूद्विष्णुं यद्बह्म परमव्ययम्। श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥20॥ ‘नियमाद्भुज्यते पुम्भिर्धर्माधर्मफलं मृतौ।


कैश्चिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत्' इति भारते॥20॥


यनिंबन्धोऽभिमानऽयं तद्वधात् प्राणिनां वधः।


Page 305


तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः। परस्येदमकर्तुहि हिंसा केनास्य कल्प्यते ॥26॥ कैवल्याईहाद्यभावादेव। अकर्तुस्तस्यान्यः कर्ता न विद्यते। इदं एषा। 'व्यत्ययोऽतिशयकुत्सनभेदेषु' इति सूत्रात्॥26॥


तस्माद्वैरानुबन्धेन निर्वैरण भयेन वा। स्नेहात् कामेन वा युयात् कथञ्चिन्नेक्षते पृथक् ॥27॥ कथंछिन्नेक्षते पृथक्। तत्रैव मनसोऽभिनिवेशेन तदन्यं नेक्षते। वैरादीनामेकतमेनापि यो युड्यात् स नेक्षत इति स्वभावकथनं न विधिः। ‘कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्। मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः। ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।


आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥ ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परंभावमजानन्तो मम भूतमेहेश्वरम् ॥ ‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥ ‘यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम्। तस्मात् पिता मे पूयेत दुरन्तास्तरादघात्।


Page 306


हिरण्यकशिपुश्चापि भगवन्निन्दया तमः। विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥ ‘वरतोऽपि न मुच्यन्ते द्वेषिणः शापतोऽपि तु।


भक्तानैव निपात्यन्ते धर्माधर्मेस्तथेत्तरैः। अन्यावेशकृतं यत् तु तद्वराद्यैरपोह्यते। तद्विरुद्धस्वभावानामन्यथा न कथञ्चन' इत्यादेः॥ यस्मादेवं कोऽप्युपद्रवो नास्ति भगवतस्तस्मादेव द्वेषादिनाऽपि मनो योक्तुं शक्यते तत्प्रेरणया। तादृशानां तदेव चिन्तयति च। अन्यथाऽऽत्मनो दुःखकारणं द्वेषादिकं कथं सर्वनियामको हरिरुत्पादयेत्॥27॥


यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात्। न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥28॥ तत्रैव हेतुः - यथा वैरानुबन्धेनेति। यथा वैराभिनिवेशिनस्तथा भक्त्यभिनिवेशिनो न सन्ति। तत् कथम् ? अन्यथा भक्तानेव बहून् हरिः कुर्यादिति भवः॥28॥


कीटः पेशस्कृता रुद्धः कुड्ये यान्तमनुस्मरन्। संरम्भभययोंगेन विन्ददे तत्सरूपताम्॥29॥ कीटः पेशस्कृतेत्यादि चैद्यादीनां भक्तियुतत्वप्रतिपादनम्। नेहाद्यायतननाशाद्युपद्रवोऽस्य नास्तीति निर्वैरणेत्याद्युक्तम्। ‘ततः कनीयसा एव देवा ज्यायसा आसुराः' इति श्रुतिः। तन्मयतां मनसस्तत्राभिनिवेशनम्। ‘मागधाद्या यथा नित्यं द्वेषादाग्रहिणो हरौ।


Page 307


न तथाऽऽग्रहिणो भक्ता विना ब्रह्माणमव्ययम्' इति हरिवंशेषु॥29॥ योगः - नेहः। संरम्भभययुक्तस्नेहेन। ‘प्रीतिः स्नेहस्तथा योगः प्रेमबन्ध इतीर्यते इति शब्दनिर्णये॥29॥


एवं कृष्णे भगवतिं मायामनुज ईश्वरे। वैरेण धूतपाप्मानस्तमापुरनुचिन्तया ॥30॥ वैरयुक्तयाऽप्यनुचिन्तया तमापुः। ‘अनुचिन्तेति तामाहुर्भक्तिपूर्वा तु या स्मृतिः' इति च ॥ ‘स्नेहादन्नं ददातीति स्वाकर्षणभयेऽपि च। विद्यमानेऽप्यल्पकोपे सङ्गतिस्नेहतस्तथा॥ पेशस्कृदूपतां कीटो यथा याति तथैव तु। चैद्यादयोऽसुरावेशाद्धरौ द्वेषयुता अपि॥ निजस्वभावया भक्त्या नीता हरिसरूपताम्। तथा हि करुणो विष्णुरन्यावेशाद्यदि द्विषन्॥ हीयते किं ममानेन नित्यानन्दस्वरूपिणः। देहबन्धयुतानां हि द्वेषिणाऽपकृतं भवेत्॥ मम को ह्यपराध्येत निर्दोषसुखरूपिणः।


अतो मय्यपराधस्तु स्वस्मिन्नेव न मे भवेत्॥ अतो यच्चासुरावेशात् कृतमेनेन दुष्कृतम्। अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वहम्॥ इति मत्वा मोचयति चैद्यादीनपि केशवः' इति ब्रह्माण्डे॥30॥


Page 308


कामात् स्नेहाद्भयाद्वेषाद्यथा भक्त्येश्वरे मनः।


आवेश्य तदधं हित्वा बहवस्तद्गतिं गताः ॥31॥ कामादिभिरपि यथावद्भक्त्या सहैव मन आवेश्य तदघं यत् तु द्वेषादिकृतमधं यथाभूतया भक्त्या हित्वा॥31॥


है



गोप्यः कामाद्भयात् कंसो द्वेषाच्चैद्यादयो नृपाः। सम्बन्धादृष्णयः स्नेहा यूयं भक्त्या वयं विभो ॥ 32 ॥ ‘गोप्यः कामयुता भक्ताः कंसाविष्टः स्वयं भृगुः। ज्ञेयो भययुतो भक्तश्चैद्यादिस्था जयादयः। विद्वेषसंयुता भक्ता वृष्णयो बन्धुसंयुताः। बहुमानस्नेहसाम्याद्देवा भक्ताः प्रकीर्तिताः। नेहोपसर्जनादेव बहुमानान्मुनीश्वराः। बहुमानोऽपि देवानामृषिभ्योऽप्यधिको मतः। ब्रह्मवीन्देन्द्रकामादेरितरेषां यथापदम्' इति ब्रह्मतकै॥32॥


कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रति। तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥33॥


कतमोऽपि भक्तियोगो न वेनस्य। तस्मात् केनापि प्रकारेण उपायेनैव मनो निवेशयेत्। नानुपायेन। ‘उपायो भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः' इति शब्दनिर्णये॥33॥


मातृष्यत्रेय क्श्चैद्यो दन्तवक्रश्च पार्थिव। पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥34 ।।


Page 309


स्वतो भक्ताश्चैद्यादयोऽपि परावेशाद्वेषिण इत्यत्र हेतुर्मातृष्वसेय इत्यादि॥34॥


पञ्चषड्यनार्भाभाः पूर्वेषामपि पूर्वजाः। दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥38॥


अशपन् कुपिता एवं युवां वासं न चार्हथः। रजस्तमोभ्यां रहिते पादमूले मधुद्विषः ॥39॥ द्वास्थावित्यनेनाधिकारस्थत्वमुक्तम्। ‘अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः। विष्णुलोकस्थितास्तेषां वरशापादियोगिनः।


अधिकारस्थिता मुक्तिं नियतं प्राप्नुवन्ति च। विमुक्त्यनन्तरं तेषां वरशापादयो न तु। देहेन्द्रियासुयुक्ताश्च पूर्वं पश्चान्नतैर्युताः।


अप्यभीमानिभिस्तेषां देवैः स्वात्मोत्तमैर्युताः इति तन्त्रसारे॥38, 39॥ तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम्। भगवतेजसा स्पृष्टं नाशकोद्धन्तुमुद्यमैः ॥ 44 ॥ सर्वभूतात्मनि भूतम्॥44॥


ततस्तौ राक्षसौ जातौं केशिन्यां विश्रवःसुतौ। रावणः कुम्भकर्णश्च सर्वलोकप्रताफ्नौ ॥45॥ ताक्द्य क्षत्रियौं जातौ मातृष्यस्रात्मजौ तव।


अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥47 ॥


Page 310



। ।


वैरानुवन्धतीव्रण ध्यानेनाच्युतसात्म्यताम्। नीतौ पुनर्हरेः पार्श्व जग्मतुर्विष्णुपार्षदौ ।। 49॥ ‘हिरण्य कशिपुर्भूतममन्यत मृतौ हरिम्॥ अतो भयानको जातस्तत्र राजानमेव च। मत्वा राजैव सञ्जातः कृष्णं चक्रादिलक्षणैः। मृतिकाले हरिं चैव मत्वा भक्त्यैव केवलम्। द्वास्थत्वं हरिमाविश्य प्रापैव मनुजोऽपि तु' इति गारुडे॥ ‘विष्णुभक्तेश्च तज्ज्ञानादन्यतो मुक्तिवाचकाः। विष्णोर्गुणहासवाचः श्रीर्ब्रह्मादेर्यथा क्रमात्। विष्ण्वादिद्वेषतश्चैव सुखवाचस्तथाऽखिलाः।


मोहनार्थाः समुद्दिष्टा यथार्थद्योतकास्तथा इति प्रकाशसंहितायाम्॥45 - 49॥ वैरानुबन्धः - वैरयुक्ता भक्तिः। ‘अनुबन्धस्तु भक्तिः स्याद्वन्धः स्नेह उदाहृतः' इति प्रकाशिकायाम्॥48॥


॥ इति सप्तमस्कन्धतात्पर्ये प्रथमोऽध्यायः ॥ 2 - 1 ॥


॥ द्वितीयोऽध्यायः ॥ 7 - 2 ॥


विष्णुर्विंजक्रियामूलौ यज्ञो धर्ममयः पुमान्। देवर्षिपितृभूतानां धर्मस्य च परायणम्॥11॥ ‘विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम्।


Page 311


हरिरेव हि सर्वस्य मूलं सम्यङ् मतो नृप' इति ब्राह्मे॥11॥


नित्य आत्माऽव्ययः शुद्धः सर्ववित् सर्वगः परः। धत्तेऽसावात्मनो लिंङ्ग मायया विसृजन् गुणान्॥22॥ धत्तेऽसावात्मनो लिङ्गं जीवमन आदीनामाधारं ब्रह्म॥22॥


यथाऽम्बसा प्रचलता तरवोऽपि चला इव।। चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥23॥


एवं गुणैर्धाम्यमाणे मनस्यविकलः पुमान्। यातिं तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥24॥ लिङ्गवानिव - जीव इव। ‘असमं समतामेति भ्रान्तिदृष्ट्यैव केवलम्।


जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथञ्चन' इति षाङ्गुण्ये॥ 'यथोदचलनाद्वृक्षप्रतिबिम्बप्रचालनात्। तटस्थवृक्षचलनं कल्पयेदबुधो नरः। तथा मनसिजैर्दोषैराभासे दूषिते नरः।


आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत्। आत्मनश्चक्षुषो भ्रान्त्या यथा पश्येद्वमं भुवः। तथैव स्वात्मनो दोषाद्दोषवद्बह्म पश्यति' इति ब्रह्मतर्के॥23,24॥


सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः।


Page 312


अविवेकश्च चिन्ता च विवेक स्मृतिरेव च ॥26॥ विवेकस्मृतिः अविवेकिन एव विवेकित्वभ्रान्तिः। ‘अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे।


असुरावेशतस्त्वन्यान् हरिस्तोतृन् द्विषन्ति च' इति पाझे॥26॥ यम उवाच -


अह अमीषां वयसाऽधिकानां विपश्यतां लोकविधिं क्मिोहः। यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अनुशोचन्त्यपार्थम् ॥32॥ यत्रोद्भवस्तत्र गतम्। ‘अदर्शनादिहायातः पुनश्चादर्शनं गतः' इति भारते॥37॥




भूतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः। न तत्र हात्मा प्रकृतावपि स्थितस्तस्या गुणैरन्यतमो निबध्यते ॥ 41 ।।


अन्यतम आत्मा - परमात्मा। ‘सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिः' इति वामने॥41॥


यथाऽनलो दारूषु भिन्न ईयते यथाऽनलो देहगतः पृथक् स्थितः। यथा नभः सर्वगतं न सज्जते तथा गुणैः सर्वगुणाश्रयः परः ॥ 43॥ ‘भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात् स एव भजनीयो न शोकेन प्रयोजनम्' इति फलितार्थः। 'देहदारुगतौ प्राणवह्नी सर्वगतं नभः।। देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः। तथा जीवगतो विष्णुर्जीवाद्भिन्नो न तद्णी' इति च॥43॥ सुयज्ञो नन्वयं शेते मूढा यमनुशौचथ।




Page 313


यः श्रोता योऽनुवक्तेह न स दृश्येत कहिँचित् ।। 44॥


न श्रोता नानुवक्ता को मुख्योऽप्यत्र महानसुः। यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ 45॥


भूतेन्द्रियमनोलिङ्गान् देहानुचाक्चान् विभुः। भजत्युत्सृजतिं ह्यन्यस्तच्चापि स्वेन तेजसा ।। 46॥


यावल्लिङ्गान्वित ह्यात्मा तावत् कर्मनिंबन्धनः। ततो विर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ 47॥


वितथाभिनिवेशोऽयं यद्णेष्वर्थदृग्वचः।


यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ 48॥ इन्द्रियवान् जीवः। भजत्युत्सृजति ह्यन्यः परमात्मा। स एव श्रोत्राऽनुवक्ता च। 'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’, ‘स योऽतोऽश्रुतः' इत्यादेः॥मुख्यप्राणोऽपि स्वतो न श्रोता किमु जीव इति। अयं ननु सुयज्ञ इत्याक्षेपः। यस्तु सुयज्ञः सोऽपि स्वतः श्रोतुं वक्तुं न च शक्तः।


अतस्तस्यानुशोकेन किमित्यर्थः। ‘अन्यो जीवोऽचितो देहात्तद्वशो देह उच्यते। पश्यामीत्यभिमानोऽस्य चक्षुराद्यभिमानवान्॥ न तद्वशाश्चक्षुराद्या न दृष्ट्यादौ स ईश्वरः। चक्षुराद्या मनो जीवो दृष्ट्यादिश्चापि यद्वशे॥ स प्राण इति विज्ञेयो ज्ञाता मन्ता च स प्रभुः। तस्यापि ज्ञातृमन्तृत्वं न स्वतः शक्यते क्वचित्॥


Page 314


यस्तस्य ज्ञातृमन्तृत्वदाता स भगवान् हरिः।


स्वतो ज्ञाता च मन्ता च द्रष्टा श्रोता च केशवः॥ ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः। स देहान् भजते विष्णुः स्वेच्छयैवोत्सृजत्यपि॥ यावद्देहस्थितो विष्णुस्तावज्जीवो विपर्ययः। तावत् क्लेशादयश्चास्य वृथा चेन्द्रियवृत्तयः॥ यदोत्सृजति देहं स हरिः सर्वात्मना विभुः। तदा तदभिमानी तु जीवो मुच्येत संसृतेः॥ अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ। देहाभिमानी त्वेकोऽत्र न मानी मानदः परः' इति गारुडे। ‘इन्द्रियाद्यभिमानेन तद्वान् जीव उदीर्यते।


अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽनिन्द्रियस्तथा। जीवानभिमते देहे न विष्णुर्जीवदः स्थितः। अतश्चादेह उद्दिष्टः परमात्मा सनातनः' इति प्रकाशसंहितायाम्॥ स चान्यः श्रोतुर्वक्तुश्चेति चशब्दः। लिङ्गान् भूतेन्द्रियमनोरूपान्। ‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ ति शब्दनिर्णये॥


आत्मा - परमात्मा। कर्मबन्धनो - जीवः। ततः परमात्मनो विपरीतः॥मृषा - वृथा। स्वप्नदृष्टवित्तादिवत्। ‘लेपाभिमानि जीवस्तु स्वरूपानुभवी न च। मुक्तेः प्राक्तेन मान्युक्तो न मानी विष्णुरुच्यते।


Page 315


सर्वं ममेति पश्यन्नप्यलेपाभिमतिर्यतः।


सम्यक्स्वरूपानुभवात् स्वतन्त्रत्वाददोषतः' इति ब्रह्मतकै॥44-48॥


बोल एवं प्रवदति सर्वे विस्मितचेतसः। ज्ञातयो मेनिरे सर्वमनित्यमयथोत्तितम् ॥58॥ ‘अहं ममाभिमानादि त्वयथोत्थमनित्यकम्। महदादि यथोत्थं च नित्या याऽपि यथोत्थिता। अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च। यथार्थभूतश्च पर एक एव जनार्दनः' इति च॥58॥


क आत्मा कः परो वाऽत्र स्वीयः पास्क्य एव च। स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनः ॥ 60 ॥ ‘क आत्मा कः परः' इति देहाद्यपेक्षया। 'न हि देहादिरात्मा स्यान्न च शत्रुरुदीरितः। अतो दैहिकवृद्धौ वा क्षये वा किं प्रयोजनम्। यस्तु देहगतो जीवः स हि नाशं न गच्छति। ततः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः। देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानताम्। अत आत्मविवृद्दिस्तु वासुदेवे रतिः स्थिरा। शत्रुनाशस्तथाऽज्ञाननाशो नान्यः कथञ्चन' इति ब्रह्मवैवर्ते॥60॥



॥ इति सप्लमस्कन्धतात्पर्ये द्वितीयोऽध्यायः ॥ 7 - 2॥


Page 316


॥ तृतीयोध्यायः ॥ 2-3॥


अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम्। तदहं वर्धमानेन तयज्ञसमाधिना॥10॥


कालात्मनश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥11॥ ‘जानतामपि कर्तव्यं कर्मात्मसदृशं सदा। तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः। जानन्तोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुम्। चतुरास्यं स नायोग्यं कर्म कुर्यात् कथञ्चन' इति नारदीये॥ ‘तपसा विद्यया वाऽपि ज्ञानध्यानादिनाऽथ वा। व्यस्तैः समस्तैरपि वा कुर्वतां यत्नमुत्तमम्। संहारविक्षेपशतैर्बहुकोटिभिरेव वा। न शक्यन्ते समारोढुं स्वात्मायोग्यपदानि तु। तथाऽप्याचरतां कुर्युर्दैत्यानां सुरनायकाः। विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तये इति प्रकाशिकायाम्॥10, 11॥ अन्यथेदं विधास्येऽहमयथापूर्वमोजसा। किमन्यैः कालनिर्धेतैः कल्पान्तैर्वैष्णवादिभिः ॥12॥ वैष्णवादिभिर्ब्रह्मनिर्मितैः। ‘ब्रह्मा स्वयम्भूर्द्धहिणो वैष्णवः शतदृक् तथा' इति शब्दनिर्णये॥12॥


Page 317


तवासनं हि जगतां पारमेष्ट्यं जगत्पते। भवाय श्रेयसे भूत्यै क्षेमाय किंजयाय च ॥14॥ ‘भवाय श्रेयसे चैव न कश्चित् तदपेक्षते। मधुकैटभयोश्चैव हिरण्यादेस्तथैव च।। नान्यो ब्रह्मपदं वाञ्छत्सृजून् योग्यान् विना क्वचित्। ततः श्रेयांसि वाञ्छन्ति न तु तत्पदमाप्नुयुः' इति ब्रह्माण्डे॥ ‘भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः। वृद्धस्य न पुनर्मोसो भूतिरित्येव कथ्यते' इति शब्दनिर्णये॥14॥


तपन्तं तपसा लोकान् यथा भाविततं रविम्। विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥17॥ ‘सकामं तु तपः क्रूरं लोकानां भयकृद्भवेत्। इतरच्छान्तये सर्वलोकानां भवति ध्रुवम्' इति प्रकाशिकायाम्॥ ‘ब्रह्माणमभजब्रह्मपदार्थं स हिरण्यकः' इति स्कान्दे॥17॥ ब्रह्मोवाच - व्ववसायेन तेऽनेन दुष्करेण मनस्विनाम्। तपोनिष्ठेन भक्ता जीतोऽहं दितिनन्दन ॥21॥ जितः - वशीकृतः। ‘पराभूतं वशस्थं च जितमित्युच्यते बुधैः' इति शब्दनिर्णये॥21॥ हिरण्यकशिपुस्वाच -


कल्पान्ते कालसृष्टेन योऽन्धैन तमसाऽऽवृतम्।


Page 318


अभिव्यनम् जगदिदं स्वयज्योतिः स्वरोचिषा ॥27॥ ‘प्रायस्तुस्तुतिशब्देषु मिश्रा वाचो हरि विना। केचिज्जीवगुणास्तत्र तन्नियन्तुहरेः परे। एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा। जीवस्य तदधीनत्वान्न भिन्नादिकृतं वचः' इति ब्रह्मतर्के॥27॥


आत्मना त्रिवृती चेदं सृजत्यवति लुम्पति। रजःसत्वतमधाम्ने पराय महते नमः ॥28॥


त्रिवृता - प्रकृत्या॥28॥ त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम्। चित्तस्य चित्तिर्मन इन्द्रियाणां पतिर्महाभूतगुणाशयेशः ॥30॥ प्राणेन सह॥30॥


त्वं सप्ततन्तून्वितनोंषि तन्वा त्रय्या चतुर्होत्रकविद्यया च। त्वमेक आत्माऽऽत्मक्तामनादिनन्तपारः कविरब्ययात्मा ॥31॥


सप्ततन्तून् - सप्तक्रतून्॥31॥


त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यावयवैः क्षिणोषिं। कूटस्थ आत्मा परमेठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा ॥


जीवानां प्राणधारकः ॥32॥


त्वत्तः परं नापरमप्यनेजदेजच्च किञ्चियतिरिक्तमस्ति। विद्याकलास्ते तनवश्च सर्वां हिरण्यगर्भोऽसि बृहत्रिपृष्ठः ॥33॥


Page 319


‘परावरेषु यस्मात् त्वं व्याप्तो विष्णुः सनातनः।


तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवेदिनः' इति पाझे। विद्याश्च कलाश्च विद्याकलाः। ‘महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः। विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिनः' इति च। त्रिपृष्ठः - तुरीयः। ‘ब्रह्मणोऽप्यधिकं विष्णुं जानन्नपि हिरण्यकः। ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षया' इति च ॥33॥


॥ इति सप्तमस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥ 2 - 3॥


॥ चतुर्थोऽध्यायः ॥ 7-4॥


एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः। भगवत्यकरोद्वेषं भ्रातुर्वधमनुस्मरन् ॥ 4 ॥ ‘स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विषः' इति च ॥4॥


तस्मिन् महेन्द्रभवने महासुरो महाबलो निर्जितलोक एकराट्। रेमेऽभिवन्द्याङ्घियुगः सुरादिभिः प्रतापितैर्जितचण्ङशासनः ॥12॥


तमङ्ग मत्तम् मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः। उपासतोपायनपाणिभिर्विंना त्रिभिस्तपोयोगबलौजसा पदम् ॥ ‘आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः।


Page 320


मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः। अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृताः' इति स्कान्दे॥ ‘उपायनं ददुः सर्वे विना देवान् हिरण्यके' इति च। ‘अयज्ञभागेष्वपि तु सुरशब्दः प्रदृश्यते। यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिताः' इति च॥13॥


निर्वैराय प्रशान्ताय स्वसुताय महात्मने। प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि क्रोर्जितम् ॥29॥ 'यत्र क्वच यशःस्थानमन्येषामिति केशवः। सर्वत्रापि तु देवानामित्यन्यान् पूजयेत् क्वचित्' इति च॥29॥ यस्मिन् महागुणा राजन् गृह्यन्ते कविभिर्मुहुः। न तेऽधुनाऽभिधीयन्ते यथा भगवतीश्वरे ॥35॥ ‘अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम्। सम्यक् साम्यं तु मत्स्यादेरिति शास्त्रस्य निर्णयः' इति च॥32-35॥


॥ इति सप्तमस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥ 2-4॥


॥पञ्चमोऽध्यायः ॥ 7-5॥


प्रह्लाद उवाच - स यदाऽनुगतः पुंसां पशुबुद्धिर्विभिद्यते। अन्य एष तथा ऽन्योऽह्ममिति देहगताऽसतीं ॥12॥ ‘स्वातन्त्र्येणान्यसद्भावनिषेधाय श्रुतिस्त्वयम्।


Page 321


अन्योऽसावन्योऽहमिति पश्यन्नज्ञ इति स्म है। आत्मानमन्तर्यमयेदिति भेदं स्वरूपतः। आह तद्ब्रह्मणोऽधीना भीन्नाजीवाः सदैव तु। स्वरूपसत्ताकर्तृत्वं भोगो मोक्षस्तथैव च।। मुक्तस्यावस्थितिश्चैव सर्वं विष्णोर्वशे सदा' इति ब्रह्मतकै॥12॥ प्रह्लाद उवाच -


श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥23॥ आत्मस्थत्वेन वेदनमात्मनिवेदनम्। ‘मुक्तस्यापि ममान्तस्थो नियन्तैको हरिः सदा। इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनम्' इति च॥23॥ मुरुपुत्र उवाच - न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो। नैसर्गिकीयं मतिरस्य राजन्नियच्छ मन्युं क्व तदात्ममानः ॥28॥ क्व तदाऽऽत्ममानो मम ?॥28॥


॥ इति सप्तमस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥ 2-5॥


-


॥ षष्ठोऽध्यायः ॥ 7-6॥


परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु। भौतिकेषु विकारेषु भूतेष्यथ महत्सु च ॥26॥


Page 322


गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा। एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥27॥


प्रत्यगात्मस्वरूपेण कालरूपेण च स्वयम्। व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्यो विकल्पितः ॥28॥ ‘अन्तर्यामी प्रत्यगात्मा व्याप्तः कालो हरिः स्मृतः' इति च॥28॥


केवलानुभवानन्दस्वरूपः परमेश्वरः। माययाऽन्तर्हितैश्वर्य ईयते गुणसर्गया॥29॥ प्रकृत्या तमसा ऽऽवृतत्वाद्धरेरैश्वर्यं न ज्ञायते॥29॥



-


तस्मात् सर्वेषु भूतेषु ब्यां कुरुत सौहृदम्। भावमासुरमुन्मुच्य तया तुष्यत्यधोक्षजः ॥30॥ ‘विष्णोर्तृहत्वाद्भूतेषु दया कार्या विजानता' इति च॥30॥


तुष्टे च यत्र किंमलभ्यमनन्त आये किं तैर्गुणव्यतिकरैरिह येऽनुसिद्धाः। धर्मादिभिः किंमगुणेन च काङ्क्तेिन सारं जुषां चरणयरुपमायतां नः ॥31॥ ‘काङ्तो मोक्षगमपि सुखं नाकाङ्तो यथा' इति च ॥31॥


॥ इति सप्तमस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥ 7-6॥


॥ सप्तमोऽध्यायः ॥ 7 - Z॥


जन्माद्याः षड्मेि भावा दृष्टा देहस्य नात्मनः। फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना॥18॥


Page 323


‘षड्किाराः शरीरस्य न विष्णोस्तद्गतस्य तु। तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेत्' इति च॥18॥


आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः। अविक्रियः स्वग्वश्या व्यापकोऽसङ्नावृतः ॥19॥ हेतुत्वाद्विष्णवधीनत्वं शरीरस्य॥19॥


अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्णाः । विकाराः षोड्शाचार्यैः पुमानेकः समन्वयात्॥22॥


देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा। अत्र्यैव मृग्यः पुरुषो नेति नेतित्यतत्त्यजन्॥23॥ ‘अभिमान्यपेक्षया विष्णुः पञ्चविंश इति स्मृतः। जडव्यपेक्षया जीवः सम्यज्ज्ञेयो हरिः स्मृतः' इति च॥23॥


बुद्धेर्जागरणं स्वमः सुषुप्तिरिति वृत्तयः। ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥25॥


एभिस्तिवणैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः। सरूपमात्मनो धत्ते गन्धैर्वायुर्विान्वयात् ॥26॥


एतद्दारो हि संसारो गुणकर्मनिंबन्धनः।


अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवाप्यते ॥27॥ बुद्धेः - जीवस्य।


Page 324


सत्वबुध्यादिशब्दैस्तु जीवोऽपि क्वचिदीर्यते। जाग्रदाद्याः कर्म चैव सुखदुःखे च तस्य हि। जाग्रदादे परो द्रष्टा सुखनिष्ठो हरिः स्मृतः॥25॥ ‘स जीवेन सह स्थानात् तत्स्वरूपः प्रदृश्यते। अज्ञदृष्ट्या न ज्ञदृष्ट्या यथा गन्धयुतोऽनिलः॥26॥ ‘अदृष्टेर्जीवपरयोर्भेदस्याप्नोति संसृतिम्।


अभेदनिश्चयाद्याति तमो नास्त्यत्र संशयः' इति च ॥ बुद्धिर्भदैर्जीवानां तारतम्यज्ञापकैः॥ ‘दुःखरूपोऽपि संसारो बुद्धिपूर्वमवाप्यते। यथा स्वप्ने शिरश्चेदं स्वयं कृत्वाऽऽत्मनोऽवशः। ततो दुःखमवाप्येत तथा जागरितेऽपि तु। जानन्नप्यात्मनो दुःखमवशस्तु प्रवर्तते' इति च॥27॥


तस्माद्भवद्विः कर्तव्यः कर्मणां त्रिगुणात्मनाम्। बीजनिर्हरणं योगः प्रवाहोपस्मो धियः॥29॥ धियः प्रवाहस्योप परमेश्वरे रमणम्॥29॥


निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि। यदाऽतिहर्षोत्पुलकाश्रुगद्गदः प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥35॥


यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्दयते ध्यायतिं क्न्दते जनम्। मुहुः श्वसन वक्ति हरे जगत्पते नारायणेत्यात्ममतिंर्गतत्रपः ॥ 37 ॥


Page 325


तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः। निर्दग्धबीजानुशयो महीयसा भक्तियोमेण समेत्यधोक्षजम्। तद्भावभावः। तद्यथास्वरूपे भक्तिः॥ ‘केचिद्भक्ता विनृत्यन्ति गायन्ति च यथेप्सितम्। केचित् तूष्णीं जपन्त्येव केचिच्चोभयकारिणः' इति च॥35 - 38॥ अधोक्षजालापमहाशुभात्मनः शरीरिणः संसृतिंचक्रशीतनम्। तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् ॥ ब्रह्मनिर्वाणसुखम् - ब्रह्मनिमित्तनिर्वाणसुखम्॥38॥


कोऽतिप्रयासोऽसुरबालका हरेरुपासने स्वै हृदि छिद्रक्त्सतः। अस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥39।।


अशेषदेहिनां सामान्यतो हृदित्थत्वेन ॥39॥


सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मणः। सदाऽऽमोतीहया दुःखमनीहायां सुखोन्नतिंम् ॥ 43॥


तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयात्। भजतानीयाऽऽत्मानमनीहं हरिमीश्वरम् ॥ 49॥ ‘अप्रयत्नेन करणमनीहा प्रोच्यते बुधैः' इति च॥49॥


सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः। भूतैर्महद्भिः स्वकृतैः कृतानां बीजसंज्ञितः ॥51॥


Page 326


‘व्यञ्जनाज्जगतो विष्णुर्बीजं न परिणामतः' इति च॥51॥


दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः।


खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ 55॥ अच्युततां - च्युतिवर्जनम्॥55॥


॥ इति सप्तमस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥ - ॥


१६


॥ अष्टमोऽध्यायः ॥ 7-8॥


ऋषय ऊचुः -


त्वं नस्तपः परममात्थ यदात्मतेजो येनदमादिपुरुषात्मगतं ससर्ज। तद्विप्रलुप्तममुनाऽद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ 45॥ तद्विप्रलुप्तमिति सादृश्याभेदवचनम्। आलोचनमेव तपः। 'यस्य ज्ञानमयं तपः' इति श्रुतेः॥45॥ मन्धर्वा उचुः - वयं विभो ते नटनाट्यगायका येनात्मसाढीर्यबलौजसा कृताः। स एष नीतो भवता दशामिमां किंमुत्पथस्थः कुशलाय कल्पते ॥52 ॥ ‘नटनं तु कथाबद्धं नाट्यकं भावदर्शनम्' इति गान्धर्वे॥52॥


॥ इति सप्तमस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥ 2 - 8॥


॥ नमोऽध्यायः ॥ 7 - 9॥


साक्षाच्छीः प्रेषिता देवैर्टष्ट्वा तन्महद्भुतम्। अदृष्टाश्रुतपूर्वत्वात् सा नफ्याय शङ्किता ॥2॥


s


Page 327


अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणैर्जनैः। नृसिंहं शङ्कितेव श्रीलॅकमोहाय नो ययौ॥2॥


प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके। तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥3॥ ‘प्रह्लादे चैव वात्सल्यदर्शनाय हरेरपि।


ज्ञात्वामनस्तथा ब्रह्मा प्रह्लादं प्रेषयत् तदा। एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेद्धरिः।


अवरस्यापि मोहाय क्रमेणैवापि वत्सलः' इति ब्रह्माण्डे॥3॥


विप्राहिंषणयुतादरविन्दनाभपादारविन्दविमुखाच्छुफ्वं वरिष्ठम्। मन्ये तदर्पितमनौवचनात्मगेप्राणः पुनातिं सकलं न तु भूस्मिानः॥10॥ द्विषङ्गुणयुतात् - ‘ज्ञानं च सत्यं च दमः शमश्चह्यमात्सर्यं हीस्तितिक्षाऽनसूया। दानं च यज्ञश्च तपः श्रुतं च महाव्रता द्वादश ब्राह्मणस्य इति भारते॥10॥ यस्मिन् यत यर्हि च येन यस्य यस्मै यथा यमुत यस्त्वपः परो वा। भावं करोति विकरोति पृथक् स्वभावः सञ्चोदितस्तदखिलं भक्तः


स्वरूपम्॥20॥ ‘कर्तृकर्मक्रियादीनां सत्तावृत्तिस्तथैव च।। विष्ण्वधीनं यतः सर्वं सर्वरूपस्तदुच्यते' इति ब्रह्मतकै॥20॥


Page 328


मया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः। छन्दमयं यदजयाऽर्पितङशारं संसारचक्रमज कोऽतितस्तु त्वदन्यः ॥ दशेन्द्रियप्राणमनोऽरम्। मूलं मन एव संसारचक्रम्॥21॥


काहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् जातः सुरेतरकुले छ तवानुकम्पा। न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥26॥ रमादीनामिदानीं नार्पितः॥26॥




नैषा परावरमतिर्भवतो ननु स्याजन्तोर्यथात्मसुहृद जगतस्तथाऽपि। संसेक्या सुस्तरोरिव ते प्रसादः सेवानुरूप उदयो न परावरत्वम् ॥27॥ रमादीनामधिकोदयोऽपि सेवाधिकत्वादेव ॥ श्रीर्ब्रह्मब्राह्मीवीन्द्रादित्रिकततस्त्रीपुरुष्टुताः। तदन्ये च क्रमादेव सर्वे मुक्तौ सुतावपि। हरिभक्तौ च तज्ज्ञानसुखे च नियमेन तु। परतः स्वतः कर्मतो वा न कथञ्चित् तदन्यथा' इति ब्रह्मतर्के॥27॥


त्वं वा इदं सदसदीश भवांस्ततोऽन्य माया यदात्मपरबुद्धिरियं ह्यपा। यद्यस्य जन्मनिधनं स्थितिरीक्षणं च तद्वैतदेव खलु कालवदुष्टितर्वोः ॥31॥ यथा वृक्षश्च वृक्षदाहश्च दैवकालाधीनत्वाद्देवं कालश्चेत्युच्यते एवं त्वदधीनत्वात् सर्वस्य सत्वं सर्वमित्युच्यसे, स्वतस्तद्भिन्नोऽपि॥ अहं चान्यश्च परमेश्वर एवेत्यपार्था भ्रान्तिः। तदधीनत्वादेव स इत्युच्यते। न तु स्वरूपत्वादित्यर्थः॥31॥


न्यस्येदमात्मनिं जगद्विलयाम्बुमध्ये शेषासन निजसुखानुभको निरीहः।।


Page 329


योगेन मीलितगात्मनि वीतनिद्रस्तुर्यस्थितो ननु तमोऽनुगुणांश्च युल्ले ॥ तुयें स्थितः॥32॥ तस्यैव ते वपुरिंदं निजकालशक्त्या सञ्चोदितं प्रकृतिधर्मिण आत्मगूढम्। अम्भस्यनन्तशयनाद्विरमसमाधेर्नाभेरभृत्स्वकणिकाक्टवन्महाजम् ॥33॥


तत्सम्भवः कविरतोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं स बहिर्विचिन्वन्। नाविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्करे कथमिहोपलभेत बीजम् ॥34॥ जगदात्मकमलमपि भगवद्वशत्वात् तद्वपुः। ‘स्थावराणां तु सर्वेषां देवता या ऽभिमानिनी। विशेषाद्वटबीजे च साऽश्वत्थे च व्यवस्थिता॥


अदृश्या कणिका नाम सा वृक्षान् व्यञ्जयत्यपि। अतो बीजमिति प्रोक्ता सा जाते त्वङ्करे स्थिता॥ एवं हरिः कारणेषु स्थितः कार्यजनेरनु।। कार्याण्यनुप्रविष्टः सन् प्रथमं तत्र दृश्यते इति च॥33॥


स त्वाल्मयोनिरतिविस्मित आश्रितोऽब्जे कालेन तीव्रतपसा परिशुद्धभावः। त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ॥35॥


लक


एवं सहस्रवदनाङ्गिशिरःकरोरुनासास्यकर्णनयनाभरणायुधाढ्यम्। मायामयं सदुपलक्षणसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विञ्चिः ॥ 36॥ मायामयं - ज्ञानस्वरूपम्। सदुपलक्षणसन्निवेशं आनन्दादिलक्षणसमुदायरूपम्॥ 'गन्धाख्या देवता यद्वत्पृथिवीं व्याप्य तिष्ठति।


Page 330


एवं व्याप्तं जगद्विष्णुं ब्रह्माऽऽत्मस्थं ददर्श ह' इति च॥35, 36॥


प्रायेण देवमुनयः स्वविमुक्तिंकामा मौनं चरन्ति विजनेन परार्थनिष्ठाः। नैतान विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये॥44॥ प्रायेण देवमुनयः। 'आश्रितेषु कृपा कार्या विशेषात् तात्विकैः सुरैः। मुनिभिश्च तथा कैश्चित्कैश्चित्कार्याऽखिलेष्वपि। तथाऽपि तात्विकसुरकृपाविषयतां गताः। ये त एव विमुच्यन्ते तदन्ये न कथञ्चन' इति च॥44॥


रूपे इमे सदसती तव वैदष्टे बीजाङ्कराविव न चान्यदरूपकस्य।युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ कार्यकारणे रूपे तद्वशत्वापेक्षया साक्षात्स्वरूपापेक्षया स्वरूपादन्यद्रूपं न॥47॥


॥ इति सप्तमस्कन्धतात्पर्ये नमोऽध्यायः ॥ 7-9॥


॥दशमोऽध्यायः ॥ 2 - 10॥ श्रीभगवानुवाच - त्रिसप्तभिः पिता पूतः पितृभिः सह तेऽनघ।


यत् साधोऽस्य कुले जातौ भवान् वै कुलपाक्नः ॥19॥ जन्मान्तरपितृभिस्त्रिसप्तभिः॥19॥


Page 331


भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः। भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥22॥ ‘ऋते तु तात्विकान् देवान् नारदादींस्तथैव च। प्रह्लादादुत्तमः को नु विष्णुभक्तौ जगत्रये' इति स्कान्दे॥22॥


कुरु ते प्रेतकार्याणि पितः पूतस्य सर्वशः। मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥23॥ ‘मधुकैटभौ भक्त्यभावादूरौ भगवतो मृतौ। तम एव क्रमादाप्तौ भक्त्या चैद्यो हरिं ययौ' इति च॥23॥ श्रीभगवानुवाच - मैवंविधोऽसुराणां ते प्रदेयः पद्मसम्भव। वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥31॥ ‘यथा हिरण्यकस्यादादन्तःस्थितहरीरितः। तथा नादात् तदन्यस्य ब्रह्मा दैत्यस्य कस्यचित्' इति च ॥31॥


ताविहापि पुनर्जात शिशुपालकरूशकौ । हतौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥ 39॥


एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः।


जहुस्तेऽन्ते तदात्मानः कीटाः पेशस्कृत यथा ॥ 40 ।। ‘पौण्डके नरके चैव तथा साल्वे च रुग्मिणि। आविष्टासु हरेर्भक्तास्तद्भक्त्या हरिमापिरे।


Page 332


असुरास्तु स्वयं ते तु महातमसि पातिताः' इति च। तदात्मानस्तत्रा विष्टास्तद्भक्ताः । वैरोपसर्जनेनानुबन्धेनेत्यन्वयः ॥39,40॥ एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः। अवतारकथा पुण्या वधो यत्रादिदैत्ययः ॥ 43 ॥


प्रह्लादस्यानुचरितं महाभागवतस्य च।


भक्तिर्ज्ञानं विरक्तिश्च यथात्म्यं चास्य वै हरेः ॥ 44॥


सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम्। परावरेषां स्थानानां कालेनाप्यत्ययो महान् ॥ 45॥


धर्मो भागवतानां च भगवान् येन गम्यते।


आख्यानेऽस्मिन् समाख्यातमाध्यात्मिकमशेषतः ॥ 46॥ ‘भगवान् येन गम्यते' इत्यनेन भागवतधर्मेणैव भगवान् गम्यते। न द्वेषादिनेत्युपसंहियते। वृत्तानुकथनं च तदर्थत्वेनैव। ज्ञानस्य विशेषा यथात्म्यादयः। ‘भक्तिर्ज्ञानं विरक्तिश्च नवकः श्रवणादिकः।


धर्मो भागवतः प्रोक्तस्तद्भक्तेषु तथा नव' इति तन्त्रसारे॥46॥


स वा अयं ब्रह्म महद्विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः। प्रियः सुहृद्वः खलु मातुलेय आत्माऽर्हणीयो विधिकृद्रुश्च ।। 50॥ निर्वाणसुखं - अशरीरसुखम्। 'एतद्वाणमवष्टभ्य' इति श्रुतेः॥50॥


॥ इति सप्तमस्कन्धनात्पर्ये दशमोऽध्यायः ॥ 7- 18 ।।


Page 333


यः ॥


- 11॥


'


नारद उवाच - स एष भगवान् राजन्नकरोद्विततं यशः। पुरा रुद्रस्य देवस्य मयेनानन्तमायिनी ॥ 1 ॥ तदधीनं वा सर्वं न वेति संशयं रुद्रस्य व्यहनत्। अल्पकेनैव मयेन प्रतीकारं कृत्वा॥1॥ राजोवाच -


कस्मिन् कर्मणि देवस्य यशोऽभूज्जगदीशितुः। यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥2॥ कस्मिन् कर्मणि मयो विपरीतं चकार॥ ‘सापेक्षं न तु दोषाय यत्र सिद्धमपेक्षितम्' इति शब्दनिर्णये॥2॥


देवोऽसुरो नरोऽन्यो का नेश्वरोऽस्तीह कश्चन।


आत्मनोऽन्यस्य वा दिष्टं दैवैनापोहितुं द्वयोः ।। 14 ॥ विष्णुनाऽऽदिष्टं व्यपोहितुं देवोऽसुरोऽन्यो वा न समर्थः॥4॥


॥ इति सप्तमस्कन्धतात्पर्ये एकादशोऽध्यायः ॥ 2 - 11॥


॥ द्वादशोऽध्यायः ॥ 7 - 12॥


श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः।। सेवेज्याऽवनतिः सख्यं दास्यमाल्मसमर्पणम्॥11॥ ‘अनाद्यनन्तकालेषु मुक्तौ संसार एव च।


मयिस्थयोदयत्येको विष्णुर्मा सर्वदैव तु। इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणम्।


Page 334


बहिस्थेश्वरदासत्वं दास्यमित्युच्यते बुधैः' इति तन्त्रमालायाम्॥11


या पतिं हरिंभावेन भजेच्छीरिव तत्परा। हर्यात्मना हरेर्लोके पत्या श्रीरिक मोदते ॥30॥ ‘हरिरस्मिन् स्थित इति स्त्रीणां भर्तरि भावना॥ शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु। भृत्यानां स्वामिनि तथा हरिभाव उदीरितः' इति च॥30॥


॥ इति सप्तमस्कन्धतात्पर्ये द्वादशोऽध्यायः ॥ 2 - 12॥


॥त्रयोदशोऽध्यायः ॥ 7 - 13॥


कल्पयेदात्मनो यावदाभासमिमीश्वरः। द्वैतं तावन्न विरमेत् ततो ह्यस्य विर्ययः ।। 10॥ ‘बहुत्वेनैव वस्तूनां यथार्थज्ञानमुच्यते। अद्वैतज्ञानमित्येव द्वैतज्ञानं तदन्यथा। यथाज्ञानं तथा वस्तु यथावस्तु तथा मतिः॥ नैव ज्ञानार्थयोर्भेदस्तत एकत्ववेदनम्' इति च॥10॥


दत्त्वा वरमनुज्ञात गुरोःकामं यदीश्वरः। गृहं वनं वा प्रविंशेत् प्रव्रजेत् तत्र वा वसेत् ॥14॥ ‘गुरोराज्ञानुरोधेन दूरस्थोवा गृही भवेत्' इति च॥14॥


अग्नौ गुरुवात्मनिं च सर्वभूतेष्यधोक्षजम्।


Page 335


भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥15॥ ‘अप्रविष्टः सर्वगतः प्रविष्टस्त्वनुरूपवान्। एवं द्विरूपो भगवान् हरिरेको जनार्दनः' इति च॥15॥


आत्मन्यग्निं समारोप्य संन्यस्याहंममात्मताम्। कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥24॥ ‘कार्यस्य कारणलयज्ञानमात्रं विलापनम्' इति च॥24॥


अप्सु प्रवेशयेजिह्वां घ्यैर्घाणं क्षितौ न्यसेत् । मन मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे॥28॥ परः कविबृहस्पतिः॥28॥ कर्माण्यध्यात्मना रुद्रे यदहंसम्मताः क्रियाः। सत्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिक फ्रे॥29॥ चित्तं हिरण्यगर्भ तु विलाप्य परमात्मनि। क्षेत्रज्ञाख्ये लापयेच्च ततो नान्यत् स्मरेद्धः' इति च ॥29॥


इत्यक्षरतयाऽऽत्मानं चिन्मात्रमशेक्तिम्। ज्ञात्वाऽद्वयोऽथ विरमेधयोनिरिवानलः ॥31॥


आत्मानं परमात्मानम्। अद्वयः ततोऽन्यस्मृतिवर्जितः। दग्धयोनिर्यथाऽनल इति कृत्याभावमात्रम्। ‘न हरि स्मरतः कृत्यं दग्धेन्धनहुताशवत्' इति च॥31॥


॥ इति सप्तमस्कन्धतात्पर्यो त्रयोदशोऽध्यायः ॥ 72 - 13॥


Page 336


॥चतुर्दशोऽध्यायः ॥ 7 - 14॥


पश्चेदात्मन्यदो विश्व परे सदसतोऽद्वये।


आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये॥4॥ आत्मनि परमात्मनि॥4॥


नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम्।


अतिवादस्त्यिजेत् तर्कान् पक्षं कञ्चिन्न संश्रयेत् ॥7॥


न शिष्याननुबधीत ग्रन्थान्नैवाभ्यसेद्वहून्। न व्याख्यामुपजीवेत नारम्भान्नारभेत् क्वचित् ॥8॥ अप्रयोजकं पक्षं न संश्रयेत् - नाप्रयोजनपक्षी स्यान्न वृथा शिष्यबन्धकृत्। न चोदासीनशास्त्राणि न विरुद्धानि चाभ्यसेत् ॥ ‘न व्याख्ययोपजीवेत न निषिद्धान समाचरेत्। एवं भूतो यतियति तदेकशरणो हरिम्' इति समयाचारे॥7,8॥ विकल्पं जहुयाचित्ते तन्मनस्यर्थविभ्रमे।


मनो वैकारिके हुत्वा मायायां वै जुहोत्यमुम्॥44॥ चित्ते - मनोवृत्त्यभिमानिनि। अर्थविभ्रमे -अर्थेषु भ्रममाणे। 'चित्ताख्याग्नेरधीनं हि जगदेतद्विचिन्तयेत्। मनोनामेन्द्र वशगमग्निं च प्रविचिन्तयेत्' इत्यादि च॥ 44॥


Page 337


स्वात्मवृत्तं मयेत्थं ते सुगुप्तमनुवर्णितम्। व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्प्रियः॥46॥ ‘अशास्त्रीयत्वान्मुखतःशास्त्रापेतमिदं विदुः। शास्त्रनिर्णयगम्यत्वाच्छास्त्रीयमभिधीयते' इति च॥46॥


॥ इति सप्तमस्कन्धतात्पर्ये चतुर्दशोऽध्यायः ॥ 7-14॥


यः॥


-- 15॥


कृमिकिंङ् भस्मनिष्ठान्तं क्वदं तुच्छे कलेवरम्। क्व तदीयरतिर्भार्या छायमात्मा नभश्छदिंः ॥14॥ नभश्चदिः - नभो व्याप्य स्थितः परमात्मा॥14॥


तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।


चतसृष्यप्यष्टकासु हेमन्ते शिशिरे तथा ॥22॥ ‘सप्तम्यादित्रयं चैव तथा चैव त्रयोदशी।


चतस्रस्त्वष्टकाः प्रोक्ताः सर्वपक्षाद्विशेषतः' इति च व्यासस्मृतौ॥ 'हेमन्ते शिशिरे चैव नित्यश्राद्धं गुणोत्तरम्' इति च॥22॥ पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः। शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौं ॥38॥ जीवरूपेण सह॥38॥


तेष्वीशो भगवान् राजंस्तारतम्येन वर्तते। तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥38॥


Page 338


‘ब्रह्मादिस्थावरान्तेषु न विशेषो हरेः क्वचित्। व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च’ इति॥39॥


पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः। तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ।। 42॥




तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः। पुनन्तः पादस्जसा त्रिलोके दैवतं महत् ॥ 43 ॥ ‘शिलावत् प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृताः' इति च॥42॥


॥ इति सप्तमस्कन्थतात्पर्ये पञ्चदशोऽध्यायः ॥ 2 - 15॥


॥ षोडशोऽध्यायः ॥ 7-16॥


निषेकाविंश्मशानान्तैः संस्कारैः संस्कृतो द्विजः। इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ 52 ॥


ओङ्कारं बिन्दुनादे तु तं तु प्राणे महत्यमुम्। अग्निः सूर्यो दिवा वायुः शक्लो राकोत्तरः स्वराट् ॥ 54 ।। 'यज्ञाभिमानिनो देवान् स्मरन्तीन्द्रियमानिनाम्। वशगांस्तान्मनोमानिसुरेन्द्रस्य वशे स्थितान्। वेदात्मिकायाः पार्वत्यास्तां रुद्रस्य वशे स्थिताम्। वर्णत्रयात्मकं रुद्रं शेषे तु प्रणवात्मके। बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्व्यसेत्।


Page 339


मूलस्थानादरूपायां तां वायौ तं जनार्दने। प्रकृतावथवा प्राणं तामेव पुरुषोत्तमः' इति ब्रह्मतकै॥52॥ स्वराडिन्द्रः॥54॥


|


|


|


विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयः। देवयानमिदं प्रादुर्भूत्वा भूत्वाऽनुपूर्वशः ॥ 55॥ ‘विश्वाद्या अनिरुद्धाद्यास्ते द्विधा सम्प्रकीर्तिताः। विष्णुरूपास्तदन्ये च तान् सर्वान्याति मोक्षगः। तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः। ते दिवं प्राप्ययन्त्येनं सा वायुं स हरि पृथक्। विश्वादिरूपं तुर्यस्तु वासुदेवश्च नापरः' इति च।


अधिको भूत्वा भूत्वा सुखादिभिः॥55॥


य एते पितृदेवानामयने देवनिर्मिते। शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥56॥ भक्तिमान् मार्गविन्नैव नीचां गतिमवाप्नुयात्' इति च ॥56॥


आदान्ते जनानाशं बहिरन्तः परावरम्। ज्ञानं ज्ञेयं वच वाच्यं तम ज्योतिश्च यत्स्वयम् ॥ 57 ॥


ग्लापकत्वात् तमः॥57॥


अबाधितोपि ह्याभासो यथा वस्तुतया स्मृतः। दुर्घटत्वाबैन्द्रियकं तद्वदर्थविकल्पितम् ॥ 58॥


Page 340


दुर्घटत्वादर्थत्वेन परमेश्वरेणैव कल्पितम्॥58॥


क्षित्यादीनामिहार्थानां छाया न कतमाऽपि हि। न सङ्घात विकारोऽपि न पृथङ्गान्वितोऽपि वा ॥ 59॥ ‘छाया रीतिः प्रकारश्च भावश्चेत्यभिधीयते' इति शब्दनिर्णये। क्षित्यादीनां पदार्थानां कतमोऽपि प्रकारो न घटते। परमेश्वरकल्पितत्वात्कार्यमित्येव वक्तुं युक्तम्। न ह्यपां सङ्घातमात्रं पृथिवी। न च विकारमात्रम्। न हि कालुष्यादिविकारमात्रेण पृथिवी भवति। न चायः पृथक् स्थितिः। न च वस्तुद्वयवत्सहावस्थानमात्रम्॥59॥


धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना। न स्युर्खसत्यक्यविन्यास नाक्यवा इव ॥60 ।। एवमवयवावयविनोरपि॥60॥


स्यात्सादृश्यभ्रमस्तावद्विकल्पे सतिं वस्तुनः। जाग्रत्स्वप्नौं यथा स्वप्ने तथा विधिनिषेधता ॥61 ॥ न च सादृश्यमात्रम्॥ वस्तुभेदे हि तद्युज्यते। तस्मात् स्वप्न एख। जाग्रत्स्वप्नौ यथा विशेषतो दृश्येते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वरकल्पनयैवासौ दृश्यते।। ‘कार्यकारणवस्तूनां विशेषो न निरूपितः। तथाऽपीशेच्छयैवासौ दृश्यते नियतोऽपि च' इति च ॥61॥


अहं पुराऽभवं कश्चिद्गन्धर्व उपबर्हणः। नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसंमतः ॥ 69॥ अतीते महाकल्पे - अतीतब्रह्मकल्पे। ‘ब्रह्मकालः परश्चेति महाकल्पश्च कीर्तितः' इति च ॥69॥


Page 341


॥ इति सप्तमस्कन्धतात्पर्ये फेडोऽध्यायः ॥ 2 - 16॥


॥ इति श्रीमदानन्दतीर्थभमवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्ये सप्तमस्कन्धः ॥ 7 ॥


| ॥ अष्टमः स्कन्धः ॥8॥


॥ तृतीयोऽध्यायः ॥ 8-3॥


यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम्। योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥3॥ यत इति स्रष्ट्रत्वम्। येनेति प्रवर्तकत्वम्। य इति सत्ताप्रदत्वम्। 'न सन्ति यदुपेक्षया' इत्युक्तत्वात्।। ‘उत्पन्नस्यापि यत् सत्ता हरेस्तत् स इतीर्यते। हरेर्विश्वं भिन्नमपि परमोऽसौ यतो विभुः' इति ब्रह्मतकै॥3॥


॥ इति अष्टमस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥8 - 3॥


.


॥पञ्चमोऽध्यायः ॥8-5॥


न यस्य वध्यो न रक्षणीयो नोपेक्षणीयादरणीयपक्षः। अथापिं सर्गस्थितिंसंयमार्थं धत्ते रजःसत्त्वतमांसि काले ॥22॥ ‘अनुग्राह्यतया पक्षा देवा नात्मार्थतो हरेः' इति च॥25॥


विपश्चितं प्राणमनौधियात्मनामर्थेन्द्रियाभासमनिद्रमव्रणम्। छायतपौ यत्र न गृध्र पक्षौ तमक्षरं स्वं त्रियुगं व्रजामहे ॥27॥


Page 342


‘छाया त्वविद्या सम्प्रोक्ता जन्यविद्याऽऽतपः स्मृतः।


जीवगृध्रस्य तौ पक्षावधऊर्ध्वपथोः पृथक्। तौ विष्णोस्तु न विद्येते नित्यविद्यास्वरूपिणः' इति च॥27॥


अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु। त्रिंणाभि विद्युद्वलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥28॥


गुणत्रयनाभि। विद्युदप्रह्म - ‘विद्युब्रह्मेत्युपासीत' इति श्रुतेः। ‘जगत्चक्रस्याक्षभूतो बलरूपश्च केशवः' इति च ॥28॥


न यस्य कश्चातिपिपर्ति मायां यया जनो मुह्यति वेद नार्थम्। तं निर्जितात्मात्मगुणं परेशं नमामि भूतेषु समं चरन्तम् ॥30॥


आत्मा च आत्मगुणाश्च निर्जिता येन॥30॥


अम्भस्तु यद्रेत उदारवीर्यं सिंच्यन्ति जीवक्त्युत वर्धमानाः। लोकास्त्रयोऽथाखिललोकपालाः प्रसीदतां ब्रह्म महाविभूतिः ॥33


सोमं मनो यस्य समामनन्ति दिवौकसां वै बलमन्ध आयुः। ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥34॥ ‘सूर्यसोमयमेन्द्रादीनृतेऽन्ये लोकपा अपि।


अद्भिर्जीवन्ति सोमाञ्च महेन्द्रादीनृतेऽखिलाः। अपां सोमस्य चेन्द्राद्याः सर्वे वैजीवनप्रदाः' इति च॥33, 34॥


Page 343


अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डुनिमित्तजन्मा। अन्तः समुद्रे फ्चतः स्वधातून् प्रसीदतां नः स महाविभूतिः ॥35॥ समुद्रे - उदरे॥35॥


यचक्षुरासीत् तरणिर्दैवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम्। द्वारं च मुक्तेरमृतस्य मृत्योः प्रसीदतां नः स महाविभूतिः ॥36॥ अमृतस्येति मुक्तेरित्यस्य विशेषणम्॥36॥


॥ इति अष्टमस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥8-5॥


॥ षष्ठोऽध्यायः ॥ 8-6॥


अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः। ययौ जलान्त उत्सृज्य हरिणी स विसर्जितः ॥39॥ ‘अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम्।


अमृतार्थं सुपर्णोदो रैवतस्यान्तरे मनोः' इति ब्राह्मे॥39॥


॥ इति अष्टमस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥8-6॥


॥सप्तमोऽध्यायः ॥8- 2 ॥


-



तदुग्रवेगं दिशि दिश्युर्यधो विसर्पदुत्सर्पदसह्यवीर्यम्। भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ॥ 'रुद्रस्य यशसोऽर्थाय स्वयं विष्णुर्विषं विभुः। न सञ्जहे समर्थोऽपि वायुं चोचे प्रशान्तये' इति च॥19॥


Page 344


त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः। तं त्वामर्चन्ति कुशलाः प्रफ्न्नार्तिहरं गुरुम्॥22॥ 'तत्र तत्र स्तुतिपदैर्हरिरेव तु तद्गतः।।


स्तूयतेऽतो युक्तमेव गुणाधिक्यवचोऽपि तु' इति च॥22॥


॥ इति अष्टमस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥8 - 7 ॥


अष्टमोऽध्यायः ॥8-8॥


नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम्। कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं पस्तौ व्यपाश्रयः ।। 19॥


धर्मः क्वचित् तस्य न भूतसौहृदं त्यागः क्वचित् तस्य न मुक्क्तिकारणम्। वीर्यं न पुंसोऽस्त्यजगनिष्कृतं नहि द्वितीयो गुणसङ्गवर्जितः ॥







क्वचिच्चिरायुर्नहि शीलमङ्गलं क्वचित् तदप्यस्ति न वेद्यमायुषः । यत्रोभयं कुत्रच सोऽप्यमङ्गलः सुमङ्गलः कश्चन काङ्ते हि माम् ॥ श्रीशुक उवाच - एवं विमृश्याव्यभिचारिसद्णं पदं निजैकाश्रयिसद्णाश्रयम्। वन्ने वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम्॥23॥ ‘अनाद्यनन्तकालेऽपि विष्णुमेवाश्रिता रमा।


अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतरान् जहौ” इति च ॥23॥


स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः।


Page 345


धन्वन्तरिरिति ख्यात आयुर्वेदगिज्यभाक् ॥34॥


तमालोक्यासुराः सर्वे कलशं चामृताहृतम्। लिप्सन्तः सर्ववस्तूनि कलशं तरसाऽहस्न्॥35॥ ‘तेषां सत्याच्चालनार्थं हरिर्धन्वन्तरिर्विभुः।


समर्थोऽप्यसुराणां तु स्वहस्तादमुचत् सुधाम्' इति च॥35॥


॥ इति अष्टमस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥8 - 8॥


C)


॥ नमोऽध्यायः ॥8 - 9॥


दृष्ट्वा मृधे गरुङवामिहारिंवार आविध्यशूलमहिनोदथ कालनेमिः। तल्लीलया गरुङमूर्ध्नि पतहीत्वा तेनाहनन्नृप सवामरिं त्र्यधीशः ॥ 56 ॥ ‘कालनेम्यादयः सर्वे हरिणा निहता अपि। शुक्रेणोज्जीविताः सन्तः पुनस्तेनैव पातिताः' इति च॥56॥


॥ इति अष्टमस्कन्धतात्पर्ये नमोऽध्यायः ॥ 8-9॥


| ॥एकोनविंशोऽध्यायः ॥8 - 19॥


यद्यप्यसावधर्मेण मां बनीयानागसम्। तथाऽप्येनं न हिँसिष्ये भीतं ब्रह्मतनुं रिपुम्॥12॥ ‘बलिरप्यसुरावेशात् स्तुवन्नपि जनार्दनम्।


आक्षिपत्यन्तरा क्वापि प्रह्लादो नित्यभक्तिमान्' इति ब्रह्माण्डे॥12॥


Page 346


॥इति अष्टमस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥8 - 19॥


॥त्रयोविंशोऽध्यायः ॥8 - 23॥


तमाह साऽतिकरुणं महाकारुणिकं नृपम्। यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनक्सल। कथं विसृजसे राजन् भीतामस्मिन् सरिजले। 14॥


प्रलयफ्यसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिंगणमुपनीतं प्रत्युपादत्त हत्त्वा। दितिंजमकथयन्त्र ब्रह्म सत्यव्रताय तमहमखिलहेतुं जिह्ममीनं


नतोऽस्मि॥61॥ ‘अनन्तशक्तिर्भगवान् मत्स्यरूपी जनार्दनः। क्रीडार्थं याचयामास नृपं सत्यव्रतं स्वयम्' इति मात्स्ये॥14 -61॥


॥ इति अष्टमस्कन्धतात्पर्ये त्रयोविंशोऽध्यायः ॥23॥


॥ इति श्रीमदानन्दतीर्थभमवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्ये अष्टमस्कन्धः ॥


॥ नवमः स्कन्धः ॥9॥


॥ षष्ठोऽध्यायः ॥9 - 6॥


एवंविधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे। क्रियाकलापैः समुवाह भक्तिं यया विञ्चिादिमधश्चकार ।। 85॥ ‘ब्रह्मादिभक्तिकोट्यंशादंशो नैवाम्बरीषके।


Page 347


नैवान्यस्य च कस्यापि तथाऽपि हरिरीश्वरः। तत्कालिकोपचेयत्वात् तेषां यशस आदिराट्। ब्रह्मादयश्च तत्कीर्ति व्यञ्चयामासुरुत्तमाम्। मोहनाय च दैत्यानां ब्रह्मादेर्निन्दनाय च।


अन्यार्थं च स्वयं विष्णुर्ब्रह्माद्याश्च निराशिषः। मानुषेषुत्तमत्वाच्च तेषां भक्त्यादिभिर्गुणैः। ब्रह्मादेष्ण्वधीनत्वज्ञापनाय च केवलम्। दुर्वासश्च स्वयं रुद्रस्तथाऽप्यन्याय्यमुक्तवान्। तस्याप्यनुग्रहार्थाय दर्पनाशार्थमेव च' इति गारुडे॥85॥


॥ इतिं नक्मस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥9 - 6॥


॥ अष्टमोऽध्यायः ॥9 - 8॥


रक्षोऽधर्मेन वृकवद्विपिनेऽसमक्षं वैदेहराजदुह्नितर्यपयापितायाम्। भ्रात्रा ने कुपणवत् प्रियया विंयुक्तः स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ॥93॥ ‘नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः।


अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि। तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत्। अन्तर्हितां लोकदृष्ट्या सीतामासीत् स्मरन्निव। ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया।


Page 348


अयोध्याया विनिर्गच्छन् सर्वलोकस्य चेश्वरः। प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः॥93॥


॥ इतिं नमस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥9 - 8॥


॥ नमोऽध्यायः ॥9 - 9॥


तत ऊर्ध्वं ब्रह्मचर्यं धास्यन्नजुहोत् प्रभुः। त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥17॥


स्मरतां हृदि विन्यस्य बुद्धं पद्ममिवांशुकैः। स्वपादपल्लवं राम आत्मज्योतिस्मात् ततः ॥18॥ 'नक्षत्रमासगणितं त्रयोदशसहस्रकम्। ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम्॥17॥


पुरुषो रामचरितं श्रवणैरुपधास्यन्।


आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥22॥ ‘रामो रामो राम इति सर्वेषामभवत् तदा। सर्वो राममयो लोको यदा रामस्त्वपातयत् इति स्कान्दे॥22॥


॥ इति नमस्कन्धतात्पर्ये नवमोऽध्यायः ॥9 - 9॥


॥ चतुर्दशोऽध्यायः ॥9-14॥


वरेण छन्दयामास प्रीतः सत्यवतीसुतः।


Page 349


वन्ने हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥7॥


ततश्चावभृथस्नानविंधूताशेषकल्मषः। सरस्वत्या ब्रह्मनद्यां जे व्यभ्र इवांशुमान् ॥23॥ ‘जामदग्न्यो वरं वत्रेऽनन्तशक्तिरपि स्वयम्। पितुर्मान्यत्वसिद्ध्यर्थं लोके लोकेश्वरः प्रभुः ॥


अपापमपि देवेशं पितरः संन्यवारयन्। अजानन्तोऽस्य माहात्म्यं मोहितास्तस्य मायया। मोहयान्मायया लोकं चक्रे चापचितिं वधे। पुण्यपापादिनिर्मातुः कुतः पापादिसङ्गतिः' इति च॥8॥


॥इतिं नवमस्कन्धतात्पर्ये चतुर्दशोऽध्यायः ॥9 - 14॥


यः ॥ 9 - 17॥


मूढे भर द्वाजमिमं भरदु वाजं बृहस्पतेः।


त्राता तु दुःखात् पितरौ भरद्वाजस्ततस्त्वयम् ॥38॥


चौद्यमाना सुरैरेवं मत्वा तं देवमात्मजम्। व्यसृजन्मरुतोऽभिभ्रन् दत्तोऽयं तिथेऽन्वये ॥39॥ द्वाजमिमं भर। उचथ्यस्य क्षेत्रजो बृहस्पतेर्जात इति। द्वयोर्जातत्वाद्वाजः। ब्रहस्पतेर्वाजः प्रजासन्ततिर्येन भृता सबृहस्पतेर्भरद्वाजः॥37॥ ‘भरद्वाजो मरुद्भिश्च भृतो जातो द्वयोर्यतः' इति पाझे॥30॥



Page 350


॥ इति नवमस्कन्धतात्पर्ये सप्तदशोऽध्यायः ॥9 - 12॥


॥ इति श्रीमदानन्दतीर्थभमक्त्पादाचार्यविरचिते श्रीमद्भागवततात्पर्ये नवमस्कन्धः ॥9॥


॥शम स्कन्धः ॥10॥


(



॥ प्रथमोऽध्यायः ॥ 10 - 1 ॥


स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः। दृष्टश्रुताभ्यां मनसाऽनुचिन्तयन् प्रपद्यते तत्किमपि ह्यपस्मृतिः ॥ 41 ॥ स्वप्ने यथा। दृष्टश्रुतस्मृत्यनुसारिदेहं प्राप्नोति। अपस्मृतिर्मृतः। पूर्वदेहस्मरणाभावादनभिमानतः॥41॥


यतो यतो धावति दैवचोदितं मनो विकारात्मकमात्मपञ्चसु। गुणेषु मायारचिंतेषु देह्यसौ प्रपद्यमानः सह तेन जायते ।। यतो यतः। यत्र यत्र मनो दावत्यात्मपञ्चानां मध्ये तत्र तत्र तेन देहेन सह जायते गुणानुबद्धः सन्। 'दैवगान्धर्व पित्र्येषु मानुषेष्वासुरेषु च। यत्रयत्र मनो याति तत्र तत्रोपजायते। स्वगुणस्यानुसारेण सत्वादिगुणबन्धनः' इति गारुडे। ‘देवादित्वं योग्यतया तत्सकाशस्त्वनुस्मृतेः।


श्वेतद्वीपादि तत्रापि योग्यतामप्यपेक्ष्य तु। विष्णोः स्थानं विनाऽन्यत्र वायुशक्रादिनामपि। त्रैलोक्यदेशभेदेषु योग्यता न त्वपेक्षिता' इति नारदीये॥42॥


Page 351


ज्योतिर्यथैवोदकपार्थिवेष्यदः समीरवेगानुगतं विभाव्यते। येवं स्वमायाचितेष्यसौ पुमान् गुणेषु रागानुगतो विमुह्यति ।। 43॥


तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः।


आत्मनः क्षेममन्विच्छन् दोग्धुर्वे पस्तो भयम् ॥ 44 ।। विभाव्यते - विविधं भाव्यते। स्वमायाचितेषु विष्णुमायारचितेषु। रागानुगतः पुमान् जीवो विविधं मुह्यति। ‘यथैवोदशरावेषु सूर्यादिः प्रतिबिम्भितः। वायुना चालितो भाति छिन्नभिन्नादिरूपवान्। एवं विष्ण्विच्छया जातगुणेषु प्रतिबिम्बितः। छिन्नो भिन्नो मृतोऽस्मीति बहुधा प्रतिपद्यते।


तदेव च दृडीभूत उदके निःशरावके। छेदभेदादि नाप्नोति निश्चलं प्रतिबिम्बितम्।


एवं गुणैर्विमुक्तस्तु जीवो नाप्नोति दःखिताम्। शराववद्णाः प्रोक्ता अज्ञानं तु द्रवत्ववत्। दृढीभूतोदवज्जीवस्तज्ज्ञानं प्रतिबिम्बवत्।। नित्यान्तःकरणं चैव प्रतिबिम्बश्च तद्गतः। द्वयमेव विमुक्तस्य न किञ्चिज्जडमिष्यते। सूर्यकान्तादिवत् तस्य स्वरूपद्वयमप्युत। तस्मान्न हन्तु शक्योऽसौ केनचिज्जीव आत्मवान्। तस्मात् स्वजीवनार्थाय न परद्रोहमाचरेत्।


Page 352


हन्यते चाज्ञभावेन परेषां द्रोहमाचरन्' इति तन्त्रभागवते॥ ‘परः स्वो हरिरुद्धामा इति नामचतुष्टयम्। विष्णोर्गुह्यं तु यो वेद सर्वपापैः प्रमुच्यते इति प्रकाशिकायाम्॥ ‘स्वतन्त्रत्वात् सुखत्वाचस्वनामा विष्णुरुच्यते” इति पाझे॥43 , 44॥



-


अग्नेर्यथा दारुवियोगयोगयोस्कृष्टतोऽन्यन्न निमित्तमस्ति।


एवं हि जन्तरपिं दुर्विभाव्यः शरीरसंयोगविंयोगहेतुः ॥51॥ कुण्डादिस्थानेदरुयोगादौ स्वतः प्रवृत्त्यभावात्। 'यथा कुण्डस्थितस्याग्नेर्दैवाद्दारूपसंनमेत्। देहयोगो वियोगश्च तथा दैवान्न चान्यथा' इति वामने॥51॥


॥ इति दशमस्कन्धतात्पर्ये प्रथमोऽध्यायः ॥ 10 - 1 ॥


| ॥तृतीयोऽध्यायः ॥ 10 - 3 ॥


भगवानपि विश्वात्मा भक्तानामभयङ्करः।।


आविवेशांशभागेन मन आनकदुन्दुभेः॥17॥


ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी।


धार सर्वात्मकमात्मभूतं काष्ठा यथाऽऽन्दकरं नभस्तः ॥19॥ ‘आविश्य पितरं विष्णुः स्वरूपेणैव मातरम्। विडम्बनार्थं लोकस्य निर्जनिश्चाप्यथाविशत्।


Page 353


आनन्दमात्रदेहेन जातवत् सम्प्रदृश्यते' इति च॥19॥ ब्रह्मभका उचतुः -


सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये। सत्यस्य सत्यमुत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥17॥ ‘सच्छब्ध उत्तमं ब्रूयादानन्दं तीति वै वदेत्। येति ज्ञानं समुद्दिष्टं पूर्णानन्दतृशिस्ततः। सत्यशब्दोदिता तादृग्रूपं नित्यं यतो हरेः। सत्यव्रतस्ततो विष्णुः सद्भूतत्रयमुच्यते। त्यं तदन्यत् समुद्दिष्टं तत्परत्वात् तु तत्परः। वेदमुख्यार्थरूपत्वात् त्रिसत्यो भगवान् हरिः। सत्यस्य चोत्तमानन्दज्ञानदातृत्वतः सदा। सत्यस्य सत्यो भगवान् सत्यस्थो जगति स्थितः। जगन्नेतृत्वतः सत्यनेता विष्णुः प्रकीर्तितः। अत्तृत्वाच्च तदादानात् सत्यात्मा चोच्यते विभुः इति तन्त्रभागवते॥27॥ एकायनोऽसौं द्विफलत्रिमूलश्चतूरसः पञ्चशिफः फ्डात्मा। सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखग ह्यादिवृक्षः ॥28॥ ‘जगवृक्षाश्रया ह्येषा प्रकृतिस्तुगुणत्रयम्। मूलं मात्राः शिफास्तस्य उत्पित्सुत्वादिकास्तथा। षट् प्रकारास्तु विटपा देवगन्धर्वदानवाः।


Page 354


राक्षसाश्च पिशाचाश्च तिर्यङ्मानुषतस्थुषः। इन्द्रियाण्यस्य पत्राणि द्वारो द्वारो नव स्मृताः। प्रवृत्तं च निवृत्तं च फलद्वयमुदीरितम्। धर्मादयस्त्वत्र रसा मोक्ष एकफलस्य च। प्रवृत्ताश्चनिवृत्ताश्च पक्षिणो द्विविधा मताः। कारणस्य सदा सत्वात् प्रवाहेण च सन्नसौ। न कदाचिन्न भूतोऽसौ न चैव न भविष्यति। स्वतो वा परतो वाऽपि सन्नतोऽसौ जगत्तरुः। अस्य सर्गादिकृद्विष्णुः सदानन्दैकरूपकः' इति च॥28॥


बिभर्षि रूपाण्यवबोध आत्मन् क्षेमाय लोकस्य चराचरस्य।


सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् ॥30॥ ‘सदा सर्वगुणाढ्यत्वात् सत्ववान् हरिरुच्यते। न तु सत्वगुणात्मत्वाद्यतस्त्रिगुणवर्जितः' इति नारदीये॥


त्वय्यम्बुजाक्षाखिलसत्वधानिं समाधिनाऽऽवेशितचेतसो ये। त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥31॥



स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः । भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सदनुग्रहो भवान्। ‘भगवत्पादपोतोऽसौ नान्यपोतसमो भवेत्।


Page 355


सन्निधायैव शिष्येषु तदेव प्राप्नुयादतः' इति वामने॥ भगतपादनौकाया नेयं नौकोपमा भवेत् तया तीर्वा तु तामेव प्राप्य तिष्ठन्ति तत्र यत्' इति ब्राह्मे॥


अतस्तामेव याताः॥32॥


सत्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयउपानयं वपुः। वेदक्रियायोगतपःसमाधिभिस्तवार्हणं येन जनः समीहते ॥35॥ विशुद्धसत्त्वब्रह्मादेः शरीरे संस्थितो हरिः।


तेषामादेशमार्गेण वेदाचैरर्चयन्ति तम् इति भागवततन्त्रे॥35॥ सत्वं न चेद्धातरिंदं निजं भवेद्विज्ञानमज्ञानभिदापमार्जनम्। गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वाऽमुणः ।। ‘सत्वं ब्रह्मादिदेहाख्यं ज्ञानरूपं तमोनुदम्। यदि न स्यात् तदा सत्वप्रकाशानुमितो विभुः। यदि न स्यात् परो विष्णुः कथं विद्वज्जना अमुम्। अर्चयन्तीति तत्त्वस्य जिज्ञासुभिरधोक्षजः। कथं ज्ञायेत कस्यापि निर्गुणत्वात् परो विभुः इति तन्त्र भागवते॥36॥


न नामरूपे गुणकर्मजन्मभिर्निरूपितव्ये तव तस्य साक्षिणः। मनोवचोभ्यामनुमेयवनो देवक्रियायाः प्रतिंयन्त्यथापि हि ॥ 37 ॥ लोकसिद्धार्थनाम्नः स राहित्यान्नामवर्जितः।


Page 356


अरूपोऽप्राकृतत्वाच्च सत्वाभावात् तथाऽगुणः। अकर्माऽक्लिष्टकारित्वान्नित्यत्वादज एव च। अलौकिकार्थसन्नाम्नामनन्तत्वाज्जनार्दनः। अन्तन्तनाम परमः सुसुखज्ञानरूपवान्। तानि चास्य सुदिव्यानि सुगन्धीनि शुभानि च। शुभलक्षणपूर्णानि सुवर्णानि महान्ति च।। यदतोऽनन्तरूपोऽसौ पूर्णानन्दादिभोजनात्। बलैश्वर्यसुवीर्यादिपूर्णासङ्ख्यगुणत्वतः। अनन्तगुण एखासौ ते चाभिन्नागुणा हरेः। परस्परमभिन्नाश्च सर्वे धर्माश्च तद्गताः।


अभिन्नानि च रूपाणि सर्वाणि जगदीशतुः। प्राकृतस्य तु नामादेरीक्षिता पुरुषोत्तमः। अनामादिवचोभिस्तु स एषोऽर्थोऽनुमीयते। अनामत्वादि चान्यच्च ज्ञानिनां मनसेड्यते। तेनैव चोह्य एषोर्थस्तस्माज्ज्ञेय इति प्रभुः' इति ब्रह्मतर्के॥ देवक्रियायाः प्रतियन्ति। भगवत्प्रेरणादेव जानन्ति। 'नामरूपादि विष्णोस्तु न शक्यं ज्ञातुमञ्जसा। तथाऽपि तत्प्रसादेन जानन्ति परमर्षयः' इति पाझे॥37॥


शृण्वन् गृणन् संस्मयंश्च चिन्तयन्नामानि रूपाणि च मङ्गलानिं ते। क्रियासु यस्त्वचरणारविन्दयोसविष्टचित्तो न भवाय कल्पते ॥38॥


Page 357


यस्मान्नामरूपादयः सन्ति तस्माच्छृण्वन् गृणन्। क्रियासु क्रियमाणासु प्रेरकत्वेन पूज्यत्वेन च। ‘सर्वक्रियासु कर्तृत्वपूज्यत्वेन जनार्दनम्।


यो वेत्ति नैति संसारं तत्प्रसादान्नसंशयः' इति क्रियायोगे॥38॥


दिष्ट्या हरेऽस्या भवतः पदो ध्रुव भारोऽपनीतस्तव जन्मनेशितुः । दिष्ट्याऽङ्कितां त्वत्पदकैः सुशोभनैर्दक्ष्याम मां द्यां च तवानुकम्पिताम् ॥ 39॥ ‘खं नाभिश्चरणौ क्षितिः' इति भवतः पदो भुवः।


पादाद्याश्रयणाद्विष्णोः पृथिव्यादि पदादिकम्। तज्जत्वाद्वाऽथ सादृश्याद्यथा नुर्भूमिगं पदम्' इति ब्रह्मतर्के॥39॥


न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे। भवो निरोधः स्थितिस्प्यविद्यया कुता यतस्त्वय्यभवाश्रयात्मनि ॥ 40॥ ‘अज्ञानादेव मन्यन्ते विष्णोर्जनिमृती नराः। स्थितिरूपस्य चान्यस्मात् स्थितिं मोक्षाश्रयस्य हि। स्वेच्छया हि जनिं भङ्ग स्थितिं चासौ करोत्यजः। सर्वस्य जगतो यस्मात् तज्जन्मादिः कुतो भवेत्' इति च॥40॥


॥ इति दशमस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥ 10 -3 ॥


॥चतुर्थोऽध्यायः ॥ 10 - 4॥


स एव स्वप्रकृत्येदं सृष्ट्वा यत् त्रिगुणात्मकम्। तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥14॥ ‘बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः।


Page 358


प्रविष्ट इव तत्रैव पूर्णरूपत्वतो विभुः। अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा। बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः' इति च॥14॥


य एतेऽविकृता भावाः सप्त ते विकृतैः सह। नानावीर्याः पृथग्भूता विराजं शयनं तव ॥15॥


सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव। प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ 16॥ ‘महदादिस्त्वविकृत ईषद्विकृतरूपतः' इति च ॥


अनुगता इव प्रविष्टा इव। पूर्वोक्तिवद्वहिरपि विद्यमानत्वात्। अन्तश्च देवतानामविभक्तशक्तित्वात् पूर्वोत्पन्नत्वात् तत्वानामण्डप्रवेशमात्रम्। व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते। अण्डजो ब्रह्मेत्यादि। ‘महदूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे।।


अण्डे त्वेषामभिव्यक्तिर्जनिरित्युपचर्यते' इति च॥15, 16॥


एवं भवान् बुद्यनुमेयलक्षणो ग्रालैर्गुणैः सन्नपि तद्भुणाग्रहः। अनावृतत्वाद्वहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥17॥ ग्राह्यगुणविषयबुद्ध्यनुमेयलक्षणः। ग्राह्यगुणेष्वस्वातन्त्र्यात् तज्ज्ञापकोऽन्योऽस्तीति ज्ञायते। ‘ज्ञाताऽपि सर्वबावानां ज्ञायते ज्ञानलिङ्गतः। जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः। सर्वत्राव्यवधानेन द्रष्टत्वात् सर्ववस्तुनः।


आन्तरं बाह्यमित्येवं विशेषो नास्ति कश्चन' इति तन्त्रभागवते।


Page 359


जीवस्थग्रहणशक्तिरपि तस्येत्यपिशब्दः। एवं शरीरमुत्पाद्य ज्ञायसे। सर्वस्य - पूर्णस्य। 'सर्वः सम्पूर्णसामर्थ्यात् सर्वात्ता सर्वभक्षणात्।


अनन्याश्रयतश्चाऽत्मवस्तुत्वमभिधीयते' इति च। आत्मन्येव वासादात्मवस्तु॥17॥


यदात्मनो दृश्यगुणेषु सन्निधेवस्यसेऽस्वब्यतिरेकतोऽबुधैः। विनाऽनुवादं न च तन्मनीषितं सम्यग्वच ब्यक्तमुपाददत्पुमान् ॥18॥


परमात्मनोऽपि शरीरे सन्निधानादेवबुधैरस्वव्यतिरेकेण ज्ञायसे। यथानुकूलवादं वेदवचनं विना प्रवर्तनान्न तन्मनीषितम् सम्यक् । ‘अभीदमेकमेको अस्मि निष्पाळभी द्वा किमु त्रयः करन्ति। खले न पर्षान् प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः इति जीवेशभेदे व्यक्तं हि वचः पुमान् परमपुरुष उपाददे। ‘प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः। मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत्। वेदवादविरोधित्वादनुयाता तमो विशेत्। यतः पर्यङ्कशयन आह विष्णुः सनातनः। इदं जगत्सर्वमथेशानि भूरीणि वा मामभियान्तु सङ्ख्ये। धान्यानि यद्वत्खलगानि मर्त्यः सञ्चूर्णयिष्याम्यहमेक एख’ इति ब्रह्माण्डे। चेति फलतोऽपि तमो यान्तीति। ‘ऐकात्म्यज्ञानतो यान्ति तमो भेदात् परं पदम्। स्वातन्त्र्यपारतन्त्र्यदिज्ञानं भेददृशिर्भवेत्' इति ब्रह्मवैवर्ते॥18॥


Page 360


त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात्। त्वयीश्वरे ब्रह्मणि नौ विरुध्यते तदाश्रयत्वादुप्चर्यसे गुणैः ॥19॥ ‘अनीहोऽक्लिष्टकारित्वात् तथाऽविकृत एव सन्। सर्वं करोति तद्युक्तमैश्वर्यात् पूर्णशक्तितः' इति ब्राह्मे। अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वादिति।। ‘अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात्। ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यते’इत्याग्नेये॥19॥


स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः। सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्ण तमसा जनात्यये ।। 20 ॥ ‘जगतां वर्धयन् सत्वं यदा रक्षति केशवः। हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः। वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः। तद्रक्तं जामदग्न्यादिरूपं येन विनाशयेत्। वर्धय॑स्तु तमो लोके तत् कृष्णं यादवादिकम्। सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः। ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता। रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते। असतां तु तमोवृद्धिं कुर्वन् पातयते यदा। सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः।


Page 361


ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम्। तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम्। आचार्यादिषु रागाथै शुद्धसत्वात्मकं रजः। यतो व्यपेक्षितं नाशे तमसोऽपि तमः परम्। तमो द्वेषात्मकं शुद्धसत्वात्मकमुदीर्यते। एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः।


शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः। सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः। ज्ञानादिरक्षको विष्णुर्जामदग्न्यादिरूपकः।। ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः। एकरूपोऽपि भगवान्बहुरूप इवेयते। अचिन्त्यैश्वर्यरूपत्वात् पूर्णानन्दैकरूपकः' इति ब्रह्मतर्के। ‘स्वेच्छयैव गुणान् विष्णुर्नामरूपान् करोत्यजः। गुणानामाश्रयत्वात् तु भवेत् स गुणबृंहित' इति तन्त्रसारे॥20॥ त्वमस्य लोकस्य विभो रिंरक्षिषुगृहेऽवतीर्णोऽसि ममाखिलेश्वर। राजन्यसंज्ञासुरकोटियूथपैर्नियूह्यमानां निहनिष्यसे चमूम् ॥21॥ ‘सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः। यावच्चासुरदुःखं स्यात् तावद्देवसुखं भवेत्। तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम्। यावत् क्षीणं तमस्तावत् प्रकाशस्य तु वर्धनम्।


Page 362


सर्वस्माच्च कलेःपीडा ब्रह्मणोऽभ्यधिकं सुखम्। तस्मात् सतां रक्षणाय सर्वकर्म हरेः स्मृतम्' इति ब्रह्मतकै॥21॥


देवक्युवाच -


रूपं यत्तत् प्राहुव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकास्म्। सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपम् ॥24॥ ‘सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः। सत्तामात्रमतः प्राहुर्निर्विशेषोऽखिलोत्तमः। अनादरान्निरीहश्च सेहः सर्वकृती यतः' इति तन्त्र भागवते॥ यस्य तद्रूपं सत्वम्। ‘सप्तसु प्रथमा' इति सूत्रात्॥24॥


नष्टे लोके द्विपरार्धावसाने महाभूतेष्यादिभूतं गतेषु। व्यक्तेऽव्यक्तं कालवेगेन याते भवानीकः शिष्यतेऽशेषसंज्ञः ॥25॥ अशेषसंज्ञः - सर्वनामा॥25॥


योऽयं कालस्तस्य तेऽव्यक्तबन्ध चेष्टामाहुश्चेष्टते येन विश्वम्। निमेषादिवत्सरान्तो महीयस्तं त्वेशानं क्षेमधाम प्रपद्ये ॥


चेष्टते अनेनेति चेष्टा॥26॥


॥ इति दशमस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥ 10 - 4॥


॥पञ्चमोऽध्यायः ।। 10 -5॥


मा शोचेथां महाभागावात्मजान् स्वकृतं भुजः। जन्तवो न सबैकत्र दैवाधीनाः सहासते ॥18॥


Page 363


‘पूतनाकंसनरकशिशुपालादिषु द्विधा।


जीवाः सन्तस्त्वसन्तश्च तत्र बन्ध्वादिरूपिणः। विष्णोः सन्त इति ज्ञेया असन्तः शत्रुरूपिणः।


शभुजीवप्रकाशेन कदाजिच्छुभबुद्धयः। विपर्ययेऽन्यथा च स्युः शुभास्तत्र हरि ययुः।


असुराश्च तमो घोरं यदि तत्रैव मध्यमाः। मध्यमां गतिमेवापुरेकदेहगता अपि' इति गारुडे॥18॥


|


भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च। नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥19॥


1-


यतोऽनेकविंदोऽभेदो यत आत्मविपर्ययः। देहयोगवियोगश्च संसृतिर्नतु वास्तविं ॥20॥


तस्माद्भद्रे स्वतनयान्मया व्यापादितानपि। माऽनुशौच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥21॥


अयमात्मा - परमात्मा॥ यतः परमात्मनोऽनेकविधमैक्यं विपरीतज्ञानेन। यतश्च संसृतिर्न निवर्तते। स एव न विपर्येति। पुत्रादिकं विपर्येति तस्मात् तस्मिन्नेव स्थितिं कृत्वा माऽनुशोच। 'अहं ब्रह्मास्मि देवोऽस्मि नास्मि केवलमानुषः। जातोऽस्मि वर्धे धनवान् म्रिय इत्यादिका सदा। देहादिषु च देवेषु परे ब्रह्मणि चाभिदा।


Page 364


मोहाद्यन्मायया नित्यं दृश्यतेऽधममध्यमे। स ईशो न विपर्येति सर्वेशत्वात् कदाचन। प्रतादिकं विपर्येति पित्रादिश्च यतो भवेत्' इति ब्राह्म॥ 'तल्लक्षणैर्विहीनः सन् बह्मदेवोऽस्मि चेति तु।


असुराः प्रतिपद्यन्त जन्मादीन् मानुषा जनाः' इति च ॥ ‘परब्रह्मण एकस्य ब्रह्मास्मीति विचिन्तनम्।


परब्रह्मेति रामादिलक्ष्मणैरवधारयेत्। देवोऽस्मीति च देवानां तच्चज्ञेयं स्वलक्षणैः। मर्यानां मानुषोऽस्मीति प्रतिपत्तिर्विधीयते।


अन्यथाप्रतिपत्या तु तमो यान्ति विनिश्चयात्। अन्यथाप्रतिपद्यन्ते असुरा नियतं जनाः। घोरं तमश्चते यान्ति यथा ज्ञानात् परं सुराः' इति च॥19-21॥


एवमेतन्महाराज यथा वदसि देहिनाम्।


आज्ञानप्रभवा हन्ति स्वपति भिंदा यतः ॥26॥


शोकहर्षभयद्वेषलोभमोहमदान्विताः । मिथो भ्रन्ति न पश्यन्ति भावैर्भावान् पृथग्दृशः ॥27॥ देहिनामज्ञानप्रभवा यातनाः स्वपरेति भिदा हन्ति। देवोऽहं मानुषो वेति विशेषं तत्र चापि तु। तथैव परामात्मानं विशेषं ब्रह्मजीवयोः।


Page 365


सम्यग्भेदेन य पश्येत् स हन्त्यज्ञानसम्भवाः। यातनाः परमात्मानं तत्प्रसादाच्च गच्छति' इति ब्रह्माण्डे॥ “गवद्दर्शनाद्यस्य विरोधाद्धर्शनं पृथक्। पृथगदृष्टिः स विज्ञेयो नतु सद्वेददर्शनः' इति च भवष्यत्पुराणे॥ ‘स्वरूपभेदो हि परजीवयोर्जीवगो मिथः। परस्परेण वस्तुनां विशेषथः शास्त्रदर्शितः। सद्भेदोऽयं समुद्दिष्टस्त्वसद्वेदं य मे श्रुणु। स्वरूपाणां गुणानां च विष्णोर्भेदः परस्परात्। सर्वस्य विष्ण्वतन्त्रत्वं शत्रुमित्रादिभेदिता। यच्चान्यच्छास्त्रविद्विष्टमसद्वेदः श ईरितः। सद्वेददर्शनानन्मोभस्त्वसद्भेदात् तमो व्रजेत्। सद्भदादर्शनाच्चैव तमो मोक्षस्तथेतरात्' इति च॥26, 27॥


॥ इति शमस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥ 16 - 5॥


॥एकादशोऽध्यायः ॥ 10 - 11॥


कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः।


व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्रह्मणा विदुः ॥29॥


‘रूप्यत्वात् तु जगदूपं विष्णोः साक्षात् सुखात्मकम्। नित्य पूर्ण समुद्दिष्टं स्वरूपं परमात्मनः' इति वामने॥29॥


Page 366


त्वमेकः सर्वभूतानां देह आत्मेन्द्रियेश्वरः। त्वमेव कालो भगवान् विष्णुव्यय ईश्वरः ॥30॥


देहे। ‘विष्णुः सर्वगणोद्रेकात् काल इत्यभिधीयते' इति च ॥30॥


त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्वतमोमयी। त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकासवित्॥31॥ ‘प्रकृत्यादेस्तद्वशत्वात् प्रकृत्यादिरुदीर्यते। यथा राजा भृत्यकृतात् स्वयं कर्तेत्युदीर्यते। यथा देहं स्वतन्त्रत्वात् स्वयमित्याहुरञ्जसा' इति पाझे॥31॥


गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः।


को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंस्थितेः ॥32॥ स्वात्मना गृह्यमाणः॥32॥


तस्मै तुभ्यं भगवते वासुदेवाय वेधसे।


आत्मद्योतैर्गुणैश्छन्नमहिने ब्रह्मणे नमः ॥33॥


यस्यावतारा ज्ञायन्ते शरीरेष्यशरीरिणः। तैस्तैरतुल्यातिशयैस्तिर्यग्यनिष्यसङ्गतैः ॥34॥


छन्नोऽन्येषां न तु स्वस्य भगवान् पुरुषोत्तमः॥ ‘तस्यावतारा देहस्था अदेहस्था इति द्विधा।


Page 367


अन्तर्याम्यादिरूपाणि देहस्थानि विदो विदुः। मत्स्यकूर्मादिरूपाणि न देहस्थानि हृत्पतेः। अन्यातुल्यैरतिशयैर्मनसो नियमादिभिः। ज्ञायन्ते तानि रूपाणि नित्यपूर्णानि सर्वशः इति महाकौमैं॥33, 34॥


s:


॥ इति दशमस्कन्धतात्पर्ये एकादशोऽध्यायः ॥ 10 - 11 ॥


यः ॥ 10 --- 14॥


नापमल्या उचुः -


अनुग्रहोऽयं भवता कृतो हि नो दण्डोऽसतां ते खलु कल्मषापः। यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव संमतः ।। 34॥ ‘दण्डोऽपि भगवच्चीर्णो ममैषोऽनुग्रहः कृतः। इति भक्त्या चिन्तयतां सुखकारी भवत्यलम्। तत्रापि कुर्वतां द्वेषं तमः प्राप्त्यै तथा भवेत्' इति च॥34॥


न नाकपृष्ठं न च पास्मेष्ट्यं न सार्वभौमं न स्साधिपत्यम्। न योगसिद्धीस्पुनर्भवं वा वाञ्छन्ति त्वत्पादजःप्रपन्नाः ॥ 37॥ ‘अपुनर्भवमात्रात् तु हरिसामीप्यमुत्तमम्।


तत्रापि स्पर्शयोग्यत्वं यथा वेदविदो विदुः' इति पाझे॥37॥


नमस्तुभ्यं भगवते पुरुषाय महात्मने। भूतावासाय भूताय फ्राय परमात्मने ॥39॥


Page 368


भूताय - सर्वदा विद्यमानाय॥39॥


ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये। अगुणायाविकाराय नमस्तेऽप्राकृताय च ।। 40॥


अप्राकृताय॥40॥


कालाय कालनाभाय कालाक्यवसाक्षिणे।


विश्वाय तदुपद्रष्टे तत्कउँ विश्वहेतवे ॥41 ॥


कालनाभाय - कालाश्रयाय।


‘विश्वस्य तदधीनत्वाद्विश्वं विष्णुरुदीर्यते। मूलहेतत्वतो हेतुः कर्ता प्रातिस्विकं कृतेः' इत्याग्नेये॥41॥


नमो गुणप्रदीपाय गुणात्मस्थोदयाय च। गुणप्रत्युपलक्ष्याय गुणद्दष्टे स्वसंविदे॥46॥ गुणप्रदीपाय - गुणज्ञापकाय। गुणात्मस्थोदयाय। गुणात्मिको प्रकृतिः तस्यां स्थित उदयस्वरूपो हरिः॥46॥


परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः।


अविश्वाय च विश्वाय तद्दष्टे विश्वहेतवे। 48॥ अविश्वाय - जीवेभ्योऽन्यस्मै। ‘शरीरेषु प्रविष्टत्वाद्विश्वो जीव उदीर्यते। जीवस्य तदधीनत्वाद्विश्वो विष्णुरिति स्मृतः। तस्योत्पत्त्यादिहेतुत्वाद्विश्वहेतुश्च कीर्त्यते इति मात्स्ये॥48॥


Page 369


त्वं ह्यस्य जन्मस्थितिसंयमान् विभो गुणैरनीहोऽकृत कालशक्तिधृक् । तस्मात्स्वभावात्प्रतिबोधयस्व नः समीक्षयाऽमोघविहार ईहसे॥49 ॥ ‘हरेः सर्वरूपशक्तिर्या कालशक्तिरुदीर्यते। सदा सर्वगुणात्मत्वादुर्गा वाऽप्यवरा ततः। सर्वसंहारकारित्वाद्वायुः सर्वस्य जीवनात्। कालाभिमानिनौ त्वेतौ दुर्गा वायुश्चकीर्तितौ ॥ इति प्रकाशसंहितायाम्॥49॥ तस्यैव तेऽमूस्तनवत्रिलोक्यां शान्ता अशान्ता उत मृढयोनयः। शान्ताः प्रिंयास्ते ह्यधुनाऽवितुः सतां स्थातुश्च ते कर्मपरिप्सयेहतः ॥ ‘अन्तःप्रियं बहिश्चेति द्विधा प्रियमुदाहृतम्।।


अन्तःप्रिया हरेः सन्तः सर्वं चापि हरेः प्रियम्। असन्तश्चापि संहार ईषदन्तः प्रिया इव। तदपेक्षया तथा सन्तो विशेषान्तः प्रियाः स्तिताः। इति षाड्ण्ये ‘सुखान्तं प्राप्नुयुर्यस्माद्देवाः शान्ता उदाहृताः।


अशान्ता मानुषाः प्रोक्ताविमूढा असुरा मताः। इति प्रकाशिकायाम्॥ कर्मपरीप्सया - कर्मप्रवर्तनार्थम्। सर्वशरीरेषु स्थातुः। ईहतः प्राणस्य सकाशात्। प्राणसकाशाद्धि कर्म प्रवर्तनमिच्छति भगवान्। ‘वायोः सकाशाज्जगतः प्रवृत्तिं कामयत्यजः। प्राणप्राणमतः प्राहुर्विष्णुं वायोरपि प्रभुम्' इति च॥50॥


Page 370


त्वया सृष्टमिदं विश्व धातुर्गुणविसर्जनम्। नानास्वभाववीर्योंजोयोनिबीजाशयाकुतिं ॥57 ॥ धातुर्गुणविसर्जनम्। हिरण्यगर्भसकाशाद्णभूता सृष्टिरस्य जगतः। प्राधान्येन विष्णोरेव। ‘विष्णुः प्रधानतः स्रष्टा गुणस्रष्टा चतुर्मुखः' इति नारदीये॥57॥


इतिं दशमस्कन्धतात्पर्ये चतुर्दशोऽध्यायः ॥ 10 -14॥


॥पञ्चदशोऽध्यायः ॥ 10 -15॥


अत्र प्रविश्य गरुको यदि मत्स्यान् स खादति। सद्यः प्राणैर्वियुज्येत सत्यमेतद्भवीम्यहम् ॥11॥ 'विष्णुना विष्णुभक्तैश्चब्रह्मशापोऽनुवर्त्यते। ब्राह्मणानामपीडायै बलिभिः क्षत्रियादिभिः। विष्णोश्च विष्णुभक्तानां शापाद्वैति तपोऽखिलम्। तथाऽपि चासुरावेशाच्छपेयुर्हरिमप्यहो। अतस्तुसौभरेः शापं नात्यवर्तत् खगेश्वरः। अन्यथा तूत्तमानां हि नाधमैः शाप इष्यते। वरोऽपि दत्तस्त्वधिकैर्नाधमाधिक्यकारणम्। विष्णोरपि वरस्तस्मान्नाधिक्यं सम्प्रयच्छति। क्रमशः श्रीविरिञ्चादेः कथञ्चित् केनचित् क्वचित्।। न च दद्याद्धरिस्तादृग्दत्तं वा बाह्यमेव तु' इति ब्रह्माण्डे॥12॥


॥ इति दशमस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥ 10 - 15॥


Page 371


॥ जेङशोऽध्यायः ॥ 10 - 16॥


उवाह कृष्ण भगवान् श्रीदामानं पराजितः। वृषभं भद्रसेनस्तु प्रलम्भो रोहिणीसुतम् ॥23॥ श्रीदामा कृष्णमुवा है। हरिवंशादिवचनात्। ‘बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः। कार्योऽनिरुक्तदेवानां गुणसिद्ध्यै न चान्यथा। विष्णुर्ब्रह्म तथा वायुरनिरुक्ताः प्रकीर्तिताः। तत्पत्त्यश्चेतरगुणा व्यत्यस्यास्तेष्वसंशयः' इति ब्रह्मतकै॥23॥


॥ इतिं दशमस्कन्धतात्पर्ये षोडशोऽध्यायः ॥ 10 - 16॥


यः ॥ 1 -- 19॥


गोप्यः किंमाचस्यं कुशलं स्म वेणुर्दामोदराधरसुधारसनाग्यमेयम्। भुङ्गे स्वयं यदवशिष्टरसौघमागैर्हष्यत्त्वचऽश्रु मुमुचुस्तस्वः सदर्भाः ॥ ‘श्रीदेवी वेणुमाविश्य रेमे कृष्णमुखाम्बुजे। पपौ च तद्गतं गीतं सुरा इतरभाण्डगाः' इति तन्त्रभागवते॥10॥


॥ इति दशमस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥ 16 - 19॥


यः ॥ TU - 22 ॥


|


"


अस्ति चीदीश्वरः कश्चित् फलरूपः स कर्मणः। कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥14॥


Page 372


फलरूपः स कर्मण इत्यद्यवान्तरेश्वरविषयम्। स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते। स्वभवस्थमिदं सर्वं सदेवासुरमानुषम्॥16॥ ‘स्वभावे कर्मणि च यः सत्वादिषु गुणेषु च। स्थितो विष्णुः सर्वकर्ता पृथक्संस्थश्च सर्वगः। गुणकर्मस्वभावादिशब्दवाच्यश्च केशवः। तेन जातं फलं यस्मात् कर्मणः फलमीर्यते। न चासौ कर्मफलवान्नास्य किञ्चिन्न शक्यते। तदन्यावान्तरेशानां तद्वशत्वं यतः सदा। कर्मणः फलरूपत्वमतस्तेषां विधीयते। नान्यकर्मवशत्वं तु तेषां विष्णु विना क्वचित्। स च ब्राह्मणगिर्यादिनामा विष्णुरजः परः॥16॥


तस्मात् सुपूजयेत्कर्म स्वभावस्थः स्वकर्मकृत्। अञ्जसा येन वर्तेत तदेवास्य हि दैवतम्॥18॥ एतस्मात्कारणात्कृष्णः शक्रस्य विमदाय तु। गिर्यादिस्थितमात्मानं पूजयामासबल्लवैः॥18॥ श्रीशुक उवाच - अकालात्मना भगक्ता शक्रर्पजिघांसया। प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥31॥


Page 373


‘अत्यल्पस्त्वसुरावेशो देवानां च भविष्यति। प्राणमेकं विनाऽसौ हि आखणाश्मसमः स्मृतः। तस्मिन्नप्यसुरावेशे गते प्रकृतिरेव तु' इति तन्त्र भागवते॥31॥


4.


॥ इति दशमस्कन्धतात्पर्ये द्वाविंशोऽध्यायः ॥ 10 - 22॥


॥पञ्चविंशोऽध्यायः ॥ 18 - 25॥


इन्द्र उवाच -


विशुद्धसत्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम्। मायामयोऽयं मुणसंप्रवाह न विद्यते तेऽग्रहणानुबन्धः । विशुद्धसत्वम् - विगतशुद्धसत्वं। यस्मात् त्रिगुणसम्बन्धस्त्वयि न विद्यते। यत्राग्रहणमनुबन्धः। तपोमयम् - ज्ञानात्मकम्॥4॥


कुतो नु तद्धेतव ईश मन्युलोभायो येऽबुधलिंङ्गभावाः। अथापिं दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यैखलनिग्रहाय ॥5॥ पुनर्गुणसम्प्रवाहस्य कारणत्वात्तद्धेतवः॥5॥ ।


ये मद्विधाः स्युर्जगदीशमानिनस्त्वां वीक्ष्य कालेऽभयमाशु तं मदम्। हिंत्वाऽऽर्यमा प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम् ॥7॥ ‘असतां च सतां चैव हरिरेवानुशासकः। सतां तु श्रेयसे सैव ह्यनुशास्तिर्भविष्यति। असतां विपरीताय लङ्घयित्वाऽनुशासनम्' इत्याग्नेये॥7॥


स्वच्छन्दैनात्तदेहाय विशुद्धज्ञानमूर्तये।


Page 374


सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः॥11॥


‘आवेशो वसुदेवादौ देहादानं हरेः स्मृतम्। देहादानं तदन्येषां जन्मेति कवयो विदुः। तथाऽप्यसुरमोहाय ग्रन्थेषु बहुधैव तु' इति पाझे॥11॥


॥ इति दशमस्कन्धतात्पर्ये पञ्चविंशोऽध्यायः ॥ 10 - 25॥


॥ सप्तविंशोऽध्यायः ॥ 10 - 27॥


तमेव परमात्मानं जारबुड्या ऽपि सङ्गताः।


जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः॥11॥ राजोवाच - कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने।


गुणप्रवाहोपरमस्तासां गुणधियां कथम्॥12॥ श्री शुक उवाच - उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः। द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रिंयाः ॥13॥ ‘कृष्णकामास्तदा गोप्यस्त्यक्त्वा देहं दिवं गताः। सम्यक् कृष्णं परब्रह्मज्ञात्वा कालात् परं ययुः। पूर्वं च ज्ञानसंयुक्तास्तत्रापि प्रायशस्तथा। अतस्तासां परं ब्रह्मगतिरासीन्न कामतः। न तु ज्ञानमृते मोक्षो “नान्यः पन्था” इति श्रुतेः।


Page 375


कामयुक्ता तदा भक्तिर्ज्ञानं जातो विमुक्तिगाः। अतोमोक्षेऽपि तासां च कामो भक्त्याऽनुवर्तते। अतोदकत्वेन सदा द्वेषिणामधरं तमः। मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेषभागिनः। भक्तिभागी पृथङ् मुक्तिमगाद्विष्णुप्रसादतः।


कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत्। द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत्। अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणात्' इति स्कान्दे॥ जगत्प्रपितामहे जारबुद्धिर्न युक्ता तथापि। ब्रह्मतया न सम्यक् । ‘प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा।


रमाया दत्तक्षणम्' इति वचनात्॥13॥


नृणां निःश्रेयसार्थाय व्यक्तिर्भगक्तो नृप।


अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ 14 ॥


कामं क्रोधं भयं स्नेहं मैत्री सौहृदमेव वा।। नित्यं हरौं विदधत यान्ति तन्मयतां हि ते॥15॥


कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीति तन्मयता। 'विमुक्तावपि कामिन्यो विष्णुकामा व्रजस्त्रियः। द्वेषिणश्च हरौ नित्यं द्वेषेण तमसि स्थिताः' इति च। ‘भक्या हि नित्यकामित्वं न तु मुक्तिं विना भवेत्।


Page 376


अतः कामितया वाऽपि मुक्तिर्भक्तिमतां हरौ। स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरःस्त्रियः। काश्चित् काश्चिन्न कामेन भक्त्या केवलयैव तु। मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचित्' इति पाझे।


‘भक्त्यावा कामभक्त्या वा मोक्षो नान्येन केनचित्। कामभक्त्याऽप्सरःस्त्रीणामन्येषां नैवकामतः। उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः। जारत्वेनाप्सरःस्त्रीणां कासांचिदिति योग्यता। योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति। अयोग्योपासनाकर्तुरनर्थश्च भविष्यति। तस्मात्तुयोग्यतां ज्ञात्वाहरेः कार्यमुपासनम् ॥ इति भद्रिकायाम्। ‘पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च। पितामहतयाऽन्येषां त्रिदशानां जनार्दनः। प्रपितामहो मे भगवानिति सर्वजन्यस्य तु। गुरुः श्रीर्ब्रह्मणोविष्णुः सुराणां च गुरोर्गुरुः। मूलभूतो गुरुः सर्वजनानां पुरुषोत्तमः। गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः। इत्येवोपासनं कार्यं नान्यथा तु कथञ्चन' इति वाराहे॥15॥


॥ इति दशमस्कन्धतात्पर्ये सप्तविंशोऽध्यायः ॥ 10 - 22॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 377


॥त्रयस्तिंशोऽध्यायः ॥ 10 - 33॥


मदविंचूर्णितलोचन ईषन्मानदः स्वसुहृदां क्नमाली। बदरपाण्डुवदनो मृदुमण्डं मण्ड्यन् कनककुण्डललक्ष्या ॥24॥ ‘मानवो बदरः सिन्धुः शशिनस्तुत्रिनामकम्।


यो वेद मुच्यते रोगैर्विष्णुनानेव संस्कृतेः' इति स्कान्दे॥


॥ इतिं दशमस्कन्धतात्पर्ये त्रयस्त्रिंशोऽध्यायः ॥ 10 - 33॥


॥पञ्चत्रिंशोऽध्यायः ॥ 10 - 35॥


'


'



1



त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम्। क्रीडार्थमाद्यन्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥24॥ ‘आदिनो राक्षसाः प्रोक्तास्तदन्तत्वाज्जनार्दनः।


आद्यन्त इति विज्ञेयः परेशो ब्रह्मणीशनात्' इति ब्राह्मे॥24॥


॥ इति दशमस्कन्धतात्पर्ये पञ्चत्रिंशोऽध्यायः ॥ 10 - 35॥


॥षत्रिंशोऽध्यायः ॥ 10 - 36 ॥


य ईक्षिताऽहंरहितोऽप्यसत्सतः स्वतेजसाऽपास्ततमोभिदाभ्रमः। स्वमायायऽऽत्मन् रचितेषु तत्सन्प्राणादिभिर्जन्तुषु भाति चित्रधा॥11॥ तत्सन् - तथैव सन्॥11॥


यस्याखिलामीवभिः सुमङ्गलैर्वाचो विमिश्रा मुणकर्मजन्मभिः।


Page 378


प्राणन्ति शुम्भन्ति पुनन्ति वै जगद्यास्तद्विरक्ताः स्युरशोभना मताः ॥12॥ शुम्भन्ति - शोभयन्ति। ‘शुम्भनं शोभनं शुम्भं शुभपर्यायवाचकाः' इति च ॥12॥


पदानि तस्याखिललोकपालकिरीटचूडामणिपादरेणोः। ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यजयवाङ्कशायैः॥24॥


-


=


प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती।


अवतीर्णी जगत्यर्थे स्वांशेन बलकेशवौ ॥30॥ 'वैन्यपार्थबलेशादावाविष्टं पुरुषोत्तमम्। अपेक्ष्य तद्गुणाः सर्वे तज्जीवानामभाविनः। अप्युच्यन्ते पुराणेषु विशेषात् सन्निधिर्यतः' इति माहात्म्ये॥30॥


॥ इति दशमस्कन्धतात्पर्ये फ्छु त्रिंशोऽध्यायः ॥ 10 - 36॥


॥ अष्टत्रिंशोऽध्यायः ॥ 10 - 38॥


भूस्तोयमग्निः पवनः खमादिर्महानजादिर्मन इन्द्रियाणि। सर्वेन्द्रियार्थी विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ तवाङ्गेभ्यो भूताः॥3॥


नृते स्वरूपं दुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः। अजऽनुद्धः स गुणैजाया गुणात्परं वेद न ते स्वरूपम् ॥ 4 ॥ अन्यात्मतया गृहीताः। मत्तोऽन्ये जीवात्मान एत इति भगवता गृहीताः।


Page 379


‘अहं परो हि मद्भिन्ना जीवात्मानोऽल्पशक्तयः। मद्वशाः सर्वे एवेति ब्रह्मादीन् मन्यते हरिः' इति स्कान्दे॥ ‘यथा हरिः स्वमात्मानं वेद तद्वद्रमाऽपि न। ब्रह्मा च कुत एखान्ये विदन्त्येनमथापि तु' इति माहात्म्ये॥4॥


त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम्। साध्यात्म साधिभूतं च साधिदैवं च साधवः ॥5॥ ‘स्थितो ब्रह्मादिदेवेषु साधिभूतेषु चेश्वरः। आत्मशब्दोदितनरेष्वपि यस्माजनार्दनः। साध्यात्मः साधिभूतश्च साधिदैवेति चोच्यते' इत्यध्यात्मे॥5॥ त्रय्या च विद्यया केचिंत्त्वां वै वैतानिका द्विजाः। यजन्ते विततैर्यशैर्नानारूपामराख्यया ॥6॥ ‘सर्वदेवेष्वपि हरिः सर्वदेवनियामकः। नामवान् सर्वदेवानां सर्वपूजां तथाऽत्त्यसौ' इति च॥6॥


तुभ्यं नमस्तेऽस्त्व विक्क्तदृष्ट्ये सर्वात्मने सर्वधियां च साक्षिणे। गुणप्रवाहोऽयमविद्यया सकृत्प्रवर्तते देव नृतिर्यमाल्मसु ॥13॥ अविद्यया - भगवदिच्छया॥13॥


अग्निर्मुखं तेऽवनिरङ्गिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः। यौः कं सुरेन्द्रास्तव बाहोऽर्णवः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥14॥


Page 380


त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीक्सङ्काः। यथा जले सञ्जिहते जलौकसोऽप्युदुम्बरे का मशका मनोमये ॥16॥ त्वयैव प्रकल्पिताः। ‘विष्णोरङ्गसमुद्भुतेऽर्विष्णोरङ्गानि देवताः। उच्यन्ते सर्ववेदेषु स्वरूपाद्भदिनोऽपि च' इति च॥ 14,16॥


यानि यानीहरूपाणि क्रीडनार्थं बिभर्ष हि। तैसमृष्टशुचो लोका मुदा गायन्ति ते यशः ।। 17॥ ‘भृतामेव बिभर्तीशो ह्यवतारतनुं सदा। बिभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षया' इति तत्त्वनिर्णये॥17॥


नमस्ते वासुदेवाय नमः सङ्कर्षणाय च। प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः॥22॥ ‘प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः। सन्निधानं विशेषेण करोति जगतां पतिः।


तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः। पाराशर्यश्च भगवान् स्वयमेव जनार्दनः' इति च ॥ 'तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा।


औपचारिकनामानि तदन्येषामिति स्थितिः' इति शब्दनिर्णये॥22॥


॥इति दशमस्कन्धतात्पर्ये अष्टत्रिंशोऽध्यायः ॥ T@ - 38॥


॥त्रिचत्वारिंशोऽध्यायः ॥ 16 - 43॥


Page 381


तत् क्षन्तुमर्हथस्तात मातनँ परतन्त्रयोः। अकुर्वतो शुश्रूषां क्लिष्टयोहँदोर्भुषम् ॥9॥ 'सर्वोत्तमोऽपि भगवान् गुणाभावं जनार्दनः। दर्शयेद्वसुदेवादेरात्मनो जीवतामपि।


अज्ञाशक्त्यादिभावस्तुकुतस्तस्याखिलेशितुः। कुतो दोषाः सर्वगुणपूर्णस्यानन्दवारिधेः' इति वामने॥9॥


॥ इतिं दशमस्कन्धतात्पर्ये त्रिचत्वारिंशोऽध्यायः ॥ 10 - 43 ॥


मायः ॥ 10 - 52॥


दृष्ट्वा परमसन्तुष्टौ रामकृष्ण जगत्पती। प्रणामं चक्रतुर्वीरौ यथान्यायमतन्द्रित। इदं चौवाच भगवान् कृष्णस्तं मुनिपुङ्गवम् ॥21॥ ‘सर्वावताराभिन्नोऽपि सर्वशक्तिरपि स्वयम्। पूज्यपूजकनीचोच्चं मोहनाय दुरात्मनाम्। अखण्डैकरसो विष्णुर्दर्शयेत् तत्र तत्र हि' इति षाड्ण्ये॥21॥


॥ इतिं दशमस्कन्धतात्पर्ये द्विपञ्चाशत्तमोऽध्यायः ॥ 10 - 52॥


यः ॥ 10 - 53॥


|


एतस्मिन्नेव काले तु क्षीरोदे सागरोत्तमे। निवासे देवदेवस्य शङ्खचक्रगदाभृतः ॥7॥


Page 382


|


उपासीनो महाबाहुः श्रीमान् वैरोचनो बलिः। जहार देवदेवस्य किरीटं रत्नचित्रितम्॥8॥ ‘बहूनि स्थानजातानि कृष्णस्य क्षीरसागरे। कानिचिन्मुक्तगम्यानि नामुक्तैस्त्रिदशैरपि। गन्तुं शक्यान्यथान्यानि गम्यान्यन्यैरपि क्वचित्। तत्र देवाश्च योगीन्द्रा भक्ताश्चान्ये जनार्दनम्। गत्वाऽर्चयन्ति देवेशं बलिस्तत्रागमत् क्वचित्। तस्य तत्रासुरावेशात् पापबुद्धिरजायत। तब्यक्त्यर्थं जगन्नाथः शिष्ये सुप्तवदव्ययः। तदा स पापया बुद्ध्या किरीटमहरद्विभोः। तं जित्वा गरुडस्तत् तु हृत्वा गोमन्तमात्रजत्। तत्र कृष्णस्य शिरसि किरीटममुचत् प्रबोः' इति मात्स्ये॥8॥


हिरण्यगर्भत्वमुपेत्य मूले सृजस्यशेषं भुवनं स एव। नारायणात्मन्परिंपासि भूयो जहार चान्ते भगवन् शिवात्मना । 15॥ ‘ब्रह्मस्थो ब्रह्मनामाऽसौ रुद्रस्थो रुद्रनामकः। तयोरपि नियन्तैकः स्वयमेव जनार्दनः' इति स्कान्दे॥15॥


॥ इति दशमस्कन्धतात्पर्ये त्रिपञ्चाशत्तमोऽध्यायः ॥ 10 - 53॥


॥ एकसप्ततिरध्यायः ॥ 10 - 71 ॥


सत्यभामोवाच


Page 383


यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमाटुंमुपाजहार। जित्वर्द्धराजमथ रत्नमदास तेन नीतच्छिदादिशत मां प्रभवेऽपि दत्ताम् ॥9॥ नीतच्छित् - भगवत्प्राप्तभेदः॥9॥


॥ इति दशमस्कन्धतात्पर्ये एकसप्ततिरध्यायः ॥ 10 - 71 ॥


॥ द्विसप्ततिरध्यायः ॥ 10 - 72॥


न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधवः ।।11।


नाग्निर्न सूर्यो न च चन्द्रतारकं न भूर्जलं खं श्वसनोऽथ वाङ् मनः । उपासिता भेदकृत हरन्त्यधं विपश्चित म्नन्ति मुहूर्तसेक्या ।। 12॥


यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु बौम इज्यधीः । यत्तीर्थबुद्धिश्च जले न कहिँचिजनेष्यभिज्ञेषु स एव खरः ।। 13॥ अम्मयाद्यभिमानिनो देवाः उरुकालेनैव पुनन्ति। गुरूपदेशं प्रापयित्वा। भेदकृतः - अन्यथाज्ञानिनः। विपश्चितस्तु प्रत्यक्षदर्शनादन्यथाज्ञानमेवापगमयन्ति। ‘प्राकृतैर्दृश्यमानं तु न द्रवं तीर्थमुच्यते। देवाश्च न शिलामात्राः किन्तु तत्रान्तरस्थिताः। गुरूपदेशं तु विना न ते दृश्याः कथञ्चन। न ज्ञायते च तद्रूपमन्यथाज्ञानिनां च ते। कोपाच्छापं प्रयच्छन्ति तस्माद्रुमुपाव्रजेत्। तस्मात् तीर्थानि देवाश्च नित्यं विद्वत्सु संस्थिताः' इति गारुडे॥


Page 384


‘भिन्नस्याभेदतो दृष्टिरपि भेददृशिर्मता। वस्तुयाथात्म्यतस्तस्य भिन्नत्वादिति सूरिभिः।


अन्यथाज्ञानमेवातो भेदज्ञानं विनिन्दितम्। न विद्यमानभेदस्य दर्शनं निन्दितं क्वचित्। शिला देवा इति ज्ञानं देवोऽस्मीति तु या दृशिः। उत्तमस्याधमत्वेन नीचस्योद्यतया दृशिः। असमस्य समत्वेन समस्यासमदर्शनम्। द्रवं तीर्थमिति ज्ञानं देहोऽहमिति या मतिः। असद्भार्यादिषु स्वीयदर्शनं चैवमादिकम्। भेदज्ञानमिति प्रोक्तं या चान्याऽप्यन्यथामतिः। तस्मात् तदपहानाय संसेव्या गुरवो वराः। तत्रस्था देवताः सर्वाः प्रीयन्ते गुरुपूजया। नैवान्यथैषां प्रीतिः स्याद्रूक्तिमपहाय तु। तस्मात् पूजा विशेषेण सतां कार्या नृणां सदा। भक्तिस्तु तारतम्येन विशिष्टे त्वधिका भवेत्' इति स्कान्दे॥ ‘उत्तमा अपि देवेशा अवरान् विदुषो नृणाम्। पूजायै सम्प्रयच्छन्ति परोक्षत्वप्रिया यतः। तेषु स्थित्वा स्वयं पूजां गृह्णन्त्यनुपमां सदा। ज्ञानानि च प्रयच्छन्ति तस्मादेवंविदा सदा। पूजिताः स्युः सुरवराः सब्रह्माणः सकेशवाः' इति वामने॥11-13॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 385


ब्रह्मते हृदयं शुक्लं तपः स्वाध्यायसंयमैः।। यत्रोंपलब्धं सुव्यक्तमव्यक्तं च ततः परम् ॥19॥ हृदयं - प्रियं हृद्ययनात्॥19॥


॥ इतिं दशमस्कन्धतात्पर्ये द्विसप्ततिरध्यायः ॥ 10 - 72 ॥


॥पञ्चसप्ततिरध्यायः ॥ 10 - 75॥ रुग्मिण्युवाच - नन्वेतदेवमरविन्दविलोचनाह यद्वै भवान्न भक्तः सदृशो विभूमः। क्व स्वे महिंम्यभिस्तो भगवांख्यधीशः क्वाहं गुणप्रकृतिरन्यगृहीतपादा ॥38॥ भवानेव भवतः सदृशः न परः॥38॥


सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा। योऽनित्यकेन्द्रियगुणैः कृतविग्रहस्त्वं त्वत्सेक्यो नृपपदं विधुतं तमोऽन्धम् ॥ नृपपदं नृपशब्दवाच्यमात्रम्। न तु मुख्यतो नृपालकत्वम्। अन्धन्तमः प्रति विधुतम्॥39॥


त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्म स्फुटं नृपशुभिर्ननु बुर्विभाव्यम्। यस्मादलौकिकमिवेहितमीश्वरस्य भूमंस्तवेहिंतमथो अनु मे भवन्ति ॥ 40 ॥ तवेहितमनु मे इंहितानि भवन्ति॥40॥


निष्किञ्चनो ननु भवान्न यतोऽस्ति किञ्चिद्यस्मै बलिंबलिंभुजोऽपिंहरन्त्यजाद्याः। न त्वा विदन्त्यसुतृपोऽन्तिकमाढ्यतान्धाः प्रेष्ठः सतां बलिंभुजामपि योऽन्तरास्ते॥


यतः किन्चिन्मात्रं नास्ति किन्तु सर्वमेवास्ति॥41॥


Page 386


त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम्। तेषां विभो समुदितो भवतः प्रसाद- स्वय्यां च यश्च तयोः सुखदुःखिनोर्न॥42॥ फलात्मा सुखात्मा। अत एव पुरुषैरर्थ्यस्वरूपः। तेषां भवतश्च समुदितः समो गुणो नास्ति। यश्च कोऽपि। त्रय्यां रतयोः। वेदोक्तकर्तृत्वेन सुमतीनां त्रयीरतत्वम्। प्रतिपाद्यत्वेन भवतः। सुखदुःखिनोः। केवलं परिपूर्णसुखो भवान्। भगवज्ज्ञानपर्यन्तं दुःखिनस्ते। ‘अल्पसम्पूर्णशक्तित्वादल्पपूर्णगुणत्वतः।।


अल्पसम्पूर्णदर्शित्वान्न साम्यं जीवकृष्णयोः' इति ब्रह्माण्डे॥ त्रय्यां चेति चशब्दः स्मृतिष्वपीति॥42॥


त्वं न्यस्तदण्ड मुनिभिर्गदितानुभाव आत्मात्मदश्च जगतामिति मे वृतोऽसि । हिंत्वा भवद्भवदुदीरितकालगन्धध्वस्ताशिषोऽजभवानाकपतीन्


कुतोऽन्यान्॥43॥


अजः - ब्रह्मा। ‘सोऽय एव पुरुषं समुद्धृत्यामूच्र्छयत्' इति श्रुतिः। ‘अद्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ इति च ।। 43॥


का स्त्री वृणीत तव पादसरोजगन्धमाघ्राय सन्मुखरितं जनतापवर्गम्। लक्ष्म्यालयं त्वविगणय्य गुणालयाढ्यं मयशिषोरुभयमर्थविविक्तदृष्टिः ॥ 46॥ सन्मुखरितं सद्भिः प्रधानीकृतम्। मशिषोरुभयं जनं प्रति अर्थोऽयमिति विविक्तदृष्टिः। कामरूपं त्वामविगणय्य॥46॥


Page 387


तं त्वाऽनुरूपमभजं जगतामधीशमात्मानमत्र च पस्त्र च कामरूपम्।


स्यान्मे तवाङ्घिशरणं श्रुतिभिभ्रंमत्या ये वै भजन्ति उत यान्त्यनुतापवर्गम् ॥ भ्रमतिरन्नं यस्याः सा भ्रमती तस्याः भ्रमत्याः विपरीतज्ञानिनां भक्षकाया इत्यर्थः श्रुतिभिः श्रुतिप्रमाणेन। ‘अभ्रमा भ्रमतामत्री या देवैरपि गम्यते। तस्यै नमोऽस्तु ते देव्यै विष्णुवक्षःस्थलाश्रये’इति च नारदीये॥47॥


कस्याः स्युच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिंडालभृत्याः । यत्कर्णमूलमस्किर्शन नोफ्यायाद्युष्मत्कथा मृङविञ्चिसभासु गीता ॥48॥ खरगोऽश्वबिडालवत् स्त्रीणां भृत्याः॥48॥


त्वक् श्मश्रुमनखकेशपिनमन्तर्मासास्थिरतकृमिविद्भरितान्त्रवीतम्। जीवच्छवं भजति काममतिर्विमूढ़ा या ते पदाऊजमकरन्दमजिघ्रती स्त्री ॥49॥ ‘आनन्दस्मश्रुरानन्दकेश आपादनखात् सर्व एवानन्दः।


स एष विष्णुरजोऽमृतोऽचलो ब्रह्म य एवमेवं वेद। आनन्द एव स भवत्यानन्दस्य सार्टितां सलोकतां सायुज्यमाप्नोति' इति माध्यन्दिनायनश्रुतिः॥49॥


अस्त्यम्बुजाक्ष मम ते चरणानुराम आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः। यर्खस्य वृद्धय उपात्तरजोऽतिमात्र मामीक्षसे तदु ह नः परमानुकम्पा ॥ अनतिरिक्तदृष्टेः भक्त्यनुसार्यनुग्रहस्य। ‘य एष देवः परोऽजरोऽमरस्तं वा एनतमाहुर्भाक्त इति। भक्त्या हि सोऽनुगृह्णाति। भक्त्यै वेदं वृणुते श्रियं विरिञ्चं रुद्रं इन्द्रमा - पिपीलिकम्। नाभक्तं वृणुते नाभक्तमनुगृह्णाति। यावान् वाव स


Page 388


भक्तस्तावच्छेष वृणुते तावड्येषोऽनुगृह्णाति। नाधिकं वृणुते नाधिकमनुगृह्णाति। नावरं वृणुते नावरमनुगृह्णाति। अथातो भक्तिमीमांसा भवति। युवा स्यात् साधुयुवाऽध्यायकः। आशिष्ठो द्रढिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा वित्तेन पूर्णा स्यात्। स एको मानुषो भक्तो भवति। ते ये शतं मानुषा भक्ता एतावान्मानुषो गन्धर्वः। ते ये शतं मानुषा गन्धर्वा एतावान् देवगन्धर्वः। ते ये शतं देवगन्धर्वा एतावांश्चिरलोकः पैतृकः। ते ये शतं चिरलोकाः पैतृकाः। एतावांश्चिरलोको दैविकः। ते ये शतं चिरलोका दैविकाः। एतावत्यतात्त्विकदेवता। ते ये शतमतात्विक्यो देवताः। एतावती तात्विकदेवता। ता याः शतं तात्विक्यो देवताः। एतावान् पुरुहूतः। ते ये शतं पूरुहूताः। एतावान् वाव रुद्रः ये ते शतं रुद्राः। एतावान् वाव विरिञ्चस्ते ये शतं विरिञ्चाः। एतावती श्रीभक्त्या भवति। तद्यावती वाव भक्तिस्तावज्ज्ञानं भवति। यावद्वाव तज्ज्ञानं तावदानन्दो मौक्तिकोऽथैष एव परमानन्दो योऽसौ हरिर्विश्वो विनोदोऽपनोदः संस्कारको विकारकोऽधिकारक एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति पौत्रायणश्रुतिः॥


‘मिलितौ वा एतौ भगवतो यदनुग्रहश्च भक्तिश्च यो वाऽनुग्रही स भक्तो यो भक्तः सोऽनुग्रही। यो वाऽनुगृहीतो ब्रह्मणा स भक्तो यो भक्तस्तं वा ब्रह्माऽनुगृह्णाति यावान् वै ब्रह्मणोऽनुग्रहस्तावती भक्तिर्यावती भक्तिस्तावान्वै ब्रह्मणोऽनुग्रहः। प्रकृतौ वै ब्रह्मणोऽनुग्रहः परमस्तदवरो वाव महति तदवरो वा रुद्रे तदवरः पुरूहूते। अथ देवर्षिपितृषु मनुष्येषु' इति धर्मश्रुतिः॥ तस्यामेव रजस उद्रेचनादुपात्तरजोऽतिमात्रत्वम् - ‘अथ त्रिगुणा ह्येव प्रकृतिरगुणो वाव विष्णुः स यदा अरजा राजोऽस्या उद्वर्धयत्येषा वाव सृष्टिः। स यदा ह्यसत्वः सत्वमुद्वर्धयत्येषा वाव स्थितिः। स यदा ह्यतमास्तमोऽस्या उद्वर्धयत्येषा वाव लयो नैनमेते गुणा अब्युपस्पृषन्ति। नैषा एतान् गुणानभ्युपस्पृशत्यगुणो ह्येष भवति।'


अत्रैष श्लोको भवति। ‘अगुणस्य गुणादानां प्रकृतेर्गुणवर्धनम्। न कदाचिद्णैरेष स्पृश्यते परमो हि सः' इति चाक्रायणश्रुतिः ॥51॥


Page 389


नैवालीकं भवत्येव क्चस्ते मधुसूदन।


अम्बाया झ्व हि प्रायः कन्यावादतिः क्वचित् ॥51 ॥ मातुः कन्याप्रदानवादे रतिर्यथा नालीकं भवति प्रायः तथा ते वचः क्वचिदपि नालीकं भवत्येव॥51॥


मुग्धायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम्। बुधोऽसत न बिंभूयात् तां बिभ्रदुभयच्युतः ॥ 52॥ यामसतीं बुधो न बिभृयात्। यां च तां बिभ्रदृष्टादृष्टच्युतो भवति। तस्या अपि पुंश्चचल्यास्त्वयी मनो नवं नवमभ्येति। ‘अमुग्धैव तु मुग्धेव त्वदुःखा दुःखितेव च। श्रीर्दर्शयेद्धरिश्चैव नैवैतौ मोहदुःखिनौ। मिथोऽपि तादृग्वचनमाकारं चैव लीलया। दर्शयन्तौ नृणां मोहं कुर्यास्तां शास्त्रदर्शनात्’


इति कापिलेययोगे॥52॥


॥ इति शमस्कन्धतात्पर्ये पञ्चसप्ततिरध्यायः ॥ 10 - 75॥


॥फ्ट् सप्ततिरध्यायः ॥ 10 - 76॥


रामा गृहे विहरतः पुरतः कराभ्यां बढेक्षणाः स्वयितस्य मुदा हसन्त्यः। मात्रान्तराण्यपि दधुर्निजपूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ॥6॥


गात्रान्तराण्यप्यपिदधुः। पिधातव्येभ्योऽन्यान्यपि। येषां पिधानेन क्लेशो भवत्यात्मनः। निजभर्तुरप्यपिदधुः। निर्लज्जा इत्यकामो भवत्यसाविति भयात्॥6॥


Page 390


निहते रुग्मिणी श्याले नाब्रवीत् साध्वसाधु वा। रुग्मिणीबलयो राजन् स्नेहभङ्गभयाद्धरिः ॥50॥ ‘न स्नेहभङ्गो देव्यास्तु न भयं केशवस्य च। स्नेहभीत इवाथापि लोचे रुग्मिवधे हरिः' इति ब्रह्माण्डे॥50॥


॥ इति दशमस्कन्धतात्पर्ये षट् सप्ततितमोऽध्यायः ॥ 10 - 26 ॥


| ॥अशीतितमोऽध्यायः ॥ 10 - 80 ।।



श्रुत्वाऽजितं जरासन्धं नृपतेयतो हरिः।


आहोपायं तमेवाद्य उद्ध्वो यमुवाच ह॥15॥ अजितं जरासन्धं भगवत एव श्रुत्वा। तथाहि सभापर्वणि पश्चाद्दिग्विजयोक्तेः। ‘पूर्वाः कथाः परं ब्रूयुः पराः पूर्वं तथैव च। मोहनार्थाय दुष्टानां सर्वं व्यत्यास इष्यते। विस्तारे तु यदुक्तं स्यात् तद्भाह्यमविरोधतः।


सङ्खपोक्तविरोधे तु गुणोक्तिश्च सतां यथा' इति शब्दनिर्णये। ‘जरासन्धं निहत्यैव पाण्डवैश्चदिशो जिताः। प्रसादाद्वासुदेवस्य राजसूयः क्रतुः कृतः' इति मात्स्ये॥15॥


॥इति दशमस्कन्धतात्पर्ये अशीतितमोऽध्यायः ॥ 10 - 80 ॥


॥ फ्ङशीतितमोऽध्यायः ॥ 10 - 86॥



-


ततो मुहूर्तात्प्रकृतावुपस्थितस्तत्रानुतिष्ठत्स्वजनानुसङ्गतः। महानुभावस्तदबुध्यतासुरीं मायां स साल्वप्रकृतां मयोदिताम् ॥39 ॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 391


‘जानन् साल्वकृतां मायामजानन्निव केशवः।


अन्ववर्तत किञ्चित् तु ततस्तामहरद्विभुः। एवमेव तु सर्वत्र परमात्मा सनातनः। विद्धत्वगुधिरस्रावी कथञ्चिदजयत् परम्। इत्यादि दर्शयेद्विष्णुर्मोहयन् मायाया जगत्। चिदानन्दघनस्यास्य कुतो वेधादि सद्गतेः' इति ब्रह्माण्डे॥ ‘यदचरस्तन्वावावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु। मायेत्साते यानि युद्धान्याहुर्नाद्या शत्रु ननु पुरा विवित्से' इत्याद्या च श्रुतिः ॥39॥


॥ इति दशमस्कन्धतात्पर्ये षडशीतितमोऽध्यायः॥ 10 - 86॥


॥चतुर्नवतितमोऽध्यायः ॥ 10 - 94॥



तुल्यश्रुततपशीलास्तुल्यस्वीयारिमध्यमाः। अपि चक्रुः प्रवचनमेकं शुश्रूषवऽपरे॥11॥ ‘सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारकः।


मरुतश्च समाः सर्वे सप्ततेषु प्रधानकाः इति ऋक्संहितायाम्॥11॥ सनन्दन उवाच - स्वसृष्टमिंदमापीय शयानं सह शक्तिभिः। तदन्ते बोधयाञ्चकुस्तलिंङ्गैः श्रुतयः परम् ॥12॥


Page 392


‘श्रीभूमिरिति रूपाभ्यां प्रकृतिर्विष्णुना सह। शेते श्रुतिस्वरूपेण स्तौति ब्रह्मलये हरिम्। एकाऽप्यनन्तरूपा सा वाक्यभेदात् सरस्वती। अनादिनिधना नित्या स्तौति नारायणं प्रभुम्' इति ज्योतिसंहितायाम्॥ 'सर्वदा जयतो विष्णोर्जयस्तस्य प्रकाशनम्। श्रवणं दृष्टिरित्यादि प्रार्थ्य तज्ज्ञापनं स्मृतम्। श्रुणोति पश्यति ह्येष जयतीत्यादिकं स्वतः। जय पश्य श्रुणुश्वेति तत्तज्ज्ञापनमेव तु' इति विमलसंहितायाम्॥ श्रीभूदुर्गेति या भिन्ना प्रकृतिः शक्तिरुच्यते। विष्णोःस्वरूपशक्तेः सा शक्यत्वाच्छक्तिरेव तु। नित्याव्यवहितत्वात् तु विशेषाच्छक्तिनामिका।


यथैव पङ्कजं ब्रह्मारुद्र इत्यादिकं पदम्। ताभिः शयानं पुरुषं सैव तु श्रुतिरूपिणी। अस्तौत् प्रकाशयात्मानं प्रकृतिं जीवबन्धनाम्। जहि दोषैर्यथा सर्वे गुणा जीवस्य संवृताः' इति तन्त्रभागवते॥ ‘श्रीः परा प्रकृतिः प्रोक्ता ब्रह्माणि त्ववरा ततः। उमाशचीमुखास्तस्या अवराः सम्प्रकीर्तिताः।


अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते। स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा।


Page 393


स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः। व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तमः। अजे द्वे अपि ते प्रोक्ते अनन्ताऽऽच्छादिनी हरेः। न विष्णुं छादयत्येषा तज्ज्ञानं छादयेत् परम्। जीवस्यैव न तत्रापि ब्रह्मादेरस्ति सा क्वचित्। सर्वावरे ते प्रकृती सततं दुःखितेऽपि च। पिशाचवत् समुद्दिष्टे पुरुषस्याधिकारिणः। प्रेरकास्तु तयोर्दैव्य इन्दिराद्याः सुखात्मिकाः इति महातत्त्वविवेके॥12॥ यथा शयानं सम्राजं बन्दिनस्तत्पराक्रमैः। प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः॥13॥ ‘राजवज्जयशब्दाद्या नित्यबुद्धस्य बोधनम्। विडम्बमात्रं कैवास्य निद्रा विद्यापतेर्हरेः' इति कापिलेये॥13॥


शृतय ऊचुः -


|


जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः अज जगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥14॥ दोषैर्दुखाद्यै आनन्दाद्या जीवगुणा गृहीता यया सा दोषगृहीतगुणा। त्वमसि यदात्मनासमवरुद्धसमस्तभगः। यस्मात्त्वं स्वत एवानपगतपूर्णेश्वर्यादिगुणोऽसि। अतस्त्वदाभासस्य जीवस्य प्रकृतिगृहीतत्वादेव नैश्वर्याद्या गुणा अवभासन्ते। जगदोकसां


Page 394


श्रीब्रह्मादीनामप्यखिलशक्त्यवभोदक। क्वचित् सृष्टिकाले आत्मना जीवेन प्रकृत्या च प्रवर्ततस्ते अनुचरेद्वेदो विधिनिषेधरूपेण। अन्यदा स्तुतिमात्रो नतु जीवानां प्रयोजकः। तस्मात् सृष्टिं कृत्वावेदैर्जीवान् बोधयित्वा तत्स्थामजां जहि। ‘जय जय हन हन प्रकृतिं द्रावय द्रावय भिन्धि भिन्धि दुःखं तमो रतिम्। अचित परम रमेशान वासुदेव वैकुण्ठ नारायण हृषीकेशानया हि जीवगुणा विसंवृता अधिसंवृताः। एष ह्यानन्दोऽजरोऽमरोऽधि शक्तिमांस्त्वदाभासस्त्वया तथादिसम्भाव्यो यतः परः परमेश्वरः परज्ञानः परानन्दः परशक्तिः परश्रीः परयशाः परप्रवृत्तिनिर्त्यमेव त्वं स्वतोऽसि त्वं रमायास्त्वं विरिञ्चस्य रुद्रेन्द्रसूर्यसोममुषानामदभ्रशक्तिदोऽसि प्रवर्तकोऽसि निवर्तकोऽसि अजोऽस्यनन्तोऽसि सृजतो हि ते श्रुतयोऽनुवर्तन्ते नैवासृजतः। कं वा विदधते कं वा निषेधन्ति स्तुतिमात्रा एव ते स्युः प्रभो विभो समास्वव्यास्वोत्तिष्ठ प्रचर विचर सन्धिनु सन्धिनु मा हि ते क्षणोऽत्यागान्माते क्षणोऽत्यागात्' इति शाण्डिल्यश्रुतिः॥ ‘लयस्य त्वष्टमो भागः सृष्टिकाल उदाहृतः। तत्रैव वेदसञ्चारो ह्यन्यदा स्तुतिमात्रकाः' इति नारदीये। सृष्टिकाल एव गुणवृत्तयः। सर्वदा निर्गुणे परमेश्वर एव वर्तन्ते श्रुतय इति 'कथं चरन्ति श्रुतयः इत्यस्य परिहारः। यत्प्राप्त्यर्थं यन्नियमाद्विधिनिषेधा वर्तन्ते स त्वमित्यादि विधिनिषेधानां स्तुतिपरत्वम्।। ‘विध्यादीनां नियन्ता यः पूज्यः प्राप्यश्चतद्वताम्। इत्यादिस्तुतिरूपेण विध्यादिश्रुतयोऽपि तु। हरिं वदन्ति सर्वेषां तन्नामत्वादथापि च' इति श्रुतिनिर्णये। पृथक् श्रुतित्वान्न पूर्वापरसम्बन्धः। उपलक्षणत्वादनन्तत्वाच्छुतीनां सर्वश्रुत्यर्थोपबृंहितत्वाचैतेषां श्लोकानां न सर्वश्रुतीनां पृथगुक्तिः। ‘सर्वश्रुत्यर्थसम्पन्नान् श्लोकान् सत्यवतीसुतः। एकैकशाखास्तुत्यर्थान् जगौ सर्वोपलक्षणान्। बबन्ध तान् भागवते प्रतिश्लोकं पृथग् श्रुतीः।


Page 395


इति तन्त्रभागवते॥ (1)॥14॥ बृहदुपलब्धमेतदवशेषतया यत उद्गास्तमस्यविकृतेऽविकृतः। अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥15॥ अविकृततमोविषये त्वमुदगाः। मूलप्रकृतेरपि त्वमधिको यतः। अतो बृहत्त्वेन ते स्वरूपमुपलब्धम्। इत इदमधिकमितोऽपिदमधिकमिति सर्वाधिकत्वेन ततोऽधिकाभावेनावशेषितत्वेन। ‘द्वितीयार्थे तृतीयार्थे चतुर्ते च सप्तमी। पञ्चम्यर्थे च सम्प्रोक्ता विषयेति च तां विदुः' इति महाव्याकरणे। तमसोऽधिको भवानित्यर्थः। अतस्त्वं सर्वोत्तम इत्येतत्पराण्येव मनोवचनाचरितानि दधतां नायथा तानि भवन्ति। यथा भूमौ पदं निक्षिपामीति प्रवर्ततो भूमेर्नान्यत्र भवति। उदकवृक्षादेर्भूम्यन्तर्भावात्। ‘आधारशक्तियुक्तत्वाद्भूरुदं च प्रकीर्तितम्।।


साऽपि वाय्वन्तरङ्गैव स ह्याधारोऽखिलस्य हि' इति महासंहितायाम्।। अथ इति हेत्वर्थे तथेत्यर्थे च। तस्माद्ब्रहत्त्वेनादधुरिति। ‘अतः शब्दस्तु हेत्वर्थे तथेत्यर्थं च वर्तते। उभयार्थे च भवति यथा शब्दविदो विदुः' इति शब्दनिर्णये। उपलब्धं वेदेषु बृहद्धि दृष्टमवशेषितं यत् स्वरूपमीशस्य तमोऽधिकस्य। सर्वाधिकत्वेन तमो हि दुर्गा ततस्तथैनं विबुधा यथाऽगुः ॥ इत्यौद्धालकायनश्रुतिः।


अनिर्देश्यमप्येकदेशेन निर्दिष्टं भवतीत्युक्तं कथमयथाभवन्तीत्यनेन। यता सर्वां।


Page 396


भूमिमसञ्चरन्नप्येकदेशसञ्चारेण भूसञ्चारी भवति तथेति। ‘निरपेक्षबृहत्त्वस्य ज्ञानाज्ज्ञातं भवेत् परम्।


बृहत्त्वमेव तु गुणैः सर्वैरुद्दिश्यते यतः इति मान्यसंहितायाम्॥ (2)॥15॥ इति सूर्यख्यधिपतेऽखिललोकमलक्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः। किंमुत पुनः स्वधामविधुताशयकालगुणाः


परम भजन्ति ये पदमजस्रसुखानुभवम्॥16॥ अनन्याश्रयत्वात् स्वधामा परमः। तेन विधुता दुःखाद्या अशयगुणाः उत्पत्त्यादिकालगुणाश्च यैस्ते मुक्तास्तापान् जहुरिति किं पुनः। कथामृताब्धिमवगाह्यापि जहुरिति यदिति हेत्वर्थ इतिशब्दः। 'त्यजन्ति तापं य उ ते भवत्कथा इति स्म मुक्ताः किमु ते स्वरूपगाः। परावरेशेशपदं भजन्तः परं परानन्दमनारतं ते’ इति इन्द्रद्युम्नश्रुतिः॥(3)॥16॥ दृतय इवोच्छुसन्त्यसुहृदो यदि ते महदहमायोऽण्ड्मसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥17॥ चरमोत्तममध्यमादिषु पुरुषेषु यस्तव स्वरूपं प्रथयेत्। स पुरुषविधं त्वामन्वेति। ‘ब्रह्मैव मुक्तिगेष्वादिः सुरास्तदवरोत्तमाः। मध्यमा ऋषिगन्धर्वाश्चरमा मानुषोत्तमाः' इति प्रभावल्याम्॥ ‘असक्तो देहपुर्येष जीववद्देहगोऽपि यत्। अथवा पुंविधातृत्वात् पुंविधः पुरुषोत्तमः


Page 397


इति पुरुषोत्तमतन्त्रे॥ ‘अनिशमुच्छ्सन्त्यसुखोद्भरितास्तव रिपवो दृतिवत्तमसि प्रविष्टाः। तव गुणप्रथनः परिहाय तमः परियाति ते पदमजस्तमनन्तसुखम्' इति पैङ्गीश्रुतिः॥ (4)॥17॥


उदरमुपासते यर्हि क्र्मनि सूक्ष्मदृशः। परिसस्पद्धतिं हृदयमारुणयो दहम्। तत उदगाच नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥18॥ यर्हि यस्माद्ब्रह्मवर्मनि। सूक्ष्मदृशः - सूक्ष्मदृत्वात् शार्कराक्ष्यनामानः। प्राणं प्रत्युरुगृणीहीति वचनादुदरनामकं ब्रह्मोपासते। यस्माच्चारुणयो हृदयनाद्धृदयनामकम्। तस्मादेव तत्समुपेत्य न पतन्ति कृतान्तमुखे। इतरेऽपि परिसर प्राणः पद्धतिर्मार्गो यस्य स परिसरपद्धतिः। ‘कस्मिन्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि। कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति। स प्राणमसृजत इति श्रुतिः।। ‘प्राण एवैनमनुप्रविशति प्राणमितरा देवता न प्राणादपरः परमनुप्रविशति प्राण एवैनमनुभुङ्गे प्राणमितरा देवता न प्राणादपरः परमनुभुङ्गे प्राण एवैनमन्वानन्दी भवति। प्राणमितरा देवता न प्राणादपरः परमन्वानन्दी भवति तस्मादाहुः प्राणपद्धतिरिति' इति हिरण्यनाभश्रुतिः।


अतः परिसरस्य पद्धतिरिति वा। ततो हृदः। नन्दनपथा ब्रह्मनाडीद्वारा शिर उदगाद्यत्परमं ब्रह्म तत्समुपेत्य। पुनरिहैव हृदादिषु स्थितं यत्। ‘तं प्रपदाभ्यां प्रापद्यत ब्रह्ममं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्ममं पुरुषं तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते। शफाः खुरा इत्यन्येषां पशूनां तदूर्ध्वमुदसर्पत्ता ऊरु अभवतामुरुगृणीहीत्यब्रवीत् तदुरमभवदुर्दैव मे कुर्वित्यब्रवीत् तदुरोऽभवदुदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्माहैव ता ई ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत। यच्छिरोऽश्रयत तच्छिरोऽभवत् तच्छिरसः शिरस्त्वं ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः श्रयन्तेऽस्मिञ्छियो य एवमेतच्छिरसः शिरस्त्वं वेद' इत्याद्याश्रुतिः॥ 5)॥18॥


Page 398


स्वकृतविचित्रयोनिषु विषन्निव हेतुतया भरतमतश्चकास्स्यनलक्त् स्वकृतानुकुतिः।


अपि वितथास्वमूष्वविथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥19॥ विचित्रयोनिषु विशन् जीवः तद्वदज्ञानां चकास्सि। अनलो यथा। स्वकृतं दार्वादि तदपनयेन गच्छंस्तत्स्थापने तिष्ठन्ननुवर्तते। एवमेव स्वकृतशरीराद्यनुवर्तसे तद्गतः सन्। भरतमतो वायुज्ञातः। अन्यथा भवन्तीष्वपि योनिषु अनन्यथाभूत्वैव बहुविधं तिष्ठन्तं भवन्तं त्वत्समीपस्थ बुद्धयो महान्तस्तवाभिविपत्य मनसाऽधिगम्य मनसि त्वां नयन्ति। ‘रतत्वाद्धात्मके विष्णावथवाऽपि जगद्वृतेः।।


भरतो वायुरुद्भिष्टो भारती तत्सरस्वती' इति नामसंहितायाम्। ‘योनिवेश्याहृयो जीवस्त्वज्ञानां तद्वदेव तु। प्रकाशते परो देवस्तेन यान्त्यधरं तमः। सर्वहेतुतयैवेशं प्राणो जानाति तत्त्वतः। तेन चासौ परो देवस्तत्परं याति केशवम्। इन्धनानयने त्वग्निर्यथैवानीयते सह।। एवं देहगतो विष्णुः सह गच्छेन्निजेच्छया। अशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितम्। निचाय्य मनसा सन्तो जानन्ति निकटेच्छवः' इति तन्त्रभागवते॥


यो जीववद्योनिषु भात्यनन्तो मूढस्तमोगैर्भरताधिगम्यः।। निचाय्य तं शाश्वतमात्मसंस्थं तदिच्छवो त्मन्यदधुर्महान्तम्


इति कमठश्रुतिः॥ (6)॥19॥


Page 399


प्रक्रमक्त्स्व सत्कृतं पुरुषेषु धीषु तु बहिरन्तरसचरणे। तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥20॥ सर्वपुरुषेषु सर्वधीषु च स्थित्वा श्री ब्रह्मादिषु प्रकर्षेण क्रमेण स्वात्मनैव सत्कृतं अण्डाद्यन्तर्बहिश्च असच्चरणे पापाचारे स्थित्वा पापाचारमपि स्वात्मनः पूजात्वेनैव कारयन्तं त्वां वदन्ति। तस्याधोगत्यर्थम्। तस्मात् सर्वं तव स्वकृतमेव वदन्ति। ‘नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनां। न ऋते त्वत्क्रियते किञ्चनारे महामर्क मघवन् चित्रमर्च इत्याद्याश्रुतिः ‘श्रीब्रह्मरुद्रपूर्वेषु क्रमात् स्थित्वा जनार्दनः। स्वात्मानमर्चयत्यद्धा बहिरन्तरसत्सु च। असतामधमाचारो हरिदृष्ट्याऽऽत्मपूजनम्। तस्याधोगमनायेति श्रुतिराहाखिलक्रियम्' इति तन्त्रभागवते॥ स्वकृतमित्यनन्यापेक्षया॥ (7)॥20॥


इतिं विमृशन्ति कवयो निगमावफ्नं भजन्त उपासते भवमध्यविनिश्वसिताः।


दुरवगमात्मतत्वनिगमायतवाङ्मनस


श्चरितमहामृताद्भिपरिवर्तपरिश्रमणाः ॥ (8) ॥21॥ भवमध्यविनिश्वसिताः मुक्ताः इति यतोऽतो विमृशन्ति कवयो निगमावपनं त्वाम्। चरितमहामृताब्धिपरिवर्तपरिश्रमणा इति यदतो भवमध्याद् विनिःश्वसिताः मुक्ताः। निगमावपनं स्थानं त्वां विमृश्य यज्ञादिभिर्भजन्त उपासते। निगमविषये यतवाङ्मनसः। निगमानां ततो व्यक्तेस्तत एव फलप्रदत्वात् तद्विषयत्वाच्च निगमावपनम्। परिवर्तो मथनम्।


Page 400


‘विमथ्य वेदाब्धिमतिश्रमेण ज्ञात्वा परेशं मुनयो विमुक्ताः। मृशन्ति यज्ञैश्च जयन्ति नित्यं उपासते वेदफलप्रदं तम् इति कुशिकश्रुतिः॥ (8)॥21॥ न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोंजहंसकुलसङ्गविसृष्टगृहाः। त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवचरन्ति तथोन्मुखास्त्वयिं हि ते प्रिय आत्मनि च ॥22॥ त्वत्प्राप्त्यनुसारित्वाच्छरीरं प्रियवत् पश्यन्ति। सर्वप्रियतमे सर्वादानादिकर्तरि च त्वयि। तथाहि तेऽभिमुखाः। 'न किञ्चिदभिवाञ्छन्ति यतयः सुसदाश्रयाः। प्रेष्ठस्य परमस्याप्यैप्रियवद्देहदृष्टयः' इति विमदश्रुतिः॥ (9)॥22॥


न च रमन्त्यो असदुपासनयाऽऽत्महनों यदुनुशया भ्रमन्त्यभवाः कुशरीरभृतः। निंभूतमोक्षहृदययोंगयुजो हृदयं


मुनय उपासते तदस्योऽपि ययुः॥23॥


अन्यथोपासनयाऽऽत्महनोऽसुर्यान् नाम लोकान् नित्यनिरतिशयदुःखान् निरस्तसमस्तसुखान् प्राप्नुवन्ति। तदेतन्न च रमन्ति अनुभवन्ति च। नित्यदुःखममिति चशब्देनोक्तम्। असुर्यशब्देन च श्रुतौ सुष्ट्रमणरूपत्वादसुप्राप्यत्वाच्च। यत्रानुशयनं कुर्वन्तस्तमस्येव भ्रमन्ति। अभवा जन्मवर्जिताः। आत्महन इत्येषशब्दो भगवद्भक्तद्वेषिणामपि सम इति दर्शयति। निभृतमोक्षहृदययोगयुज इत्यादिना। ये मुनयो हृद्ययनं भगवन्तं निभृतमोक्षहृदयेन वायुना योगेन युक्ता नियमिताः सन्त उपासते तेषामरयोऽपि तदेव तमो ययुः। परिपूर्ण मोक्षार्थं ज्ञानं यस्य स


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 401


निभृतमोक्षहृदयः। ‘असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः। तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः' इति श्रुतिः॥ 'नित्यदुःखसुसम्पूर्ण निरस्तानन्दमव्ययम्। तमो यान्त्यन्यथाज्ञानाद्वेषाद्वा हरिसंश्रये इति प्राणसंहितायाम्॥ ‘निभृतो मोक्षवित् प्राणस्तद्योगात् तत्प्रसादतः।


जानन्ति परमं दैवं नान्यथा तु कथञ्चन' इति भागवतसंहितायाम्॥23॥ (10)॥


स्मरणात् स्वनुरागतद्भवानुरगेन्द्रभोगण्ङविषक्तधियो वयमपि ते समासमदृशोऽङ्सिरोजसुधाम्। क हि वेद नु वक्तुमपेतजन्मलयों यत उदगादृषिरनु देवगणा उभये ॥24॥ (11) ॥ हे स्मरणादेव स्वनुरक्त तत् ते स्वरूपं भवानेव वेद। उरगेन्द्रभोगदण्डे विषक्तबुद्धेस्तेऽख्रिसरोजसुधाम्। वयमपि समासमदृशः। सर्वमाहात्म्यस्य वेदैरपि वक्तुमशक्तत्वादसमदृशः। वेदागम्यमाहात्म्यस्यापि वेदैरेव गम्यत्वात् समदृशः। अतः कोऽन्यो वक्तुं वेद। को ह्यस्मांस्त्वां चर्तेऽपेतजन्मलयः यत उदगदुत्पत्तिमानेव ऋषिर्ब्रह्मा। प्राप्तपदा अप्राप्तपदाश्च देवगणाः। ‘त्वं वेत्थ नापरस्ते स्वरूपं न नित्यवाङ् नागभोगप्रियस्य। कुतो ब्रह्माप्राप्तलोकाश्चदेवास्तथाऽप्राप्ताजनिमन्तो यतोऽस्मात्' इति सङ्कतिश्रुतिः॥


Page 402


‘महिम्नः सर्वशोऽनुक्तेर्वेदाश्चासमदर्शिनः।


तस्यापि वेदगम्यत्वात् तथैव समदर्शिनः इति भागवततन्त्रे॥24॥ (11)॥


तर्हि न सन्न चासढुभयं न च कालजवः किमपि न तत्र शास्त्रमपकुष्य शयीत यदा।


जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविंश ध्वनिमारुतः ॥25॥ (12) ॥


शास्त्रमपकृष्य प्रलये शास्त्रस्य प्रवृत्त्यभावात्। असतः सूक्ष्मरूपात् सतः स्थूलरूपस्य परमेश्वरपर्यन्तं यथाक्रमं जनिं मृतिं च सर्वस्मात् परमात्मनि भेदं च विपणं फलापेक्षामृते ये स्मरन्ति। तेषां ध्वनिमुपविश। आरुवतो वायोः प्रसादात् तथा स्मरन्ति। ‘नासदासीन्नोसदासीत्तदानीं नासीद्रजो नो व्योमापरो यत्। किमावरीवः कुहकस्य शर्मन्नम्भः किमासीद्गहरं गभीरम्' इत्याद्या श्रुतिः॥ ‘सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च।


उभयं त्वग्निरापश्च न किञ्चित् प्रलयेऽभवत्' इति प्रकाशिकायाम्। ‘सर्ववेदादिरूपेणो प्राणस्यारुवतः सदा। प्रसादाद्ये विजानन्ति सूक्षात् स्थूलजनिं क्रमात्। मृतिं च सर्वजीवादेरीशस्य व्यतिरिक्तताम्। जानन्ति ये निराकाङ्खास्तेषां वाचि जनार्दनः इति तन्त्रभागवते॥25॥(12)॥ त्रिगुणमयः पुमानितिं यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे।


Page 403


सदिक्मनस्त्रिवृत्त्वयि भक्त्यसतां मनुजायो विमृशन्त्यशेषर्मिमार्त्ततयाऽऽत्मविंदः ॥ 26 ॥ (13) ॥ अबोधकृता त्रिगुणबद्धता यस्माज्जीवस्यापि तस्मात् तदवबोधरसे त्वयि सा न विद्यते। त्रिगुणात्मकं मनस्तवापि विद्यत इत्यसतां पक्षः। मनुजानामादयो देवास्त्रिगुणातीतत्वाद्भवतो भवानेव परमानन्दः। त्वदन्यत् सर्वं जीवजातमार्तमित्येव विमृशन्ति। ‘सत्वादिजं देहमथो मनश्चसत्वादिबद्धं च वदन्त्यसन्तः। परं पुमांसं न सुरास्तुतैर्हि जीवाः सुदृष्टाः परमार्तरूपाः इति सूत्रायणश्रुतिः। ‘त्रैगुण्यदेहेन्द्रियकमासुरा जानते हरिम्। त्रिगुणातीतमीशेशमतः पूर्णसुखं सुराः।


जानन्ति गुणबद्धत्वाज्जीवानार्ताश्च कृत्नशः। अनार्तस्य प्रसादेन तेषामर्तिविनाशनम्' इति चैतन्यविवेके॥26॥(13)॥ न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इतमात्मतया रसितम्। तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाक्रमन्त्यविंगणव्य शिरो निऋतेः ॥27॥ (14) ॥ यथा कनकस्य विविधकृतं कुण्डलादिकं कनकं विना परित्यक्तुं न शक्यते तथा स्वकृतं जगदनुप्रविष्टो भगवान्मूलरूपं विना परित्यक्तुं न शक्यः। आत्मतया एकरूपत्वात्। रसितं आत्मना प्रकाशितं जगत्प्रविष्टस्तस्मात् सर्वगतो विष्णुरिति ज्ञातव्यः इत्यर्थः। इत्थं ये ज्ञात्वा परिचरन्ति तव स्वरूपं ते ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वान्नित्याख्यसंसारस्य शिरः स्फुटं पदा क्रमन्ति। ‘सर्वगं ये प्रपश्यन्ति ब्रह्मानन्तमजाक्षरम्।


Page 404


एकमेवाद्वयं नित्यं निर्ऋतेस्ते शिरोगताः। इति सौकरायणश्रितिः॥ ‘यथैव कुण्डलं त्यक्त्वा नादातुं कनकांशकम्। तस्यैव तदवस्थत्वात् केवलाभेदतः स्फुटम्। एवं सुरासुरनरेष्वास्थितो भगवान् हरिः। नैव भेदेन मन्तव्यो जीवभेदे तु सत्यपि। ये तथाऽभिन्नमीशेशं पश्यन्ति परमर्षयः। ऋतप्राप्तिविरुद्धत्वात् संसारं निर्ऋतेः शिरः। अगणय्य पदाऽऽक्रम्य वैष्णवं निलयं ययुः इति गारुडे॥27॥॥ (14) परिवयसे पशूनिव गिरा विबुधानपि तां स्त्वयिं दृढसौहृदा ननु पुनन्ति न ते विमुखाः। त्वमेकः स्वराङखिलकारकशक्तिधर- स्तवभलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥28॥ (15) ॥ ‘वयति गा इव यः सुरादिकांस्तन्मनसो जगदपुनंछुचयो न परे। स एक ईशः परिपूर्णशक्तिर्बलिंहरा इतरे स्युः सुराः सुखिनः इत्यारुणिश्रुतिः।। ‘विष्णुना देवता बद्धा विष्णवे च बलिप्रदाः। विष्णुरासां पतिर्नित्यं न विष्णोर्बन्धकः क्वचित्' इति वामने॥28॥ (15)॥


वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधतिं यत्र ये त्वधिकृता भक्तश्चकिताः।


Page 405


स्थिरचरजातयः स्युज ये त्वनिमित्तयुज विरह उदीक्षयेद्यदिं परस्य विमुक्तसतः ॥29॥ (16) ॥ स्थिरचरजातयो ये तेऽनिमित्तयुजः स्युः। भगवन्नियमादेव संसारयुजः स्युः। विरहे मुक्तौ। यदि परस्य सकाशान्मुक्तिरेवेत्युदीक्षयेत् स परः। विमुक्ताः सन्तो येन परेण तस्य विमुक्तसतः। ‘नान्यः पन्था अयनाय विद्यते' इति श्रुतिः। मुक्तिस्तस्मादेवेत्यङ्गीकर्तव्यम्। अतो बन्धोऽपि तत एवेत्यर्थः। ‘सतां विमुक्तिदाद्विष्णोर्मुक्तिर्यद्यभ्युपेयते। बन्धोऽपि तत एव स्याद्यस्मादेकस्तयोः पतिः' इति स्कान्दे॥ ‘आत्मानं मुक्तिदं विष्णुर्यदि पुंस उदीक्षयेत्। सुप्रसन्नस्तदा बन्धस्तत एवेति सेत्स्यति' इति ब्राह्मे॥ ‘खण्डादीशाः सार्वभौमस्य यद्वब्रह्मेशाद्याः कुर्वते तेऽनुशास्तिम्। त्वं मुक्तिदो बन्धदोऽदो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो इत्युदारशाण्डिल्यश्रुतिः॥29॥ (16)॥


नहि परमस्य कश्चिदपरोऽनपरस्य भवेद् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः। अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुक्ते च तथा ॥30॥ (17) ॥ यस्य परमस्य ते कश्चिदपरः स्वतन्त्रो नास्ति। अनपरस्य प्राणोत्तमस्य। अत्र जीवसमुदाये। व्ययतः विशेषेणायतः सर्वज्ञस्य। यथा प्राणस्य नापरः स्वतन्त्रः तद्वत् प्राणः श्रीरन्यो वा त्वां विना स्वतन्त्रो नास्ति। हे शून्यतुलसमानवर्जित। सर्वं सन्दधतस्ते। यदि ततः प्राणात् तनुभृतो ध्रुवा जीवास्तह्यपरिमिताः सन्ति हे सर्व पूर्ण। “एकमेवाद्वितीयम्”, “एकं परं ज्योतिरनन्यमद्वयम्” इत्यादिनियमो जीवानां शास्यता नेत्यत्र नहि। किन्तु स्वगतभेदस्य, ईश्वारान्तरस्य अतत्तन्त्रस्य च


Page 406


निषेधे। “अतोऽन्यदार्तम्”, “नेह नानाऽस्ति किञ्चन”, “न तत्समश्चाभ्यधिकश्च दृश्यते”इत्यादि तथा ब्रुवते च।। ‘तव स्वतन्त्रो नापरो यद्वदत्र प्राणान्नान्यस्तुल्यशून्यास्य सन्धिन्। प्राणाधीना अमित जीवसङ्घाः प्राणो वशे ते प्रकृतिश्चभूमन्’ इति महाशालीनश्रुतिः॥ ‘स्वतन्त्रो नापरः कश्चिद् विष्णोः प्राणपतेः प्रभोः।


यथा प्राणात् परो नास्तिस्वतन्त्रो जगति क्वचित्। तथा प्राणो रमा चैव न विष्णोः पृथगीश्वरौ। यद्युच्यन्ते प्राणतन्त्रा बहवः पुरुषा इति। सत्यमेव ह्यसङ्ख्याता न नियम्यनिषेधिकाः। एकाद्वितीयश्रुतयः किन्त्वीशान्तरवारकाः। तथा स्वगतभेदस्य तदतन्त्रनिषेधकाः' इति ब्रह्माण्डे। ‘स्वरूपमस्मरत् कृष्ण एकं स्वस्मिन्नभेदतः। अतत्तन्त्रस्य राहित्यादनन्यं सदृशोज्झितेः। अद्वयं नित्यनिर्वृत्या भावनिर्वृतिमीश्वरम्' इति तन्त्रभागवते॥ ‘अधिकस्य समस्यापि स्वतन्त्रस्य च वर्जनात्। एक एवाद्वितीयोऽसौ न शास्यजनवर्जनात्' इति कौमै॥30॥ (17)॥


अजन परिंमुच्यतेऽत्र भवात्सततात् सम


मनुजानता ततमनन्तमदुष्टतया। न घटत उद्भवः प्रकतिपूरुषयोंस्जयों-


Page 407


रुभययुजोर्भवन्त्यसुभृतो जलबुद्दवत् ॥31॥18॥ अनन्तमदुष्टतयाऽनुजानताऽऽचार्येण सन्तताद्भवात् परिमुच्यते। अबद्धश्च प्रकृतिपरेशौ विनाऽन्यो न विद्यते। यतस्तयोरेवोद्भवो न घटते। ततस्तयोरजयोरसुभृत उद्भवन्ति। देशतः कालतश्च यत्र परमस्तत्र प्रकृतिर्यत्र प्रकृतिस्तत्र परम इत्युभययुजोः। ‘मुच्यते तत्त्वसम्बुद्धादाचार्यात् पुरुषो भवात्। एतावेव स्वतोऽबद्धौपरमः प्रकृतिस्तथा' इति कलापश्रुतिः ॥ ‘सम्यग् ज्ञानवदाचार्यान्मुच्यते पुरुषो भवात्। त्वावेव नित्यमुक्तौ तु परमः प्रकृतिस्तथा' इति वामने॥ ‘देशतः कालतश्चैव समव्याप्तावुभावजौ। ताभ्यामुभययोगाभ्यां जायन्ते पुरुषाः परे’ इति कौण्ठरव्यश्रुतिः॥31॥(18)॥ त्वयि त इमे ततो विबुधनामगुणाःपस्मेऽमृत इवार्णवे मधुनि लिल्युशेषरसाः। नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुधातुमनुप्रभवः । कथमनुवर्तिनां भवभयं तव ब्रुकुटी सृजतिं मुहुर्तृणाम् ॥32॥ (19) ॥ हे तत ओत इमे विबुधनामार्थभूता गुणास्त्वयि निलिल्युः। परमेऽमृतार्णवे मधुन्यशेषरसा इव। अतः पूर्णगुणत्वाद्भगवतो नृणां मध्ये सुधियः। तव मायया त्वदिच्छयैव। त्वयि कुशलं विधातुं प्रभवः। तत्र कुशलं भेद एव। सर्वस्मादन्यो विशिष्टगुणः पर इति दर्शनम्। स्वगतया सुष्ट्वान्यैरनवगतया। तथा त्वत्प्रसादादनुवर्तिनां कथं मुहुर्भवभयं भुकुटी सृजति। ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा। यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या'। ‘त आयजन्त द्रविणं समस्मा ऋषयः पूर्वं जरितारो नभूना।


Page 408


असूते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि इत्याद्याश्रुतिः॥ ‘ब्रह्मेशेन्द्रादिसन्नाम्ना येऽर्थभूता गुणा मताः।। पूर्तीशितृत्वद्रष्टत्वप्रमुखास्ते हरेः सदा। अतस्तु सर्वनामाऽसौ सर्वकर्ता च केशवः' इति पाझे॥


‘आनन्दुत्वादनामाऽसावुत्कृष्टत्वादुनामकः। एतन्नामद्वयं विष्णोर्चात्वा पापैः प्रमुच्यते' इति स्कान्दे॥ ‘अन्याविज्ञातया विष्णोः शक्त्यैव कुशलं जनाः। कुर्वन्ति कुशलेषूचं भेददर्शनमेव तु। पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वेतरेषु च। तदपेक्ष्य विप्लुण्मात्रत्वज्ञानं तद्भेददर्शनम्।


अनाद्यनन्तो भेदोऽयं स्वभावः परजीवयोः। स्वतो वा परतो वाऽपि न कदाचित् प्रणश्यति। एवं ज्ञानवतां विष्णुर्बहुजन्म न दास्यति। अनुवृत्तिर्यद्यनल्पा स हि सर्वेश्वरः प्रभुः इति प्रमाणसंहितायाम्॥ ‘यः पिता जनिता चैव कल्पको नित्यपोषकः। प्रापकः सर्वदेवानां पदानां पुरुषोत्तमः। सर्वदेवाभिधावाच्यो भूतभव्यभवत्प्रभुः। विचार्य सर्ववेदैश्च ब्रह्माद्याश्च यजन्ति तम्। त्रिगुणात्मकस्य स्रष्टारस्तथाऽपि न यजिन्ति तम्। यतः पूर्णेशशक्त्यैव तेषां यजनमिष्यते।


Page 409


अतः सर्वेश्वरो विष्णुरेक एव महागुणः। इति प्रमाणसंहितायाम्॥32॥(19)॥ इह भवचरणेषु सुजातभुव जितहृषीकवायुभिरुदात्तमहत्तुरमैः। य इह यतन्त्यनतिलोलमुपायविदो व्यसनशताब्धितारमपहाय गुरॉश्चरणम्॥33॥ (20) ॥


=


"


वणिज इवोच्छुसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः। सुखशान्तिमतिं त्वयि हि सन्ति न तानिं नृणां विभव उद्यतिं श्रयत आत्मनिं सर्वरसे ॥34॥


भवच्चरणेषु सुजातस्थानाः। उत्तमयोग्यतायुक्ताः हृषीकाण्येव महत्तुरगाः। वायुरेवोदात्तः। ‘रथोपरि स्वीकरणादुदात्तः सारथिर्मतः' इति व्यासनिरुक्ते॥ ‘जयो विष्णोश्चवायोश्च भक्त्या तत्प्रीतिसाधनम्। जगदीशयोः कुतो ह्येतो सर्वशक्त्योर्बलाज्जयः इति पवनविजये॥ तेषां तानि साधनानि सुखस्यापि सुशान्तिमति पूर्णसुखे त्वयि न सन्ति। गुर्वभावात्। विभवे जीवन्मुक्ते गुरावुद्यति उपदिशति सर्वरसे परमात्मनि श्रयत एव। ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इति श्वेताश्वतरश्रुतिः॥ 'देवा अपि सुयोगाढ्या यतन्तः सर्वसाधनैः। पुत्रदारादिभिः सार्धं निश्वसन्तीह संसृतौः। गुरोरनुग्रहमृते साधनं न हरेः प्रियम्।


Page 410


कल


गुरूपदेशात् तु हरि प्राप्नोत्येव न संशयः। षण्णवत्यङ्गुलो यस्तु तालास्यो दशतालकः। दशप्रादेशकः सप्तपादो हस्तचतुष्टयः। कलमत्रयाङ्गुलश्चैव वाग्मी सन्देहवर्जितः। वासुदेवैकशरणो गुरुरित्युच्यते बुधैः। गुरुलक्षणसम्पूर्णः साक्षादेव चतुर्मुखः। ततः शेषेन्द्रवीन्द्राद्याः क्रमेणैव प्रकीर्तिताः' इत्यादि गुरुविवेके॥ 'देवा योग्यतया जाता विष्णुपादांबुजाश्रयाः। तथाऽपि साधनैस्तेषां तत्प्राप्तिर्गर्वनुग्रहात्’ इति तत्त्वोद्योगे॥34॥ इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे। भुवि पुण्य तीर्थसना खूषयों निर्विशन्त्यतस्त्वाऽनु भक्तः पदाम्बुजं हृदाऽघभिदम्। दधति सकृन्मनस्त्वयिं चिदात्मनि नित्यसुखे।


न पुनरुपासते पुरुषसार हरावसथम्॥35॥ (22) ॥ इति लोके परिदृश्यमानप्रकारेण चरतां विजने मोक्षविषये कः सुखयति। सुनिरस्तभगे अतस्त्वामेव सन्तं ज्ञात्वा भवतः पदाम्बुजं हृदा निविशन्ति। हरावसथमहङ्कारं न कुर्वन्ति। ‘ब्रह्माज्ञात्वेति लोकप्रवृत्तिं प्रवर्ततां को नु मोक्षं ददाति। अतो ब्रह्मोपासते साधु धीरा नाहंभावस्तेषु रुद्राधिवासः


Page 411


इति महारवश्रुतिः॥ महाभाग्यं तु कैवल्यमज्ञानां कः प्रदास्यति। अतः सन्तो विजानन्ति हरि ते त्वनहङ्कताः' इति स्कान्दे॥35॥ (22)॥


इदमप्यथो वदन्ति चेन्ननु तर्को व्यभिचरन्ति क्वचित्कचिन्मृषा च। ततो भक्दृग्व्यवहिंतये विकल्प उक्तिोऽन्वहमन्धपस्म्पस्या भ्रमतिं भारती च तवरुवृत्तिभिरूढजवा ।। 36 ।। ( 23) ।


न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे। अत उपगीयते द्रविणजातिविंकल्पपथै वितथमनोविलासमिदमित्यक्यन्ति बुधाः ॥ 37॥ ( 24 ) ॥ इदमप्यपालकं ईश्वरवर्जितम्। न मत्तोऽन्य ईश्वरश्चेतनत्वादित्यादितकेंर्वदन्ति चेत्। अथो इत्यनेन तदपि वचनं भगवत्प्रेरणयैवेत्युक्तम्। ‘तस्मादतो अथेतद्धेत्वर्थं समुदीरितम्' इति शब्दनिर्णये॥ ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्' इति च। वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्केरपनेतुं शक्यः। यतस्तक व्यभिचारिणः। मृषैव क्वचित्तर्कः॥इष्टसाधनादितर्कस्तु व्यभिचारी। शरीरसम्मित आत्मेत्यादिदर्शन परिकल्पितस्तु मृषैव। अतो भयबुद्धीनां बुद्धिव्यवहितये भवन्ति। न तु धीराणाम्। विकल्पः वेदविरुद्धकल्पना। अन्दपरम्परयैवान्वहमुषितः। यस्माद्भारत्यपि भ्रमति बहुधा वदति।


बहूक्तिरन्यथाज्ञप्तिः परिवृत्तिश्च कथ्यते। भ्रम इत्येव विद्वद्भिस्तथा चङ्कमणं क्वचित्' इति शब्दनिर्णये॥ उरुवृत्तिभिरूढजवा अनन्तगुणाकरत्वाद्वगवतः बहुगुणकर्माणि वक्तुं वेगवती वेदवाक्। अतो वेदेऽपि बहुधा वचनात् तदर्थनिर्णयाभावाद्विरुद्धकल्पना युक्ताऽसुराणाम्। यस्माद्गर्भस्थस्य जीवस्येश्वरत्वं


Page 412


नास्ति अतो निधनानन्तरं च नरकादिगमनान्न विद्यते। अनिमित्तकं भगवन्निमित्तमेव। तस्यान्तरा भवति मृषा त्वयि जीवे। न तु वस्तुतस्त्वं जीवः। एकरसे प्राधानसारे। न च जीवो वस्तुतः सर्वोत्तमसारः। मृषैव तथा मन्यन्ते। अतो भ्रान्त्या द्रविणवानभिजन्मवानित्यादिविरुद्धकल्पनापथैरुपगीयते। यतो भवानेव द्रविणवान्। यतश्च तपो दमाद्या अभिजन्मकारणभूता गुणाश्चभगवत एव। अतो मिथ्यामनोविलासं जीवेश्वरत्वं बुधा अवयन्ति। ‘गुणा एवाभिजात्याख्यास्तद्वानेवाभिजातिमान्।


अतोऽभिजातिमान् विष्णुस्तदन्ये तूपचारतः' इति शब्दनिर्णये॥ 'ये जीवमीशं प्रवदन्ति तर्केस्तच्चेश्वरो वचनं सन्दधाति। नासीदादौ मरणे नोऽभविष्यन्मृषा ततो हि हीशितृत्वं स्वपेषु इति विपीतश्रुतिः। 'ये जगत्प्रवदन्त्यज्ञा जीवादन्येशवर्जितम्। तेषामपि तु तां वाचमीश एवं ददात्यजः। न च तर्केभवेदीशो जीवो वेदविरोधतः। व्यभिचारिणो यतस्तक इष्टसाधनगा अपि। क्वचित् क्वचिन्मृषातकः कणादादिप्रदर्शिताः। तत्त्वनिर्णयभीरूणां व्यवधानकरास्ततः। नैव तु स्थिरबुद्धीनां कुर्युस्ते बुद्धिचालनम्। पारम्पर्येण चाज्ञानामुक्त्या लोकेषु विस्तृतम्। पठ्यते चाप्यहरहर्न तु विद्वन्मुखोद्गतम्। अनन्तगुणकर्मत्वादीशस्योक्तौ सुवेगिता।


Page 413


वक्त्यभेदमिवाज्ञानां नाभेदं कुत्र चिच्छृतिः। एक आत्माऽद्वयेत्यादिपदानामर्थनिर्णये। न वर्तते श्रुतिर्यस्माद्णान्तरकुतूहलात्। अथवा मोहनार्थाय सुरारीणामनर्हतः। कुत्रचिन्निर्णयवचः सुराणामर्थसिद्धये। न हीशितृत्वं गर्भस्थे नाप्यसौ निरयोपगे। मृषा च हीश्वराभेदः सर्वोत्कर्षश्च जीवगः। धनवत्त्वं च कर्तृत्वं बलवत्वं च विष्णवि। अतो जीवेश्वराभेदं मिथ्येति कवयो विदुः' इति तन्त्रभागवते॥ ‘जीवस्य जगतश्चैव यदीशाभेदतो वचः।।


अतात्त्विकं जगचेति विष्ण्वधीनत्ववाचकम्।


अभेदस्तु कुतस्तस्य परमस्यावरेण तु। मिथ्यात्वं च कुतस्तस्य जगतो नित्यवर्तनात्’ इति वाराहे॥36॥(23)॥37॥(24)॥ उद्गात्पुमाननुगतगुणांश्च जुषन् भजतिं सरूपतां तदनु त्वमुत जहासि जिहासि ताम्।


अहिरिव त्वचं परमात्तभमां महसि महीयसेऽष्टमुणोऽपरिमेयभगः ॥38॥ (25) ॥ श्रुतिषु तवानुगीतान् गुणान् जुषन् पुमानुदगादस्मात् संसारात् तव सरूपतां च भजति। तदनुगुणस्मरणमनुगुणांश्च जुषन्निति चशब्दः कर्मण चेत्यस्मिन्नर्थे। यच्चायं पुमानात्तभगां


Page 414


त्वयाऽपहृतभगां प्रातिस्विकीं पूर्वोक्तां द्विविधां कष्टां प्रकृतिं जहाति। जिहाति हन्ति च तदपि त्वमेव जहासि जिहासि च। उतेति त्यागवधयोः समुच्चयार्थे। 'जिहाति रावणं सङ्ख्ये राघवः परमास्त्रवित्' इति स्कान्दे॥ ‘स्वातन्त्र्यात् प्रकृतित्यागकर्ता नारायणः परः। यद्यप्येषा जीवसंस्था हन्ता च भगवान् प्रभुः' इति गारुडे। महसि महीयसे पूजयसि पूज्यसे च स्वात्मनैव। ‘स्मरन् ब्रह्मगुणान्नित्यं मुक्तो ब्रह्मसरूपताम्। दुर्भगां प्रकृतिं त्यक्त्वाहत्वाचान्यां दुरन्वयाम्। याति तच्च परेशानात् स हि पूज्योऽथ पूजकः। तस्यैकस्य स्वतन्त्रत्वात् स चानन्तगुणो हरिः' इति कौशिकश्रुतिः॥38॥ (25)॥


यदि न समुच्चरन्ति यतयो हृदिं कामजा। दुधिंगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः। अनुतृप्तयोगिनामभयो भगवन् अनक्गतान्तकादनधिरूढपदाद्भक्तः॥39॥ (26) ॥ अज्ञानामनधिगतान्तकादनधिरूढब्रह्मपदात्। ‘स यथाकामो भवति। तत्क्रतुर्भवति। यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यत इति तु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुतिः।। ‘निषिद्धकामयुक्तानामसतां तु विशेषतः। दुर्झयो भगवान् विष्णुहृदिस्थोऽस्मृतहारवत्।


Page 415


अकामत्वेन भजतां ददात्यभयमन्तकात्। पूर्णानन्दादि तेऽश्नन्ति पूर्णानन्दादिकाः स्वतः। ब्रह्मणो ब्रह्मसम्पत्तिमत आह श्रुतिः स्फुटम्। न परब्रह्मताऽवाप्तिर्न ते विष्णाविति श्रुतेः। परब्रह्मता चैषां ब्रह्मलोकात् परा गतिः। न परब्रह्मरूपत्वमेतमेवेति च श्रुतेः। अन्येषां म्रियमाणानां प्राणा भागत एव तु। देवतास्वेकतां यान्ति भागतोऽनुव्रजन्ति तम्। ज्ञानिनां मुच्यमानानां नैव यान्ति स्म देवताः। तेनैव सह संयान्ति ततोऽनुत्क्रमणश्रुतिः' इति ब्रह्मतकै॥ 'देवाश्च ऋषयश्चैव सुभक्त्या कामिनोऽपि तु। मुच्यन्ते नियमादेव पश्यन्ति च हरि ननु' इति स्कान्दे॥39॥ (26)॥


तदवगमार्थसितासितयोर्गुणविंगुणयोर्नहि देहभृतां सगिरः। अनुययुस्त्र हंसकुलगीतपरम्परया न तुषावराणा इव रजांसि वान्ति वयसा सह यच्छ्रुतयस्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ।। 40 ॥ (27) ॥ परमेश्वरस्यावगमात् तदवगमा श्रीः। तयाऽगम्यत्वात् तदर्थः परमस्तेन बद्धत्वात् सिता श्रीर्गुणात्मिका च। सगिरः। वाक्पूर्वकाणीन्द्रियाणि श्रियो विष्णोश्च नानुकूल्येन ययुः। अनुययुश्च हंसकुलगीतपरम्परया। यथा तुषावृतानां तण्डुलानां रजः सृष्टिर्नास्ति एवं रजोरूपान्मनुष्यान्न यान्ति श्रुतयः। वयसा सह महता कालेनापि। अतस्त्वयि सफलं पतन्ति न पतन्ति च विधिनिषेधरूपेण बन्धनात्मिकाः।


Page 416


‘जानाति प्रकृतिर्विष्णुं ज्ञेयो विष्णुस्तु निर्गुणः।


तावुभौ न विजानन्ति ऋते ब्रह्मपरम्पराम्' इति महोपनिषदि॥ ‘अन्ये सर्वे श्रिया बद्धाः श्रीबंद्धा विष्णुनैव तु। बन्धश्च विष्णुतन्त्रत्वं मुक्तानां च श्रियस्तथा। अमुक्तानां तु बद्धत्वं जन्ममृत्यादिदुःखिता। हेयो बन्धश्च सैव स्यान्न तु स्वोच्चवशे स्थितिः। गुणात्मिका च सा देवी निर्गुणः पुरुषोत्तमः। सैवं विष्णु विजानाति ज्ञेयो ज्ञाता च केशवः। न तावन्ये विजानन्ति विना हंसपरम्पराम्। तथाऽपि नैव जानन्ति मानुषा असुरास्तथा। निष्फलैवासुरे तस्माच्छ्रतिबंन्धाय केवला। निषेधविध्युत्क्रमणात् तमस्येव विनिक्षिपेत्। निष्फला सफला चैव मानुषाणां तु मध्यतः। सफलैव तु देवानां नियतं मुक्तिदायिनी। श्रीमुरुड उवाच - के हंसाः कः परो हंसः के च पारावता गणाः। के च तित्तिरयस्तत्र के शुकाः के च वायसाः। श्रीभमवानुवाच - परो हंसोऽहमेवैको हंसा ब्रह्माण एव तु। पारावता देवतास्तु मुनयस्तित्तिराः स्मृताः।


Page 417


मानुषास्तु शुकाः प्रोक्ता असुराश्चैव वायसाः। प्राप्यं प्राप्तं यतो नित्यं पूर्ण सर्वोत्तमं मया। अतः परमहंसोऽहं मदनन्तरमेव तु। यतः प्राप्तमिवाशेषं सर्वजीवोत्तमं शुभम्। अतो ब्रह्मपदे योग्या जीवा हंसाः प्रकीर्तिताः। तेषां परम्पराप्राप्तं यैनं नियमेन तु। ते मुच्यन्ते नैव चान्ये गुरुर्ब्रह्मायतो नृणाम्। दैवतं त्वमेवैको मामवित्त्वा न मुच्यते। परं प्रति यतो नीचा ब्रह्मणः सर्वदेवताः। पारावतास्ततःप्रोक्तास्तैस्तीर्णा संसृतिर्यतः। तित्तिरा मुनयस्तस्मात् कासुखत्वात् तु मानुषाः।


शुका इति समुद्दिष्टा वयोमात्रसुखत्वतः। वयसोऽन्ते तु दुःखित्वादसुरा वायसाः स्मृताः। एवं पञ्चविधा जीवाः षष्ठोऽहं परमेश्वरः। न मत्समोऽधिको वाऽपि कश्चिदस्ति द्विजोत्तमः इति गारुडे॥40॥ (27)॥ इत्यशेषसमाम्नायपुराणोपनिषद्रसः। समुद्भुतः पूर्वजैस्तैमायनमहात्मभिः ॥42॥ व्योमायनमहात्मभिः - ब्रह्माश्रयेषुत्तमैः॥42॥


एवं स गुरुणाऽऽदिष्टो गृहीत्वाश्रद्धयाऽऽत्मवान्।


Page 418


पूर्णः सद्यस्ततो राजन् प्राह वीरव्रतो गुरुम् ॥ 45॥ श्रीशुक उवाच - इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्चामलाल्मकान्। ततोऽगादाश्रमं साक्षात्पितुर्वैपायनस्य मे॥46॥


सभाजितो भगक्ता कुतासनपरिग्रहः । तस्मै तद्वर्णयामास नारायणमुखाच्छुतम् ॥ 47 ॥ कथाः कथयतीशस्य व्यासस्यान्ते स नारदः। स्तुत्यर्थं तस्य देवस्य ज्ञापनाय न तु क्वचित्। पूर्णज्ञानामृतस्यास्य न तु ज्ञप्तिः पराद्भवेत्॥ 'ऋषिषु प्रीयते विष्णुः स्वयमेव जनैः श्रुतः' इति ब्राह्मे॥48॥


यो ह्यात्मा जगदादिमध्यनिंधनो योऽव्यक्तजीवेश्वरों यः सृष्छेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम्। यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं तथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ 49॥


ऋषिणा - ऋषिरूपेण॥49॥


"



॥ इतिं दशमस्कन्दतात्पर्ये चतुर्नक्ल्यध्यायः ॥ 10 - 94॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भामक्ततात्पर्ये दशमस्कन्धः ॥


॥ एकादशः स्कन्धः ॥11॥


Page 419


यः ॥ 11 - 2 ॥


भूतानां देवचरितं दुःखाय च सुखाय च। सखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥5॥


भजन्ति ये यथा देवान् देवा अपिं तथैव तान्। छायेव कर्मसचिवाः साधव दीनवत्सलाः ॥6॥ ‘आत्मनो भजने बुद्धिमुत्पाद्य फलदाः सुराः। उत्तमानां जनानां तु निकृष्टानां विपर्ययः। शुभाशुभफलानां तु कर्मणां विबुधाः सदा। प्रवर्तका यथायोग्यमृषयः करुणाःसदा। सुखमिच्छन्ति भूतानां प्रायो दुःखासहा नृणाम्। तथाऽपि तेभ्यः प्रवरा देवा एव हरेः प्रियाः इत्युद्धामसंहितायाम्॥5, 6॥


अविद्यमानोऽप्यवभाति हि द्वय ध्यातुर्धिया स्वप्नमनौरथ यथा। तत्कर्मसङ्कल्पविकल्पकं मन बुधो निंदध्याभयं ततः स्यात् ॥ 38॥


‘आत्मनो देहगेहादि द्वयशब्देन भण्यते।


अविद्यमानं जीवस्य प्रतिभाति तदीयवत्। जाग्रद्वत्तु तथा स्वप्नः प्रतिभाति मनोरथः। विद्यमानवदेवैतदेहादीशवशे स्थितम्। विभाति स्ववशत्वेन सैषा संसृतिरुच्यते।


Page 420


तस्मात्तद्विषयं त्यक्त्वा मनो विष्णौनिवेशयेत्' इति हरिवंशेषु॥38॥


एवंव्रतश्च प्रिंयनामकीय जातानुराग दूतचित्त उच्चैः। हसल्यथोरोदिति सैति गायत्युन्मादवन्नृत्यति लोकबाह्यः ॥ 40॥ केचिदुन्मादवद्भक्ता बाह्यलिङ्गप्रदर्शकाः। केचिदान्तरभक्ताः स्युः केचिच्चैवोभयात्मकाः। मुखप्रसादाद्धाढ्यच्च भक्तिनँया न चान्यतः' इति वाराहे॥40॥


खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्वानि दिशो द्रुमादौन्। सरित्समुद्रांश्च हरेः शरीरं यत्किञ्च भूतं प्रणमेदनन्यम् ॥41 ॥ ‘सर्वं हरेर्वशत्वेन शरीरं तस्य भण्यते। अनन्यादिपतित्वाच्च तदनन्यमुदीर्यते। न चाप्यभेदो जगता विष्णोः पूर्णगुणस्य तु' इति हरिवंशेषु॥41॥ हरिरुवाच -


सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः। भूतानि भगक्त्यात्मन्नेष भागवतोत्तमः ।। 45॥ ‘पूर्णत्वादात्मशब्दोक्तः कश्चित् सर्वनरोत्तमः। सोऽपि नारायणो नान्यः च सर्वेषु संस्थितः। तद्वशा इतरे सर्वे श्रीर्ब्रह्मेशपुरःस्सराः। स एव तु स्वभक्तेषु स्थित्वाऽनुग्रहकारकः। अज्ञेष्वज्ञानयन्ता च द्विषत्सु द्वेषकारकः।


Page 421


तत्प्रेरितास्तदन्ये तु प्रियद्वेषादिकारिणः। अतस्तत्प्रेरणादेव प्रेमाद्या मम जज्ञिरे। इति पश्यति यो बुद्ध्या स तु भागवतोत्तमः॥45॥


ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेममैत्रिंकुपोपेक्षा यः करोति स मध्यमः ॥ 46॥


अर्चयामेव हरये पूजां यः श्रद्धयेहते। न तद्भक्तेषु चान्येषु स भक्तःप्राकृतः स्मृतः ।। 47 ॥ सर्वाधिकं पृथग्विष्णु क्षीरसागरवासिनम्। ज्ञात्वा तत्र प्रेमयुक्तस्तद्भक्तेषु च मैत्रयुक्। कृपावांश्च तदज्ञेषु तद्वेषीणामुपेक्षकः। तद्वशत्वं न जानाति सर्वस्य जगतोऽपि तु। तमाहुर्मध्यमं भक्तमचयामेव संस्थितम्। विष्णुं ज्ञात्वा तदन्यत्र नैव जानाति यः पुमान्। तारतम्य च तद्भक्तेर्न जानाति कथञ्चन। अवजानंश्च तद्भक्तानात्मनो भक्तिदर्पितः। उपेक्षकोऽपि वा तेषु न स्मरेदथवाऽपि तान्। मानुषेषु यथा कश्चितकिञ्चिदुचः प्रदृश्यते। एवमेवोच्चतां विष्णोरल्पां पश्यति चान्यतः। ते तु भक्ताधमाः प्रोक्ताः स्वर्गादिफलभोगिनः।


Page 422


तैर्विन्निता अधो यान्ति तद्भक्तानामुपेक्षकाः। कुर्युर्विष्णावपि द्वेषं देवा देवावमानिनः। पूजिता विष्णुभक्तिं च नावज्ञेयास्ततः सुराः। उपेक्षकेषु देवानां भक्तिनाशं स्वयं हरिः। करोति तेन विभ्रष्टाः संसरन्ति पुनः पुनः। अधो वा यान्ति विद्वेषात् पूज्या देवास्ततः सदा। यस्ता द्वेष्टि स तं द्वेष्टि यस्ताननु स चानु तम्। ऐकात्म्यमागतं विद्धि देवैस्तद्भक्तिपूरितैः। उपेक्षकस्तु देवानां यदैव निरयोपगः। तदा तु किमु वक्तव्यमुपेक्षायां जनार्दने। विष्णोरुपेक्षकं सर्वे विद्विशन्त्यधिकं सराः। पतत्यवश्यं तमसि हरिणा तैश्च पातितः। भुले स्वर्गफलं नित्यं निरयं नैव गच्छति। विष्णोस्तु मध्यमो भक्तो चायते मानुषेषु च। अस्मरन् देवता यस्तु भजते पुरुषोत्तमम्। योग्यः संस्मरते देवानयोग्यो द्वेष्टि केशवम्। यस्तूत्तमो भागवतः स मुक्तिं परमां व्रजेत्। विष्णुना सर्वदेवेश्च मोदते सह नित्यदा' इति च॥46, 47॥


गृहीत्वाऽपीन्द्रियैरर्थान्य न द्वेष्टिं न हृष्यति।


Page 423


विष्णोर्मायामिमां पश्यन्सवै भागवतोत्तमः ॥48॥ विष्णोर्मायां - विष्ण्विच्छाधीनाम्। ‘विष्णोरिच्छानुसार्येतज्ज्ञात्वा योग्यान्न चाधिकम्। हृष्यति द्वेष्टि वा यस्तु स वै भागवतोत्तमः' इति च॥ ‘सतां वृद्धिकरो धर्मस्त्वसतां ह्रासकारकः।


अयं तु निश्चितो धर्मोह्यधर्मोऽन्यो विनिश्चितः। हर्षः सत्सु तथाऽसत्सुधर्मो धर्मविपर्ययः। तेषां वृद्धौ तथा हानौ सर्वं ज्ञेयमशेषतः। एतदर्थं च धर्माणां मर्यादा वैदिकादिका। मूलधर्मविरुद्धा तु सा न ग्राह्या कथञ्चन' इति॥48॥



बेहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छैः। संसारधर्मेरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ 49॥ देहेन्द्रियप्राणधियां त्रिधैव त्वभिमानिनः। तत्रोत्तमा देवतास्ताः सर्वदोषविवर्जिताः। गुणैः सर्वैः सुसुम्पन्ना विरिञ्चादुत्तरोत्तरम्। मध्यमा गुणदोषेता असुरा अवमा मताः। ते सर्वे दोषसंयुक्ता आचित्तादुत्तरोत्तरम्। तेभ्योऽन्यो मानुषो जीवस्ताभ्यां देवासुरावपि। जीवाभिमानिनश्चैव त्रिविधा सम्प्रकीर्तिताः। जीवमान्युत्तमो ब्रह्मा मध्यमः स्वयमेव तु। अधमः कलिरुद्धिष्टस्तत्र मध्यमनीचयोः। मृतिजन्मक्षुधादुःखप्रभृत्यखिलमेव तु।


Page 424


नोत्तमस्य तु जीवस्य देहादेश्च कथञ्चन। जन्मादिकृतदुःखं तु देहमान्यसुरस्य है। सुत्याद्यपजयं दुःखमसुरेन्द्रियमानिनः। क्षुन्निमित्तं तु यदुःखं प्राणमान्यसुरस्य तत्। भयतर्षादिजं दुःखं मनोमान्यसुरस्य च।। केवलं त्वान्तरं दुःखं बुद्धिमान्यसुरस्य तत्। नीचोऽस्मीति तु यदुःखमहंमान्यसुरस्य तत्। अतीतादिस्मृतेर्नुःखं चित्तमान्यसुरस्य च। जीवमान्यसुरस्य स्यात्सर्वं तत्समुदायतः। एवमेव सुखं देवेषुभयं मध्यमेषु च।। असुराणामधर्मस्य वृद्ध्या सुखमपीष्यते। देवानां नैव केनापि दुःखं प्रीतिस्तु धर्मतः। अधर्मोऽपि प्रीतये स्यादसुराणां तमोगतेः। देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम्। तेषां दुःखादिकं किञ्चिदसुरावेशतो भवेत्।। प्राणस्य नासुरावेश अखणाश्मसमो हि सः। सम्पूर्णानुग्रहाद्विष्णोः प्राणः पूर्णगुणो मतः। असुराणां सुखाद्याश्च देवावेशादुदीरिताः। स्वतस्तु निर्गुणाः सर्वे सर्वदोषात्मका मताः। विविच्यैवं जगत्सर्वं स्वात्मानं च पृथक् स्थितम्। सर्वतश्च पृथक् सन्तं विष्णुं सर्वोत्तमोत्तम्। जानन्ति ये भागवतास्त उक्ता उत्तमा इति' इति ब्रह्मतकै॥ देहेन्द्रिययोर्जन्माप्ययौ॥49॥


न यस्य स्वः पर इति चित्ते स्वात्मनि वाऽभिदा।


Page 425


सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ 52 ॥ चित्ते विद्यमाने। स्वात्मनि केवलात्मभावे मोक्षे च। यस्य जीवपरयोरभेदो नास्ति। ‘न क्वापि जीवं विष्णुत्वे संसृतौ मोक्ष एव च। यः पश्यति सुरादींश्चयथोत्कर्ष प्रपश्यति। स सर्वभूतसमदृग्विष्णुं सर्वोत्तमं स्मरन्” इति हरिवंशेषु॥ ‘नैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह। सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसिइति च मोक्षधर्मे॥ ‘नैवं त्वयाऽनुम्तव्यं जीवात्माऽहमिति क्वचित्।


सर्वैर्गुणैः सुसम्पन्नं दैवं मां ज्ञातुमर्हसि इति वाराहे॥52॥


॥ इति एकादशस्कन्धतात्पर्ये द्वितीयोऽध्यायः ॥ 11 - 2 ॥


॥ तृतीयोऽध्यायः॥11 -3॥ अन्तरिक्ष उवाच - एभिर्भूतानि भूतात्मा महाभूतैर्महाभुजः। ससर्बोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥3॥ आत्मप्रसिद्धये - भूतानां भगवज्ज्ञानार्थम्॥3॥


एवं सृष्ट्वास भूतानि स्थविष्ठे पञ्चधातुभिः। एकधा दशधाऽऽत्मानं विभजन् जुफ्ते मुणान् ॥ 4 ॥


गुणैर्गुणान् स भुञ्जान आत्मप्रद्योर्तितैः प्रभुः। मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥5॥


Page 426


कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत्। तत्तत्कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥6॥ एवं गुणान् भुञ्जानो भगवान्। तं सृष्टंमन्यमानो जीव इह सज्जते। ‘शरीरे दोषहानेन गुणभोक्तारमीश्वरम्। शरीरस्थतया जीवं मन्यमानः पतत्यधः। तत्सृष्टाहि सदा जीवा देहादेर्जनिमत्त्वतः। नित्यानन्दैकदेहोऽसौ विष्णुस्तत् कैकताऽनयोः' इति ॥4- 6॥


इत्थं कर्मगतीर्गच्छन् बहभद्रावहः पुमान्।


आभूतसम्प्लवात् सर्गप्रलयावश्नुतेऽक्शः ॥7॥ ‘आभूतसम्पवाज्जन्म जीवेशत्वं विजानतः। ततः पतत्यधो यस्मादुत्थानं नैव तु क्वचित्' इति च ॥7॥


|


धातूपप्लव आसन्नेऽव्यक्तं द्रब्यगुणात्मकम्। अनादिनिधनः कालो ह्यब्यक्ताय विकर्षति ॥8॥


‘कालाख्यः कलनाद्विष्णुर्व्यक्तमव्यक्ततां नयन्' इति च॥8॥


ततो विराजमत्सृज्य वैराजः पुरुषो नृप। अव्यक्तं विंशते सूक्ष्मं निरिन्धन इवानलः ।। 12॥


वारिंणा हृतगन्धा भूः सलिलत्वाय कल्पते। सलिलं सद्धृतरसं ज्योतिष्ट्वायोपकल्पते॥13॥


Page 427


अव्यक्तं विशतीत्युक्त्वा तस्य विस्तारो वारिणा हृतगन्धेत्यादि। ‘सङ्खपविस्तराभ्यां तु कथयन्ति मनीषिणः।


बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्' इति शब्दनिर्णये॥13॥


कालात्मना हृतगुणं नभ आत्मनि लीयते। इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नुप ॥15॥ नभ आत्मनि लीयत इत्युक्त्वेन्द्रियाणीत्याद्यपि विस्ताराय॥15॥


प्रविशन्त ह्यहङ्कारं स्वगुणैरहमात्मनि ॥16॥


आत्मनि - बुद्धौ ॥16॥


एषा माया भगवतः सर्गस्थित्यन्तकारिणी। त्रिवर्णा वर्णिताऽस्माभिः किं भूयः श्रोतुमिच्छसि ॥17॥ राजोवाच - यथैतामैश्वरीं माया दुस्तरामकृतात्मभिः।। तरन्त्यजः स्थूलधियो महर्ष इदमुच्यताम् ॥18॥ ‘त्रिवर्णा वरणादुक्तात्रिगुणानां हरेर्मतिः। गुणात्मकत्वात् प्रकृतिस्त्रिवर्णेति प्रकीर्त्यते। तत्र तु प्रकृतिस्तार्या तारिका तु हरेर्मतिः। उभयं विष्णुमायोक्तं ज्ञातव्यमुभयं तथा' इति च॥ ‘बहूनां सहनिर्देश एकयाऽभिधयैव तु। तयैवाभिधया तेषां परामृश्यैकमुच्यते।


Page 428


तामेतामान्तरां रीतिं विदुः शब्दविदो जनाः' इति च॥ 17, 18॥ प्रबुद्ध उवाच - कर्माण्यास्भमाणानां दुःखहत्यै सुखाय च। पश्येत्वाकविपर्यासं मिथुनीचारिणां नृणाम् ॥19॥


नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना। गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥20॥


|


"


एवं लोकं परं विध्यान्नश्वरं कर्मनिर्मितम्। अतुल्यातिशयध्वंसाद्यथा मण्डलवर्तिनाम्॥21॥ मण्डलवर्तिनः – युद्धरङ्गस्थाः॥ ‘देव सजाया मुच्यन्ते मानुषा उभयात्मकाः। विजाया एव योगेशास्तेषां या यैव योग्यता। तथा तथैव मुच्यन्ते नान्यथा तु कथञ्चन' इति सन्दृश्ये॥19-21॥


तत्र भागवतान् धर्मान् शिक्षेनुर्वात्मदैवतः।


अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मद हरिः ॥23॥


सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु। दयां मैत्रीं प्रश्रयं च भूतेष्यद्धा यथोचितम् ॥24॥ ‘सन्तस्तुत्रिविधाः प्रोक्ता उत्तमा मध्यमाधमाः। उत्तमा देवतास्तत्र ऋष्याद्या मध्यमा मताः।


Page 429


अधमा मानुषोत्कृष्टास्ते चापि त्रिविधा मताः। तत्राधमेषु येषां तु सङ्गो विघ्नाय वै भवेत्। तेषामुत्तमसङ्गस्य तेषां सङ्गं परित्यजेत्। आदौ तु तेषामपि च सङ्ग उत्तमसङ्गतेः। साधनत्वान्न तु त्याज्यो यदि त्यक्तुं न शक्यते। तदा तेऽपि तथा नेया यथा विघ्नो न वै भवेत्। तदुच्चसङ्गतेः क्वापि तदा दोषो न जायते। प्रयोजनाय तेषां तु सङ्गः सर्वात्मनेष्यते। सर्वथा चैव देवेषु सङ्गो मुनिगणेषु च। भाव्यो हि तं विना नैव पुरुषार्थः क्वचिद्भवेत्। विशेषतः स्वोत्तमेषु विना सङ्गान्न मुच्यते।


स्वनीचेषु तु देवेषु विना सङ्गं न पूर्यते। तस्मात् सत्सूत्तमेष्वेषु सङ्गः कार्यो विशेषतः। अनाद्यनन्तकालेषु न च हाप्यः कथञ्चन। सतां सदुत्तमेशेशे किमु विष्णौ परायणे' इति गारुडे॥ ‘बह्वपेक्षो हि जिज्ञासुरतो देहादिवृत्तये। किञ्चित्सत्स्वपि सङ्गी स्यादशक्ये सति वर्तने। कृतकृत्यस्त्यजेत् सङ्गं सदा गुरुसुरादिषु।। सङ्गी स्यान्न हि तत् सङ्गं विना तु सुखभाग्भवेत्। तस्मादनाद्यनन्तैव सक्तिर्गुरुसुरादिषु।


Page 430


अन्यत्र कृत्यापेक्षा स्यादिति सङ्गविनिर्णयः' इति भविष्यत्पर्वणि॥24॥


श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हिं। मनोवाक्कायदण्डं च सत्यं शमदमावपिं॥27॥ श्रद्धा भागवते तन्त्रे वेदे भारतपञ्चमे। विष्णोरव्यवधानेन वक्तृत्वात् सर्वथा भवेत्। कला विद्यास्वनिन्दा च व्यवधानेन केशवे। प्रवेशाद्यतिभिः कार्या ह्यन्यथा निरयं व्रजेत्।


श्रन्नामास्तिक्यबुद्धिः स्यात् सा चैव द्विविधा मता। अत्रोक्तमस्तीत्येकाऽत्र ममात्रास्ति प्रयोजनम्। इत्यन्या तत्र पूर्वा तु यतेः कार्या कलास्वपि। द्वितीया न तु कर्तव्या पञ्चरात्राविरोधिषु। सदैव निंदा सर्वेश्च ब्रह्मादिस्थावरान्तकैः। सम्यक् कार्या तद्विना च तमो यान्ति विनिश्चयात्। कुर्वन्त्येव सुरास्तत्र तदन्येषां तमो भवेत्। पञ्चरात्रं च वेदाश्च मूलरामायणं तथा। पुराणं भागवतं चैव भारतं न विभिद्यते। एतेष्वपि यथा विष्णोराधिक्यप्रतिपादनम्। तद्भक्तानां च क्रमशः स एवार्थो न चापरः। अन्यथादृश्यमानं तु मोहायैव विनिर्दिशेत्।


Page 431


तस्मात् सर्वेषु शास्त्रेषु विष्णोराधिक्यमेव तु। क्रमेण च तदीयानां प्रतिपाद्यं न चापरम्' इति ब्रह्माण्डे। ‘अन्दन्तमः प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव ते तमो यो उ विद्याया रताः' इति च। ‘गृहिणोऽप्यल्पबोधस्य न कलासु प्रयोजनम्।


आवर्तयेद्वेदतन्त्रं मुख्योक्तो हरिरत्र हि' इति हरिवंशेषु॥27॥


एवं कृष्णात्मनातेषु मनुष्येषु च सौहृदम्।। परिचर्या चोभयत्र महत्सु नृषु साधुषु ॥30॥ कृष्णात्मनाथेषु मनुष्येष्वपि सौहृदं किमु महत्सुदेवादिषु ॥30॥ पिप्पलायन उवाच - स्थित्युद्भवप्रलयहेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु सन्बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सन्जीवितानि तदवैहि परं नरेन्द्र ॥ अहेतुः स्वस्य होतुरन्यो नास्ति। बहिः प्रलये मुक्तौ च॥36॥


नैनं मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः।


शब्दोऽप्यबोधकनिषेधतयाऽऽल्ममूलमर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ‘ब्रह्माद्या यं न जानन्ति करणाद्यभिमानिनः। जानन्त्यनुग्रहाच्चास्य प्रधानाग्निं यथाऽर्चिषः। अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च तत् स्फुटम्। वेदरूपा परं देवं वैलक्षण्यात् समस्ततः।


Page 432


आनन्दो नेदृशानन्द इत्युक्ते लोकतः परः। प्रतिभाति न चाभाति यथावद्दर्शनं विना' इति ब्रह्मतर्के।


बोधकः - परमेश्वरः। ईदृशानन्दो न भवतीति निषेधवचनार्थ एव न सिद्ध्यति विलक्षणानन्दाभाव इत्यर्थतः सिद्धिः॥37॥


सत्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीक्म्। ज्ञानक्रियार्थपलरूपतयरुशक्तिं ब्रह्मैव भाति सदसच तयोःपरं यत् ॥38॥ 'त्रिगुणात्मकं प्रधानं च रजः सत्त्वं तमस्तथा। प्राणो महानहङ्कारो जीवस्तदभिमानिनः। ज्ञानात्मकानीन्द्रियाणि तथा कर्मात्मकानि च। शब्दाद्यर्थाः सुखं दुःखमिति प्रोक्तं द्विधा फलम्। एतत् सर्वं हरे रूपमित्याहुर्कानदुर्बलाः। स एव बहुशक्तित्वाद्भाति चैषां तथा तथा। एवं कारणकार्याख्यं समस्तं हरिमेव तु। केचित्पश्यन्ति च व्यस्तं केचिदाहुरपण्डिताः। एवं कारणकार्येभ्यः परमानन्दरूपिणम्। अज्ञानाद्वहुधा प्राहुरेकं सन्तं सुदुर्जनाः। रूप्यत्वात् तद्वशत्वाच्च तद्रूपं चैतदीर्यते। न तु तस्य स्वरूपत्वान्निर्दोषानन्दरूपिणः। कथं जडाजडैक्यं स्यात् कुतः पूर्णाल्पमोदयोः।


Page 433


पूर्णाल्पज्ञानयोश्चैव पूर्णसत्यल्पशक्तयोः। निर्दुःखदुःखान्वितयोः स्वतन्त्रपरतन्त्रयोः।


अतःसर्वगुणैर्युक्तं सर्वदोषविवर्जितम्। अन्याभेदेन विज्ञाय तम एव प्रपद्यते। निष्कृष्टं सर्वतो विष्णुं सर्वतश्च विलक्षणम्। ज्ञात्वापूर्णगुणं यान्ति मुक्तिं नास्त्यत्र संशयः इति तन्त्रभागवते॥ 'अहं हि जीवसङ्घको वै मयि जीवः सनातनः। मैवं त्वयाऽनुमन्तब्यं दृष्टो जी मयेति है। अहं श्रेयो विंधास्यामि यथाधीकास्मीश्वरः इति मोक्षधर्मेषु॥38॥ नासौ जजान न मरिष्यति नैधतेऽसौ नक्षीयते स च न विध्यतिं चारिणा हिं।


सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितम् सत् ॥39॥ ‘यथेन्द्रियगतः प्राणस्तेषां शक्त्या विकल्प्यते। दृष्टिदः श्रुतिदश्चैव मतिदो ज्ञानदस्तथा। इत्यादिभेदतो वाच्य एक एव महाबलः। दृष्ट्यादिशक्तिस्तस्यैव यतो नान्यस्य कस्यचित्। एवं तद्रूपकं ब्रह्मतत्तच्छत्या विकल्प्यते।।


Page 434


एवमेव महाशक्तिः प्राणस्यापि बलप्रदम्' इति हरिवंशेषु॥39॥


अण्डेषु पेशिषु तरुष्यवनिस्थितेषु प्राणेषु जीव उपधावति तत्र तत्र। छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ 46 ॥ ‘पेशो जरायुरुद्दिष्टः सुवर्णं पेश उच्यते। मृदुपिण्डश्च पेशं स्यात् क्वचिद्भद्रमपीष्यते' इत्यभिधानम्। अवनिस्थितेषु स्वेदजेषु। भूस्वेदेन हि प्रायो जायन्ते। तदा कूटस्थे परमात्मन्यास जीवः। यं परमात्मानमृते सुप्यनुस्मृतिरेव न। ‘देहाद्देहान्तरगतौ प्रविशेत् प्राणमेव तु।


जीवः प्राणः परात्मानमेवं सुप्तावपि स्फुटम्। तदन्या देवताः सर्वाः प्राणस्यैव वशे स्थिताः। ईषच्च सुप्तवद्यान्ति नैव मानुषजीववत्॥ स्वर्गस्थानां न तु स्वापः प्रायो देहेऽपि नाज्ञता। मृतिसुप्तिप्रबोधादेर्नियन्ता हरिरेकराट्। तमृते नैव चावस्थानावस्तावान्न च स्मृतिः। ततस्तु देवदेवेशः प्राणः प्राणेश्वरो हरिः। न हरेरीशिता त्वन्यः स हि सर्वाधिको मतः' इति हरिवंशेषु॥40॥ राजोवाच - एतत् प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके। नाब्रुवन् ब्रह्मणः पुत्रस्तत्र कारणमुच्यताम् ॥42 ॥


आविर्होत्र उवाच -


Page 435


-


--


कर्माकर्मविकर्मेति वेदवादो न लौकिकः। वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ।। 44 ।। ‘जानन्तोऽपि हि दुर्जेयः प्रश्नोऽयं ज्ञानिनामपि। इति वेदयितुं ब्रह्मपुत्रा नोचुर्निमेः पुरा' इति तन्त्र भागवते॥ ईश्वरात्मत्वात् - ईश्वरविषयत्वात्॥44॥


नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः। विकर्मणा ह्यधर्मेण मृत्योर्मत्युमुपैति सः ।। 46॥


अज्ञः सन्नाचरन्नपि। विकर्मणा मृत्योर्मृत्युमुपैति॥46॥


L


वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे। नैष्कर्म्यं लभते सिद्धिं रोचनार्थं फलश्रुतिः ।। 47॥ स एवेश्वरार्पितं कुर्वाणः सिद्धिं लभते॥ अज्ञात्वा कुर्वतः कर्म स्खलनात् पापकारणम्। तदेवार्पयतो विष्णोर्नेव पापाय तद्भवेत्। मनोदोषविहीनस्य न तु दोषवतः क्वचित्। सत्सु केशवपूर्वेषु क्रमशो भक्तिहीनता। असद्भक्तिस्तथा स्नेहो बहुमानमथापि वा। स्वोत्तमानां प्रियत्यागदात्मप्रियचिकीर्षया।


आधिकेष्वेव नीचोच्छभक्तिव्यत्यास एव वा। स्वोत्तमस्यात्मनैश्चैव समस्नेहोऽथवा भवेत्।


Page 436


कार्येषु बहुमाने वा स्वात्मनः समताऽपि वा।


आधिक्ये किमु वक्तव्यमात्मनः शक्तिहापनम्। शक्तस्याशक्तवत्कर्म मनोदोषा इतीरितीः' इति कर्मतन्त्रे॥47॥


लब्ध्वा चाब्यक्रमाचार्यं तेन सन्दर्शितागमः। महापुरुषमभ्यर्चेन्मृत्यऽभिमतयाऽऽत्मनः ॥ 49॥ अव्यग्रत्वेनाचार्यं लब्ध्वा। ‘परीक्ष्यैव गुरुः शिष्यं शिष्योऽपि गुरुमाव्रजेत्।


अन्यथा नरकायैव प्रायश्चित्तं गुरोस्तथा' इति च॥49, 50॥


अर्चादौ हृदये वाऽपि यथालब्धोपचारकैः। द्रव्यक्षित्यात्मलिंङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥51 ॥ द्रव्यलिङ्गं शिलाद्यं स्यादात्मलिङ्गं मनोमयम्। अथवा स्थण्डिलं चैव विष्णोर्लिङ्गं प्रकीर्तितम्' इति च॥51॥


आत्मानं तन्मयं ध्यायन् मूर्ति सम्पूजयेद्धः। शेषमाधाय शिरसि स्वधाम्प्युट्ठास्य सत्कृतम् ॥ 55॥ तन्मयं - तत्परधानम्। 'विष्णोभृत्योऽहमित्येव सदा स्याद्भगवन्मयः। नैवाहं विष्णुरस्मीति विष्णुः सर्वेश्वरो ह्यजः' इति च॥55॥


Page 437


एवमझ्यर्कतोयादाक्र्चयेद्धृदये च यः। यज्ञेश्वरं स्वामात्मानमचिरान्मुच्यते हि सः ॥56॥ स्वादानात् स्वात्मनो व्याप्त्या विष्णुः स्वात्मेति कथ्यते। न तु जीवस्वरूपत्वात् स हि जीवेश्वर प्रभुः' इति शब्दनिर्णये॥56॥


॥ इति एकादशस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥ 11 - 3॥


यः॥11 - 4॥


भूतैर्यदा पञ्चभिंरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन्। स्वांशेन विष्टः पुरुषाभिधानमवार नारायण आदिदेवः ॥3॥ 'विष्णोस्तुपुरुषाख्यानि त्रीणि रूपाण्यतो विदुः। प्रथमं महतः स्रष्ट्र द्वितीयं त्वण्डसंस्थितम्। तृतीयं देहिनां देहे तानि ज्ञात्वाविमुच्यते' इति माहात्म्ये॥3॥


यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विंशतो बलमजईहासत्वादिभिः स्थितिलयोद्भव आदिकर्ता॥4॥


यत्काये॥4॥


आदावभूच्छतधृती जसाऽस्य सर्ने विष्णुः स्थितौं क्रतुपतिर्द्विजधर्मसेतुः ।। हुद्रोऽप्ययाय तमसा पुरुषः स आद्य इल्युद्भवस्थितिलयाः सततं प्रजासु ॥5॥ ‘ब्रह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत्। पृथक् स्थित्वा जगत्पाति तद्बह्माद्याहृयो हरिः' इति ब्राह्मे॥


Page 438


रजसा तमसा च ब्रह्मरुद्रदेहसृष्टेः। रागक्रोधकारणत्वाच॥5॥


धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्य नारायण नर इति स्वतपः प्रभावः। नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋफ्र्यिनिषेविताङ्घिः ॥


ज्ञानरूपः प्रभावरूपश्च॥6॥


इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्ग सगणं स बर्युपाख्यम्। गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिंज्ञः ॥ 7 ॥ ‘ज्ञानरूपानपि सुरान् विना प्राणं क्वचित् परे।


आविशन्ति ह्यतस्तेषामज्ञानादि न तु स्वतः' इति देवतत्त्वे। ‘अथैनमेवमाप्नोद्योऽयं मध्यमः प्राणः। एवमेता देवताः पाप्माना विद्धाः तं हासुरा ऋत्वा विदध्वंसुर्यथाऽश्मानमाखणमृत्वा विध्वंसतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः ॥ ‘सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्योमपहत्याथैनां मृत्युमत्यवहत् सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्' इत्यादि श्रुतिश्च॥7॥


त्वां सुन्वतां सुरकृती बहवोऽन्तराया- स्तान् को विलय परमं व्रजतात् पदं ते। नान्यस्य बर्हिषि बलिदतः स्वभाग धत्ते पदं त्वमविता यदि विघ्मूर्ध्नि॥10॥ स्वभागं बलिं ददतो विघ्नमूर्ध्नि यदि भवान् पदं धत्ते। तर्हि नान्यस्य बलिः॥10॥


हंसस्वरूप्यवदच्यतु आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽक्तीर्ण-


Page 439


स्तेनाहृता मधुभिदा शृतयो यास्ये ।। 17॥ ‘कुमारनामा तु हरिर्ब्रह्मचारिवपुः स्वयम्।


सनत्कुमाराया परं प्रोवाच जगदीश्वरः' इति स्कान्दे॥ 'विष्णोः सनत्कुमाराख्याच्छुश्रुवुर्ज्ञानमुत्तमम्।


सनत्कुमारप्रमुखा योगेशाः परमेश्वराः इति प्रकाशिकायाम्॥17॥ संस्तुन्वतोऽब्धिपतिताञ्च्छमणानृर्षीश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम्। देवस्त्रियोऽसुरगृहेः पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे॥ ‘सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा। ध्वान्तं निवारयास्माकं मुमुद्रीति च वादिनः' इति व्यासतन्त्रे॥ ‘स्मरणात् तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात्। हिरण्यकहृताश्चापि तथैवाप्सरसां गणाः' इति प्रभञ्जने॥19॥ दैवासुरे युधिं स वैत्यपतीन् सुरार्थे। हत्वाऽन्तरेष उ भुक्नान्यधात् कलाभिः।


भूत्वाऽथ वामन इमामहरद्वलेः क्षमा याञ्ज्ञाछलेन समदाढदिते सुतेभ्यः ॥20॥ ‘उपेन्द्ररूपी भगवान् प्रतिमन्वन्तरं प्रभुः।


असुरान् हन्ति नियतं श्राद्धदेवे च वामनः' इति वामने॥20॥


॥इति एकादशस्कन्धतात्परये चतुर्थोऽध्यायः ॥ 11 - 4॥


Page 440


॥पञ्चमोऽध्यायः॥11 - 5॥


वदन्ति तेऽन्योन्यमुपासितश्रियो गृहेषु मैथुन्यपरेषु चाशिषः। यजन्त्यसृष्टान्नविंधानदक्षिणा वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥8॥ ‘ये तु विष्णुमवज्ञाय श्रियमेव ह्युपासते। उपेक्ष्य वा हरि ते तु भूत्वा याज्याः पतन्त्यधः इति प्रवृत्तिसंहितायाम्॥8॥ लोके व्यवायामिषमद्यसेवा निंत्यास्तु जन्तोर्न हि तत्र चोदना। व्यवस्थितिस्तेषु विहाय यज्ञान् सुराग्रहैरासुरवृत्तिरिष्टा ।। 11॥ ‘व्यवायामिषमद्यानि हरेः पूजार्थमेव तु। वामदेव्यो नाम यज्ञो व्यवायो हरिपूजनम्। पितृयज्ञो देवयज्ञो मांसेन हरिपूजनम्। व्यवाययज्ञे मद्यं तु सोमात्मकतयेष्यते।


क्षत्रियादेर्न विप्राणां विप्रो दोषेण लिप्यते। अरागतः प्रवृत्तिः स्याद्रागो दोषस्य कारणम्। घ्राणभक्षोऽथवा यज्ञे दैवे सर्वस्य चेष्यते। पैष्टमद्यस्य माध्ळ्यादि क्षत्रियस्य न दुष्यति। देवे रत्यैव च प्रीतिर्विष्णोः पुत्रात्तु मानुषे। तस्माद्विहितमात्रेषु रागं मुक्त्वा यथाविधि। समाहितो हरिं स्मृत्वावर्तन्याजी हरेर्भवेत्' इति क्रियाविधाने। यज्ञान् विहाय न चोदना॥11॥


Page 441


यड्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा। एवं व्यवायः प्रजया न स्त्यै इमं विशुद्धं न विदुः स्वधर्मम् ॥13॥ ‘यज्ञेष्वालम्भनम् प्रोक्तं देवतोद्देशतः पशो। हिंसानाम तदन्यत्र तस्मात् तां नाचरेद्बुधः। यतो यज्ञे मृता ऊर्ध्वं यान्ति देवे च पैतृके।


अतो लाभादालभनं स्वर्गस्य न तु मारणम्' इति च॥13॥


द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम्। मृतके सानुबन्धऽस्मिन् बद्धस्नेहाः पतन्त्यदः ॥15॥ स्वात्मानं स्वस्मिन्नाप्तं च। ‘आप्तत्वादात्मशब्दोक्तं स्वस्मिन्नपि परेषु च। जीवादन्यं न पश्यन्ति श्रुत्वैवं विद्विषन्ति च॥ एतांस्त्वमासुरान् विद्धिलक्षणैः परुषाधमान्' इति हरिवंशेषु॥15॥


एवं युगानुसारेण भगवान् युगवर्तिभिः। मनुजैरिंज्यते राजन् श्रेयसामीश्वरो हरिः ॥35॥ ‘ध्रुवं तयैव मुच्यन्ते यां मूर्ति प्रदिशेद्रुः। शिष्याणां योग्यताऽभिज्ञो विघ्नहानिस्तु तद्युगे। अवतीर्णहरेर्मू तत्पूर्वयुगजेन च। नृसिंहमूर्त्या च तथा यां चान्यां प्रदिशेद्रुः इति स्वाभाव्ये॥35॥


Page 442


देवर्शिभूताप्तनृणां पितृणां न किङ्करो नायमृणी च राजन्। सर्वात्मना यः शरणं शरण्यं गतौ मुकुन्दं परिचर्यया च ।। 42॥ ‘सर्वात्मना हरेर्भक्ता देवेशा एव केवलम्। देवास्तु सर्वथा भक्ता भक्ता एवेतरे स्मृताः। हरिभक्त्याऽधिकेष्वेव किङ्करश्चाप्यूणी तथा। हरिभक्तो नेतरेषां वासुदेवव्यपाश्रयात्। द्विधैव स्वोत्तमर्णानि दातव्यानीतराणि च। दातव्येभ्यो विमुच्येत नेतरेभ्यः कथञ्चन। कथं हि देवाद्यनुपकृतो भक्तो मोक्षेऽपि वर्तयेत्। बिम्बत्वात् तदधीनम् हि स्वरूपं सर्वशो यत’। इति जीवनिर्णये॥42॥ स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः। विकर्म यच्चोत्पतिंतं कथञ्चिद्धनोति सर्वं हृदि सन्निविष्टः ॥43॥ 'उदकैश्च नमस्कारैः स्तुतिभिर्मनसा तथा। यतिभिश्चापि सम्पूज्या देवा मोक्षमियासुभिः। मध्ये विष्णुमनुस्मृत्य नान्यथा तु कथञ्चन' इति समायाचारे॥ ‘प्राधान्येन हरियॆयत्तत्सम्बन्धात् सुरादयः। ध्येया नान्यत् क्वचिच्यायेद्धरावनुपयोगि यत् इति हरिसंहितायाम्॥43॥


Page 443


वैरेण यं नृपतयः शिशुपालपौण्ड्र साल्वादय गतिविलासविलोकनायैः। ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम्


॥49॥ ‘पौण्डुकादिषु दैत्येषु सुरांशाः सन्ति सर्वशः। बहुमानफलं विष्णोस्ते यान्त्यादाय सद्गतिम्। विद्वेषस्य फलं यत्तु तदादायासुरास्तमः। यान्त्यतो नैव विद्वेषो विष्णोः कार्यः कथञ्चन' इत्यंशविवेके॥49॥


॥इति एकादशस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥5॥


॥ षष्ठोऽध्यायः॥11 - 6॥


त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विंभाब्य ब्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजिंत कर्मभिरुज्यते वै यः स्वे सुखेऽव्यवहितेऽभिस्तोऽनक्यः ॥8॥ यः - प्रकाशरूपः॥8॥ पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छीः । यः सुप्रणीतममुयाऽर्हणमाददानों भूयात् सदाऽफ्रिरशुभाशयधूमकेतुः ॥12॥ ‘अस्पर्धिनी स्पर्दिनीव श्रीरास्ते वनमालया। न हि स्पर्धादयो दोषाः संविद्रूपां स्पृशन्ति ताम् इति वामने॥12॥


Page 444


नस्यौतगाव इव यस्य क्शे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः। कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य॥13॥ तनुभृदायुषि सम्बद्धः( सम्बयसमानशतवर्षमभिमानशून्यश्चेति।) तनुभृदायुषि रज्यमानाः। ‘ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः' इति भारते॥


अस्यासि हेतुरुदयस्थितिसंयमाना मव्यक्तजीवमहतामपि कालमात्रः। सोऽयं त्रिंणाभिरखिलाफ्चये प्रवृत्तः कालो गभीरस्य उत्तमपूरुषस्त्वम्॥14॥ कालमात्रः कालनिर्माता ज्ञाता च। सृष्टिलयाध्यर्थम्। नित्यत्वेन च।


अव्यक्तस्यापि स्रष्ट्रत्वात् काल एवंभूतः तस्मादप्युत्तमस्त्वम्। ‘कालाज्जीवात् तथाऽव्यक्तान्महतश्चोत्तमो यतः। उत्तमः पुरुषस्तस्माद्भगवान् विष्णुरच्युतः' इति च॥14॥


त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः। सोऽयं त्वयाऽनुगत आत्मन आण्ङकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ ‘नारायणाख्यः परमः शेते लक्ष्म्याऽन्वितो लये।


स एव पुरुषाख्यं तु द्वितीयं रूपमात्मनः। कृत्वारमायां पुरुषनामानं तु चतुर्मुखम्।


Page 445


प्रधानाख्यां च गायत्रीं ससर्ज पुरुषात्मकः। चतुर्मुखः स पुरुषो महत्तत्त्वाभिधं पुनः। प्रधाननाम्यां गायत्र्यां ससर्जात्मानमेव तु।


श्रद्धाभिधां च गायत्रीं ताभ्यां शेषोऽन्वजायत इत्यादि सृष्टिविक्षेपे॥16॥ तत् तस्थुषश्च जमतश्च भवानधीशो यन्माययस्थगुणविक्रिययोपनीतान्। अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः पस्कृितानपि बिभ्यति


स्मा ॥17॥ येऽन्ये ज्ञानिनः स्वतः परिहृतान् विषयान् बिभ्यति॥17॥


बिभ्रत्तवामृतकथोंदवहास्त्रिलोक्याः पादाक्नेजसरितः शमलानिं हन्तुम्।


आनुश्रवं श्रुतिभिरञ्जिजमङ्गसङ्गैस्तीर्थद्वयं शुचिक्दस्तदुपस्पृशन्ति ॥19॥ सर्व बिभ्रतस्तव॥19॥


यदुवंशेऽक्तीर्णस्य भक्तः पुरुषोत्तम। शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥25॥


'वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम्।


अवतीर्णस्य कृष्णस्य यदा प्रागात् तदा हरिम्। स्वस्थानगमनापेक्षी ब्रह्मातुष्टाव सामरः। संवत्सरद्वयं चैव पश्चात् स्थित्वा जनार्दनः।


अभिपेदे परं स्थानं चतुर्मासाधिकं पुनः' इति भविष्यत्पुराणे॥25॥


Page 446


यद्यसंहृत्य दृष्टानां यदूनां विफुलं कुलम्। गङ्गाऽस्म्यनेन लोकोऽयमुल्बर्णन विनयति ॥30॥ ‘सतामपि कलौ प्राप्ते विकारो मनसो भवेत्। तस्माद्यश्च सञ्जहे नैते स्युः पापिनस्त्विति। पुनर्लोकविवृद्ध्यर्थमौत्तरेयादिकान् हरिः।


आविश्य रक्षामकरोज्जगतः पुरुषोत्तमः। स्वात्मनः सह यानेन पुरुषार्थोऽधिको भवेत्। इत्यनुग्रहबुद्ध्या च सञ्जहे स्वकुलं विभुः' इति च ॥30॥


  • 14


.


वयं त्विह महायोगिन् भ्रमन्तः कर्मक्र्मसु। त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥48॥


आत्मनोत्तमतां ब्रूयुरुत्तमा अपि सर्वशः। कदाचिदेव स्वगुणान् स्निग्धेष्वेव हि साधवः' इति नारदीये॥48॥


॥ इति एकादशस्कन्धतात्पर्ये षष्ठोऽध्यायः ॥ 11 - 6॥


॥ सप्तमोऽध्यायः॥11 - 7॥


यदिदं मनसा वाचा चक्षुभ्य श्रवणादिभिः। नश्वरं गृह्यमाणं च विद्धि मायां मनोमयीम्॥7॥ विद्धिमायां मनोमोयीम् - मन्मनःप्रधानप्रकृतिर्निर्मिताम्। ‘प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी।


ऋता सत्याऽमराऽजय्या लोकानामात्मसज्ञिता।


Page 447


इति मोक्षधर्मेषु॥7॥ पुंसोऽयुक्तस्य नानार्थे भ्रमः स गुणदफ्कृत्। कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥8॥ ‘स्वर्गाद्याश्च गुणाः सर्वे दोषाः सर्वे तथैव च।


आत्मनः कर्तृताभ्रान्त्या जायन्ते नात्र संशयः। परमात्मानमेवैकं कर्तारं वेत्ति यः पुमान्। स मुच्यतेऽस्मात् संसारात् परमात्मानमेति च' इति भारते॥ इदं मया क्रियते, इदं मया न क्रियते, इदं मया विपरीतं क्रियत इति बुद्धिभेदो रजस्तमोगुणनिमित्तो भ्रमः। सर्वं हि परमेश्वरः करोति॥8॥


तस्माद्युक्तेन्द्रियजयो युक्तचित्त इदं जगत्।


आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥9॥ ‘आत्मशब्दोदितो ब्रह्मापरमात्माऽभिधो ह्यहम्। सर्वं ब्रह्मणि विक्षेत मयि ब्रह्माणमेव च’ इति कालसंहितायाम्॥9॥ ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम्।


आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे ।। 10 ॥ आत्मभूतः - आत्मवद्भूतः। ‘आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन' इति वचनात्॥10॥


दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते। गुणबुड्या च विहितं न करोति यथाऽर्भकः ॥11॥


Page 448


कर्तृत्वमात्मनो यस्माज्ज्ञाननिष्ठो न मन्यते। अतः कुर्वन्नपि सदा दोषबुद्ध्या न निन्दितम्। गुणबुड्या न विहितं किंत्वीशप्रेरितोऽस्म्यहम्। स एव च मयि स्थित्वा निन्द्यानिन्छे करोत्यजः। न मे दोषो न च गुणः कर्तृत्वाभावतः स्फुटम्। स्वतन्त्रत्वान्न चेशस्य येऽज्ञास्तेषु भवेदपि। इति मत्वा निवर्तेत निन्द्यात् कुर्याद्णानपि' इति बोद्धव्ये॥ ‘अनित्या मे गुणा न स्युर्दोषा नैव कथञ्चन। इति मत्वाशुभं कुर्यान्निवर्तेदशुभादपि। ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात्। किन्तु पूर्णगुणायैव न तु दोषापनुत्तये।


न चाल्पगुणसिद्ध्यर्थं बालवत् कृतनिश्चयः' इति वैशारद्ये॥11॥


सर्वभूतसुहृच्छान्त ज्ञानविज्ञाननिष्चलः। पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः ॥12॥ ‘वैलक्षण्याद्धेरेभिर्ने तत्तन्त्रत्वात् तदात्मकम्। इति विश्वं प्रपश्यन्ति ज्ञाननिष्ठा हरेः प्रियाः' इति सार्वज्ञे॥12॥


उद्धव उवाच -


योगेश योगविन्यास योगात्मन् योगसम्भव। निःश्रेयसाय मे प्रोक्तस्त्यागः सन्यासलक्षणः ॥ 14 ॥ योगो देवादिषु तेन न्यस्त इति - योगविन्यासः।


Page 449


‘ज्ञानंतु योगशब्दोक्तं युज्यतेऽनेन यत्सुकम्। क्वचद्योग उपायः स्यात् क्वचिचित्तनिरोधनम् इति दत्तात्रेययोगे।


अत्र ज्ञानमुपायश्च॥14॥


है



L


सत्यस्य ते स्वसदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षु । सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ॥17॥ अभगवत्स्वरूपत्वात्तनुभृत्त्वम्। बहिरर्थापेक्षयैव च तेषां मोहः। परमसुखसाधानादन्योऽर्थों बहिरर्थः। ‘अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा। इच्छा च क्रीडयैवास्य न फलाय यतो विभोः। अतो बाह्यार्थकामोऽपि निष्काम इति कथ्यते। ब्रह्मानिरभिमानित्वाच्छरीर्यप्यशरीरवान्। नित्यानन्दोपयोग्यान्यकामस्योज्झितितः सदा। बहिरर्थविनिर्मुक्तस्तथाऽपि तनुधारणात्। अमूढो मूढ इतिवदुच्यते च सरस्वती। रुद्राद्यास्तन्वभीमानाद्भहिरर्थयुजस्तथा। सर्वेषां ब्रह्मपदवीयोग्यानां पूर्वमेव तु। अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते। ब्रह्मणस्त्वंशरूपेषु भारत्याज्ञानवर्जनम्। ब्रह्मगायत्रीभावे तु नांशावतरणं क्वचित्।


Page 450


शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते। आपरोक्ष्येण पारोक्ष्यात् पूर्णज्ञानं सदैव तु। शतजन्मगतायाश्च आपरोक्ष्योज्झितिर्भवेत्। क्वचित् क्वचित् सरस्वत्यामंशावतरणेष्वपि' इति शक्तिविवेके॥ ‘आशरीरो वायुरभ्रं विद्युत्स्तनयितुरशरीराणि वा एतानि' इति च श्रुतिः। ‘श्रुतिभिः स्तनितत्वात् तु स्तनयिनुर्हरिः स्मृतः। अर्श्वभूतानि भरणाच्छीर्वायुर्भरतः स्मृतः। विद्युत् तु भारती प्रोक्ता एत एवाशरीरिणः। व्यत्यासेनापि नाम स्यादेतेषां महतां सदा इत्युभयनिरुक्ते॥17॥ तस्माद्भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमखण्डविकुण्ठदिष्ण्यम्। निर्वेधधरहरहरवृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥18॥ ‘विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्नरः स्मृतः। सेन्द्रेश्चतुर्भिः पार्थस्तु द्वाभ्यां तु बललक्षणौ ॥ इत्यंशविवेके॥18॥ श्री भगवानुवाच - प्रायेण मनुजा लोके लोकतत्वविचक्षणाः। समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥19॥ लोके तत्त्वे च विचक्षणाः। ‘पारोक्ष्येणैव तत्त्वं तु लोकं चापि विदन्ति ये। तेऽपि सत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात्।



|


Page 451


अपरोक्ष्यान्नच ज्ञानं तेषामुत्पद्यते क्वचित्' इति षाङ्गुण्ये॥19॥


त्वं हि नः पृच्छतां ब्रह्मन्नाल्मन्यानन्दकारणम्। ब्रूहि स्पर्शवीहीनस्य भवतः केवलात्मनः ॥30॥ केवलात्मनः - शरीरमात्रपरिग्रहस्य॥30॥


शश्वत्परार्थसर्वेहां परार्थेकान्तसम्भवम्। साधू शिक्षेत भूमेश्च अनुशिक्षं व्रतान्तरम् ॥38॥ परार्थीकान्तसम्भवम्। आत्मनो वृद्धिश्च परार्थेति। ‘सज्जनार्थेऽनुमन्येत ऐहिक वृद्धिमात्मनः। पारत्रिकीमैहिकीं च प्रीतये गुरुदेवयोः।। देवतानां च सर्वेषां स्वोत्तमानां च सर्वशः॥इति च॥38॥


अन्तर्बहिंश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन।


व्याप्त्या व्यवच्छेदमसङ्गमात्मनो मुनिंर्नभवद्विततस्य भावयेत् ॥ ‘जीवान्तर्यामको विष्णुरात्मनाम समीरितः। तस्य तु ब्रह्मरूपत्वाद्वहिरन्तस्तथैव च।। पश्येदाकाशवव्याप्तिमसङ्गत्वं च नित्यशः' इति तन्त्रभागवते॥42॥


तेजोऽबन्नमयैर्भावैर्मेघौघैर्वायुनेरितैः। न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ 43॥ ‘गुणान् जीवस्य चेष्टव्यान् सिद्धान् विष्णोर्गुणांस्तथा।


Page 452


तत्तदृष्ट्या विचिन्वीत पृथगेव सुधीः सदा' इति लोकतत्त्वे॥43॥


स्वच्छः प्रकृतितः स्निग्धो माधुर्यतीर्थवन्नृणाम्। मुनिः पुनात्यघान्मित्रमीक्षणस्पर्शकीर्तनैः ॥44॥ ‘मधुनाम सुखं विन्द्यान्माधुर्यं सुखहेतुता। सुखे रतिर्वा सम्प्रोक्ता शब्दतत्त्वविचक्षणैः' इति शब्दनिर्णये॥44॥


तेजस्वी तपसा दीप्तो दुर्धर्षो दूरभाजनः। सर्वभक्षोऽपि युक्तात्मा नादत्ते पापमग्निवत् ॥ 45॥ दूरत एव भजनीयः। ‘पराभवो धर्षणं स्यादवज्ञानमथापि वा। न तत्सत्सु सदा कुर्यात् सह शय्यासनं न च' इति सद्गुणे॥45॥


क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम्। भुङ्गे सर्वत्र दातृणां वहन् प्रागुत्तराशुभम् ॥ 46॥



स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः। प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि॥47॥ ‘जीवस्य छन्नतां शिक्षेत् प्रविष्टत्वं परात्मनः। तत्तद्णविडम्बं च वह्नः सर्वमथापि वा। अल्पदारौ यथाऽल्पोऽग्निरेवमल्पशरीरगः। दृश्यते परमात्माऽपि स्थूलः स्थूलशरीरगः' इति वैभवे॥46,47॥


Page 453


कालनद्योघवेगेन भूतानां प्रभवाप्ययौ। नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ॥ 49॥ ‘अवयव्यवयवानां च गुणानां गुणिनस्तथा। शक्तिशक्तिमतोश्चैव क्रियायास्तद्वतस्तथा। स्वरूपांशांशिनोश्चैव नित्याभेदो जनार्दने। जीवस्वरूपेषु तथा तथैव प्रकृतावपि। चिद्रूपायामतोऽनंशा अगुणा अक्रिया इति। हीना अवयवैश्चेति कथ्यन्ते तेऽत्यभेदतः। पृथग्गुणाद्यभावाच्च नित्यत्वादुभयोरपि। विष्णोरचिन्त्यशक्तेश्च सर्वं सम्भवति ध्रुवम्। क्रियादेरपि नित्यत्वं व्यक्त्यव्यक्तिविशेषणम्।


भावाभावविशेषेण व्यवहारश्च तादृशः। विशेषस्य विशिष्टस्याप्यभेदस्तद्वदेव तु।


सर्वं चाचिन्त्यशक्तित्वाद्युज्यते परमेश्वरे। तच्छत्यैव तु जीवेषु चिद्रूपप्रकृतावपि। भेदाभेदौ तदन्यत्र ह्युभयोरपि दर्शनात्। कार्यकारणयोश्चापि निमित्तं कारणं विना' इति ब्रह्मतर्क। ‘आत्मनि चैवं विचित्राश्च हि। 'सर्वोपेता च तद्दर्शनात्। 'सर्वधर्मोपपत्तेश्च । 'स्वाभाविकी ज्ञानबलक्रियाच। 'यत्रा सप्तऋषीन् पर एकमाहुः' इत्यादेश्च॥ ‘विना दोषांच्छुतमद्धाऽवगम्यं तथा स्मृतं परमे सत्यरूपम्।


Page 454


नैवासत्यं क्वचिदस्मिन् परेशे सर्वं युक्तं पूर्णशक्तेः सदैव इति च विश्वम्भरश्रुतिः। तस्मादेकस्मिन्नपि शरीरे भेदाभेदात् प्रभवाप्ययौ युज्यते। न च विरोधः। स्थूलसूक्ष्मवत्। आपेक्षिकत्वमत्रापि युज्यते॥49॥


बुद्धिसंस्थेन भेदेन व्यक्तस्थ इव तद्गतः। लक्ष्यते स्थूलमतिभिरात्मा चाम्बुस्थितार्कक्त् ॥51 ॥ ‘बुद्धिसंस्थस्त्वात्मभेदो व्यक्तस्थो जीव उच्यते। तेनैव सह संस्थानात् परात्मा स्थूलबुद्धिभिः।


जीववल्लक्ष्यते विष्णुर्यथैवाम्बुस्थितार्कवत्। परमार्कः पारिमाण्याद्वर्तुलत्वादिना तथा। अर्कस्वरूपानभिज्ञैः शिरपादादिवर्जितः। अचेतनश्च कल्प्येत तत्तेजोमात्रदर्शिभिः। सूर्यदेहादिभिन्नं हि तेजोमण्डलमेव तु। दृश्यते स्थूलमतिभिरेवमेव जनार्दनः' इति प्रभासके॥51॥


॥ इति एकादशस्कन्थतात्पर्ये सप्तमोऽध्यायः ॥11 - Z॥


॥ अष्टमोऽध्यायः॥11 -8॥


दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः। प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥7॥ ‘महतां वनिताकामः पतत्यन्धे तमस्यलम्।


Page 455


अन्यत्र निरयं याति दुःखवान् स्याद्विपर्यये इति धर्मसंहितायाम्॥


योजिद्धिरण्याभरणाम्बरादिंद्रव्येषु मायाचितेषु मूळः। प्रलोभितात्मा खुपभोगबुड्या पतङ्गवन्नश्यति नष्टदृष्टिंः ॥8॥ ‘मोहकारणभूतां तु मायेत्याहुर्मनीषिणः।


अविद्यमानं मेत्युक्तं तज्ज्ञापयति यत् स्वयम्। कुत्रचिज्ज्ञानरूपं सल्लाभरूपं च भण्यते। मयं प्राचुर्यमुद्दिष्टं माया स्यात् प्रचुरेत्यपि’इति तन्त्रनिरुक्ते॥ ‘स्वतन्त्रं परमार्थाख्यं स्ततन्त्रैका हरेर्मतिः। सैव माया समुद्दिष्टा मुख्यतस्तत्स्वरूपिका। मतिमन्मतिभेदोऽपि न विष्णोः क्वचिदिष्यते। पारमान नास्त्येव तदन्यत् तद्वशं यतः। आनाद्यनन्तकालेषु विद्यमानमपि ध्रुवम्। अतो मायामयं प्राहुः सर्वं तद्वशगं यतः इति मयावैभवे॥ ‘स्वाधीनं सदिति प्रोक्तं पराधीनमसत् स्मृतम्।


अविद्यमानमेतस्माज्जगदाहुर्विपश्चितः।


अनाद्यनन्तकालेषु विद्यमानमपि ध्रुवम्। अस्वातन्त्र्यात् तु नास्त्येवेत्येवं वाच्यं जगत् सदा। सदा वृत्तेर्विद्यमानमिति ब्रूयाद्यदि क्वचित्।


Page 456


तथाऽपि नाशवद्धीदं प्रवाहायस्य नित्यता। अतो निवर्त्यमित्याहुः प्रपञ्चो ह्यस्ति यद्यपि। विष्णोरिच्छावशत्वाच्च मायामात्रमिति स्फुटम्। परमार्थं त्वेकमेव स्वातन्त्र्याद्विष्णुमव्ययम्। यदि कल्पयतीदं स स एव विनिवर्तयेत्। विष्णुस्तस्मात् तद्वशत्वान्नास्तीति द्वैतमुच्यते। स्वातन्त्र्येण हरौ ज्ञाते पराधीनत्वनिश्चयात्। इत्याहुरपदेष्टार आचार्यास्तत्त्ववेदिनः॥ यथैव राजनि ज्ञाते नान्योऽस्तीति स्फुटं वचः। स्वातन्त्र्यात् पारतत्र्याच्च तद्रूत्यादिषु सत्स्वपि। यथैकछत्रवांश्चैव एकवीर इतीव च। तथैव सर्वप्राधान्यादद्वितीयो हरिः स्मृतः। एवं मुक्ता विजानन्ति सायुज्यं प्रापिता विभोः। अनन्तकालं पश्यन्तो जगदेतच्चराचरम्। तस्यैतस्य ह्यविज्ञानात् केवलभ्रान्तिरूपकम्। जगदुत्वा तमो यान्ति ईशितव्येशशापतः' इति च ॥ ‘पुत्रा मे यदि विद्यन्ते मरिष्यन्त्येव ते ध्रुवम्। यदि राज्यं करोत्येष नश्यत्येतदसंशयम्' इति धृतराष्ट्रवचनात्। ‘प्रपञ्चो यदि विद्येत' इत्यादि। ‘यदिशब्दस्त्ववस्तुत्वे चास्वातन्त्र्ये च संशये।


Page 457


अवस्तुशब्दश्चाशक्ते ह्यल्पशक्तौ च कीर्त्यते' इति शब्दनिर्णये॥7॥


सहृत् प्रेष्ठतम नाथ आत्मा चायं शरीरिणाम्। तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा॥34॥ ‘भगवद्भार्यतायोग्याः काश्चिदप्सरसः स्त्रियः। रमाऽऽवेशात् कदाचित्स्युस्तास्वेका पिङ्गलाऽभवत्।


तदन्यासां महान् दोषो भगवद्भर्तृतास्मृतौ’ इति स्वाभाव्ये॥34॥


॥ इति एकादशस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥ 11 - 8॥


यः॥11 - 9॥


वासो बहूनां कलह भवेद्वार्ता द्वयरपि। एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥10॥ ‘असज्जनैस्तु संवासो न कर्तव्यः कथञ्चन। यावद्यावच्च बहुभिः सज्जनैः स तु मुक्तिदः' इति सद्भुणे॥10॥


यस्मिन् मनो लब्धपदं यदेतच्छनैः शनैर्मुञ्चतिं कर्मरेणून्। सत्वेन वृद्धेन रजस्तमश्च विंधूय निर्वाणमुपैतिनिन्धनम् ॥12॥ ‘बाह्य मनो विलीनं स्यान्मुक्तौ चिन्मात्रकं मनः। तेनैवानुभवेत् सर्वं स्वात्माभिन्नेन मुक्तिगः' इति मुक्तितत्त्वे॥12॥


Page 458


एको नारायणो देवः पूर्वसृष्टं स्वमायया। संहृत्य कालकलया कल्पान्त इदमिश्वरः ॥16॥


एक एवाद्वितीयोऽमृदाल्माधारोऽखिलाश्रयः। कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।। 17॥


सत्त्वादिष्यादिपुरुषः प्रधानपुरुषेश्वरः। परावराणां परम आस्ते कैवल्यसंज्ञितः ॥18॥ ‘कालप्रकृतिजीवादी लयेऽसत्यप्रवर्तनात्। तन्निमित्तस्य कार्यस्य विष्णुरेक इतीर्यते। स हि कालादिकं सर्वं वर्तयत्यमितद्युतिः' इति तत्त्वलये॥ ‘प्रकृतिश्च गुणाश्चैव शक्यत्वाच्छक्तयः स्मृताः। विष्णोः स्वरूपभूतां तु शकनाच्छक्तिरुच्यते' इति शक्तितत्त्वे॥16 - 18॥


यत्र यत्र मनो देही धास्येत् सकलं धीया। स्नेहाद्वेषाद्भयाद्वाऽपि याति तत्तत्सरूपताम् ॥22॥ ‘भयादपि हरि भक्त्या चिन्तयंस्तत्स्वरूपताम्। पेशस्कारिवदायाति द्विषन् द्वेषसरूपताम्। सुखरूपस्य हि द्वेषो दुःखरूप इतीर्यते। तस्माद्दुःखं सदा याति द्वेषवान् पुरुषोत्तमे। नृसिंहद्वेषतो दुःखं रक्षोरूपेण रावणः।


Page 459


अगाच्छ रामविद्वेषाच्छिशुपालस्तथैव च। ततो भक्त्या परं यातो द्वेषरूपस्त्वधोगतिम्। तस्मात् सर्वगुणोद्रेके विद्वेषात् सर्वदोषवान्। भवेदिति स्वरूपत्वं द्वेषादेः पुरुषस्य हि' इति तन्त्रभागवते॥ ‘तं यथा यथोपासते तदेव भवति । ‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो


भूर्भूरित्येव प्रश्वसित्यभूरित्यसुरास्ते ह पराबभूवुः इत्यादि च॥22॥


कीटः पेशस्करं ध्यायन् कुड्यान्तैन प्रवेशितः। याति तत्समतां राजन् पूर्वरूपं स सन्त्यजन्॥23॥ ‘सत्यप्यत्यल्पविद्वेषे भोजनं दास्यतीति तु। स्नेहबाहुल्यतः कीटः पेशस्कारिसमो भवेत्। द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धति। सरूपता तदैव स्यात् कीटस्यैवं हरेरपि। अत्यल्पोऽपि हरेर्द्वषः स्नेहस्यानुदयङ्करः। सोऽयं विशेषो नान्यस्य फलदाता हि केशवः। न हि पेशस्कृतः किञ्चित् फलदातृत्त्वमिष्यते। स्वातन्त्र्याद्विद्विषां चैव केशवो न सुखप्रदः' इति स्वातन्त्र्यविवेके॥23॥


Page 460


देहो गुरुर्मम विरक्तिविवेकहेतुर्भिभ्रत्स्म सत्त्वनिधनं सततात्युदर्कम्। तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसित विंचराम्यसङ्गः ॥25॥ सत्त्वनिधनः सत्त्वं निधीयेतेऽस्मिन् परमेश्वर इति। ‘सततमतिशये नोचैरर्करूपः' इति सततात्युदर्को भगवान्॥25॥


जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यः प्रियचिकीर्षितमावितन्वन्। सोऽन्ते सृकुच्छमवरुद्धमनाः स्वदेहं सृष्ट्वास्वबीजमवसीदति वृक्षधर्मा ॥26॥ बीजार्थमारोहणादिकं कुर्वन्निति॥26॥


न ह्येकस्माद्रोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम्। ब्रह्मेतद्वितीयं वै मीयते बहुधर्षिभिः॥31॥ ‘एकस्मात् तु गुरोर्चानं जायते नैव कस्यचित्। एकस्मादेव जायेत योग्याद्वह्मपदस्य तु। स्वयं चोपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनि। अनुग्रहात् तेन चापि ज्ञानं दत्वाविमुक्तिदः। ज्ञानं प्राप्य बहुभ्योऽपि नर्ते मुक्तिश्चतुर्मुखात्। ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव हि' इति गुरुविवेके॥31॥


॥ इति एकादशस्कन्धतात्पर्ये नमोऽध्यायः ।। 11 - 9॥


॥दशमोऽध्यायः॥11 - 10॥


सुप्तस्य विषयालोको ध्यायतो का मनोऽस्थः। नानात्मकत्वाद्विफलस्तथाऽभेदः स्वधीमुणैः ॥3॥


Page 461


बुद्धिगुणैः कामक्रोधादिभिरभेदो विफलः। ‘वस्तुस्थितेरन्यथात्वं नानात्वमिति कीर्तितम्। ज्ञानस्यैव तु नानात्वान्न स्यात् कामाद्यहंमतिः। कामादिषु स्वधीस्थेषु केवलं जीवसंस्थितिः। इति बुद्धिरभेदः स्यात् स न कार्यः कथञ्चन॥


अदुष्टकामश्चिद्रूपो जीवाभिन्नः स्वरूपतः। दुष्टकामो मनोधर्मस्तस्माद्ध्येयः सदैव सः' इति विवेके॥3॥


निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत्। जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ 4 ॥ ‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते। निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्। इति भारते॥4॥


यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित्। मदभिज्ञं गुरु शान्तमुपासीत मदात्मकम् ॥5॥ ‘मामेव नित्यं ध्यायेद्यो मदात्मा स प्रकीर्तितः' इति च ॥5॥


निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान्। अनुप्रविष्ट आत्ते एवं देहगुणान् परः ॥9॥


योऽसौगुणैर्विरचितो देहोऽयं पुरुषस्य हिं। संसारस्तन्निबन्धोऽयं पुंसोऽविद्यास्थितात्मनः ॥10॥


Page 462


‘अदेहधर्मवान् विष्णुर्देहधर्मवदीर्यते।


जीवस्त्वदेहधर्माऽपि परतो देहधर्मवान्। स्वयं त्वनभिमानः सन्नज्ञानामेव दर्शयेत्। विष्णुर्जीवस्त्वभीमानी यवद्विष्णुपदं व्रजेत्’


इति विष्णुसंहितायाम्॥9, 10॥ तस्माजिज्ञासयाऽऽल्मानमाल्मस्थं केलं परम्। सङ्गम्य निस्सेदस्य वस्तुबुद्धिं यथाक्रमम् ॥11॥ ‘अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विह भण्यते। तस्मादेकं परं ब्रह्म वस्तुशब्दोदितं सदा' इति लक्षणे॥11॥


वैशारदी साऽतिविशुद्धबुद्धिधुनोति मायां गुणसम्प्रसूतिम्। गुणांश्च सन्दह्य यदात्म्यमेतत्स्वयं च शाम्यत्यसमिद्यथाऽग्निः ॥13॥ ‘पिशाचवतु स्थिता माया तुच्यते जीवगा सदा।। दह्यन्ते तद्गुणा सर्वे सा च प्रातिस्विकी नरे' इति वैभाव्ये॥ एतच्छब्देन दुःखादिरपरोक्षतयोच्यते। ‘क्वचिद्विश्वं क्वचिद्वह्मक्वचिन्निन्द्यमुदीर्यते' इति तन्त्रनिरुक्ते। ‘बाह्यान्तःकरणाजन्यं ज्ञानं नश्यति मुक्तिगे। स्वरूपज्ञानतो भोगान्मुक्तौ भुङ्के यथेष्टतः' इति मुक्तितत्त्वे॥13॥


अथैषां कर्मकर्तृणां भोक्तृणां सुखदुःखयोः। नानात्वमथ नित्यत्वं लोककालाममात्मनाम् ॥14॥


Page 463


मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी तथा। तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥15॥


एवमप्यत्र सर्वेषां देहिनां देहयोगतः। कालवयवतः सन्ति भावा जन्मादयोऽसकृत् ॥16॥ 'देहापेक्षमनित्यत्वं जीवानां जननं तथा। स्वतस्त्वजाश्च नित्याश्च बहवः सुखरूपिणः। उत्तमा जीवसङ्घाश्च नीचा वै नित्यदुःखिनः' इति जीवतत्त्वे॥14 -16॥


तत्रापि कर्मणा कर्तुरस्वातन्त्र्यं च लक्ष्यते। भूक्तुश्च सुखदुःखानां को न्वर्थो विववशं भजेत् ॥17॥ ‘स्वाधिकानां वशत्वात् तु परमं सुखमेव तु। तदन्येषां वशे यस्तु किं सुखं तस्य भण्यताम्। स्वाधिकानां वशत्वं च तेषु भक्तिमतः सुखम्। तदन्येषां तु दुःखाय तस्माद्भक्तोऽधिको भवेत्' इति च॥17॥


न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि। तथा च दुःखमूढानां वृथाऽहङ्कारिणां परम् ॥18॥ विदुषामपि देहमानिनां यदा न विद्यते सुखं तदा दुःखमूढानामहङ्कारिणां च किम्वित्यर्थः। ‘पुनः शब्दे प्रस्तुतार्थे तथा शब्द उदीर्यते। इति शाब्दे॥18॥


Page 464


यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः। तेऽप्यद्धा न विदुर्योगं मृत्युनं प्रभवेद्यथा ॥19॥ ये तु विद्वत्वेन प्रसिद्धाः प्राकृतानां तेऽप्यद्धा न विदुर्देहाभिमानिनश्चेत्। दुःखमूढा अधीराः अहङ्कारिणो विशेषतोऽप्यविद्यमानगुणाभिमानिनः॥


गुणाः सृजन्ति कर्माणि कालोऽनुसृजते गुणान्। जीवस्तु गुणसंयुक्तो भुङ्के कर्मफलान्यसौं ॥31॥


यावत्स्याद्णवैषम्यं तावन्नानात्वमात्मनः। नानात्वमात्मनो यावत् पातन्त्र्यं तदैव हि ॥32॥


यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम्। य एतत्समुपासीरंस्ते मुह्यन्ति शुचाऽर्पिताः ॥33॥ यावत्स्याद्णवैषम्यमित्यादि य उपासीरंस्ते मुह्यन्तिगुणसंयुक्तः कर्मफलानि भुङ्क्॥31 - 33॥


काल आत्माऽऽगमो लोकः स्वभाव धर्म एव च। इतिं मां बहुधा प्राहुर्गुणव्यतिकरेऽसति ॥34॥ असति गुणव्यतिकरे कालादिनामानं मामेवाहुरिति स्वसिद्धान्तः। ‘कालः सर्वगुणोद्रेकादाप्तत्वादात्मनामकः। आगमोऽवगतेरस्य लोको ज्ञानस्वरूपतः। स्ववशत्वात् स्वभावोऽयं धारणाद्धर्म इत्यपि। उपासते सदा मुक्ताः परानन्दैकभोगिनः। तदेतत्तत्त्वमज्ञात्वाप्राहुर्मतयः परे।


Page 465


यावत्तु गुणवैषम्यं तावन्नानात्वमात्मनः। भेदबुद्धिस्तु यावत्स्यात् तावदीश्वरतन्त्रता। यावदीश्वरतन्त्रत्वं तावत् तस्माद्भयं भवेत्। उपासते य एवं तु नित्यशोके पतन्ति ते। महातमस्यनानन्दे तस्मान्नैवं विचिन्तयेत्। तस्मान्नित्यं तु नानात्वं जीवानामीशतन्त्रता। स्वाधिकानां वशत्वं च मुक्तावपि सदेष्यते। एवं ज्ञात्वाविमुच्यन्ते परानन्दं व्रजन्ति च' इति तन्त्रभागवते॥34॥ उद्धव उवाच - गुणेषु वर्तमानोऽपि देहजेष्यनपावृतः। गुणैर्न बध्यतेऽदेही बध्यते वा कथं विभोः ॥35॥ अदेही - परमात्मा। बध्यते चेत् कथं बध्यते॥35॥


एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर। नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिः ॥ 37॥ नित्यमुक्तो नित्यबद्ध इत्येकजीववादिमतानुसारेण चोदयति। 'न मे मोक्षो न बन्धनम्। ‘एकस्यैव ममांशस्य जीवस्यैवं महामते। बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरत्। अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते' इत्यादिपरिहारात्॥37॥ ‘शिष्योऽपि पूर्वपक्षस्थस्तदेवात्ममतं ब्रुवन्।


Page 466


नैव दुष्यत्यसत्येन स्थिरत्वार्थं हि तद्वचः' इति विक्षेपे।


॥ इतिं एकादशस्कन्धतात्पर्ये दशमोऽध्यायः ॥ 11 - 10 ।।


॥ एकादशोऽध्यायः॥11 - 11॥ श्री भगवानुवाच - बद्धको मुक्त इति ह्याख्या गुणतो मे न वस्तुतः। गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ॥ 1 ॥ मे गुणतः। मद्वशसत्वादेः।

  • अमायत्वान्निर्गुणोऽहं बन्धमोक्षौ न चापि मे।

मदधीनस्य जीवस्य बन्धमोक्षौ मदेव तु” इति स्वाभाव्ये॥1॥


शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया। स्वप्ने यथाऽऽत्मनः ख्यातिः संसृतिर्न तु वास्तवी ॥2॥ ‘स्वप्नोऽयमित्यविज्ञानात् स्वप्ने दुःखमुपाश्नुते। निजस्वरूपानुभवराहित्यात् तद्वदेव तु।


जाग्रःखमपि प्रोक्तं विष्णुतत्त्वं न पश्यतः।


तस्मात् तदस्वभावत्वात् सदप्येतदवास्तवम्’ इति लोकसंहितायाम्॥2॥


विद्याविद्ये मम तनू विंयुद्धव शरीरिणाम्। मोक्षबन्धकरी आये मायाया मे विनिर्मिते ॥3॥


‘विद्याविद्ये मम तनू प्रतिमावत् सदोदिते।


Page 467


सदा तव्यतिरिक्तस्य नित्यज्ञानसुखात्मनः। मदिच्छावशगे नित्यमविद्यानिर्मिता गुणाः। सत्वाद्या मदधीनत्वादविद्याया न मे गुणाः।


अविद्या चैव विद्या च गुणाः सत्वादिका अपि। देहोत्पत्तिः सुखं दुःखं सर्वमेतन्मदिच्छया। अतोऽहं बन्धमोक्षाभ्यां रहितो नित्यमेव तु। मुक्तशब्दोदितो बन्धराहित्यान्न विमोकतः' इति कालसंहितायाम्। ‘श्रीस्तु विद्या सुमुद्दिष्टादुर्गाऽविद्या प्रकीर्तिता।


ते त्वनादी हरेरिच्छानियते सर्वदैव तु' इति मायावैभवे॥3॥


एकस्यैव ममांशस्य जीवस्यैवं महामते। बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरत् ।। 4 ।। ‘भिन्नांशस्यैव जीवस्य बन्धमोक्षौ न मे क्वचित्। अभिन्नांशास्तु मत्स्याद्यास्तेजसः कालवह्निवत्। जीवा भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवत्' इति वैलक्षण्ये॥4॥


‘मुक्तस्य तु न मे मोक्षो बन्धाभावात् कथञ्चन। मुक्त इत्यपि नामैतद्दीप्यतेऽसौ दिवाकरः। इतिवद्वन्धराहित्यान्न तु वृक्षादिदीप्तिवत्। कादाचित्कतया वाच्यं बन्धाभावादमोक्षतः। जीवस्य बन्धमोक्षस्तु मत्प्रसादात् कदाचन' इति तत्त्वोदये॥4॥


Page 468


अथ बस्य मुक्तस्य वैलक्षण्यं वदामि ते। विरुधर्मिणस्तात स्थितयोरेकधर्मिणि ॥5॥ मुक्तस्य - विष्णोः। 'नित्यशुद्धबद्धमुक्तसत्यसुखद्वयप्रत्यगेकपूर्ण इत्यतः पदान्वयात्' इत्यादिवचनात्। बद्धो - जीवः ‘बद्धा जीवा इमे सर्वे पूर्वबन्धसमन्वयात्। नित्यमुक्तत्वतो विष्णुर्मुक्तनामा सदोदितः। अबद्दत्वादमोक्षोऽपि दीप्यतेऽसौ रविर्यथा' इति ब्रह्मसंहितायाम्॥5॥


सुपर्णावेतौ सयुजौ सखायौ यदृच्छयैतौ कृतनी च वृक्षे। एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान्॥6॥


आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः। योऽविद्ययाऽन्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥ ‘अनत्तृत्वं हरेर्दुःखानत्तृत्वादुच्यते सदा। विषयान् विनाऽपि पूर्णत्वात् स्वरूपानन्दभोगिनः। सुखमत्त्येव हि सदा सर्वत्रापि स्थितं विभुः। स्वादोरदनवच्यत्तिजीवोऽस्वाद्वपि यत् सदा। अनारतं पारवश्यात् स्वाद्वत्तीति ततः श्रुतिः' इति भोगनिर्णये॥ अस्वादु स्वादुवद्यत्ति जीवो नैवं जनार्दनः। अतो नात्तीति वचनमश्नतोऽपि सुखं सदा” इति परभोगे।


आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ।गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 469


‘साशनानशनत्वेन नरदेवौ यथोदितौ।


अत्तिं विनाऽप्यदौर्बल्यात् तथाऽनत्तिर्हरेर्भुजः' इति स्वाभाव्ये। तदेव प्रोक्तं निरन्नोऽपि बलेन भूयानिति। स्वयं त्वत्त्येव तथाऽपि नादननिबन्धनम् तस्य बलमित्यर्थः। 'यत्र सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति। इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश। यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे। तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद इत्यादिवाक्यशेषात्। वृक्षे स्थित्वा मध्वदः सुपर्णाः यस्मिन्नश्नन्ति। सुपर्णे निविशन्ते तदाधारत्वेन सुवते च। तस्यैव सुपर्णस्य स्वाधु पिप्पलं अन्यस्तु स्वादुवदश्नाति न स्वादु । यावत् पितरं परमात्मानं न वेदेत्यर्थः। ‘सुपर्णो द्वौशरिरस्थौ जीवश्चपरमस्तथा। पारवश्यादनाजीवस्तत्रास्तीति श्रुतौ श्रुतः। स्ववशेनादनाद्विष्णुर्नात्तीत्यत्रापि संश्रुतः। स एव हि शुभस्यात्ताजीवोऽत्ताऽस्यैव वेदनात्’ इति धर्मसंहितायाम्॥ ‘सर्वं वा अत्तीति तददितेरदितित्वम् । ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः।


‘अत्ताचराचरग्रहणात्। “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च' इत्यादेश्च। ‘जीवोमुक्तोऽपि नोजवान् परमात्मानमेव च।


Page 470


वेत्ति सर्वात्मना विष्णुर्वेत्त्येकः पुरुषोत्तमः। तस्य प्रसादतः किञ्चिद्रह्माद्या अपि जानते। अन्यजीवानपेक्ष्यैको जानाति च चतुर्मुखः। सामस्त्येन तदन्ये तु लेशज्ञानाः क्रमात् स्मृताः' इति विनिर्णये॥ ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप' इत्यादि च। ‘अज्ञा जीवास्तु कथ्यन्ते मुक्ता अप्यल्पवेदनात्।


ज्ञ इत्येवोच्यते नित्यं सर्ववेत्तृत्वतो हरिः' इति वैशेष्ये॥ ‘अनाद्यविद्ययाऽन्धत्वं जीवस्य यदि योग्यता। प्रयत्नश्चानुकूलः स्यादन्तवद्भवति ध्रुवम्। नित्यमेवान्यथान्धत्वमयोग्या मानुषादयः। बद्धत्वं सर्वजीवानां नियमान्नित्यमेव तु। बद्धत्वं विष्ण्वधीनत्वमन्धत्वं तददर्शनम्। अतः क्वचिदनित्यत्वमन्धताया भविष्यति। मुक्तस्यापि तु बद्धत्वमस्ति यत् स हरेर्वशः। मुक्ताख्या दुःखमोक्षात्स्याद्वद्धाख्या हर्यधीनतः। नित्यबद्धा अपि ततो मुक्तादुःखविमोक्षतः। नित्यमुक्तस्त्वेक एव हरिर्नारायणः प्रभुः।


स्वतन्त्रत्वात् स्वतन्त्रत्वं तस्यैकस्य न चापरे' इति मुक्तविवेके॥ ‘शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगणस्य दैत्य।


आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणंच तेषाम् ॥


Page 471


‘कृष्णो मुक्तिरिज्यते वीतमोहैः। ‘मुक्तानां परमा गतिः' इत्यादि भारते॥ ‘कलाः पञ्चदश त्यक्त्वा श्वेतद्वीपनिवासिनाम्। मुक्ताख्या विष्ण्वधीनास्ते स्वाधिकानां वशे स्थिताः। न चास्मादधिकं किञ्चित् सुखमस्तिहरेर्विना। नित्यमुक्तः स एवैकः स्वतन्त्रः स यतः सदा' इति माहात्मे॥6,7॥



देहस्थोऽपि न देहस्थो विद्वान् स्वप्नायथोत्थितः।


अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा ॥8॥ ‘शरीरस्थोऽपि विद्वत्त्वान्न विष्णुर्बध्यते क्वचित्।


अविध्वत्वात्तु तत्रैव देहे जीवस्तुबध्यते। स्वप्नदृग्वदिमे जीवा हरिः स्वप्नोत्तितो यथा। सदा तमोविहीनोऽपि ज्ञापनार्थमुदीर्यते' इति विवेके॥8॥


इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च। गृह्यमाणेष्यहं कुर्यान्न विद्वान्यस्त्वविक्रियः ॥9॥ गुणैरपि गुणेषु। अप्रधानैर्वैरप्रधानेषु विषयेषु। ‘आत्मनो वशगैर्जीवैरात्मनो वशगेषु च। दुःखेषु गृह्यमाणेषु मनादिभिरिन्द्रियैः।


अहं दुःखीति नैवेशस्त्वहङ्कुर्यात् परः पुमान्। जीवगं त्वेव तद्दुःखं विष्णुः पश्यति सर्वदा।


Page 472


अतो न दुःखभाग्विष्णुः स्वातन्त्र्यात् पुरुषोत्तमः। पारतन्त्र्यादहं दुखीत्येवं जीवः प्रपश्यति। तस्मात् स दुःखभागुक्तो यावदीशः प्रसीदति' इति स्वातन्त्र्ये॥9॥


वैवाधीने शरीरेऽस्मिन् मुणभायेन कर्मणा। वर्तमानोऽबुधस्तत्र कर्ताऽस्मीति निबध्यते ॥10॥ गुणभाव्येन कर्मणा गुणभूतः। अस्वतन्त्रोऽहमस्मिन् कर्मणीति भावनीयेन। ‘अस्वतन्त्रः स्वतन्त्रोऽस्मीत्येवं जीवः प्रभावयन्। बध्यते हीशकोपेन राजभावेन भृत्यवत्' इति च॥10॥


एवं विरक्तः शयन आसनाटनमज्जने। दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु॥11॥


न तथा बध्यते विद्वांस्तत्र तत्राददद् गुणान्। प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥12॥ एवं विरक्तः शयने। एवमस्वातन्त्र्येण नित्यबद्धोऽपि एवमात्मनोःस्वातन्त्र्यपारतत्र्ययोर्विध्वान् जीवोऽप्यविद्वज्जीववन्न बध्यते। एवं विद्वानित्यन्वयः। 'नित्यबद्धोऽपि जीवो य आत्मनो नित्यबद्धताम्। विष्णुना नित्यमुक्तत्वं तस्य वेत्ति स मुच्यते॥ तदधीनत्वबन्धे तु विद्यमानेऽप्यदुःखभाक्। देहस्थोऽपि न दुःखी स्यादन्यमत्किमु मुक्तिगः' इति परायणे॥12॥


Page 473


वैशास्येक्षयाऽसङ्गशितया च्छिन्नसंशयः। प्रतिबुद्ध इव स्वमान्नानात्वाद् विनिवर्तते ।। 13॥ 'नानात्वमिति वै मिथ्याज्ञानं कुत्रचिदुच्यते। वस्तुयाथात्म्यतोऽन्यत्वाज्ज्ञानस्योज्झे विवक्षितः' इति वाल्लभ्ये॥11॥


न स्तुवीत न निन्देत कुर्वतः साध्यसाधु वा। वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुमुनिः ॥16॥ ‘दोषश्चैव गुणश्चोभावीशतन्त्रौ न मे वशौ। इति जानन्न दोषः स्याद्वर्जितोऽल्पगुणेन च ' इति प्राथम्ये॥16॥


न कुर्यान्न वदेत् किञ्चिन्नध्यायेत् साध्वसाधु वा।


आत्मारामऽनया वृत्त्या विचरेजडवत् स्थितः ॥17॥ ‘स्थितिशब्देन नियमः क्वचिज्जीवनमुच्यते।


उत्थितत्वं क्वचिच्चैव क्वचिद्गतिविरोधिता' इति शब्दनिर्णये॥17॥


शब्दब्रह्मणि निष्णात न निंष्णीयात् परे यदि। श्रमस्तस्य भ्रमफलो ह्यधेनुमिव रक्षतः ॥18॥


मां दुग्धबहामसत च भार्या देहं पराधीनमसत्प्रजां च। वित्तं त्वतीर्थिकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥19॥


यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य। लीलावतारेहितकर्म वा स्याद्वन्ध्यां गिरं तां बिंभूयान्न धीरः ॥20॥


Page 474


‘दुग्धदोहां तु गां रक्षेत् क्षीरमात्रप्रयोजनः।


यथा तद्वद्धरेरन्यवाचोधारणमिष्यते” इति हरिवंशेषु॥18-20॥


एवं जिज्ञासयाऽपोह्य नानात्वभ्रममात्मनि। उपास्मेत विरजं मन मय सर्वम्॥21॥ अर्थादन्यथात्वेन मनसः परिवर्तनं नानात्वभ्रमः। ‘जीवस्येशत्वविज्ञानं जीवानामेकता तथा। ईशस्य बहुताज्ञानमीशस्यानीशता तथा।


जगतोऽसत्यताज्ञानं नानात्वभ्रम उच्यते' इति विवेके॥21॥


त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः। अवतीर्णोऽसि भगवन् स्वेच्छोपात्थपृथग्वपुः ॥28॥ स्वेच्छोपात्तपृथग्वपुः। वसुदेवादिशरीरं स्वेच्छया येन स्वीकृतमिति। ‘नित्यानन्दशरीरोऽपि वसुदेवादिदेहगः। प्रदर्शयेज्जनिं स्वस्य नित्यं देहविवर्जितः। वसुदेवादिदेहेषु प्रवेशस्तस्य भण्यते। देहोपादानमिति तु न ह्यन्यो देह इष्यते। अन्याभिमतदेहेषु प्रविष्टः सर्वदा हरिः। नान्यानभिमतो देहो विष्णोरस्ति कदाचन। अतोऽशरीरो भगवान् पुत्रताभिमतिस्तुया। वसुदेवादिकानां तु सैव मिथ्यामतिर्भवेत्।


Page 475


अन्याहम्भावयुग्देह एवासौ हरिरास्थितः। न तदन्येषु देहेषु क्वचित् तस्य प्रवेशनम्। मम पुत्रस्त्वयमिति भ्रमणाय यदा हरेः। वसुदेवादिदेहेषु तनूपात्तिस्तु सा गतिः। अनुपात्तशरीरस्य तनूपात्तिरितीष्यते। तद्देहं पितृदेहत्वे उपादत्ते यतो हरिः इति प्रकाशिकायाम्॥28॥


ज्ञात्वाज्ञात्वाऽथ ये वै मां याकान्यश्चास्मि यादृशः। भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥33॥ ज्ञात्वाज्ञात्वेति वीप्सा। ‘ज्ञात्वापि मम माहात्म्यं तत्रोत्सुकतया पुनः। विशेषाच्च विशेषेण ज्ञात्वामामश्नुतेऽधिकम्' इति विज्ञाने॥33॥


सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम्। भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ॥42 ॥


|


वैष्णवे बन्धुसत्कृत्या हृदिं खे ध्याननिष्ठया। वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥44॥ ‘सर्वदेवोत्तमो वायुरिति ज्ञानान्नचापरम्। प्रियमस्ति हरेः किञ्चित् तथा वायोहरेर्विदः। भारतीवायुलक्ष्मीणामात्मनश्च यथाक्रमम्।


Page 476


आधिक्यज्ञानतो विष्णुः सर्वतः सम्प्रसीदति' इति माहात्म्ये॥ ‘वायोर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः। अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः' इति मोक्षधर्मेषु॥ ‘तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरथ पुनर्मुत्युं जयति य एवं वेद' इति च। ‘पञ्चभूतमनोबुद्धिरुद्राणां प्रतिदेहकम्। बाह्यान्तरेऽपि नेतृत्वाद्वायुर्व्यष्टिसमष्टिकः' इति प्रभञ्जने॥44॥


स्थण्डिले मन्त्रहृदयैर्भागैरात्मानमात्मनि। क्षेत्रनं सर्वभूतेषु समत्वेन यजेत माम्॥45॥ ‘स्वात्मनिस्थो हरिः पूज्य आत्मनामाऽशनादिकैः। तत्सम्बन्धादात्मशब्दो जीवे स्यादुपचारतः इत्यात्मसंहितायाम्॥45॥


॥ इतिं एकादशस्कन्धतात्पर्ये एकादशोऽध्यायः ॥ 11 - 11 ॥


| ॥द्वादशोऽध्यायः॥11 - 12॥ श्रीभगवानुवाच - न रोधयति मां योगो न साङ्ख्यं धर्म एव च। न स्वाध्यायस्तपस्त्यागो नेष्टापूर्ते च दक्षिणाः ॥1॥




Page 477


व्रतानि यज्ञाश्चन्धांसि तीर्थानि नियमा यमाः। यथाऽवरुन्धेन्मत्सङ्गः सर्वदुःखापहो हि माम् ॥2॥ ‘सङ्गस्तुगुणसम्प्रीतिर्गुणवत्त्वेऽतिनिश्चयात्। स चेद्धरौ भवेत् तेन मुच्यते नात्र संशयः। अपरोक्षदृशेर्हेतुर्भवेत् स स्याद्यदि क्षमः। अन्यथा सुखभागेव यद्दशिक्षकारणम्' इति दर्शने॥1,2॥ ते नाधीतश्रुतिंगणा नौपासिंतमहत्तमाः। अव्रताऽतप्ततपसो मत्सङ्गान्मामुपागताः ॥7॥


न्


,


केवलेन हि भावेन गोप्यो गावः खमा मृगाः। येऽन्ये मूळधियो नागाः सिद्धा मामीयुरञ्चसा ॥8॥


यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः। व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद्यत्नवानपि ॥9॥


मत्कामा रमणं जारमस्वरूपविंदोऽबलाः। ब्रह्म मां परमं प्रापुः शतशोऽथ सहस्रशः ॥13॥


तस्मात् त्वमुद्धवोत्सृज्य चोदितां प्रतिचोदनाम्। प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ।। 14 ॥


मामेकमेव शरणमात्मानं सर्वदेहिनाम्। याहि सर्वात्मभावेन यस्मिन्नस्त्यकुतोभयम् ॥15॥


Page 478


‘ज्ञात्वाऽपि हरिविद्वेषी तमो याति न संशयः। विशेषरूपस्याज्ञोऽपि गुणवत्त्वेऽतिनिश्चितः। गुणसम्प्रीतिमान् नित्यं तं दृष्ट्वा मुक्तिमेष्यति। अथवा सुखभागेव स्याद्यावद्दर्शनोपगः' इति व्यक्ते॥ ‘हरिसङ्गविहीनस्तु हरेर्दर्शनवानपि।


न मुच्यतेऽखिलाज्ञोऽपि तमो याति च निश्चयात्। गुणैरन्यैर्विहीनोऽपि तद्भक्तेष्वपि च क्रमात्। सङ्गवान् सुखभागेव स्याद्गुणैर्मुक्तिमेति च। स्वभक्तसङ्गहीनस्य व्युत्क्रमात् सङ्गिनोऽपि वा। स्वसङ्गविघ्नकृद्विष्णुस्तत्सज्येतेषु तत्र च' इति सत्सङ्गे॥ ‘गोपिकाद्या दिवं गत्वा हरि ज्ञात्वा यथातथम्। परं पदं ययुः पूर्वसङ्गादेव शुभोचिताः' इति च॥ ‘श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यमेव च। निवर्यं च हरेः पूजेत्येवं कुर्यान्नचाक्रमात्। एवं कृत्वा तु संन्यासी सर्वोत्सङ्गाद्धरौ स्मृतः। अन्यथा नैव संन्यासी निष्क्रियोऽपि शिला यथा' इति कर्मविवेके॥ नाहं कर्ता तु सर्वस्य कर्तेको विष्णुरव्ययः। इति वित्त्वा तु सन्यासि नान्यथा तु कथञ्चन' इति निवृत्ते॥ ‘मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममोभूत्वा यद्यस्व विगतज्वरः ॥ इति च॥7-9, 13-15॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 479


उद्धव उवाच -


संशयः शृण्वतो वाचं तव योगेश्वरेश्वर। न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ।। 16॥ वायौ मुख्यधीयेत्युक्त्वा विशेषतो गोपिकाप्रशंसनात् संशयः शृण्वतः इति चोदयति॥16॥ श्रीभगवानुवाच -


य एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः। मनोमयं सूक्ष्ममुपैति रूपं मात्रा स्वरो वर्ण इति स्थविष्ठम् ॥ गोपिका अपि मामापुः किमु वाय्वाद्या इति दर्शयितुं गोपिका प्रशंसनम्। सर्वैर्गुणैः सर्वोत्तमस्तु वायुरेव। स एव च हिरण्यगर्भ इति दर्शयितुमाह। य एष जीवो विवरप्रसूतिरित्यादि। विशेषेण वराणामहङ्कारादीनामपि प्रसूतिकर्ता। प्राणेन विष्णुना। घोषेण वेदात्मिकया प्रकृत्या। मनोमात्रादयश्च हिरण्यगर्भस्य देव्याः परमात्मनश्च व्यक्तिस्थानानीत्युक्तम्। ‘प्राणेन घोषेण च सह विवरप्रसूतिर्मनोमयं रूपमुपैति' इत्यादिना॥17॥



।'


यथाऽनलः खेऽनिलबन्धुरूष्मा बलेन दारुण्यधीमथ्यमानः। अणुः प्रजातो हविषा समिच्यते तथैव मे व्यक्तिस्यिं हि वाणी ॥18॥


एवं मतिः कर्मरतिर्विस घ्राणो रसो धृक् स्पर्शः श्रुतिश्च।


सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजः सत्वतमोविकारः ॥19॥ तत्रापि विशेषतो भगवत एव व्यक्तिस्थानमित्याह। 'यथाऽनलः' इत्यादिना॥18,19॥


अयं हि जीवत्रिवृदजयनिस्व्यक्त एक जगतामथाऽऽद्यः। विश्लिष्टशक्तिर्बहुधैव भाति बीजानिं योनिं प्रतिपद्य यद्वत् ॥20॥ विशेषेण श्लिष्टशक्तिः। अनपगतसामर्थ्यः। यथैकं कलमादिबीजं भूमावुप्तं बह्वङ्करम् भवति एवं


परमात्मानुगृहीतो ब्रह्माऽहङ्कारादिषु बहुधा व्यक्तीभवति।


Page 480


‘सुपर्णशेषरुद्रादिप्रसूतिश्चचतुर्मुखः।


सर्वजीवोत्तमो जीवो गुणैर्ज्ञानसुखादिभिः। विष्णुभक्त्यादिभिः सर्वैर्नियमात् सार्वकालिकम्। मुक्तावपि न सन्देहः स हि देवेन विष्णुना।


प्राणप्राणेन जगतामिशेन रमया तथा। वेदात्मिक्या च सहितः सूक्ष्मः सन्मनसि स्थितः। वीन्द्रादीनां तु सर्वेषां मात्रावर्णस्वरेषु च। स्थूलरूपी तथा तिष्ठन्नेवं श्रोत्रादिखेषु च। सर्वेषां प्रेरको ह्येको ज्ञानानन्दबलैस्त्रिवृत्। नित्यशक्तिः सर्वगः सन् बहुधेव प्रतीयते। तस्मिन्नोतमिदं सर्वं पटे लक्षणतन्तुवत्। स एव वायुरुद्दिष्टो वायुर्हि ब्रह्मतामगात्। विशेषेण हरेर्व्यक्तिस्थानान्येतानि सर्वशः। मन आदीन्यहङ्कारो ब्रह्मा वेदात्मिका रमा। त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका।


तस्या अपि नियन्तैको विष्णोः सर्वेश्वरेश्वरः। यथा दारुषु सूक्ष्मः सन्मथितोऽग्निः समिच्यते। तथा वेदादिषु हरिमर्थितः सम्प्रदृश्यते। व्यक्तिस्थानान्यथैतानि वेदादीनि हरेर्विदुः' इति तन्त्रभागवते॥ ‘मनसि व्यक्ततां यामि तस्माब्यक्तिर्हि मे मनः' इति भारते॥20॥


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 481


यस्मिन्निदं प्रोतमशेषमतं फ्ठे यथा तन्तुवितानसंस्था। य एष संसारतरुः पुराणः कर्मात्मकः पुण्यफले प्रसूते ॥21॥


‘यतैव वस्त्रे दीर्घ च तिर्यक् चापि सुसंस्थिता। तन्तुभिः क्रियमाणैव पद्माद्याकारसंस्थितिः। यथा जीर्णानि वस्त्राणि तन्त्वाधाराणि वा पुनः। कन्थावयवभूतानि तद्वदेतचतुर्मुखे। सोऽपि तद्वद्धरौ नित्यं संस्थितः श्रीरपि स्फटम्' इति प्रातिस्विके॥21॥


द्वे अस्य बजे शतमूलस्त्रिनालः फञ्चस्कन्धः पञ्चरसप्रसूतिः। दशैकशाखो द्विसुपर्णनीङस्त्रिवल्कलो द्विफलः खं प्रविष्टः ॥22॥


अन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः। हंसा य एवं बहुरूपमिष्टं मायामयं वेद स वेद वेदम् ॥


एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः। विवृश्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥24॥ ‘जगदृक्षस्य बीजे द्वे ब्रह्मा चैव सरस्वती। मूलभूतानि कर्माणि मनो बुद्धिरहङ्कतिः। नालत्वेन समुद्दिष्टाः खमाद्याः स्कन्धसंज्ञिताः। एकादशेन्द्रियाण्येव शाखास्तुत्रिगुणास्त्वचः।


Page 482


प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते। पुष्पमैहिकमुद्दिष्टं रसाः शब्दादयस्तयोः। प्रवृत्ताश्च निवृत्ताश्च पक्षिणस्तत्र संस्थिताः। वृक्षस्य पृथिवीवच्छीर्विष्णुराकाशवायुवत्। तस्या आपि सदाधार एवं ज्ञात्वा विमुच्यते' इति निवृते॥ ‘प्राकृतान्तः करणजं ज्ञानमत्रं सृतिच्छिदम्। तदेव तेन सञ्छेद्यं चित्तं प्रकृतिसम्भवम्। तेनैव सह सन्त्याज्यं नैव पूर्वं कथञ्चन। ज्ञानं प्रकृतिजं चापि मूलनाशे विनश्यति। ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम्। वेत्ति मुक्तस्तथाऽऽत्मानं जीवनन्यांश्च सर्वशः इति माहात्म्ये॥22 - 24॥ ‘बीजभूतावपि ह्यस्य ब्रह्मा चैव सरस्वती। न रिष्यतो जगत्सृष्टौवटवृक्षादिबीजवत्। स्वकार्यतो महान्तौ च गुणतो रूपतस्तथा। पृथिव्युदकवत् तस्माद्वीजत्वं न तु बीजवत्। व्यञ्जकत्वान्नचाल्वत्वान्महाक्ष्मा वद्रमा स्मृता।


अण्डो महाक्ष्मा सम्प्रोक्तस्ततः पृथ्व्युदकं तथा। जायते नित्यशस्तस्माद्भुक्तं भुक्तं न हीयते। तत्राप्युदकवब्रह्मा मृद्वच्चापि सरस्वती।


Page 483


जलाधारा यतो मृच्च सर्वत्रापि व्यवस्थिता। अन्यथा तु रजो भूता नीयते वायुनाऽखिला। अथवा सर्वनाशः स्याज्जलाधारा ततः स्मृता। वटादिबीजवत् तस्य पुण्यापुण्यमुदीरितम्। बाह्योदवच्चाग्निवच विष्णुरेव प्रकीर्तितः' इति सत्यसंहितायाम्॥ श्रीयादेरप्ययनत्वाद्वाह्योदवत्। ब्रह्मादेरपि लयकर्तृत्वादग्निवत्। आधारत्वात् सुखदत्वाच्च वायुवत्। अवकाशप्रदत्वाव्योमवद्विष्णुः। ‘व्रीह्यादिवत् तु मूलत्वं कर्माणां जगतः स्मृतम्। उदवत् पृथिवीवच्च ब्रह्मणो वाच एव च। मूलभूवच्छियश्चैव मूलभूरण्डमुच्यते। बाह्योदाग्निरखंवत् तु विष्णोजत्वमिष्यते' इति विश्वसंहितायाम्॥ 'देहेन्द्रियमनोवाक्षु स्थितो भक्तादिसाधकः। सुपर्णशेषरुद्रादेरपि ब्रह्मा चतुर्मुकः। अतो भक्त्यादिकाः सर्वे गुणास्तस्यैव सर्वगाः। अतिरिक्ताश्च सम्पूर्णाः सुपर्णादेः शताधिकाः। सुपर्णादिभिरज्ञातस्तदभीमानवर्जिताः। ब्रह्मणस्तु पुनः सन्ति तेषां कर्ता जनार्दनः। तस्मात् सर्वाधिको ब्रह्मा गुणैः सर्वैर्न संशयः। वर्णस्थो वर्णनामाऽसौ स्वरस्थः स्वरनामकः।


Page 484


मनःस्थश्च मनोनामा तन्नामा चक्षुरादिगः। तस्य सर्वाणि नामानि मुख्यतः कवयो विदुः। तत्स्थानत्वादिन्द्रियादेर्वर्णादेश्वोपचारतः। एवमस्योपचारेण विष्णोः साक्षात् तु मुख्यतः' इति शब्दनिर्णये॥ ‘कृष्णप्रियाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः।। महिष्योऽष्टौ विना यास्ताः कथिताः कृष्णवल्लभाः। ताभ्यः सहस्रसमिता यशोदा नन्दगेहिनी। ततोऽप्यभ्यधिका देवी देवकी भक्तितस्ततः।


वसुदेवस्ततो जिष्णुस्ततो रामो महाबलः। न ततोऽभ्यधिकः कश्चिद्भक्त्यादौ पुरुषोत्तमे। विना ब्रह्माणमीशेशं स हि सर्वाधिकः स्मृतः इत्यन्तर्यामिसंहितायाम्॥ ‘पापद्वेषादिका दोषा अवराणां न संशयः। भक्त्यादिगुणपूगस्तु पराणामाविरिञ्चतः। स्वातन्त्र्यात् सर्वेदेहेषु स्थितानामपि सर्वशः। स्पृश्यन्ते नैव दोषैस्ते गुणादानैकतत्पराः' इति विवेके॥ ‘यदु किञ्चेमाः प्रजाः। शोचन्त्यमैवासां तद्भवति। पुण्यमेवामुं गच्छति। न ह वै देवान् पापं गच्छति' इति च॥22-24॥


.


॥ इति एकादशस्कन्धतात्पर्ये द्वादशोऽध्यायः ॥ 11 - 12॥


11


॥त्रयोदशोऽध्यायः ॥11 - 13॥


Page 485


श्रीभगवानुवाच - सत्वाद्धर्मो भवेच्छुद्धात् पुंसो मद्भक्तिलक्षणः। सात्विकोपात्तया ज्ञानं ततो धर्मः प्रवर्तते ॥2॥ धर्मात् पुनः सत्वोद्रेकः। सत्वोद्रिक्त्या बुद्ध्या पुनः सत्वोद्रेकात् पुनर्धर्मोद्रेकः॥2॥


वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम्।


एवं गुणव्यत्ययजो वेदः शाम्यति तद्यथा ॥7॥ वेदो वृत्तिज्ञानम्।। ‘मुक्ताश्चाधीयते वेदान् जडज्ञानबहिष्कृताः। स्वरूपभूतज्ञानेन पश्यन्ति सर्वमञ्जसा' इति तात्त्विके॥7॥ सनकाय ऊचुः - गुणेश्वाविंशते चेतो गुणाश्चेतसि च प्रभो। कथम्न्योन्यसत्यागो मुमुक्षोः सन्तितीर्षतः ॥17॥ श्रीभमवानुवाच - एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः। ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥18॥


स मामचिन्तय देवः प्रश्नपारविनिश्चयम्।


तस्याहं हंसरूपेण सकाशमगमं तदा ॥19॥ प्रश्नो बीजमस्येति प्रश्नबीजं परिहारम्। गुणानां चेतसश्च कर्म कारणमिति मन्वानः कर्मधीः। ‘ब्रह्मा पृष्टस्तु योगीन्द्रः सनकाद्यैर्मनोगतेः।


कारणं विषयेष्वद्धा कर्मेति प्रत्यपद्यत।


Page 486


हेतुरन्योऽपि तत्रास्तीत्येवं जानन्नपि प्रभुः। विशेषतो मनस्तत्र नाधाज्जानन् हरेः प्रियम्।


स्वात्मना परिहारोक्तिस्तदा ह्यासीद्धरेः प्रिया। अतः स तत्प्रियं जानन् नाकरोत् तद्विचारणम्। तमेवाचिन्तयद्देवः प्रश्ननिर्णयकारणात्। भ्रमतीव मनः क्वापि ब्रह्मणो विष्णुमायया। सर्वज्ञस्यापि तत्रात्मा वक्तुमिच्छेजनार्दनः। तज्ज्ञात्वा चिन्तितं तस्य चिन्तयत्यमुमेव तु। न स्वयं चिन्तयत्यर्थं स हि तद्भाववित् सदा।


अन्ये त्वज्ञानसंयुक्ता मोहमीयुर्यथाक्रमम्। तस्य मध्यन्दिने सूर्ये क्षोभवत् क्षोभमात्रकम्। नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचन’इति भावविवेके॥18॥


वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः। कथं घटेत वो विप्रा वक्तुं वाऽनेक आश्रयः ॥22॥


|


|


पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः।


को भवानिति वः प्रश्न वाचारम्भ निरर्थकः ॥23॥


मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः। अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥24॥ आत्मनो वस्तुनः परमात्मवस्तुन एकत्वं यद्यङ्गीकृतम्। तदा कथं प्रश्नो घटेत। न हि


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 487


परमात्मनोऽन्योऽत्र ब्रह्मणा पूज्यः स्यादभिवन्दनादिना। तस्माद्ब्रह्मणो वन्द्यः परमात्मैव स चैक एव अतः कथं प्रश्नः परिहारो वा॥


वस्तुतः समानेषु हिरण्यगर्भावरत्वात् तद्वन्द्यत्वाभावापेक्षया। तस्माद्ब्रह्मणो वन्दनानन्तरं विचारो न घटते। तस्मात् को भवानिति वाचा प्रारब्धः प्रश्नो निरर्थकः॥ यस्मान्मन आदिभिर्गुह्यमाणमहं न भवाम्येव। स्वयमपि प्रसादात् कथञ्चिद्ह्यत इत्यत आह - मत्तोऽन्यदिति।यन्मनआदिभिर्विचार्य मत्तोऽन्यत्वेनैव ज्ञायते। तदहं न भवाम्येवेति बुध्यध्वम्। विचारितस्यापि पुनः संशयकारणं परिकल्प्य संशयो न कर्तव्यः। अतः को भवानिति नारब्धव्यः, गुणेष्वाविशते चेत इत्येव प्रश्न आरब्धव्यः। 'न युष्माकमपि प्रश्नो घटेतायं कथञ्चन। मामृते न हि वन्द्योऽस्ति विरिञ्चेः क्वापि कश्चन।


अभिवन्दितपादं मां विरिञ्चेन कथं पुनः। पृच्छतान्ये समा यस्मादवरत्वे चतुर्मुखात्। देवा मनुष्याः पितरो गन्धर्वा असुरास्तथा। इति पञ्चात्मकं सर्व ब्रह्मणस्त्ववरं यतः। यन्मदन्यद्विचारेण गृह्यते तन्न चास्म्यहम्। इति जानीध्वमद्वैव मत्प्रसदाद्धि मद्दशिः। अन्यत् स्वभावतो दृश्यं मम प्रेरणयैव तु। तस्माद्विवक्षितार्थे तु प्रश्नारम्भो न मद्गतः' इति तन्त्रभागवते॥ 'इदं हि विश्वं भगवानिवेतरः' इति च। प्रकृतेर्व्यतिरिक्तो यः पुरुषश्चेति कथ्यते। तं विद्यात् परमात्मानं वासुदेवेति यं विदुः' इति भारते॥


Page 488


‘प्रकृतेः प्राकृताच्चैव व्यतिरिक्तं गुणाधिकम्। ये विदुः परमात्मानं ते यान्ति परमं पदम्' इति च ॥ ‘नैतदिच्छन्ति पुरुषमेकं कुरुकलोद्वह। बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्' इति च॥22-24॥


गुणेष्याविंशते चेतो गुणाश्चेतसि च प्रजाः। जीवस्य देह उभयं गुणाश्चेत मदात्मनः ॥25॥ मय्येव मनो यस्य स मदात्मा तस्योभयं देहे दग्धमभवत्॥25॥


गुणेषु वा विशेञ्चित्तमभीक्ष्णं गुणसेक्या। गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥26॥ मत्स्यरूपे तदुभयं त्यजेत्। मयि स्थिताश्चेतो गुणाश्चेति। ‘विष्णुस्थाविषयाः सर्वे विष्णावेव मनो मम। इति मय्य तत् सर्वं त्यजेत् तत् तं न भादते' इति साम्ये॥26॥


यर्हि संसृतिबन्धोऽयमाल्मनो गुणवृत्तितः। मयि तुयें स्थितो जह्यात् त्यागस्तु गुणचेतसाम्॥28॥ गुणचेतसां त्याग एव बन्धत्यागः॥28॥


यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः। जाग्रत्यपि स्वफ्न्नज्ञः स्वप्न जागरणं यथा ॥30॥ ‘भिन्नस्य त्वेकभावेन तथैकस्य च भेदतः।


Page 489


ज्ञानं नानार्थधीः प्रोक्ता नानात्वादर्थतद्धियोः इति ब्रह्मतकै॥30॥



असत्वादात्मनोऽन्येषां भावानां किङ्कताऽभिंदा। गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥31॥ ‘अभिधा किंकृतैतेषां भावानां परमेश्वरे।


यतोऽसत्वमशक्तत्वाद्भावानां तस्य शक्तता। ततः सत्वं साधुभावः सत्वमित्युच्यते बुधैः। साधुभावश्च शक्तस्य ततोऽन्याऽसाधुता ततः। अभेदे जगतो विष्णोर्या वाचो ये च हेतवः। स्वप्नजाग्रत्कल्पकवत् सर्वे ते भ्रमदर्शिताः इति शाश्वतसंहितायाम्॥31॥


यो जागरे बहुविधान् क्षणधर्मिणोऽर्थान् भुङ्गे समस्तकरण हृतिं तत्सदृक्षान्। स्वप्नेऽथ सुप्त उपसंहरते स एकः। स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥32॥ दक्षिणाक्षिस्थितो विष्णुर्भुङ्गेऽर्थान् जाग्रदास्थितान्। कण्ठसंस्थस्तथा स्वप्नान् जीवानन्दं च सुप्तिगः। श्रुत्यन्वयात् स्मृतिभ्यश्च स एकः परमेश्वरः। अस्वतन्त्रस्य जीवस्य स्वतन्त्रो जाग्रदादिदः।


Page 490


स्वयं स्वप्नादिहीनः सन् क्रीडते पुरुषोत्तमः' इति तत्त्वे॥ ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति' इत्यादि च॥32॥


वीक्षेत विभ्रममिमं मनसो विलासं दृष्टं विनष्टमतिलौलमलातचक्रम्। विज्ञानमेकमुरुधैव विभाति माया


स्वप्ने यथा त्रिगुणसर्पकृत विकल्पः ॥34॥ जाग्रदादिषु परमात्मभेदं विभ्रमं वीक्षेत। ‘जाग्रदादिकरो देवः परमात्मैक एव तु। इति वीक्षेत सततं मुच्यते संसृतेरतः' इति प्रकाशिकायाम्॥ यदा विभ्रमोऽयमिति दृष्टस्तदैव विनष्टः। श्रुतियुक्तिभिर्विचारितेऽतिलोलः। क्षिप्रं विनश्यतीत्यर्थः। अलातस्य चक्राकारत्वभ्रमवत् प्रमात्मभेदभ्रमः। त्रिगुणैस्तत्कार्यैः पापादिभिश्च बद्धः सन् विज्ञानरूपं परमात्मानं भ्रान्त्या बहुधा पश्यति। 'देहभेदेष्ववस्थासु प्रादुर्भावेषु चैकलम्। ज्ञाननन्दैकसदूपं भ्रान्त्या भिन्नं प्रपश्यति। सा च भ्रान्तिर्विनश्येत यदा भ्रान्तित्ववेदनम्। अतिक्षिप्रं विनश्येच्च न स्थिरं दिग्ब्रमादिवत्। त्रिगुणैर्बन्धिता जीवा ज्ञप्तिमात्रं जनार्दनम्। पश्यन्ति बहुधा स्वप्ने यथैकं बहुधा क्वचित्।


अभिन्नोऽपि विभिन्नेषु व्यवहारो यथा भवेत्। तथैव व्यवहाराय शक्तत्वान्नैव दूषणम्। ईशस्य तु तदन्येषामपि यच्छक्तिदायकः' इति ब्रह्मतर्के॥


Page 491


अलातभ्रामको यदा निवर्तते तदैव भ्रमो निवर्तते। तद्वद्यदाभ्रमनिवृत्तिमिच्छति तदैव गुरूपसदनान्निवर्तयितुं शक्यः।। ‘अशक्योऽप्यति शक्योऽयं विनिवर्तयितुं भ्रमः। ईशस्थो गुरुसम्पत्त्या यदि शुद्धमनाः पुमान्' इति सम्यग् ज्ञाने॥34॥


दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततर्ष- स्तृष्ण भवेन्निजसुखानुभवो निरीहः। सन्दृश्यते क्व च यदीदमवस्तु बुद्ध्या त्यक्तं भ्रमाय न भवेत् स्मृतिरा निंपातात् ॥35॥ निपातमन्धन्तमः। मोक्षमारभ्य तावत् पर्यन्तं स्मृतिर्यस्माज्ज्ञानिनो विद्यते अतो मूढेषु स्थितो भ्रमो यद्यपि सन्दृश्यते तेन तथाऽपि भ्रमाय न भवति। फलं हि निपातं स्मरति॥35॥


देहं च नश्वरमवस्थितमुत्थितं च सिद्धो न पश्यतिं यतोऽध्यममत् स्वरूपम्। वैवादुपेतमुत दैववशादपेतं वासो यथा परिवृतं मदिरामदान्धः ॥ 36 ॥ त्रिगुणसर्गकृतो विकल्प इत्युक्तं ज्ञानिनोऽपि देहवत्त्वेन त्रिगुणित्वाद्विकल्पो भवतीत्यत आह। देहं च नश्वरमिति॥36॥


बेहोऽपि दैववशगः खलु कर्म यावत् स्वास्म्भकं प्रतिंसमीक्षत एव सासुः। तं सप्रपञ्चमधिरूढसमाधियगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः ॥ 37॥


Page 492


‘आदरो भजनं भक्तिर्बहुमानं च सेवनम्। पर्यायवाचकाः सर्वे स्मृतिस्तजन्मकर्म च' इति शब्दनिर्णये॥37॥


मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम्। सृहृदं परमात्मानं साम्यासङ्गादयो गुणाः ।। 40॥ ‘अपूर्णगुणरूपास्तु सम्पूर्णगुणरूपकम्। भजन्ति परमं ब्रह्म देवास्त्रिगुणवर्जितम् इति कालसंहितायाम्॥40॥


॥ इतिं एकादशस्कन्धतात्पर्ये त्रयोदशोऽध्यायः ॥ 11 - 13॥


यः॥11-14॥


श्रीभमवानुवाच - तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा। ततो भृग्वादयोऽगृह्णन् सप्तब्रह्म महर्षयः ।। 4 ।। ‘रुद्रमिन्द्र कुमारं च विनैवान्याग्रजो मनुः। ब्रह्मपुत्रेष्वादिसृष्टावन्यथात्वंपुनर्जनेः' इति स्कान्दे॥ ‘आदिसृष्टौ पूर्वजा ये तेऽधिकाः सर्वतो गुणैः। अनाद्यनन्तकालेषु मुक्तावपि यथाक्रमम्' इति निबन्धे॥4॥


एवं प्रकृतिवैचित्र्या भिद्यन्ते मतयो नृणाम्। पारम्पर्येण केषांचित् पाषण्मतयोऽपरे॥8॥ अनेन पारम्पर्येण केषांचिदेव देवादीनाम्॥8॥


Page 493


मन्मायामोहिंतधियः पुरुषाः पुरुषर्षभ। श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥9॥


धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम्। अन्ये वदन्ति स्वार्थं वा ऐश्वर्य त्यागभोजनम्।


केचिद् यज्ञतपोदानं व्रतानि नियमान् यमान् ॥ 10॥


आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः। दुःखोदकस्तमौनिष्ठाः क्षुद्रानन्दाः शुचाऽर्पिताः ॥11॥ ‘मद्भक्तिवर्जितं श्रेयो ये मन्यन्ते दुराशयाः। तेषामन्ते तमो घोरमनन्तं प्राप्यते ध्रुवम् इति मान्यसंहितायाम्॥9-11॥


न तथा मे प्रियतम आत्मयोनिंर्न शङ्करः। न च सङ्कर्षणो न श्रीनं वाऽऽत्मा च यथा भवान् ॥ 15॥ ‘कृपानिमित्ताया प्रीतिर्नीचभक्तेषु साऽधिका। अन्तरैव तु या प्रीतिः सा तूचेषु यथाक्रमम्। यथा कश्चित् स्वमात्मानं प्रियां पुत्रमथापि वा।


अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि। कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम्। योगक्षेमवहत्वं च नित्यं स्वात्मादिषु स्फुटम्। एवमेव परेशस्य भक्तेषु श्रियजादिषु' इति प्रियविवेके॥


Page 494


‘यादवेभ्यस्तु सर्वेभ्य उद्धवो भगवत्प्रियः। उद्धवाच्चप्रियतमः प्रद्युम्नस्तु महारथः। तस्मादपि प्रियतमो रामः कृष्णस्य सर्वदा। नैव तस्मात् प्रियतमो विनैकं तु चतुर्मुखम्। सर्वेभ्योऽपि प्रियतमा हरे श्रीरेवा वल्लभा। नैव तस्याः प्रियतमो विना स्वात्मानमेव तु’ इति यादवाध्यात्मे॥15॥


निरपेक्ष मुनिं शांतं निर्वैरं समदर्शनम्।


अनुव्रजाम्यहं नित्यं पूयेय स्वाङ्रेिणुभिः ॥16॥ स्याङ्ग्रिरेणुभिस्तं शोधयामीत्यनुव्रजामि। ‘अनुगच्छति विष्णुस्तु स्वभक्तं तस्य शुद्धये। तस्याङ्घिरेणुभिर्वातनीतैरग्रेसरैः शुचिः।


अग्रतो गमने विष्णोः पदा स्पृष्टं जो भवेत्। अतः स्वभक्तं पूयेयेत्यनुव्रजतिं केशवः' इति सङ्ख्याने ॥16॥


कथं विना रोमहर्ष द्रवता चेतसा विना। विनाऽऽनन्दाश्रुकलया तुष्येद् भक्त्या विनेश्वरः ॥23॥


वाम्गद्दा द्रवते यस्य चित्तं रुदत्यभीक्ष्यां हसति क्वचिच्च। क्लिज्ज उद्गायति नृत्यते च मद्भक्तियुक्त भुवनं पुनातिं ॥24॥


Page 495


‘चित्तद्रवस्तथा स्थैर्य प्रसादो भक्तिलक्षणम्। आधीक्येन तु तत्रापि स्थैर्यमेव विशेषतः। दम्भस्य चलभक्तेश्चयस्मादश्वादिकं भवेत्। दम्भादिपरिहार्थं निगृह्णीयाच्च धीरधीः।


अत आध्यात्मिकक्लेशैराधिभूताधिदैविकैः। वाक्यैश्ववेदतन्त्राद्यैरुपदेशैष्च तादृशैः। बलवच्छासनैर्वाऽपि यस्य भक्तिर्न चाल्यते। स एव परमो भक्तो विष्णोर्हदयवल्लभः' इति भक्तिविवेके॥24॥


स्त्रीसङ्गसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान्। क्षेमे विविक्त आसीनश्चिन्तयेन्मामतिंन्द्रितः ॥29॥ ‘केशवे त्वन्यथाबुद्धिः सैव स्त्री सम्प्रकीर्तिता। त्रिकालदुःखदत्वेन पुंसा सह निवासनात् ॥29॥


न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः। योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥30॥ जुष्टत्वाद्योषिदित्युक्ता वननाद्वनितेति च। प्रमादकरणत्वात् तु प्रमदेति च गीयते। त्यजेत् तत्सङ्गिनां सङ्गं बुभूषुः पुरुषः सदा। न तादृशः क्वचिद्दोषः पुरुषस्यासुखावहः। क्षुद्र पापानि पापानि चोपपातकपातके।


Page 496


महापातकनामानि सुमहापातकान्यपि। तथा स्वतिमहान्तानि पातकानि विदो विदुः। पिपीलिकावधादीनि क्षुद्रपापोदितानि च। पापमस्थिमतां हत्या फलचौर्यादिरेव वा। परदारादिकं चापि ह्युपपातकसंज्ञितम्। पातकं शूद्रहत्यादि ब्रह्महत्यादिकं महत्। देवस्वहरणादीनि सुमहान्ति विदो विदुः। देवावज्ञा सतां चैव ततोऽपि सुमहत्तरा। महन्महत्तरा तस्य अवज्ञा केशवे तु या। केशवस्य समोऽस्तीति केशवोऽस्म्यहमित्यपि। ब्रह्माद्याः केशवात्मानः श्रीव निर्गुण इत्यपि। मुक्तस्य तद्भावमतिररूपत्वमतिस्तथा। त्रिगुणात्मकदेहोऽस्याप्यस्तीत्यपि तु या मतिः।


जन्ममृत्यादिबुद्धिर्वा दुःखाज्ञानादिबोधनम्। तस्यापि परतन्त्रत्वविज्ञानं च तदुत्तमः।


अस्तीति या मतिस्तस्य वशादन्यस्य कस्यचित्।। अस्तीति भावनेत्याद्या अवज्ञाः सम्प्रकीर्तिताः' इति धर्मविवेके॥ ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। ‘अपि चेत् सु दुराचारो भजते मामनन्यभाक्' इति च ॥


‘बाध्यमानोऽपि मद्भक्तः' इत्यादि च।


Page 497


'परदारदृशिः प्रोक्ता क्षुद्रपातकसंज्ञिता। उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम्। महापातकसंज्ञं तु पित्रादेर्दारधर्षणम्। दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः। सुमहापातकं प्रोक्तं तद्गतिः सुमहत्तरः। ऋषिधारेषु मनसो गतिरेव ततोऽधिका। देवदाराभिकामानां सङ्गिसङ्गस्ततोऽधिकः। किमु विष्णोस्ततो योषित्सङ्गस्य व्यत्ययस्थितेः।


न समं पातकं क्वापि न हि स्वत्र्यभिकामतः। अवज्ञाता माधवादेस्तस्मात् तं दूरतस्त्यजेत्। मानुषेषु तु दःखित्वं क्षुद्रपापफलं स्मृतम्। पापात् तु वर्णबाह्यत्वं तिर्यग्योनिगतिस्तथा। सहस्रवर्षनरकं क्षुद्रपातकजं फलम्। उपपातकतश्चापि नरकं युगमात्रकम्। चतुर्युगावसानं तु पातकस्य फलं स्मृतम्। महापातकजन्यं च कल्पावधि समीरितम्। सुमहापातकच्चापि यावद्बह्मलयो भवेत्।


तत्पराणां पातकानां फलमन्धन्तमः स्मृतम्। अधोऽधो दुःखबहुलं विष्णुदाराभिमर्शनात्। वधादपि हि दाराणां धर्षण कोपकारणम्।


Page 498


तस्माद्देव्यः सदा वन्द्या अग्निवन्नाभिकामतः' इति धर्मतत्त्वे॥30॥


एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत्। दशकृत्वस्त्रिषवणं मासान् जितानिलः ॥35॥ ‘उपास्य प्राणतोऽनुज्ञां हृदिस्थात् प्राप्यसेवकः।


अनुज्ञानन्तरं मासाद्वशे प्राणो भविष्यति। प्रसादभात्वं सम्प्रोक्तं प्राणविष्ण्वोर्जयस्त्विति॥ न हि सर्वविजेतारौ विजेयौ केनचित् क्वचित्। ‘अपेक्षितं फलं येन दीयते तज्जितं त्विति। यथा जिता वसुमती यथा मोक्षपदं जितम्' इति प्रभञ्जने॥35॥


तत् सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत्। नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेन्मुखम् ॥ 43 ॥


तत्रलब्धपदं चिंत्तमाकृष्य व्योंम्नि धारयेत्। तच त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ 44 ॥


‘व्योमेति व्याप्तशब्दः स्याद्विश्वेषादोतता यतः' इति शब्दनिर्णये॥ व्योम्नि धारयेत् सर्वाङ्गेषु धारयेदित्यर्थः। तच्चधारणं त्यक्त्वा स्वत एव मनस्तत्रैव समाहितत्वादन्यत्किमपि न चिन्तयेत्। ‘यावत् समग्रस्मरणमचलं केशवे भवेत्। समग्रं चिन्तयेत् तावद्यदा तु विचलेत् ततः। प्रत्यङ्गं धारणं कुर्यान्मनो यावत् समग्रगम्।


Page 499


प्रत्यङ्गाभ्यासतो यावत् समग्रे सुस्थिरं मनः।


तदा पुनः समग्रं तु धारयेद्यत्नतो बुधः। यदा तु धारणोत्साहं विना तत्राचलं मनः। तिष्ठेत्त्यक्त्वा तमुद्योगं शङ्खचक्राम्बुजाङ्किते।


आरूढचेताः परमे शृङ्गाराद्येकधामनि। नैवान्यचिन्तयेत् तस्मात् पूर्णानन्दाचतुर्भुजात्। यतोऽन्यस्मरणे तस्मान्मनश्चलति सुस्थिरम्। धारणार्थप्रयत्नेन तस्मात् तदुभयं त्यजेत्। यावत् स्वारूढचेताः स्याद्विष्णो रूपे चतुर्भुजे' इति ध्यानयोगे॥43॥


एवं समाहिंतमतिर्मामेवात्मानमात्मनि। विंचष्टे मयि सर्वात्मन् ज्योतिज्र्योतिषि संयुतम् ॥ 45॥ परमात्मानं मां स्वदेहे पश्यति। जीवं ज्योतिर्मयि संयुतं पश्यति। ‘समाधियोगे सम्पूर्णे हृदि पश्यन्ति केशवम्। जीवं तत्प्रतिबिम्बं च तेनैव सह संस्थितम्। तदाधारं तदन्तस्थं तेनैव सदृशं तदा।


आनन्दज्ञानशक्त्याद्यैः सदा सदवरं गुणैः। जीवन्मुक्तौ च मुक्तौ वा सततं तद्वशे स्थितम्” इति। ‘स्वयं प्रकाशरूपत्वाज्जीवोऽपि ज्योतिरुच्यते इति च तत्त्वप्रतिपत्तौ॥43 - 45॥


Page 500


ध्यानेनेत्थं सुतीवेण युञ्जतो योगिनो मनः। संयास्यत्याशु निर्वाण द्यब्यज्ञानक्रियाभ्रमः ॥46॥ द्रव्यज्ञानक्रियाविषये भ्रमरूपं मनो लयं याति॥46॥


॥ इति एकादशस्कन्धतात्पर्यो चतुर्दशोऽध्यायः ॥11 - 14॥



॥ पञ्चदशोऽध्यायः॥11 - 15॥ श्री भमवानुवाच - सिद्ध्योऽष्टादश प्रोक्तो धारणायमपारगैः। तासामष्टौ मत्प्रधाना ता एव गुणहेतवः ॥3॥ मय्येव प्राधान्येन सन्ति अन्येषूपचारत इति मत्प्रधानाः। ‘सर्वाधिका अणिमाद्या विष्णोर्नान्यस्य कस्यचित्। स्वाभाविका विरिञ्चस्य तत्प्रसादात् पराधिकाः' इति स्वाभाव्ये॥ गुणभूतानामन्यासामपि सिद्धीनां ता एव हेतवः। स्वतस्तास्वेवाष्टस्वन्यासामन्तर्भावात्। ‘निःसीमाष्टगुणाभावात् सिद्धयोऽष्टादश स्मृताः। देवेभ्योऽन्यत्र देवानां सिद्धयोऽष्टैव सम्मताः' इति प्राकाश्ये॥3॥


अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः। प्राकाश्यं श्रुतदृष्टेषु शक्तेः प्रेरणमीशिता ॥4॥


गुणेष्यसङ्गो वशिता यत्कामस्तवाप्स्यति। एता मे सिद्ध्यः सौम्य अष्टावौत्पत्तिका मताः ॥5॥ शक्तिप्रेरणमेवेशितृत्वं असङ्ग एव वशित्वम्।


Page 501


‘यादृशानन्दकामः स्यात् तादृशानन्दसम्भवः। भोगान् विनैव प्राकाम्यमणिमादेः पृथक् ततः' इति च॥4,5॥


अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम्। मनोजवः कामरूपं परकायप्रवेशनम् ॥6॥


स्वच्छन्दमृत्युर्देवानां सह क्रीडानुदर्शनम्। यथा सङ्कल्पसंसिद्धिराज्ञाऽप्रतिहता मतिः ॥7॥


त्रिकालज्ञत्वमद्वन्द्वं परचित्ताध्यभिज्ञता।


अन्यर्काम्बुविषादीनां प्रतिस्तम्भोऽपराजयः ॥8॥ अनूर्मिमत्त्वं प्राकाम्येऽन्तर्भूतम्। दूरश्रवणदर्शनं त्रिकालज्ञत्वं परचित्ताद्यभिज्ञता च प्राकाश्यान्तर्भूतानि। मनोजव इत्यादिषदं प्राप्यन्तर्भूतम्। अन्यत्सर्वमीशत्वान्तर्भूतमपि परमेशत्वाभावे पृथगित्यष्टादश। अन्यर्काम्बुविषादीनामित्यादिशब्दोक्ताः शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहतिः पृथगेव सिद्धिः सप्तदशमी। अप्रतिहता आसमन्ताद्गतिर्यस्या आज्ञायाः साऽप्रतिहतागतिः। अद्वन्द्वमप्रतिहतं त्रिकालज्ञत्वम्। अन्यर्काम्बुमिषाणां प्रतिस्तम्भाश्चतस्रः सिद्धयः। दूरश्रवणदर्शने द्वे सिद्धी। ‘गरिम्णः सैव हेतु स्यान्महिमा हेतुधारणा।


प्रायोऽष्टसिद्धिकथनेष्वथो न पृथगुच्यते इति च ॥ ‘प्राप्तिप्राकाश्ययोश्चापि धारणैकाऽपि सम्भवेत्।


अत ऐक्येन तामुक्त्वा गरिमाणं पृथक् क्वचित्' इति च॥ दूरश्रवणदर्शने द्वे सिद्धी। ‘मूलभूतास्तु सिद्धीनां देवानामष्टसिद्धयः।


Page 502


सर्वसिद्धिप्रधानास्तास्तज्जा अष्टादश स्मृताः। अष्टस्वन्तर्गतास्तास्तु तदपेक्षतयाऽल्पकाः' इति च ॥ कामरूपत्वस्याणीमादित्रयेप्यन्तर्भावोऽष्टसिद्धिपक्षे अन्यर्कस्तम्भ एकैव सिद्धिः अदाहत्वात्। अग्न्यादिप्रतिस्तम्भस्य वशित्वेऽपि अनूर्मिमत्त्वाद्यष्टादशपृथक् सिद्धिपक्षेऽन्यर्कस्तम्भयोः पृथक्त्वात्। तस्मिन् पक्षे तासां सकाशात् प्रधानाष्टौ मत्प्रधाना इति व्याख्या। ‘अनूर्मिमत्त्वसिद्धिस्तुप्राकाम्यान्तर्गता मता। दूरश्रुतिर्दूरदृष्टिस्त्रिकालज्ञत्वमेव च। परचित्ताद्यभिज्ञानं प्राकाश्यान्तर्गतानि च। अणिमादित्रयान्तश्च कामरूपत्वमिष्यते। अन्यर्काम्बुविषादीनां प्रतिस्तम्भो वशित्वगः। मनोजवः कामरूपं परकायप्रवेशनम्। स्वच्छन्दमृत्युता देवैः सह क्रीडेष्टसाधनम्। प्राप्तावन्तर्गतान्याहुराज्ञाप्रतिहतिस्तथा। अग्निस्तम्बो रविस्तम्भ उदकस्तम्भ एव च। विषस्तम्भस्तथा शस्त्रशापादिस्तम्भ एव च। ईशत्वान्तर्गतान्याहुरपराजय एव च। एवमष्टादशाष्टाभ्यो जायन्ते सिद्धयः क्रमात्। अष्टादशभ्यश्चान्यास्तु जायन्ते सिद्धयोऽमिताः। अनूर्मिमत्त्वं दुःखस्याभावमात्रमुदाहृतम्। यथेष्टानन्दसम्प्राप्तिः प्राकाम्यमिति कीर्त्यते।


Page 503


दुःखाभावोऽपि प्रकाम्ये नेतरे सुखितेष्यते। प्राकाश्यं सर्ववेदादिज्ञानमेव विदो विदुः। सहस्रयोजनान्ते तु दूरदर्शनमिष्यते। दूरश्रवणमप्येवं तस्मिन्नेव युगे स्थिते। वेदादिकं विना प्रोक्तं त्रिकालज्ञानिता बुधैः। शरीरस्थं विना देहे परचित्ताध्यभिज्ञता। अन्येन्द्रियैर्दर्शनादि यथासङ्कल्पवेगिता। प्राप्तिरित्युच्यते सद्भिः स्वमनःसमवेगिता। मनोजव इति प्रोक्तः पश्वाद्याकारता तथा। कामरूपत्वमुद्दिष्टं स्वदेहत्यागतः परे। परकायप्रवेशः स्याद्युगादवाना स्मृता। स्वच्छन्दमृत्युता देवैः क्रीडा चेन्द्रादिभिर्विना। यथासङ्कल्पसिद्धिश्चाप्यन्नपानसुतादिषु। चक्षुर्दृश्येष्वणुत्वं तु अणिमा सम्प्रकीर्तिता। महिमा चापि सम्प्रोक्तात्रिलोकान्तरपूरणा। चक्षुर्दृश्यैर्विवाह्यत्वं लघिमा चापि कीर्तिता। त्रिलोकसमभारस्तु गरिमा चापि कीर्तिता। पूर्वशक्तेः कोटिगुणशक्त्युद्रेकस्तथेशिता। भुविस्थैः प्राणिभियोक्तकरणं चापि कीर्त्यते। आज्ञाऽप्रतिहतिब्रह्मादर्वागस्त्रविघातनम्।


Page 504


विना महातपस्वींश्च शापाप्रतिहतिः स्मृता।


अपराजयो मनुष्येभ्यो वशित्वं चाप्यलोलता। दाहादिसहनं चापि प्रतिस्तम्भ इतीर्यते। इति षड्विंशतिः प्रोक्ता गरिम्णा सह सप्तवा। विंशतिश्च सुरेभ्योऽन्यद्देवेष्वष्टैव सिद्धयः।


यतो निःसीमकास्तेषां देवानामष्टसिद्धयः। अतोऽष्टादशसिद्धीनां तदन्तर्भाव इष्यते। देवेष्विन्द्रेशवायुश्रीविष्णूनामुत्तरोत्तरम्। सिद्धयः परिपूर्णास्तु विष्णोरेकस्य नान्यगाः' इत्यैश्वर्ये॥ ‘श्रुतेषु तु यथायोगं क्षिप्रग्रहणमेव तु। उक्तं प्राकाश्यमन्येषां देवानामश्रुतेष्वपि। ऋषीणां मिश्रभावेन भासते किञ्चिदश्रुतम्। विषयेभ्योऽधिकसुखव्यक्तिः प्राकाम्यमेव तु। इतरेषां सुराणां तु निःसीमानन्दभोजनम्। एवमेव तु निःसीमा देवानामष्टसिद्धयः। उत्तरोत्तरमत्रापि यावद्विष्णुः स पूर्णभुक्' इति हरिवंशेषु॥ ‘अग्न्यादिशक्तिसंस्तम्भ अग्न्यादिस्तम्भ इष्यते इति कौमैं॥ एकस्मात्सिद्धयो विष्णोः स्थानभेदात् पृथग्विधाः।। एकस्थानगताद्वास्युः सुस्थिरोपासना यदि' इति भारते॥6-8॥


Page 505


भूतसूक्ष्मात्मनि मयिं तन्मात्रं धास्यन्मनः। अणिमानमवाप्नोति तन्मात्रोपासको मम ।। 10॥ भूतसूक्ष्माणामात्मनि परमाणुषु स्थितेऽणुरूपे। ‘तन्मात्रावयवे सूक्ष्मे परमाण्वभिधानके। प्रत्येकमणुरूपं तु विष्णुं ध्यायन्नणुर्भवेत्' इति कापिलेये॥ ‘आकाशवत् सूक्ष्मतां यो व्यापित्वेनैव मन्यते।


तन्मात्राव्यापिनं विष्णुं चिन्तयन् स तथा भवेत्' इति च ॥10॥


महत्यात्मन्मयि परे यथा संस्थं मनो दधत्। महिमानमवाप्नोति भूतानां च पृथक् पृथक् ॥11॥ महति - व्याप्ते। महत्तत्त्वस्य पृथगुक्तेः। अस्मात् स्थूलतां प्राप्नुवानीत्यपेक्षायां तस्मात् प्राप्नोति। ततोऽन्यस्मादित्यपेक्षायां तस्मादिति पृथक् पृथक्॥11॥


परमाणुमये चित्तं भूतानामपि रञ्जयन्। कालसूक्ष्मात्मके योंगी लघिमानमवाप्नुयात् ॥12॥ परमाणुमये भूतानां सकाशादतिशयेनाणुस्वरूपे। कालसूक्ष्माणामात्मनि॥12॥


धास्यन् मय्यहन्तत्त्वे मन वैकास्केिऽखिल्लम्। सर्वेन्द्रियाणामात्मत्वं प्राप्ति प्राप्नोति मन्मनाः ॥13॥ अहन्तत्त्वस्थिते मयि॥13॥


महत्यात्मनि यः सूत्रे धास्यन् मयिं मानसम्। प्राकाश्यं पारमेष्ट्यं मे विन्दतेऽव्यक्तजन्मनः ।। 14 ॥


Page 506


सूत्रे स्थिते मयि। गृहे पीठ इतिवत्। अव्यक्तजन्मनः अव्यक्तस्यापि किञ्चित् स्थूलत्वकर्तुः। ‘तस्मादब्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम' इति मोक्षधर्मेषु॥ ‘अजरादमरादमूर्तितः शाश्वततमसः' इति च। ‘अव्यकःस्याजन्मवतो विकारो जनिरुच्यते' इति हरिवंशेषु॥ मे सकाशाद् विन्दते। परमेष्ठिप्रसादादन्येषां भवतीति पारमेष्ट्यम्। सर्वगुणानां ज्ञानमूलत्वादुपलक्षणत्वेन प्राकाश्यं पारमेष्ट्यमित्युक्तम्। ‘सर्व गुणास्तु प्राणस्य परमात्मप्रसादतः। प्राणविष्ण्वोः प्रसादेन भारत्याः सम्प्रकीर्तिताः। प्रासादात् तु त्रयाणां वाऽप्यनन्तादेः सदा गुणाः इति माहात्म्ये॥14॥ विष्णौ चाधीश्वरे चित्तं धास्यन् कालविंग्रहे। स ईशत्वमवाप्नोति क्षेत्रे क्षेत्रज्ञचौदनम्॥15॥ सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्रतत्रोक्ताधीश्वरत्वादिगुणविशिष्टत्वेन तत्रतत्रोपासनमिति विशेषः। 'तं यथा यथोपासते तदेव भवति' इति च श्रुतेः। ‘उपासतः सत्य इति सत्यसङ्कल्पता भवेत्। ईशत्वमीश्वर इति गुणं तं तं यथा हरिम्' इति विशेषे॥15॥


श्वेतद्वीपपतौ चित्तं शुढे धर्ममये मयि। धारस्यन् श्वेततां याति षर्मरहितोऽमरः ॥18॥


Page 507


‘शुद्धः श्वेतः सुखी श्वेतः श्वेतवर्णः क्वचिद्भवेत्' इति शब्दनिर्णये॥18॥


मय्याकाशात्मनि प्राणे मनसा घोंषमुद्वहन्। तत्रोपलब्धा भूतानां हंसो वाचः शृणल्यसौ ॥19॥ आकाशस्यात्मनि तत्राकाश उपलब्धानां आसमन्तात् स्थितानां भूतानां वाचः। हंसो जीवः। ‘त्यागात् पूर्वशरीराणां नवानां सञ्चयेन च।


जीवं हंस इति प्राहुस्तद्धेतुत्वाद्धरि परम्' इति भारते॥19॥


मन मनसि संयोज्य देहं तदनु वायुना। मद्धास्णानुभावेन तत्रात्मा यत्र वै मनः ॥21॥ मनसि मनस्तत्त्वे वायुना संयोज्य मनोऽनुदेहं मनस्तत्त्वे मद्धारणम्॥21॥


यदा मन उपादाय यद्यदूपं बुभूषति। तत्तद्भर्जन्मनोरूपं मद्योगबलमाश्रितः ॥22॥


परकायं विशन् सिंद्धमात्मानं तत्र भावयेत्। पिण्डं हित्वाविंशेत् प्राण वायुभूतः क्ङङ्क्त् ि ॥23॥ ‘गजादिरूपमाकाङ्खन् गजादिस्थितमीश्वरम्। ध्यायन् गजादिरूपः स्यात् परकायस्थितं हरिम्। ध्यायन् विशेत् परे काये वायावन्तर्गतः पुमान्। प्राणनामा हरिः प्रोक्तस्तस्मिन् वायुः समाश्रितः। वायावन्तर्गतो जीवो देहाद्देहं प्रयास्यति॥22, 23॥


Page 508


पाष्ण्र्याऽऽपीड्य मुदं प्राणं हृदुरःकण्ठमूर्धसु।


आरोप्यब्रह्मरन्ध्रण ब्रह्म नीत्वोत्सृजेत् तनुम् ॥24॥ ‘षडाधारस्थितं विष्णुं ध्यायन्नायुः क्षयं विना।


यदि मृत्युमभीप्सेत तथा प्राप्नोत्यसंशयम्॥24॥


यो वै मद्भावमापन्न ईशितुर्वशिंतुः पुमान्। कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम ॥27॥


मद्भक्त्या शुद्धसत्वस्य योगिनो धारणाविदः। तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥28॥ त्रिकालप्रेरकं विष्णुंध्यातुः कालत्रयज्ञता॥28॥


अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः । मद्योगश्रान्तचित्तस्य यादसामुदकैर्यथा ॥29॥ ‘अग्न्यादिषु हरि ध्यायन् तत्प्रतिस्तम्भको भवेत्। इति हरिसंहितायाम्॥29॥


आत्मानं परमात्मानं तत्रतत्र परकाये भावयेत्। तदा वायौ स्थितः। प्राणः परमात्मा तत्र गच्छति तमनु जीवोऽपि गच्छति। वायौ भूतो वायुभूतः॥23॥ प्राणं परे ब्रह्मणि नीत्वा। ‘प्राणस्थं प्राणनामानं बहिष्ठे ब्रह्मनामके। विष्णुं विष्णावनुस्मृत्य विसृजेद्देहमञ्जसा' इति प्रभञ्जने॥ ‘अनेयस्य हरेर्नीतिस्तद्गतस्य हरेः स्मृतिः।


Page 509


न हि नेयः क्वचित् क्वापि केनचित् स्ववशत्वतः' इति च॥24॥


मम भावना - मद्भावः। भावो मनश्चभक्तिश्च क्वचिदभ्यास इष्यते' इति शब्दनिर्णये॥23-29॥


उपासकस्य मामेवं योगधारणया पुनः। सिद्ध्यः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥31॥ उपासनयाऽऽपरोक्ष्यं कृतवतः, पुनरुपासनं कार्यकाले कुर्वतः कार्यसिद्धिरित्यतो योगधारणया पुनरित्युक्तम्॥31॥


जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः।


मद्धारण धास्यतः का नु सिद्धिः सुदुर्लभा ।। 32 ॥ ‘उपास्य वायुं प्रथमं वायौ सुट्परोक्षिते। अनुज्ञातस्ततस्तद् तत्र तत्र हरि स्मरेत्। कृत्वाऽपरोक्षं तं चापि काले काले स्मरेत् पुनः। अभीष्टकार्यसिद्धिः स्यात् तस्य नास्त्यत्र संशयः। अकामो यदि वायुं च ध्यात्वादृष्ट्वा हरि तथा। न किञ्चित् कामयेत् पश्चात् स क्षिप्रं मुक्तिमेष्यति॥32॥


अन्तरायान्वदन्त्येतान् युञ्जत योगमुत्तमम्। मया सम्पद्यमानस्य कालक्षपणहेतवः ॥33॥ 'यदि योगैः फलं भुङ्गे पुनः काममपास्य तु। तेनैव क्रमयोगेन प्राणं दृष्ट्वा हरि तथा।


Page 510


एष्टव्या मुक्तिपदवी नान्यथा तु कथञ्चन। पूर्वदृष्टिर्हि कामार्थे पश्चान्मोक्षार्थमिष्यते। येषां तु जन्मतः सिद्धिस्तेषां दोषो न विद्यते' इति निवृत्ते॥33॥


जन्मौषधिंतपमन्त्रैर्यावतीरिह सिद्ध्यः। योगेनाप्नोति ताः सर्वा यैर्येर्योगगतिं व्रजेत्। सर्वासामपिं सिद्धीनां हेतुः पतिरहं प्रभुः ॥35॥ यैर्यैः कैश्चित् कैश्चिदेव जन्मादिभिः योगगतिं व्रजेत्। ‘जन्मादिभिः कैश्चिदेव प्राप्यते योगजं फलम्। योगेन सर्वैः प्राप्येत योगे यत्नं ततः कुरु’इति च॥ ‘कश्चिदर्थं च यच्छब्दः प्रश्नार्थं च क्वचिद्भवेत्।


क्वचित् परामर्शवाची क्वचिदाक्षेपवाचकः' इति तन्त्रनिरुक्ते॥34,35॥


15


॥ इतिं एकादशस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥ 11 - 15॥


॥ षोडशोऽध्यायः॥11 -16॥


अहमात्मोद्दवामीषां भूतानां सुहृदीश्वरः। अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः॥9॥ ‘सृष्ठिस्थित्यादिहेतुत्वाद्भूतानि हरिरुच्यते। न तु भूतस्वरूपत्वात् स हि सर्वेश्वरेश्वरः' इति वस्तुतत्त्वे॥9॥


Page 511


अहं गतिंर्गतिमतां कालः कलयतामहम्। गुणानां चाप्यहं सौम्यं गुणिन्यौत्पत्तिको गुणः ॥10॥


गुणिनामप्यहं सूत्रं महतां च महानहम्। सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥11॥ ‘स्वस्वजात्युत्तमत्वं तु भवेद्यदूपसन्निधेः। विभूतिरूपं तत्प्रोक्तमिन्दिरादिषु संस्थितम्। तथा बहिः स्थितं रूपं विभूतीत्येव शब्दितम्। सर्वसाधारणं रूपमन्तर्यामीति चोच्यते। यथा कृष्णात्मना दुष्टहन्ता व्यासात्मना समः।


असमोऽप्येकरूपोऽपि सामर्थ्यात् पुरुषोत्तमः' इति च ॥


ब्रह्मरुद्रेन्द्रजीवेभ्यः पृथगेव व्यवस्थितम्। विभूतिरूपं विष्णोस्तु तद्गश्रेश्ठुककारणम्।


तदेव ब्रह्मरुद्रादिनामाभिर्वाच्यमञ्जसा। तदेव देवेष्विन्द्रोऽस्मि तथा रुद्रेषु शङ्करः। इत्यादिनोक्तं कृष्णेन नेन्द्राद्या जीवसञ्चयाः' इति गीताकल्पे॥गतिर्ज्ञानम्। 'प्रधानो ज्ञानिनां ब्रह्माज्ञानमानी हृदि स्थितः।


स एव कालमानी तु संहर्तृणां प्रभुः स्मृतः' इति विभूतौ॥ ‘आनन्दानुभवस्तूम उत्कृष्टानुभवात् स्मृतः। तद्युक्तत्वं यथा सौम्यं गुणानामधिकं हि तत्।


Page 512


भक्त्यादिगुणपूगोऽपि देखहेतुत्वभावनात्। निष्फलो भवति ह्यद्धा प्रीतस्य सफलो भवेत्। तस्मादानन्दमानं तु गुणएघूत्कृष्टमुच्यते। तस्याभिमानी ब्रह्मेको भक्तिज्ञानादिकस्य च। श्रद्धाभिमानिनी देवी तथाव तु सरस्वती। तदन्येषां गुणानां तु तदन्ये विबुधाः स्मृताः। गुणानां तु प्रभुर्ब्रह्मा तस्मादेकश्चतुर्मुखः।


औत्पत्तिकगुणो नाम शुभप्राप्त्येकयोग्यता। तस्याभिमानी प्राणास्तु स हि सर्वगुणाधिकः' इति च। गुणिनां मध्ये गुणिनि स्थितमौत्पत्तिकगुणरूपं सूत्रमित्यर्थः। ‘गुणिनां गुणयोग्यत्वं यत् सर्वगुणेषु स्थितम्। वायुस्तदभिमान्येकः सर्वगुण्यधिकस्ततः' इति प्रभञ्जने। रूपान्तरत्वादेकस्यापि बहुस्थानेषु प्राधान्योक्तिनँ विरुध्यते। गुणान्तरोक्तेश्च ‘रामः शस्त्रभृतां , वृष्णीनां वासुदेवः इत्यादिवत्॥10, 11॥


हिरण्यगर्भो देवानां मन्त्राणां प्रणवत्रिवृत्। अक्षराणामकारोऽस्मि पदानि छन्दसामहम्॥12॥ पदानि वाच्यानि छन्दसाम्।


‘स्वयूथानामथाधिक्ये स्वजातीनामथापि वा। यत्कारणं विभूत्याख्यं विष्णोस्तद्रूपमुच्यते' इति प्राधान्ये॥


Page 513


वर्णेशानि पदान्याहुः पादाश्चापि तदीश्वराः। पादानामीश्वरार्धाच तदीशा ऋच एव तु। ऋचमधीशा वर्गास्तु तेषां सूक्तमधीश्वरम्। सूक्ताधीशास्तथाऽध्यायस्तदधीशास्तथाऽष्टकाः। तदधीशास्तथा शाखा वेदाश्चापि तदीश्वराः।


वेदानामीश्वरा वाच्या वाच्यानामीश्वरो हरिः। न हरेरीश्वरः कश्चित् कदाचित् क्वापि विद्यते' इति च ॥ पद्यन्त इति पदानि - वाच्यानि। ‘पदं पदसहस्रेण यश्चरन्नापराध्यते' इतिवत्। ‘पदं तु वाचकं प्रोक्तं क्वचिद्वाच्यमपीष्यते' इति शब्दनिर्णये॥12॥ ‘सर्ववेदाभिमानिन्यो देव्यो लक्ष्मीस्ततोऽधिका। वेदाभिमानिनी साक्षात् सा विष्णोर्दूरतः स्थिता। यज्ञाख्या सैव विष्णोस्तु या तूरः स्थलमाश्रिता। हरिणा रतियोगस्था दक्षिणाख्यापि सैव तु। उत्तरोत्तरतः साऽपि विशिष्टा दक्षिणा सुखे। एवं वेदाभिमानिभ्यो देवीभ्यः सर्व एव तु। तदर्थरूपाः पतयस्तस्यास्तस्यास्तथोत्तमाः। शच्या इन्द्र स्ततश्चोमा तस्या रुद्रस्ततो वरा। भारती प्राण एखास्यास्ततः श्रीस्तद्वरो हरिः' इति वैशेष्ये॥


Page 514



इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।


आदित्यानामहं विष्णो रुद्राणां नीललोहितः ॥13॥ ‘ऋते रुद्रादिकानिन्द्रः सर्वदेवाधिकः स्मृतः। ऋते भीमं फाल्गुनश्च पाण्डवेभ्यो वरस्तथा। तथा शुक्रः कवीशस्तु बृहस्पत्यादिकानृते। यमः संयमातामीशः शङ्करादीन् विनैव तु' इति गीताकल्पे॥13॥


नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदष्ट्रिणाम्।


आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ॥19॥ 'गार्हस्थ्यं च यतित्वं च देवेष्वेकत्ममागतम्।


प्राधान्योक्तिर्यतित्वस्य गार्हस्थ्यस्य क्वचित् क्वचित्


इत्याश्रमविवेके॥19॥


पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः। स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः ॥22॥ ‘वसिष्ठोऽभ्यधिकस्तेषु मानुषाणां पुरोधसाम्' इति त्रैकाल्ये॥22॥


योगनामात्मसंरोधो मन्त्रोऽस्मि विजिगीफ्ताम्।


आन्वीक्षिकी कौशलानां विकल्पः ख्यातिंवादिनाम् ॥24॥ जीवेशादिभेदवादी विकल्पः। ख्यातिवादिनां - ज्ञानवादिनाम्। ‘जीवेशादिविशेषं यो याथान प्रकल्पयेत्। कलिमारभ्य वा विष्णोराधिक्यादुत्तरोत्तरम्।


Page 515


नियमेनैव केनापि न हेयं स विकल्पकः।


सर्वज्ञानिविशेषेभ्यः स ज्ञानी सर्वथाऽधिकः' इति विज्ञाने॥ ‘भेददृष्ट्याऽभिमानेन' इत्युक्तम्। ‘विद्यात्मनि भिदा बोधः' इति च वक्ष्यति॥24॥


स्त्रीणां तु शतरूपाऽहं पुंसां स्वायम्भुव मनुः। नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥25॥ ‘शतरूपा वरा स्त्रीणां पुंसामभ्याधिको मनुः। तयोरप्यधिकौ नित्यमिन्द्राणीन्द्रौ शुभैर्गुणैः' इति वैशेष्ये॥25॥


वासुदेव भगवतां त्वं तु भगक्तेष्यहम्।। किंपुरुषाणां च हनूमान् विद्याघ्राणां सुदर्शनः ॥29॥ ‘ऐश्वर्यादिगुणैः षङ्गिः सामग्यात् सर्वदेवताः। भगवच्छब्दवाच्याश्च साक्षात् तु भगवान् हरिः। निरपेक्षं तु सामग्यं तस्यसर्वाधिकं यतः' इति च। अतो भगवतां देवानां। 'सर्वभागवताधीश उद्धवो भगवत्प्रियः। तस्मादभ्यधिको जिष्णुः प्रियत्वे भक्तितो हरेः। तस्मादभ्यधिको रामः कृष्णात्वभ्यधिका ततः। तस्या आभ्यदिको भीमो न तु तत्सदृशः क्वचित्' इति च। ‘यत्किञ्चात्मनि कल्याणं सम्भावयसि पाण्डव।


Page 516


सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्। धर्मोज्ञानं तथा मोक्षो यशः कीर्तिस्तथैव च। त्वय्यायत्तमिदं सर्वं लोकस्यात्र न संशयः' इति भारते॥29॥


ओजः सहो बलवतां करमाहं विद्धिं सात्वताम्। सात्वतां नवमूर्तीनामादिमूर्तिरहं पुरा॥32॥ ‘विष्णोः श्रियो ब्रह्मणश्च वायोः सङ्कर्षणस्य च। सुपर्णस्य च सम्प्रोक्ताः प्रत्येकं नवमूर्तयः। पूज्याः सात्वततन्त्रेषु तत्राद्या मूर्तयो हरेः। प्रधानास्ताहि सर्वासां मूर्तीनां हरिमूर्तयः। अभेदादेव मूर्तिर्नामेकमूर्तिश्चसा स्मृता' इति सहस्रावरणे। श्रियादिनवमूर्तीनां मध्ये स्वकीयनवमूर्तिरहमित्यर्थः। ‘स्वरूपतश्च गुणतो न विशेष कथञ्चन। विष्णोस्तुनवमूर्तीनां पूजा च नवधेष्यते' इति च ॥


अतो न स्वनवमूर्तीनाम्। अन्येभ्योऽन्यनवमूर्तीनामपि सन्निधानमात्मनस्तास्वप्यस्तीति पुरेतिविशेषणम्। प्रथम पूज्यास्ता इत्यर्थः। 'नारायणः परं ब्रह्म वासुदेवादिकास्तथा। नरसिंहवराहौ च परज्योतिर्हरेर्नव। इन्दिरा च रमा लक्ष्मीर्हिरण्या गगना तथा। रक्तारक्ततरा भूतिर्विभूतिश्चश्रियो नव। ब्रह्माचतुर्मुखो धाता विधाता विधिरेव च।


प्राधान्यकारणं


Page 517


कर्ता विरिञ्चो भूतेशः शतानन्दश्चता नव। धनञ्जयमृते चैव वायोस्तु नवमूर्तयः। शेषोऽनन्तो नरश्चैव लक्ष्मणो बल एव च। सङ्कर्षणो नीलवासा जगद्रक्षो जलेशयः। सुपर्णो गरुड़श्चैव वैनतेयो महाशनः। नववर्णः पञ्चवर्णः पन्नगाशोऽमृताकरः। तथैव सर्ववेदात्मा सुपर्णो नवधा स्मृतः' इति च॥32॥


विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम्।


भूधराणामहं स्थैर्य गन्धमात्रमहं भुवः ॥33॥ ‘यस्य यस्य स्वभावो यस्तत्तन्नामा हरिः परः। नियामकः स्वभास्य तत्तच्छब्दादिनामवान्। वैशेष्याख्या विभूतिश्च विभूतिश्चस्वभावजा। द्विधा विभूतिर्विज्ञेया विष्णोस्तु परमात्मनः' इति च॥


पृथिवी वायुराकाश आप ज्योतिरहं महान्। विकारः पुरुषोऽब्यक्तं रजः सत्वं तमः परः।


अहमेतत् प्रसङ्ख्यानं ज्ञानं तत्वविनिश्चयः ॥37 ॥


मयेश्वरेण जीवेन गुणेन गुणिना विना। सर्वात्मनाऽपि सर्वेण न भाव विद्यते क्वचित् ॥38॥


Page 518


‘सत्वादिनाम विष्णोस्तु सत्वादिस्थस्य केवलम्।


जीवस्थस्य च तन्नाम जीवादेरुपचारतः' इति च॥ 37॥


सङ्ख्यानं परमाणूनां कालेन क्रियते मया। न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ।। 39॥ कालेन सर्वगुणात्मकेन मयाऽसङ्ख्यत्वात् तथा न क्रियते। नाविज्ञानात्। ‘अनन्तमिति वेत्तीशस्त्वनन्तं त्वन्तवत् तथा। अनन्तस्य हि सङ्ख्याने न तु सर्वज्ञता भवेत्। अनन्तमपि वेत्तीशः प्रत्येकं च विशेषतः। सर्वज्ञत्वान्न सङ्ख्यानमसङ्ख्यस्य कुतो हि सा' इति च ॥39॥


एतास्ते कीर्तिताः सर्वाः सङ्खपेण विभूतयः। मनोविकाराएवैते तथा वाचाऽभिधीयते ॥ 41 ॥ यथा वाचाऽभिधीयतेऽन्यैः। नामादिकं जीवादीनां ते सर्वे शब्दा मनोविकाराः॥41॥


वाचं यच्छ मनो यच्छ प्राणं यच्छेन्द्रियाणि च।


आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने ।। 42॥ स्वतो मय्येव सर्वशब्दास्तस्मान्मय्येव वाचं यच्छ। आत्मानं परमात्मानं मय्येव लक्ष्यत्वेन यच्छ॥42॥


यो वै वाङ्मनसी सम्यक् न संयच्छेद्धिया यतिः।


तस्य व्रतं तपो ज्ञानं स्रवत्यामघाम्बुवत् ॥43 ॥ यो मयि न संयच्छति। तस्य ज्ञानं स्रवति॥43॥


Page 519


तस्माद्वचोमनः प्राणान् नियच्छेत् मत्परायणः। मद्भक्तिंयुक्त्या बुद्ध्या ततः परिसमाप्यते ॥ 44॥ ‘वाङ्मनः प्राणबुड्यादीन् नियच्छेत् केशवे परे।


सर्वशब्दाभिधेयत्वं तस्य ज्ञात्वा विशेषतः। मुख्यवृत्त्याऽभिधेयत्वमन्येषां मनसो भ्रमात्। तस्मात् तथा चिन्तयतः स्रवेज्ज्ञानं यथातथम्। तस्मान्मनोवचःप्राणान् माधवैकपरायणान्। कुर्यात् तद्धितपो ग्राह्यं महाधर्मोत्तमश्च सः' इति धर्मविवेके॥ ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।। ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि' इति च॥44॥


॥इतिं एकादशस्कन्धतात्पर्ये षोडशोऽध्यायः ॥ 11 - 16॥


यः॥11 - 17॥


वक्ता कर्ताऽविता नान्यो धर्मस्याच्युत ते भुवि। सभायामपि वैरिच्यां यत्र मूर्तिधराः कलाः ॥5॥ ‘विना प्रसादं विष्णोर्न धर्मं ब्रह्माऽभिवक्ष्यति। तत्प्रसादेन वक्तुं तु ब्रह्माशक्ष्यति नापरः' इति प्राधान्ये।


कलाः - प्राणाद्याः। ‘स प्राणमसृजत प्राणाच्छद्धां खं वायुं ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म


लोकेषु नाम च ता इमाः षोडशकलाः पुरुषायणाः' इत्यादिश्रुतेः॥5॥


Page 520


वेदाध्यायी स्वधास्वाहाबल्यन्नाद्यैर्ययोदयम्। नृदेवपितृभूतानि मद्रूपाण्यन्वहं यजेत्॥49॥ ‘प्रतिमावद्धरूपं तिर्यङ्गरसुरादयः।।


साक्षाढूपाणि मत्स्यादीन्यभिन्नान्येव सर्वदा' इति च॥49॥


॥इति एकादशस्कन्धतात्पर्ये सप्तदशोऽध्यायः ॥ 11 - 17 ॥


॥ अष्टादशोऽध्यायः॥11 - 18॥


विप्रस्य वै संन्यसतो देवा दारादिरूपिणः । विघ्नं कुर्वन्त्ययं ह्यस्मानाक्रम्य समिंयात् परम्॥14॥ ‘असम्पूज्य न्यसिष्णूंस्तु देवा वै पातयन्त्यधः। सुसम्पूज्य न्यसिष्मूंस्तु देवा एखानुजानते। अथवा तद्यशोवृद्ध्यै विघ्नन्तीव पुनः पुनः। तात्पर्याद्विन्नितो देवैर्वोत्थातुं शक्नुयात् क्वचित्’ इति देवहार्दै॥14॥




=...


यदेतदात्मनि जगन्मनोवाक्प्राणसम्भृतम्। सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत्स्मरेत् ॥27॥ ‘त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम्। अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः। अचेतनत्वान्नैवैतत् प्रयोजकतया स्मरेत्। चेतनत्वं स्वतन्त्रत्वं स चैको विष्णुरेव तु।


Page 521


आयस्तु फलमुद्दिष्टं प्रोक्तं मायेति निष्फलम्। फलाल्पत्वात् तु मायैषा सम्प्रोक्ता त्रिगुणादिका। महाफलप्रदत्वात् तु विष्णुराय इतीरितः' इति निवृत्ते॥27॥


<bhaa>वेदवादरतो न स्यान्न पाषण्डी न हैतुकी। शुष्कवादविवादेन कञ्चित् पक्षं न संश्रयेत् ॥30॥</bhaa> ‘वेदेन सह वादो यो वेदवाद इतीरितः। तर्केण वेदस्यान्यार्थकल्पनं तं विदो विदुः। तन्न कुर्यात् कताचिच्च तत् कुर्वन् वेदहा भवेत्' इति च। ‘योगसाङ्ख्यकणादाक्षपादा वै हेतुवादिनः। पश्वीशशाक्तबुद्धाद्या पाषण्डा इति कीर्तिताः' इति च॥30॥ एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः। खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च॥33॥ ‘भूतनामेक एवात्ताऽथैको भूतेषु सन्ततः।


एको भूतानि चादत्ते तस्मादेकात्मकानि तु’इति भद्रमाने॥ ‘घटादिषु महाकाशो निर्विशेषश्च सन्ततः। घटावयवरूपस्तु तथैवान्यो घटानुगः। घटनाशेऽप्यनाशः सन्मध्यमाकाश इष्यते। एकदेशाभिमानित्वादित्याकाशास्त्रयः स्मृताः। महाकाशो विघ्नराजो विप्नास्तत्र तु मध्यमाः। क्षुद्रविघ्नास्तदितरएवमात्मा


Page 522


त्रिधा स्मृतः।


महाखवत् परस्त्वात्मा जीवा मध्यखवत् स्मृताः। घटानुगखवत् प्रोक्ता असुरा नित्यदुःखिनः। महाकाशवशाः सर्वे आकाशा इतरे स्मृताः। परमात्मवशे तद्वज्जीवाः सर्वेऽपि संस्थिताः। एवं विष्ण्वात्मकमिदं जगत् पश्येद्यतिः सदा' इति विनिर्णये॥33॥


शौचमाचमनं स्नानं न तु चौदनया चरेत्। अन्यांश्च नियमान् ज्ञानी यथाऽहं लीलयेश्वरः ॥ 37॥ ‘स्वभावतो धर्मपरो न विधेश्चकितश्चरेत्।।


अल्पं फलं हि चकिते स्वभावे फलमुत्तम्' इति च॥37॥


न हि तस्य विंकल्पाख्या क्रिया मट्ठीक्षया हता।


आदेहान्तं क्वचित् ख्यातिस्ततः सम्पद्यते मया ॥38॥ विधिविरुद्धत्वेन कल्पनं — विकल्पः। ‘निषिद्धं मनसा कल्प्य भीतो विहितमाचरेत्। अज्ञो ज्ञस्य तु सङ्कल्पः स्वभावाद्विहितानुगः। शरीरधर्मिणः क्वापि निषिद्धेऽपि मनो व्रजेत्। तथाऽपि तस्य नानर्थो मोक्षे नैवान्यथा व्रजेत्’


इतिं धर्मतत्त्वे ॥38॥


Page 523


तावत् परिचरेद्भक्तः श्रद्धावाननसूयकः। यावद्रब्रह्म विजानीयान्मामेव गुरुमादृतः ॥ 40 ॥ ‘शुश्रूषेत् सहितस्तावद्यावज्ज्ञानोदयो गुरुम्। ततः परं च शुश्रूषेद्यथा तस्य प्रियंभवेत्' इति च॥40॥


॥ इति एकादशस्कन्धतात्पर्ये अष्टादशोऽध्यायः ।। 11 - 18 ।।


यः॥11 - 19॥


श्रीभमवानुवाच -


यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः। मायामात्रमिदं ज्ञात्वाज्ञानंच मयि संन्यसेत् ॥1॥ ‘त्रिगुणा प्रकृतिर्माया पश्येत् तन्मात्रकं जगत्। निर्मिमीते जगत्सर्वमतो मायेति सा स्मृता' इति प्रभवे॥ 'इदं ज्ञानं हरेः पूजा हरेरेवोदितं सदा। हर्यधीनं च सर्वत्रेत्येवं न्यासो हरौ स्मृतः' इति च॥1॥


त्वय्युद्धवाश्रयतिं यस्त्रिविंधो विकारो मायाऽन्तसऽऽपतति नाद्यपवर्मयोर्यः । जन्मायोऽस्य वद मां तव तस्य किं स्यु-सद्यन्तस्योर्यदसतोऽस्ति तदेव मध्ये॥7॥ अन्यस्थं निर्मितं जीवे जन्मादि हरिणा यतः। तस्मान्मायेति तत् प्राहुर्माया निर्माणमुच्यते। न हि जीवस्य जन्मादि स्वतो नित्यस्य सम्भवेत्।


Page 524


सृष्टेः प्राक् प्रलये चैव यतो जन्मादि नास्य हि। तस्मान्मध्येऽपि नास्यास्ति देहादिस्थं तु विष्णुना। कर्मभिर्निर्मितं जीवे प्रलये यन्नजीवगम्। यन्नविद्येत हि लये यन्न विद्येत मुक्तिगे। जीवस्य न स्वभावोऽसौ प्रायेणेति विनिश्चितः' इति प्रकाशिकायाम्॥ ‘मायेत्युक्तं निर्मितं तु यतो जन्मादि निर्मितम्। देहादिगं परेशेन माया जन्मादि तेन तु' इति प्रकृते॥ मां प्रति वद। तस्य देहादेर्जन्मादयोऽस्य चिदानन्दरूपस्य तव स्युः किम्। अस्वतन्त्रत्वादवस्तुनो जगतः आद्न्यन्तयोर्यजीवस्यास्ति तदेव तस्य स्वाभाविकम् संसारेऽपि। अन्यदभिमाननिमित्तं प्रलये विद्यमानस्य कथं जन्मादि स्यादिति भावः। तदा नाशाद्देहादेस्तु युज्यते। मुक्तिगमेव जीवस्य स्वाभाविकम्। किमुप्रलयेऽप्यविद्यमानं स्वतः स्यादित्यर्थः।। ‘आद्यन्तयोरनुगमादाद्यन्तरहितस्य तु।


आद्यन्ते भाविनो मध्ये कथमन्यादृशं वपुः' इति ब्रह्मतर्के॥ ‘अनित्यत्वात् तु देहस्य तस्यजन्मादिकं भवेत्।


मुक्तिफ्रलयसम्बन्धे कथं जीवे तदिष्यते' इति च ॥ ‘अनित्यस्य गुणा मध्ये भवेयुः स्वत एव तु। न तु स्वतस्तु नित्यस्य कादाचित्कगुणैर्युतिः' इति च॥7॥


न वैकादशपञ्चत्रीन् भावान् भूतेषु येन वै। ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥12॥


Page 525


एतदेव हि विज्ञानं न तथैकेन येन यत्। स्थित्युत्पत्त्यप्यया न स्युर्भावानां त्रिगुणात्मना ।। 13 ॥ ‘एतदेव च विज्ञानं तथाऽपि न तथैव च ॥


ज्ञात्वा तत्वानि तेष्वीशं सर्वततत्वेश्वरं प्रभुम्। जानन् ज्ञानी भवेत् स्वस्य योग्यं ज्ञानंविशेषतः। पूर्वोक्त एख यो जानन् स विज्ञानी भवत्युत’। इति प्रभासे॥12,13॥


आदावन्ते च मध्ये च यज्ज्ञं सूज्यं यदन्वियात्। पुनस्तत्प्रतिसङ्कामे यच्छिष्येत तदेव सत् ॥14॥ नः तत्त्वानां मध्ये येन यद्यत्र स्थित्वा च स्युः। तदेव सत्। ‘सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे। अस्वातन्त्र्यान्नचान्येषामसत्वं विद्धि भारत' इति भारते॥14॥


श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्। प्रमाणेष्यनवस्थानाद् विकल्पात् स विस्ज्यते ॥15॥ विकल्पात् - विरुद्धकल्पनात्॥15॥


धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम्। गुणेश्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥27॥ ‘एकः प्रधानमुद्दिष्टो विष्णोः प्राधान्यदर्शनम्। ऐकात्म्यदर्शनं प्रोक्तं सर्वज्ञानोत्तमं च तत्' इति त्रैकाल्ये॥27॥


Page 526



दरिद्रो यस्त्व सुन्तुष्टः कुपण योऽजितेन्द्रियः। गुणेश्वसक्तधीरीशो गुणसङ्गो विपर्ययः॥44॥ ‘विषये दोषबुद्धिः सन्निन्द्रियाणां वशे स्थितः


कृपणः स तु सम्प्रोक्तो गुणबुद्धिर्विपर्ययः' इति विवेके॥ ‘पुरुषार्थमतिर्यस्य विषयेष्वेव देहिनः। विपरीतः स तु ज्ञेयः स्वात्मनो विपरीततः' इति निवृत्ते॥


वित्तासन्तोषमात्राद्दरिद्रः। सर्वविषयसङ्गी विपरीतः॥44॥


॥इतिं एकादशस्कन्धतात्पर्ये एकोनविंशोऽध्यायः ॥ 11 - 19॥


॥ विंशोऽध्यायः॥11 - 20॥


गुणदोषभिदादृष्टिर्नियमात् तेन हि स्वतः। नियमेनाफ्वादश्च भिदाया इति हि भ्रमः ॥5॥ ‘स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः।


अन्यत् सर्वं तत्प्रियत्वाद्णो दोषस्तथाऽप्रियम्। एवं ज्ञानवतां दृष्टिरज्ञस्तन्नावगच्छति। कालदेशविशेषेषु प्रीतिभेदमपेक्ष्यतु।


अविज्ञानवतस्तस्य मर्यादा वेदतः कृता। गुणदोषभिदा नास्ति भगवत्प्रियमन्तरा। गुणदोषदृशेर्दोषो ह्यन्यत्र भगवत्रिपयात्। गुणा यद्दोषतामीयुर्दोषाश्चगुणतां क्वचित्।


Page 527


अतो दोषो न दोषः स्यान्न गुणोऽपि गुणो भवेत्। भगवत्प्रीतिविज्ञानाद्णदोषभिदां यदि। पश्येत् तत् तु गुणायैव विपर्यास न कारयेत्। गुणदोषभिदा क्वापि स्वातन्त्र्येण न हि क्वचित्' इति ब्रह्ममये॥ ‘स्वतस्तु गुणदोषत्वदृशेर्भेदेन वस्तुनाम्। दोषोऽपि गुण एव स्याद्भगवत्प्रीतितो गुणः। दोषस्तु तद्वैपरीत्यादितिदृष्ट्याभवेद्णः। कालदेशविशेषेण प्रीत्यज्ञानाज्जगत् स्थितेः। मर्यादा गुणदोषाणां कृता वेदेषु सर्वदा


इतिं परायणे ॥ 5 ॥ एतदेवोच्यते। ‘स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः। विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः' इति च ॥5॥ श्रीभगवानुवाच - योगास्स्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया। ज्ञानं कर्म च भक्तिश्चनोपायोऽन्योऽस्ति कुत्रचित् ॥6॥


निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । तेष्यनिर्विण्णचित्तानां कर्मयोगस्तु कर्मिणाम् ॥7॥


यदृच्छया मत्कथाढ जातश्रद्धस्तु यः पुमान्।


Page 528


|


"


न निर्विण्ण नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥8॥ ‘सनकाद्या ज्ञानयोगा भक्तियोगास्तु देवताः। मानुषाः कर्मयोगास्तु त्रिधैते योगिनः स्मृताः। सर्वेषां सर्वयोगैश्च प्राप्या मुक्तिर्न संशयः। तथाऽपि तु विशेषेण स स तेषां विधीयते॥6॥ ‘भगवद्गुणानुसारेण वेदार्थो नीयते हि यैः।। भक्तियोगास्तुते प्रोक्तास्तादृशा हि सुराः सदा। अङ्गानुसारिवेदार्थं ज्ञात्वातदनुसारतः। भगवद्गुणा यैर्नीयन्ते ते प्रोक्ता ज्ञानयोगिनः। कर्माणि शास्त्रतो ज्ञात्वा तत्प्राधान्यानुसारतः। विज्ञाता यैर्गुणा विष्णोर्चेयास्ते कर्मयोगिनः।


भक्तिर्ज्ञानं न किञ्चित् तु पश्चात् तेष्वपि जायते। तथाऽपि ते कर्मयोगाः कर्मपूर्वत्वकारणात्। भगवद्गुणानुरागित्वमधिकं भक्तियोगिनाम्। तस्मात् तेऽभ्यधिका ह्येषु देवा एख विशेषतः। ईषद्वैराग्यमन्यत्र तु पूर्वं देवेषु जायते। पश्चाद्विरागोऽभ्यधिको देवानां नात्र संशयः। ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च। विरागोऽभ्यधिकस्तेषां सदैव सनकादिनाम्।


ज्ञानाधिक्यान्मनुष्येभ्यो भण्यन्ते ज्ञानयोगिनः।


Page 529


न तु ज्ञानाधिकास्ते वै देवेभ्यस्तु कथञ्चन। देवानामपि कर्मित्वं विद्यते यद्यपि स्फुटम्। तथाऽपि प्रत्यवायित्वान्मनुष्याः कर्मयोगिनः। त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः। महायोगेश्वरेशेशस्तस्माद्ब्रह्मा चतुर्मुखः' इति त्रियोगे॥6-8॥


नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम्। मयाऽनुकूलेन नभस्वतेरितः पुमान्भवाब्धिं न तत्समार्मणः ॥17॥ मार्गणवच्छरीरान्ते पतति॥17॥


कर्मणां जात्यशुद्धानामनेन नियमः कृतः। गुणदोषविंधानेन त्वंहसा त्याजनेच्छया ॥27॥ स्वतोऽशुद्धानां कर्मणाम्। अनेन गुणदोषविधानेन नियमः कृतः। स्वतोऽशुद्धत्वेऽपि कर्मणां । विध्यनुसारेणानुष्ठाने गुणत्वमेवेत्यर्थः॥27॥


भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।


क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥31॥ हृदयग्रन्थिः - अंतःकरणाख्यो बन्धः॥31॥


तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः। न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह॥32॥ मद्भक्तियुक्तस्य भक्त्यनुसारिज्ञानवैराग्ये विनाऽन्यस्माज्ज्ञानाद्वैराग्याच्च न श्रेयो भवेत्। ‘रागिणोऽपि विमुच्यन्ते देवा नास्त्यत्र संशयः।


Page 530


रागापनोदनार्थं च ज्ञानं साध्यं यतीश्वरैः' इति च॥ ‘स्मर्तव्या विषये दोषा यतिभिर्न तु दैवतैः। हरिरेव सदा पूज्य इत्यर्थं दैवतैरपि' इति च॥ वैराग्यार्थमपि विषयदोषादिज्ञानं सनकादीनां भाव्यं देवानां तदपि भगवद्भजनस्यैव


सारतापरिज्ञानार्थमेवेत्यर्थः॥32॥


यत्कर्मभिर्यत्तफ्सा ज्ञानवैराग्यतश्च यत्। योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥33॥


5


सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा। स्वर्गापवर्मं माम कथञ्चिद्यदि वाञ्चति ॥34॥ रागिणोऽपि ते भक्तियोगिनो भक्तिफलत्वेन किमपि नापेक्षन्ते॥33, 34॥


न किञ्चित् साधव वीरा भक्ता खेकान्तिनो मम। वाञ्च्छन्त्यपि मया दत्तं कैवल्यमपुनर्भम् ॥35॥


नैरपेक्ष्यं परं प्राहुर्निश्रेयसमकल्पषम्। तस्मान्निराशि भक्तिर्निरपेक्षस्य मे भवेत् ॥36॥


न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः। साधूनां समचित्तानां बुद्धेः परमुफ्युषाम् ॥37॥ ‘यदि दद्याद्भक्तियोगफलं मोक्षमपीश्वरः।


भक्तियोगफलत्वेन न तद्ह्णीयुरेव ते।


Page 531


कामिनोऽपि स्वयं कामान् भुञ्जते न फलात्मना। तस्माद्विरागेऽप्यधिका देवा एव हि तादृशाः' इति च॥37॥ एवमेतान्मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः।। क्षेमं विन्दन्ति मत्स्थानं यद्बह्म परमं विदुः ॥38॥ ‘उत्तमो भक्तियोगस्तु ज्ञानयोगस्तु मध्यमः। अधमः कर्मयोगश्च ब्रह्मैको मुख्यभक्तिभाक्। ज्ञानमभ्यधिकं तेषां नियतं भक्तियोगिनाम्। उदेति भगवद्भक्त्या तद्वन्नज्ञानयोगिनः। भक्त्यंशकं यतो ज्ञानं ज्ञानस्नेहात्मिका च सा। तथाऽपि ज्ञानयोगित्वं मानुषज्ञानतोऽधिकम्। भक्तियोगे ततो यत्नः कार्यो विद्वद्भिरञ्जसा' इति च ॥38॥


॥ इति एकादशस्कन्धतात्पर्ये विंशोऽध्याय ॥ 11 - 20 ॥


यः॥11 - 21॥


{


"


शुद्यशुद्धी विधीयेते समानेष्यपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौशुभाशुभौ ॥3॥


भूम्यम्ब्वन्यनिलाकाशा भूतानां पञ्च धातवः।


आब्रह्मस्थावरादीनां शरीरा आत्मसंयुताः ॥5॥ विवेकेन पुण्याधिक्यं भवतीति विचिकत्सार्थगुणदोषौ विधीयते। ‘पञ्चभूतात्मकत्वेन समता सर्ववस्तुषु।


Page 532


हरिसन्निधिवैशेष्याद्विशेषश्च महान् सदा' इति वैशेष्ये॥3,5॥


भेदेन नामरूपाणि विषमाणि समेष्यपि। धातुशुद्ध्यै विकल्प्यन्त एतेषां स्वार्थसिद्धये ॥6॥ धातुः – परमेश्वरः। ‘यद्यद्धरेः सन्निहितं तत्तच्छुद्धतरं मतम्। स्वतः शुचितमो विष्णुः सान्निध्यं च स्वभावतः' इति च ॥ एतेषां - जीवानाम्॥6॥


कृष्णसारोऽथ देशानां ब्राह्मणानां शुचिर्भवेत्। कृष्णसारोऽप्यसौवीस्कीकठासंस्कृतेरिणः ॥8॥ ‘नदीसमुद्रगिरय आश्रमाश्च वनानि च। नगराणि च दिव्यानि शालग्रामादयस्तथा। तेषांसमीपगाश्चैव देशा योजनमात्रतः। कर्मण्यास्तु समाख्यातास्तदन्ये कीकटाः स्मृताः। तदन्येऽपि तु ये देशाः कृष्णरारोषिताः स्वतः। कर्मण्या एव विज्ञेया यदि नाध्युषिताः खलैः। खलैरध्युषिताश्चापि यदि सद्भिरधिष्ठिताः। कर्मण्या इति विज्ञेया विष्णुलिङ्गानि यत्र च' इति स्कान्दे॥8॥


मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम्। धर्मः सम्पाद्यते सद्भिरधर्मस्तु विपर्ययै ॥15॥


Page 533


‘आन्तरः सन्निधिर्विष्णोर्बाह्यसन्निधिरेव च। द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते। स्वाभाविकस्त्वान्तरः स्यात् प्रतिमा जीवगोयथा' इति च॥15॥


अ.14.


क्वचिद्गुणोंऽपि दोषः स्याद्दोऽपि विधिना गुणः। गुणदोषार्थनियमस्तद्विदामेव बाधते ॥16॥ तद्विदामेव न तिर्यगादीनाम्। ‘वर्षाच्चतुर्दशादूर्ध्वं ये न विद्युः शुभाशुभम्। तेषामज्ञानजो दोषः सुमहान् कर्मजादपि। तिरश्चामिन्द्रियासक्तेर्न दोषोऽज्ञानजो भवेत्। गुणोऽपि नैव कश्चित् स्याद्यतो ज्ञानबहिष्कृताः' इति च। अतो मूर्खाणामदोष इति न॥16॥


समानकर्माचरणे पतितानां न पातकम्।


औत्पत्तिको गुणैः सङ्गो न शयानः पतल्यधः ॥ 17 ॥ समानकर्माचरणे आत्मयोग्यकर्माचरणे। पूर्वमपतितो येन पतति। प्रायश्चित्तत्वेन तत्समानकर्माचरणेऽपि न दोषः तप्तसुरापानवदेहत्यागिनः। तथा शयानः शूद्रोऽपि न पतति लशुनभक्षणादिभिर्बाह्मणादिपातकैः। औत्पत्तिको यतस्तस्य तादृषो गुणसङ्गः। अतः स्वायोग्य एव कर्मणि पतति। ‘त्रैवर्णिकाः सञ्चरन्तो वेदकर्मप्रवर्तनात्। शयानः शूद्र उद्दिष्टो वेदकर्माप्रवर्तनात्। नतस्याभक्ष्यजो दोषः शुश्रूषायां प्रवर्ततः।


Page 534


यथा सुवर्णस्य मलं शुक्लं ताम्रस्य नैव तत्। एवं विप्रादिदोषैस्तु न शूद्रो दोषितामियात्। मलं तु तस्यापि मलं यथैवं शूद्रजन्मनः। स्वधर्मप्रतिकूलस्य चरणं दोषदं मतम्' इति च समाचारे॥ ‘शूद्रस्यापि हरेर्दीक्षां प्रविष्टस्य तु विप्रवत्।।


अभक्ष्यादिकृतो दोषः स हि शूद्रो हि मुख्यतः' इति विष्णुतन्त्रे॥17॥


यतो यचतो निवर्तेत विमुच्येत ततस्ततः। एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥18॥ सर्वतोऽप्यभिमानविमोकेन परमेश्वरसमर्पणमेव दोषहानिदमित्याह यतो यत इत्यादिना। ‘मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा' इत्यादेश्च॥18॥


<bhaa>विषयेषु गुणाध्यानात् पुंसः सङ्गस्तत भवेत्। सङ्गादेव भवेत् कामः कामादेव कलिनृणाम् ॥19॥

कलेढुर्विषहः क्रोधस्तमस्तदनुवर्तते। तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् ॥20॥

तया च रहितः साधो जन्तुः शून्याय कल्प्यते। ततोऽस्य स्वार्थविभ्रंशो मूर्छितस्य मृतस्य च ॥21॥

विषयाभिनिवेशेन नात्मानं वेद नापरम्। वृक्षजीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन्॥22॥</bhaa>

Page 535


‘दोषिणो गुणवत्त्वेन श्रूयन्ते विषयाः सदा। असतां सङ्गतेस्तेषु दोषाः श्रोतुं सुदुर्लभाः। अतो नित्यगुणध्यानात् तद्भुणे प्रीतिमान् भवेत्। अतस्तत्र भवेत् कामः कामिनं कलिराविशेत्। अधर्माज्ञानरूपेण कलिनाऽऽविष्टदेहिनः। सत्सु क्रोधो दुर्विषहस्ततस्तमसि पात्यते। अन्धे तमसि मग्नस्य चेतनेन्द्रियसन्तता। सुखानुभवशक्तिर्या सा विनश्यति सर्वदा। तदा शमूनभावेन शून्य इत्युच्यते नरः। सर्वात्मना तु शम्भ्रंशस्तस्य दुःखविविर्धनः। अमूर्छितस्यैव भवेन्मृत्यनन्तरमेव च। दुःखाख्याविषयावेशान्नात्मानं परमेव च। यथावद्वेत्ति पतितस्तमस्यन्धे कदाचन। वृक्षवदृश्यते नित्यं निष्प्रयोजनजीवनः। नित्यदुःखपरीतायुद्दतिवत् प्रश्वसित्यपि' इति तन्त्रभागवते। स्वार्थस्य सुखस्य भ्रंशो विपरीतमतिशयेन जनयतीति स्वार्थविभ्रंशः॥ ॥19 - 22॥


तस्मात् स्वर्गादिविषयेष्वपि नेच्छेत । <?>फलश्रुतिरियं नृणां न श्रेयोरोचनं परम्।


ओतुर्विवक्षया प्रोक्तं यथा भैषज्यचनम् </?>॥23॥


Page 536


उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसो म आत्मनोऽनर्थहेतुषु ॥24॥


न तानविदुषः स्वार्थ भ्राम्यतो वृजिनाध्वनि। कथं युङ्ग्यात् पुनस्तेषु तांस्तम विंशत बुधः ॥25॥ ‘फलस्य श्रुतिरेवेयं न कामकुसुमश्रुतिः। स्वर्गादिकामनायुक्तस्तैहिकेष्वपि सज्जते। तत्रापि देवकामेभ्यो विशेषं चाभिवाञ्छति। ततस्ममसि पातः स्यादतो वेदः कथं हि तान्। काम्यत्वेनाभिचक्षीत सर्वं जानन् स्वयं सदा' इति च॥ न श्रेयोरोचनम्। अस्मत्सकाशाच्छेयो मोक्षाख्यं तदेव रोचयति फलश्रुतिः। कुसुमस्यानित्यतादिदोषज्ञानान्मोक्षस्यादोषत्वज्ञानाच्च। ईषदुत्तमस्य श्रोतुर्विवक्षया। बुधो वेदः कथं युड्यात्। अन्तरालागतोऽपि स्वर्ग एवं विधः किमु साक्षात्फलरूपो मोक्ष इति रोचकः। अनेकब्रह्मकालप्राप्यत्वान्मोक्षस्य तावंतं कालं तप एव कर्तुं न शक्यत इति मन्दाधिकारिणां स्वर्गादिष्वप्यभिरुचिर्भवति तान् प्रत्यन्ते मोक्ष एव भवति। अन्तरालेऽप्येवंविधस्वर्गादिकं सुखं भवति। तस्माद्विहितं कर्म कर्तव्यमिति रोचयति। उत्तमानां तु यस्मादेतादृशमप्यनित्यत्वादि दोषवत्स्वर्गादिकं तस्मान्मोक्षफल एव वेद इति दर्शयति। न हि सर्वप्रमाणोत्तमो वेदोऽल्पफले पर्यवसितः। 'मन्दाधिकारिणां नित्यं तपसैव प्रतीक्षितुम्। मोक्षो न शक्यतेऽधैर्यात् ततः स्वर्गादिकं भवेत्। स्वर्गादिष्वल्पफलतां ज्ञापयित्वाविमोक्षदम्। एवं वक्तुं तूत्तमानां नित्यो वेदः प्रवर्तते।


Page 537


इक्षुदण्डं ददानीति यथा भैषज्यरोचनम्। एवं मन्देषुत्तमेषु मोक्षमाहात्म्यमुच्यते। नह्यल्पफलभाग्वेदो वासुदेवैकसंश्रयः' इति विचारे॥23-25॥ ‘अयोग्यभार्यापुत्रादिकामिताऽनर्थसाधिनी। योग्यकामाद्धरेः प्रीतिरतो ब्रह्मादयोऽमलाः। भार्यापुत्रादिसंयुक्ता वासुदेवमुपासते' इति च ॥


एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कुसुमितामवेदज्ञा वदन्ति हिं॥26॥ एवं वेदस्य व्यवसितम्। फलश्रुतिं कुसुमिताम्। फलं - मोक्षः। तद्विषयां श्रुतिं स्वर्गादिकुसुमविषयां वदन्ति॥ ‘नित्यानन्दो हरेभक्तिज्ञानाद्याः स्वर्गशब्दिताः। पुत्रभार्याप्तवित्ताचं सर्वं मोक्षगतं फलम्। उद्दिश्य स्वर्गकामस्य यजनं श्रुतिचोदितम्। तदविज्ञाय पुष्पाख्यमनित्यं स्वर्गमिच्छवः। यजन्ति मन्दमतयो वेदवादपरायणाः' इति च॥ ‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा इत्यादीनि॥26॥


-



कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः। अग्निमुग्धाधूमतान्ताः स्वलोकं न विदन्ति ते॥27॥


स्वलोकं स्वाश्रयम्॥27॥


Page 538


न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः। उक्तशासो ह्यसुतृपो यथा नीहारचक्षुषः ॥28॥ कोऽसावाश्रयः ? माम्। ते ये उक्थेन प्राणेन शास्याः। ‘विष्णुभक्तान् सदा वायुः शासयेत् तमसि क्षिपन्। विष्णुभक्तान् विमोक्षाया प्रापयित्वा सुखं नयेत्' इति च॥ ‘पथ एकः पीपाय तस्करो यथा एष वेद निधीनाम्' इति च॥28॥


|


"


ते मे मतमविज्ञाय परोक्षविषयात्मकाः ।


हिंसायां यदि कामः स्याद् यज्ञ एव न चोदना ॥29॥ ‘मोक्षाख्यं फलमेवात्र स्वर्गदिवचनं तु यत्।। पुष्पं स्वर्गादिवत् तस्य वचनं मन्दरोचनम्' इति च॥ ‘असुराणामयं स्वर्गशब्दः पुष्पात्मकं वदेत्। देवानां हरिसम्प्राप्तिं वेदो विष्णुपरो यतः' इति च॥ मे मताविज्ञानात् परोक्षविषयात्मकाः। परोक्षमन्धन्तमः। तद्विषयस्वरूपाः। तद्गमनार्थस्वरूपाः। ‘अन्धन्तमः परोक्षं च पञ्टकच्चं तथोच्यते' इति सुव्यक्ते॥ तेषामासुराणां यदा हिंसायां कामः। तदा यज्ञ एव न चोदना। यद्यदात्मनो हिंसितुमिष्टं तत्तद्विहितमिति प्रापयन्ति कुतर्कैः। ‘असुरोऽविहितां हिंसां विहितत्वेन वर्णयेत्।


आसुरा याज्ञिकाः सर्वे नारायणपराङ्मुखाः' इति च ॥29॥


हिंसाविहारा ह्यालब्ध्यैः फ्शुभिः स्वसुखेच्छया।


यजन्ते देवता यज्ञैः पितृन् भूतपतीन् खलाः ॥30॥


Page 539


‘विष्णुं विहाय ये देवान् पितृन् भूतेशमेव वा।


साम्येन वा पूजयन्ति ते ज्ञेया आसुरा गणाः' इति च॥30॥


रजःसत्वतमोनिष्ठा रजःसत्वतमोजुषः।


उपासते इन्द्रमुख्यान् देवादीनयथैव माम् ॥32॥ तामसेष्वेव रजःसत्वतमोनिष्ठाः। ‘तामसेषु तु ये सत्वा निरयप्रचुरास्तुते। ईषत्स्वर्गादिसंयुक्ता एवं निष्ठाश्चते स्मृताः। केवलं निरये निष्ठा ये ते तामसराजसाः।


अन्धे तमसि ये निष्ठास्ते वै तामसतामसाः। एवं त्रिभेदयुक्तास्तु याज्ञिका विष्णुवर्जिताः' इति हरिवंशेषु॥32॥


वेदा ब्रह्मात्मविषयास्त्रिकाण्ङविषया अपि।


परोक्षवादो वेदोऽयं परोक्षं मम च प्रियम् ॥35॥ ‘ब्रह्मत्वं पूर्णता प्रोक्ता तद्यस्य स्वत एव तु। स ब्रह्मात्मा समुद्दिष्टो वासुदेवः सनातनः' इति च॥35॥



शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम्। अनन्तपारं गम्भीरं दुर्विंगावं समुद्रवत् ॥36॥ प्राणेन्द्रियमनोभिर्मीयते।। ‘मेयात्वान्मया उद्दिष्टो वेदः प्राणादिभिः सदा' इति वाराहे॥


Page 540


अन्तो विनाष उद्दिष्टः पारः परिमितिस्तथा। अनन्तपारो वेदोऽयं ताभ्यां स रहितो यतः इति व्यासस्मृतौ॥36॥


मयपबृंहितं भूम्रा ब्रह्मणाऽनन्तशक्तिना। भूतेषु घोषरूपेण भीसेघूर्णेव लक्ष्यते॥37॥ भूम्ना - ब्रह्मणा अतिमहापरिपूर्णेने॥37॥


यथोर्णनाभिहृदयातूर्णमुद्रहते मुखात्।


आकाशाद्घोषवान् प्राणो मनसाऽऽस्पर्शरूपिणा ॥38॥


छन्दोमयोऽमृतमयः सहस्रपदव प्रभुः।


ओङ्कारेष्यञ्जितां स्पर्शस्वरोष्मन्तस्थभूषिताम्॥39॥


विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः।


अनन्तपारां बृहत सुजत्याक्षिपते स्वयम् ॥ 40॥ अस्पर्शरूपिणा। आस्पर्शो विष्णुस्तं रूपयति प्रकाशयतीत्यास्पर्शरूपि प्राणस्य मनः। आसमन्तात्स्पर्शा भोगा अस्यैवेत्यास्पर्शः।। ‘भुङ्के यदखिलान् स्पर्शानास्पर्शी विष्णुरुच्यते। तस्य प्रकाशकं नित्यं नमस्ये प्राणमेकलम्॥ प्राणस्यैव मनो नित्यं वासुदेवं प्रकाशयेत्' इति वायुप्रोके॥ ‘मीयन्तेऽनेन छन्दांसि प्रणस्छन्दोमयस्ततः” इति च। ‘त्रिमात्रमादितः कृत्वा यावच्चानन्तमात्रकाः॥


Page 541


प्रणवास्ते विभेदेन ह्यनन्तः परिकीर्तिताः। एकमात्रोत्तराः सर्वे वासुदेवाभिधायकाः। तेषां व्याख्यानरूपा हि सर्वे वेदाः प्रकीर्तिताः। ओङ्कारेणान्वितास्तस्मात् सदोच्चार्या हरेः प्रियैः इति प्रणवमाहात्म्ये॥ ‘गुह्यदर्शनभाषे च भाषा चैव समाधिका। तिस्रस्तुमूलभाषाः स्युरेकैका च त्रिधा पुनः।


गुह्यदर्शनसंज्ञा च गुह्यगुह्या तथाऽपरा। एवमादिक्रमेणैव त्वेकाशीतिविभेदिताः। भाषास्तत्र च गुह्या च प्रसिद्धार्थेष्वनन्विता। गुह्यार्थतत्परैवान्धो मणिमित्यादिका च सा। दर्शनान्यवलम्भ्यैव पशुपत्यादिनां तु या। बहुश्रुतिविरुद्धं तु वदेत् सा दर्शनात्मिका। अन्ते निषेधसंयुक्ताभस्मस्नानादिका च सा। यथा प्रदृश्यमानार्थी समाधिः सा प्रकीर्तिता। विष्णुः परम इत्याद्या सा च विद्वद्भिरीरिता' इति भाषाविवेके। ‘भस्मस्नानविधानं तु श्रुत्युक्तं दर्शनानुगम्। भस्मस्नानं ततो ग्राह्यं विधानं तु नृसिंहगम्' इति स्कान्दे॥38-40॥


Page 542


गायत्र्युष्णिगनुष्टुप् च बृहती पङ्रेिव च। त्रिष्टुप् जगत्यतिंच्छन्दो ह्यष्टत्यष्टी जगद्विराट् ॥41 ॥ गायत्र्या उष्णिक् चतुर्वर्णाधिकेत्यादि चतुरुत्तरैः गजत्यन्तानामेव चतुरुत्तरत्वनियमः॥41॥ ‘छन्दस्तु नवपादं यज्जगदित्युच्यते बुधैः' इति छन्दोविधाने॥41॥


किं विधत्ते किंमाचष्टे किंमनूद्य विकल्पयेत्। इत्यस्या हृदयं लोके नान्य मद्वेद कश्चन ।। 42 ॥




मां विंधत्तेऽभिधत्ते मां विकल्प्यापोह्य इत्यहम् ॥ 43॥ विविधरूपत्वेन कल्पनं विकल्पः चत्वारि वागित्यादि। तत्र वागित्यनुवादः। ‘विधिभागे हरेः पूजैवाभिधाने च तद्णाः । विकल्पे तद्वहुत्वं चाप्यपोहे तु तदप्रियम्। उच्यते सर्ववेदेषु तच्च वेद स एव हि' इति आगमतात्पर्ये। ‘सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम्। सुरापानमिति प्रोक्तं तन्न कुर्यात् कथञ्चन॥ ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्यभिचिन्तनम्। ब्रह्महत्या समुद्दिष्टातां न कुर्यात् कथञ्चन॥ ‘इत्याद्यपोहवाक्यार्थश्चिन्त्यो विष्णुर्बुधैर्जनैः' इत्यादि च।


मदन्यः कश्चन कोऽपि न वेद॥42, 43॥


एतावान् सर्ववेदार्थः शब्द आस्थाय माऽभिधाम्। मायामात्रमनूद्यान्ते प्रतिषिध्य प्रशाम्यति ।। 44 ॥


Page 543


अभिदश्च स एव अश्च अभिदा तं अभिदाः। मामास्थाय मायामात्रं मदिच्छानिर्मितं शरीरादिकं अनूद्योपासनादिकं विधाय मोक्षरूपेण तच्छरीरादिकं प्रतिषिध्य प्रशाम्यति। ‘सर्वावताररूपेषु निर्भेदत्वाददोषतः।


अभिदा विष्णुरुद्दिष्टस्तमेवोक्त्वा तदिच्छया। निर्मितं दैहिक बन्धं तस्योपासनयैव तु।


प्रतिषिध्य विमोक्षे तु स्वभावोपास्तिरूपतः। प्रतिशाम्यति वेदोऽयं वासुदेवैकसंश्रयः' इति च।


अभिदामास्थाय कोऽपि शब्दो मेति वा॥44॥


| ॥इति एकादशस्कन्धतात्पर्ये एकविंशोऽध्यायः ॥ 11 - 21॥


॥ द्वाविंशोऽध्यायः॥11 - 22॥ श्रीभमवानुवाच - युक्तयः सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा। मायां मदीयामुद्रुह्य वदतां किं नु दुर्घटम् ॥ 4 ॥ मायां - मदीयां मत्सामर्थ्यम्। विष्णोः सामर्थ्यमालम्भ्य तत्त्वसङ्ख्यां मुनीश्वराः।


चक्रुर्हि तदविज्ञाया विवदन्त्यल्पबुद्धयः। तत्रापि कारणं विष्णोः शक्तिर्यस्याविकारतः॥4॥


नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा। एवं विंवदतां हेतुः शक्तयो मे दुरत्ययाः ॥5॥


Page 544


यासां व्यतिकरादासीद्विकल्पो वदतां पदम्। प्राप्ते शमदमे व्येति वादस्तमनुशाम्यति ॥6॥ ‘अव्यक्तादेर्विकल्पोऽयं मनसः सम्प्रजायते। विरुद्धकल्पनं तच्च वासुदेवैकनिष्ठया। निरहङ्कारया नश्येद्विवादैकाश्रयं हि तत्' इति तन्त्र भागवते॥ यासां सकाशादब्यक्तादिव्यतिकराद्विकल्पो विरुद्धकल्पः। स हि विवादाश्रयः॥5,6॥


परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ। पौर्वार्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम्॥7॥


एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च। पूर्वस्मिन् वाऽपरस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥8॥ तत्त्वसङ्ख्या विवक्षाभेदेन बहुधा भवति॥7,8॥


अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम्। स्वतो न सम्भवेद्यस्मात् ततोऽन्यः पुरुष भवेत् ॥ 10॥ सर्वथा जीवादन्यः परमेश्वरोऽङ्गीकर्तव्यः। जीवस्य स्वत एव ज्ञानायोगात्॥10॥


पुरुषेश्वस्योस्त्र न वैलक्षण्यमण्वपि। तदन्यकल्पनाऽपार्था ज्ञानं च प्रकृतेर्गुणः ॥11॥ स च पुरुषरूपेणान्तःस्थितो ज्ञानमुत्पादयति। ईश्वररूपेण बहिःस्थः फलं ददाति। न च तयोः स्वरूपयोः किन्चिद्वैलक्षण्यम्। तयोश्चान्यत्वकल्पना तत्स्वरूपादपगमनप्रयोजनाऽ- नर्थकारिणीत्यर्तः। ज्ञानस्वरूपस्य जीवस्य कथं ज्ञानोत्पादनमित्यतो वक्ति। ज्ञानं च प्रकृतेर्गुण इति। जन्यज्ञानं प्रकृतेर्गुणः।


Page 545


‘स्वरूपभूतज्ञानं तु सदा जीवस्य विष्णुना। नियतं प्राकृतं ज्ञानं भक्त्या तेनैव दीयते' इति च॥11॥


प्रकृतेर्गुणसाम्ये तु प्रकृतेर्नात्मनो गुणाः। सत्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥12॥ जन्यज्ञानस्य प्राकृतत्वं साधयति। प्रकृतेर्गुणसाम्ये त्वित्यादिना॥ ‘अन्तःस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम्। बहिःस्थ ईश्वरो नाम ज्ञानादिफलदो हरिः' इति मात्स्ये॥ ‘पुरुषाख्यो हृदुतस्तु विष्णुर्जीवविबोधकः। फलदात्रा तु बाह्येन य ईशेन भिदां वदेत्। तथैवान्यस्वरूपेषु विष्णोर्यो भेददर्शकः। ये च जीवेश्वराभेदं पश्येत् तेऽनर्थभागिनः' इति ब्राह्मे॥12॥


-


=


सत्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते। गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥13॥ कालो - भगवान्॥13॥


पुरुषः प्रकृतिक्तमहङ्कारो नभोऽनिलः।


ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ 14॥ नवैकादश पञ्च त्रीणीत्युक्तानि पुरुषः प्रकृतिरित्यादीनि॥14॥


श्रोत्रं त्वग्दर्शनम् घ्राणो जिह्वति ज्ञानशक्तयः। वाक् पाण्युपस्थपावङ्किर्माण्यङ्गोभयं मनः ॥15॥


Page 546


शब्दः स्पर्शी रसो गन्धो रूपं चेत्यर्थजातयः। गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिंङ्ख्यः ॥16॥ उत्सर्गस्य द्विविधत्वात् पञ्चकद्वयम्॥15, 16॥


सर्गादौ प्रकतिर्खस्य कार्यकारणरूपिणी। सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽब्यक्तमीक्षते ॥17॥ त्रीनिति त्रिगुणानिति वक्तुं गुणप्रवृत्तिमाह - सर्गादावित्यादिना॥17॥


व्यक्तायो विकुर्वाणा धातवः पुरुषेक्षया। लब्धवीर्याः सृजन्त्यण्डे संहताः प्रकृतेर्बलात् ॥18॥ कार्यकारणभावादन्योऽन्यानुप्रवेशो युक्त इति वक्तुं सृष्ट्युक्तिः। ‘सृज्यस्रष्ट्रस्वरूपत्वादन्योन्यानुप्रवेशिनः। तिष्ठन्ति तात्विका देवा विशेषप्रीतिकारणात्' इति निसर्गे॥


अन्वेकमप्येष्वित्युक्तत्वात् पुरुषो हिरण्यगर्भः। ‘यदा पुरुषशब्देन विरिञ्चस्यैव वाच्यता। परस्य पृथगुक्त्यैव व्यक्तस्तत्र तु शङ्करः। तदाऽहङ्कारशब्देन स्कन्दस्यैव वचो भवेत्' इति विवेके॥18॥


सप्तैव धातव इति यत्रार्थाः पञ्च खादयः। ज्ञानमात्मभयाधारस्ततो देहेन्द्रियासवः ।। 19॥ सत्वादीन् गत्यादींश्च विना परमात्मना सह षड्विंशतिः। महदहङ्कारौ ब्रह्मरुद्रौ अङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः।


Page 547


‘विषयेन्द्रियप्रकृतिदेवताः परमात्मना। पञ्वविंशतितत्त्वानि सङ्ख्यातानि विदो विदुः' इति च। ‘ज्ञानशब्दोदितो ब्रह्मातदाधारो हरिः स्मृतः' इति च॥ ततो ज्ञानं परमात्मानं चाङ्गीकृत्यैव देहेन्द्रियाण्यसुश्च नव तत्त्वानि। ‘सर्वदेहाभिमानी तु देहिनां तु दिवाकरः।। इन्द्रियात्मेन्द्र एवैकः प्राणो नाम प्रजापतिः' इति च॥19॥


चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः। जातानि तैरिदं जातं जन्माक्यविनः खलु ॥21॥ अवयविनो जन्म तैः खलु॥21॥


सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च।


पञ्चपञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥22॥


तद्वत् षोड्शसङ्ख्यानि आत्मना मन उच्यते। भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥23॥


इतिं नाना प्रसङ्ख्यानं तत्त्वानामृषिभिः कृतम्। सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् ॥24॥ ‘भूतानि मात्राश्च परस्तत्त्वैकादशकं स्मृतम्' इति च। भूतमात्रेत्यारम्भात् तत्सिद्धेरेकादशानां पृथगनुक्तिः॥


आत्मना सहैव मन उच्यते। ‘आत्मनः सन्निधिस्थत्वान्मनसस्तु तदुक्तितः।


Page 548


उक्तो भवेत् परात्माऽपि तत्त्वषोडशकं यदा' इति च।


आत्मशब्देन च ब्रह्मा परमात्मा चोभावुच्येते। ‘भूतन्द्रियाणि च मनो ब्रह्मा विष्णुस्तथैव च।


एवं त्रयोदशैवाहुस्तत्त्वानि मुनयो वराः' इति च। ‘आत्मेति परमात्मा च विरिञ्चश्चापि कथ्यते। वायुर्मनश्च देहश्च स्वयमित्यपि कुत्रचित्' इति प्रत्यये॥22-24॥ उद्धव उवाच - प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ। अन्योऽन्यापाश्रयात् कृष्ण दृश्यते न भिंदा तयोः ॥25॥ यद्यपि परमात्मा प्रकृतिश्च विलक्षणौ तथाऽपि तयोर्वैलक्षण्यं न लक्ष्यते। ‘अन्तरं च भिदा चेति वैलक्षण्यं प्रकीर्तितम्' इति च। तद्वैलक्षण्यं कुतो न दृश्यत इति प्रश्नाभिप्रायः॥25॥ प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि। एतन्मे पुण्डरीकाक्ष महान्तं संशयं हृदि। छेत्तुमर्हसि पझेश वचोभिस्तत्त्वनैपुणैः॥26॥


14


.



त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तनुशक्तितः। त्वमेव ह्यात्ममायाया मतिं वेत्थ न चापरः ॥27॥


अन्योन्याधारत्वमेव दृश्यते। न तु परमेश्वरस्यानन्याधारत्वेन मन्दमतीनामित्यर्थः॥26॥


प्रकृत्याधारत्वं


Page 549


‘आधारः प्रकृतेर्विष्णोर्नाधारस्तु हरेः क्वचित्। तथाऽप्यव्यक्तगो यद्वदृश्यते मन्दचेतसाम्' इति पाझे॥27॥ श्रीभगवानुवाच - प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ। एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥28॥ प्रकृतिः पुरुषश्चेत्येव अन्योऽन्यविलक्षणावेव। एषः विकल्पः। वैलक्षण्यादर्शनं विरुद्धकल्पनमेव। यस्माद्णव्यतिकरात्मकः सर्गो विकारनिमित्तः स च गुणव्यतिकरस्त्रिविधः। सत्वरजस्तमसामेकैकप्राधान्येन तत्र तमः प्रधानानामेव विरुद्धकल्पनं तस्मात् तम एवात्र कारणमित्यर्थः॥28॥


ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धिं च गुणैर्विधत्ते। वैकारिकत्रिविंधोऽध्याल्ममेकमथाधिदैवमधिभूतमन्यत् ॥29॥ तत्रापि प्रकृतिरेव कारणं ईश्वरेच्छा च। विकाराज्जातत्त्वाद्वैकारिक इत्युच्यते अहङ्कारस्त्रिविधोऽपि। ‘वैकारिको महांश्चैव तथाऽहङ्कार एव च।। तथैव सात्विकश्चांशो वैकारिक इति त्रिधा' इति शब्दनिर्णये॥29॥


दृग्रुपमर्कश्च पस्त्र रुन्द्रे परस्परं सिंद्यतिं न स्वतोऽसौ।


आत्मा यदैषामुपगम आयः स्वयाऽनुभूल्याऽखिलसिंयसिद्धिः ॥30॥




एवं त्वगादिं श्रवणादिं चक्षुर्जिह्वादिं नासादि च चित्तयुक्तम् ॥31॥


आध्यात्ममिन्द्रियाणि। तैरेव विपरीतं ज्ञानं जायते। ‘अहङ्कारे विद्यमाने भ्रमो भवति नान्यदा। सम्यग्ज्ञानं हरेः शक्त्या तन्मुक्तस्य विशेषतः।


Page 550


देवतानुग्रहो नित्यं मुक्तस्यापि ह्यपेक्ष्यते। नित्यं तत्प्रतिबिम्बत्वाज्जीवानामेव कृत्स्नशः। बाह्यज्ञानं च मुक्तस्य न जडाहङ्कृतेः क्वचित्। किन्तु स्वरूपशक्त्यैव देवेभ्यश्चाभिजायते' इति ब्रह्मतर्के॥ ‘पश्यन्नपि जगत्सर्वं चिद्वलेनैव पश्यति। कुतो मुक्तस्य तु जडं चिद्रूपस्य व्यपेक्ष्यते' इति च। एषामुपरमे मुक्तौ। चक्षुरिति पुनर्वचनमवधारणार्थम्॥30॥


योऽसौ गुणक्षोभकृत विकारः प्रधानमूलो जगतः प्रसूतिः। अहं त्रिंवृन्मोविंकल्पहेतुर्वैकारिकस्तामस ऐन्द्रियश्च ॥32॥ योऽसौ भ्रमहेतुर्विकारः स गुणक्षोभकृतः आत्मा तु परिज्ञानस्वरूपो न गुणक्षोभकृतः॥31, 32॥


आत्मा परिज्ञानमयो विवादो स्वस्तीतिं नास्तीति भिंदाऽर्थनिष्ठः।


व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥33॥ भिदा विपर्ययेण विद्यमानं नास्ति अविद्यमानमस्तीति विवादः। ‘असदस्ति च सन्नास्तीत्येवं भेदाद्विवादनम्।


सदैव हरिपादाजविमुखानां प्रवर्तते' इति च ॥33॥


विषयाभिनिवेशेन नात्मानं यत्स्मरेन्मनः।


जन्तर्वै कस्यचिद्धेतौमृत्युस्त्यन्तविस्मृतिः ॥38॥ विषयाभिनिवेशेन उत्तरदेहाभिनिवेशेन पूर्वदेहास्मरणं यत्तन्मृत्युः॥38॥


ईदृशायास विज्ञाय त्रैविध्यं भातिं वस्तुनि।


Page 551


बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृयथा ॥ 41 ॥ ईदृशं वर्तमानं आय एष्यत् सः अतीत इति त्रैविध्यं भाति। विज्ञाय वस्तुनि विज्ञाते सति। दीर्घलोपः। ‘अत्रा ते' इतिवत्। 'क्षेप्रे दीर्घलोपः' इति सूत्रात्। अयमेवात्मानात्मनोविशेषहेतुः। यथा प्रायोऽसज्जनोऽसज्जनमेव जनयतीति पितृज्ञानात् पुत्रदौरात्म्यं ज्ञायते। एवमनित्यत्वादनात्मत्वं देहादेरित्यर्थः


॥41॥


यथाऽर्चिषा स्रोतसां च फलानां वा वनस्पतेः। तथैव सर्वभूतानां क्योऽवस्था च तत्कृता । 43॥


सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम्। सोऽयं पुमानितिं नृणां मृषागीर्भिर्मुषायुषाम् ॥44॥ सोऽयमेवेति ज्ञानं न मृषा। ‘स चायमिति तु ज्ञानं न मृषाऽयं स एव तु। इति ज्ञानं मृषैव स्याद्भेदाभेदौ यतस्तनोः। अभेद एव जीवस्य नित्यं प्रत्येकशः पृथक् । दीपदेहनदीवारिफलादीनां पृथक् स्वतः। भेदाभेदौ परिज्ञेयौ कार्यकारणयोरपि। गुणस्य गुणिनश्चैव जातिव्यक्त्योस्तथैव च। तथाऽवयव्यवयवयोः क्रियायास्तद्वतस्तथा। एवं जडेषु नियमश्चिद्रूपेष्वभिदैव तु' इति च 'ये धर्मा नियमेनैव धर्मिणो न वियोगिनः।


Page 552


जडस्था अप्यभिन्नास्ते भिन्नाभिन्नावियोगनः' इति च॥ 43,44॥


आत्मनः पितृपुत्राभ्यामनुमेयौ भवप्यायौ। भवाप्ययौ हि वस्तूनामभिज्ञाद्वयलक्षणौ। 48॥ अभिज्ञाद्वयलक्षणौ - अभिमानमात्रौ॥48॥


तरोजविकाराभ्यां यो विद्वान् जन्मसंयमौ। तरोर्विलक्षणो दृष्ट एवं द्रष्टा तनोः पृथक् ॥ 49॥ तरोर्बजविकारदृष्टान्तेन विद्वान् देहाभिमानं त्यक्त्वा संयमं याति। परमात्मनश्च भेदं जानाति प्रकृत्यादेः। ‘बीजाद्यवस्थासंयुक्ताक्षाद्दष्टा यथा पृथक्। एवं विकारिणो विष्णुर्जीवश्च पृथगेव तु' इति च॥49॥


नृत्यत गायतः पश्यन् यथैवानुकरोति तान्। एवं बुद्धिगुणान् पश्यन्ननहोऽप्यनुकार्यते॥52॥ ‘दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति। सुखज्ञाने तु जीवस्य भक्तिः स्नेहस्तथैव च। विपर्ययेणासुराणां जीवबुद्धिगुणा मताः' इति च॥ ‘आत्मनोऽपि गुणा बुद्धिकृतबुद्धिगुणा इति। उच्यन्ते सुखदुःखाद्याः परमात्मकृता यथा' इति त्रैकाल्ये॥52॥


यथा मनोरथधियो विषयानुभवो मृषा। स्वप्नदृष्टश्च दाशार्ह तथा संसार आत्मनः ॥54॥


Page 553


मृषा - वृथा। ‘अल्पप्रयोजनं यत्तन्मृषेत्येव तदुच्यते' इति शब्दनिर्णये। आत्मनः स्वत एव दुःखाद्याः सुखादिवदिति मिथ्याबुद्धिरिति वा॥54॥


॥ इतिं एकादशस्कन्धतात्पर्ये द्वाविंशोऽध्यायः ।। 11 - 22॥


यः॥11 - 13॥


मनक्शेऽन्ये हि भवन्ति देवा मनश्च नान्यस्य क्शं समेति। भीम हि देवः सहसः सहीयान्नात्याविंशत् तत् स हि देवदेवः ॥ 48॥ सात्विकमनोविवक्षया देवशब्दः॥48॥


तं दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित्। कुर्वन्त्यसद्विग्रहमत्र मत्र्यैर्मित्रैरुदासीनरिपुं विमूढाः ॥ 49॥ तामसमनोविवक्षया शत्रुशब्दः। ‘एकस्थानाधिपत्ये तु भिन्नानामपि युज्यते।


अभेदेन परामर्शः सादृश्येनापि वस्तुनोः' इति प्रयोगे॥ ‘ऋते द्वे ब्रह्मणी कस्य मनो भाति वशं क्वचित्। श्रियं सरस्वतीं वापि याति वा तत्प्रसादतः' इति पाझे॥


उदासीनानां रिपुं सम्यज्ज्ञानवतां न रिपुत्वं शक्यत इत्यर्थः॥49॥


देहं मनोमात्रमिदं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः। एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥50॥ अभिमानमात्रेणैव जीवस्य देहेन सम्बन्ध इति मनोमात्रम्। मनसा निर्माणमिति। अहमन्य इत्यपि


Page 554


देहमात्रे मन्यन्ते। ‘देहमात्रं स्वमात्मानं यः परं चाभिपश्यति।


अन्धे तमसि मग्नस्य नोत्तारस्तस्य कुत्रचित्' इति च ॥50॥


जनोऽस्य हेतुः सुखदुःखयोश्चेत्किमात्मनश्चात्र हि भौमयोस्तत्। जिह्वां क्वचित्सन्दशतिं स्वद्भिस्तद्वेदनायां कतमाय कुप्येत् ॥51 ॥ ‘जनशब्दः स्वतो जीवे क्वचिद्देहे च वर्तते' इति प्रयोगे॥51॥


-


दुःखस्य हेतुर्यदि देवताऽस्तु किमात्मनस्तत्र विकारयोस्तत्। यदङ्गमङ्गेन विहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥52॥ अयोग्यक्रोधादेर्मन एख कारणम्। ‘अविकारश्च ते देवा विकारा इति शब्दिताः।


अभिमानाद्विकारस्य स्वतः शक्ता अपि ध्रुवम्' इति च ॥52॥




आत्मा यदि स्यात् सुखदुःखहेतुः किंमन्यतस्तत्र निजः स्वभावः। न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात् क्रुध्येत कस्मै न सुखं न दुःखम् ॥ 53॥ न ह्यात्मनः स्वभावादन्यद्भवति। यदि दृश्यते तथाऽपि मृषा स्यात्। सुखरूपं दुःखं न भवति। अतो मन एव तथा दर्शयति। ‘जीवस्य सुखरूपस्य न दुःखं क्विचिदिष्यते।


अतो मनोऽभिमानेन दुःखी भवति नान्यथा' इति भारते॥53॥


ग्रहा निमित्तं सुखदुःखयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै। ग्रहैग्रहस्यैव भवन्ति पीडाः क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ 54॥


Page 555


गृह्यमाणत्वाद्रहो देहः॥54॥


कर्मास्तु हेतुः सुखदुःखयोर्वे किंमात्मनस्तद्धिं जडेऽजडत्वें। देहे स्ववित्पुरुषोऽयं सुपर्णः क्षुद्ध्येत कस्मै न हि कर्म मूलम् ॥ 55॥ अजडत्वे आत्मनः॥55॥





कालोऽस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तत्र तदात्मनोऽसौ। नाग्नेर्हि तापो न हिमस्य तत्स्यात्क्रुध्येत कस्मै न परस्य बोछुः ॥56॥ तदात्मनः कालाधीनस्य। ‘स्वातन्त्र्य मात्मशब्दोक्तं स्वरूपमपि कुत्रचित्' इति विवेके॥ यथाग्नेहिमस्य च नैव दुःखं तापनिमित्तं जडत्वात्। एवं जडत्वाद्देहस्यापि कलादिसम्बन्धे विद्यमानेऽपि न दुःखं युक्तम्। ‘सदा कालादिसम्बन्धाद्दुःखं देहस्य युज्यते। तथाऽपि नैव दुःखी स जडत्वान्नियमेन तु।


आत्मनः सुखरूपत्वान्न दुःखं युज्यते क्वचित्। तस्मान्मनोभ्रमेणैव दुःखी जीवो न चान्यथा। सर्वेषां मनसो नेता मलोरूपत्रिलोचनः। तद्वशाः सर्वदेवाश्च तेनैव सुखदुःखिनः। नियन्ता तस्य च प्राणस्ततोऽपि बलवत्तरः।


तन्नियान्ता हरिः साक्षात् परमानन्दलक्षणः' इति तात्पर्ये॥56॥


Page 556


न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य। यथाऽऽत्मनः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः ॥57


आत्मनः - मनसः॥भूमयोर्विकारयोः। पीड्यपीडकयोरुभयमनसोः सतोदुखं भवति। ग्रहस्य ग्रहणरूपस्य मनसः सत एव। जडे मनसि सत्येव। तदात्मनो मनसः सतः। संसृतिरूपिणः आत्मनो जीवस्य यथा तथा न हि परस्य। अमनस्त्वादतो मनोअन्वयव्यतिरेक इति भावः ॥57॥


-



॥ इतिं एकादशस्कन्धतात्पर्ये त्रयोविंशोऽध्यायः ॥ 11 - 23॥


॥ चतुर्विंशोऽध्यायः॥11 - 24॥


1


आसीज्ज्ञानमथो ह्यर्थश्चैकमेवाविंकल्पितम्। यदा विवेकनिपुणा आदौ कृतयुगे जनाः ॥2॥ 'यथैवार्थस्तथा ज्ञानं ज्ञानार्थेक्यमुदाहृतम्। तथा कृतयुगे प्रायस्तदन्येषु तु कुत्रचित्' इति ब्रह्मतर्के॥2॥


तन्मया फलरूपेण केवलेन विकल्पितम्। वाङ्मनोगौचरं सत्यं द्विधा समभहत् ॥3॥ फलं रूपयतीति फलरूपः। ज्ञानार्थेक्येन ज्ञानं सत्यम्। पश्चात्तद्विधा समभवत्। तच्छब्दार्थात्मकमुभयं महत्तरम्॥3॥


तयोरेरकतरो ह्यर्थः प्रकृतिः सोभयात्मिका। ज्ञानं त्वन्यतमो भागः पुरुषः सोऽभिधीयते ॥ 4 ॥


तमो रजः सत्वमिति प्रकृतेस्भवन् गुणाः। मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन वा ॥5॥


Page 557


तेभ्यः समभवत्सूत्रं मत्सूत्रेण च संयुतम्। ततो विकुर्वत जातो योऽहङ्कासे क्र्मोिहकः ॥6॥


वैकास्किस्तैजसश्च तामसचेत्यहं त्रिवृत्। तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥7॥


‘ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः। अर्थाभिमानी प्रकृतिर्गायत्री सा प्रकीर्तिता। तयोर्नियामको विष्णुः श्रीश्चानुग्राहिका स्मृता। वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत। त्रिगुणात्मा समुद्दिष्टः प्रायः सत्वात्मकस्तथा। गायत्री चैव सावित्री तथैव च सरस्वती। एवं त्रिरूपा प्रकृतिरेका सत्वादिभेदतः। तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम्। स सूत्रात्मा समुद्दिष्टो वायुर्लोकप्रणायकः। तस्यापि सूत्रं भगवान् धारणाद्विष्णुरव्ययः।


सूत्रपूत्रस्त्वहङ्कारः स रुद्रः समुदाहृतः। सूत्रात्मना महाश्चापि सहजातश्चतुर्मुकः। तस्यापि पुत्रोऽहङ्कारः स रुद्रः समुदाहृतः। सूत्रात्मना महांश्चापि सहजातश्चतुर्मुखः। तस्यापि पुत्रोऽहङ्कारः स चानन्त उदाहृतः।


Page 558


अनन्तादपि रुद्रोऽभूद्वह्मणश्चेति स त्रिधा। वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः। तामसोऽनन्तजश्चैव स एको गुणभेदतः' इति प्राथम्ये॥ ‘चिदचिद्यद्वशे सर्वं स रुद्रश्चिदचिन्मयः' इति च ॥4-7॥


तस्मिन्नही समभक्मण्डे सलिलसंस्थिते। मम नाभ्यामभूत् पद्म विश्वाख्यं तत्र चात्मभूः ॥10॥ ‘चिदानन्दशरीरस्तु प्रविष्टोऽण्डे हरिः स्वयम्। तन्नाबेर्भूतदेहोऽभूत् पद्मादपि चतुर्मुखः। चतुर्मुखस्तु सर्वाण्डे व्याप्तदेहो महामनाः। हरिस्तु सर्वव्याप्तोऽपि भूतदेहो न तु क्वचित्। नैवास्य प्राकृतो देहः प्रादुर्भावेष्वपि क्वचित्' इति निवृत्ते॥10॥


योगस्य तपसश्चैव ज्ञानस्य मतयोऽमलाः। महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥14॥ महारादीनामपि भक्तियोगोऽपेक्षित एव आधिक्येनापेक्षितत्वाद्भक्तियोगस्य मद्गतिरित्युक्तम्। ‘नैव विष्णावभक्तस्य महर्लोकादिका गतिः। भक्त्युद्रेकात् क्रमादूर्ध्वं यावद्विष्णोः प्रवेशनम्। एवं ज्ञानं विना साऽपि महर्लोकादिका गतिः। ज्ञानोद्रेकात् क्रमादूर्ध्वं यावद्विष्णोः प्रवेशनम्। नित्यशो भगवद्रूपस्यापरोक्ष्येण दर्शनम्।


Page 559


मृहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम्। ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः। सदैवाखण्डितं ज्ञानं तप इत्युच्यते बुधैः। अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया। अपरोक्षदृशा नित्यं एकमात्रा युजा युतम्। योगनाम्नासुमुद्दिष्टं ध्यानं नित्यमखण्डितम्। तच्चतुर्भागया नित्यमपरोक्षदृशा युतम्। पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम्। पादयोगान्महर्लोको जनलोकस्तु योगतः। तपसस्तुतपोलोकः प्राप्यते नान्यतः क्वचित्' इति ध्यानयोगे॥14॥


मया कालात्मना धात्र कर्मयुक्तमिदं जगत्। गुणप्रवाह तेतस्मिन्नुन्मज्जति निमज्जतिं ॥15॥


कालात्मना - ज्ञानाद्यात्मना॥15॥


यस्तु यस्यादिंरन्तश्च स वै मध्यं च तस्य तत्। विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥17॥ ‘प्रकृतेस्तु विकाराणां कोट्यंशो भेद इष्यते। तथैवैकांशतो भेदः सोऽपि नाभेदवर्जितः। भेदाभेदमतः प्राहुरभेदं वा तयोर्बुधाः' इति विवेके॥17॥


Page 560


यदुपादाय पूर्वस्तु भावो विकुरुते परम्।


आदिरन्त यतो यस्मिंस्तत्सत्यमभिधीयते ॥18॥


‘पारमार्थिकसत्यत्वं स्वातन्त्यमभिधीयते।


तद्विष्णोरेव नान्यस्य तदन्येषां सदाऽस्तिता' इति च॥ यद्बह्मोपादाय पूर्वः प्रकृत्यादिरादिरन्तश्च यद्बह्मणि यस्मात् तस्माद्बह्मपरमार्थसत्यम्॥18॥


प्रकृतिर्खस्योपादानमाधारः पुरुषः परः।


सतोऽभिव्यञ्जकः कालो ब्रह्म तत्रितयं त्वहम् ॥19॥ परः पुरुषो हिरण्यगर्भः कालोऽपि रूपान्तरेण स एव। ‘कालाभिमानी ब्रह्मा तु काल इत्यभिशब्दितः। सर्वजीवाभिमानी स परः पुरुष उच्यते। प्रकृतिर्नाम तत्पत्नी प्रकृतेरभिमानिनी। सा प्रसूते जगत्सर्वं सूत्रमारभ्य सर्वशः' इति च। ‘आधारो व्यञ्जकश्चैव प्रसवीता च केशवः। कालप्रकृतिपुंसां च तन्मूलप्रकृतेरपि।


आधारो व्यञ्जकश्चैव सर्वस्यापि नियामकः' इति च॥19॥


सर्गः प्रवर्तते तावत् पौर्वाफ्र्येण नित्यशः। महान् गुणविसर्गोऽर्थः स्थित्यन्त यावदीक्षणम् ॥20॥ यावत् स्थितिरस्ति तावदुत्पत्तिरस्त्येव। यावदीक्षणं यावत्प्रलयः स्यादिति भगवतः स्मरणम्॥20॥


Page 561


विराण्मयाऽऽसाद्यमान लोककल्पविकल्पकः। पञ्चत्वायाविशेषाय कल्पते भुवनैः सह ॥21॥ ‘विशेषेण गुणोद्रेकाद्विशेषः पृथिवी स्मृता' इति प्रवृत्ते। पञ्चत्वानन्तरमविशेषाय॥21॥


अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते। धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥22॥ ‘देव्यामोषधिमानिन्यां लीयतेऽन्नाभिमानिनी' इति च ॥22॥


योनिर्वैकारिके सौम्य लीयते महतीश्वरे। शब्दो भूताधिमप्येति भूतादिर्महतिं प्रभुः ॥25॥ ‘विकारजत्वात् तु महान् वैकारिक उदाहृतः। ईशनादीश्वरश्चैव ब्रह्मा बृंहणतः स्मृतः' इति च॥25॥


स लीयते महान् स्वेषु गुणेषु गुणवत्तमः। तेऽव्यक्ते सम्प्रलीयन्ते तत्काले लीयतेऽव्यये ॥26॥


"


.


कालो मायामये जीवे जीव आत्मनि मय्यजे।


आत्मा केवल आत्मस्थो विकल्पोपायलक्षणः ॥27॥


एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिहेतिकः। प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥29॥ 'गायत्री चैव सावित्री तथैव च सरस्वती।


Page 562


एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता। महत्तत्त्वात्मको ब्रह्मा तज्जत्वात् तत्र लीयते। गुणाधिकः पतिरपि तस्याः सत्वादिभेदतः। त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते। प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया। पुरुषाभिधे विरिञ्ची तु स स्वस्मिन् कालसंज्ञिते। कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते। जीवमायेति यामाहुः सा च सत्वादिभेदतः। त्रिविधैकत्वमापाद्य विष्णावेव प्रलीयते। हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः। पुरुषेणापि सामीप्यं प्रकृतेर्लय उच्यते। ब्रह्मा च प्रकृतिश्चैव मुक्तिगौ विलये यतः। अतस्तौभिन्नदेहौ तु ज्ञानमात्रौ समीपगौ' इति च॥26 - 29॥


॥ इति एकादशस्कन्धतात्पर्ये चतुर्विंशोऽध्यायः ॥11 - 24॥



॥पञ्चविंशोऽध्यायः॥11 - 25॥


काम ईहामदस्तृष्णास्थम्भ आशीर्भिदाऽसुखम्। मनोत्साह यशः प्रीतिर्धार्थवीर्यबलोद्यमाः ॥3॥ ‘राजसेऽपि यदा दुःखं तामसे किमुतेति तत्। राजसे दुःखवचनं तामसेऽतिविवक्षया' इति प्रद्योते॥3॥


Page 563


कैवल्यं सात्विकं ज्ञानं कर्मनिष्ठं तु राजसम्। प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥24॥ ‘नैर्गुण्यसाधनं यत्तन्निर्गुणं परिकीर्तितम्' इति च। ‘यथाशास्त्रोक्तविज्ञानं केवलं ज्ञानमुच्यते। स्वदृष्टशास्त्रानुकूल्याददृष्टानां च भक्तितः। गुणानां तु हरौ भावं विनिश्चित्यैतदाश्रयात्। यथाशास्त्रानुसन्धानं ज्ञानं तु हरिसंश्रयम्' इति च॥24॥


-


-


सात्विक्याध्याल्मिकी श्रद्धा कर्मश्रद्धा तु राजसी। तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥27॥ ‘श्रुतशास्त्रानुसारेण या श्रद्धापरमात्मनि।


स सात्विकी तदन्यस्याप्यनुसारेण निर्गुणा।


अश्रुत्वाऽपि प्रमाणं यो वासुदेवैकसंश्रयः। स निर्गुणो भागवतः समुद्दिष्टो मनीषिभिः' इति च॥27॥


सात्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम्। तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥29॥ ‘परोक्षज्ञानमात्मोत्थमापरोक्ष्येण दर्शनम्। विष्ण्वाश्रयं सुखं नित्यं गमयेत् तत्प्रसादतः। न तु विष्णोः स्वरूपं तु सुखं केनचिदाप्यते।


Page 564


तस्यैव विषयत्वात् तु तत्सुखं चेति भण्यते। परोक्षज्ञानगे यस्माद्विषयः स्वमनोगतः।


अत आत्मोत्थमित्येव सुखमाहुर्विपश्चितः' इति च॥29॥


सर्वे गुणमया भावाः पुरुषाब्यक्तनिष्ठिताः। दृष्टं श्रुतमनुध्यायेच्या वा पुरुषर्षभ॥31॥ दृष्टं श्रुतं बुद्ध्या दृष्टं चानु परं ब्रह्मध्यायेत्॥ ‘सत्वाद्णाज्जातमपि व्यवधानं विनैव तु। मुक्तिदं निर्गुणं प्रोक्तं व्यवधानेन सात्विकम्' इति ब्राह्मे॥31॥


॥ इतिं एकादशसन्धतात्पर्ये पञ्चविंशोऽध्यायः ॥ 25॥


॥ षड्विंशोऽध्यायः॥11 - 26॥


गुणमय्या जीक्योन्या विमुक्त ज्ञाननिष्ठया। गुणेषु मायामात्रेषु दृश्यमानेष्यवस्तुतः। वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥2॥ ‘वस्तु स्वतन्त्रमुद्दिष्टमस्वतन्त्रमवस्तु च' इति माहात्म्ये॥2॥ सन्तो दिशन्ति चक्षुषिं बहिर्कः समुत्थितः। देवताबान्धवाः सन्तः पिता माताऽहमेव च ॥34॥ भगवतोऽपि सतां मध्ये प्रधानत्वात् सन्तोऽहमेव चेत्युक्तम्। ‘विष्णोश्च सत्प्रधानत्वान्न सतां विद्यते परम्। इत्याहुर्वेदविदुषः स हि सर्वेश्वरेश्वरः' इति च ॥34॥


Page 565


-


॥ इतिं एकादशस्कन्धतात्पर्ये षड्विंशोऽध्यायः ॥ 11 - 26॥


यः॥11 - 27॥


पिण्डे वाय्वग्निसंशुद्धे हृमद्मस्थां परां मम।


अण्व जीवकलां ध्यायेन्नादान्ते सिंद्धभाविताम् ॥22॥ जीवः कला यस्याः सा जीवकला - भगवन्मूर्तिः ‘हृदिस्था या हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बकः। यद्वशे वर्तते जीवः सा तु जीवकला स्मृता।। शब्दैः सर्वात्मनाऽनुक्तेर्नादान्तस्था च सा मता' इति विवेके॥22॥


तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पद्यतन्मयः।


आवाह्याचदिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥23॥ ‘व्याप्तो भूतश्च नित्यं यदात्मभूतो हरिस्ततः।


जीवस्य तत्परधानत्वं तन्मयत्वमुदाहृतम्' इति तन्त्रभागवते॥ ‘व्याप्तोऽपि भगवान् विष्णुर्देहे सर्वगतत्वतः।


भक्तस्य फलदो यस्माद्याप्तिकृत् तस्य तेन सः' इति च॥23॥


स्वस्य धर्मानुवाक्येन महापुरुषविद्यया। पौरुषेणापि सूक्तेन धामनीराजनादिभिः ॥30॥ स्वस्य विष्णुसूक्तेन। धाम सूक्तं ‘समुद्रादूर्मः' इति। ‘नितरां रञ्जयेद्यस्मात् पावमानं तु मण्डलम्।


Page 566


विष्णुनीराजनं तस्माद्विद्वद्भिः समुदाहृतम्' इति च॥30॥


उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम। सत्कथाः श्रावयन् शृण्वन् मृहूर्तक्षणिको भवेत् ॥ 43 ॥ मम कर्माणि कीर्तयित्वाऽभितो नयन् सर्वेषां प्रकाशयन् मत्कथाः श्रावयन्नित्यभिनयशब्दार्थः॥43॥


प्रतिष्ठयो सार्वभौमं सद्मना भुक्नत्रयम्। पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ 51 ॥


मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति। स भक्तियोगं लभते एवं यः पूजयेत माम् ॥52॥ नैरपेक्ष्येण भक्तियोगेनैव साम्यमित्यर्थः। 'निर्दुखत्वं हरेः साम्यं न तादृशसुखात्मता। सर्वोत्तमः सदानन्दः कथं कस्य कदाऽऽप्यते' इति प्रवृत्ते॥ ‘अधिपत्यं त्रिलोकस्य योग्यानामिन्द्रता स्मृता। अयोग्यानां त्रिलोकेऽपि पूज्यत्वं समुदाहृतम्। तद्भवेत् परया भक्त्या विष्णोरालयकारिणः। ततोऽप्युद्रिक्तया भक्त्या विष्णु पूजयतः सदा। अवाप्यते ब्रह्मलोकः समुद्रिक्तश्चमुच्यते' इति च ॥51, 52॥


॥ इतिं एकादशस्कन्धतात्पर्ये सप्तविंशोऽध्यायः ॥11 - 27॥


॥ अष्टाविंशोऽध्यायः॥11 - 28॥


श्रीभगवानुवाच -


Page 567


परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत्। विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ।।1।।


फ्रस्वभावकर्माणि यः प्रशंसति निन्दति। स आशु भ्रश्यते स्थानादसत्याभिनिवेशतः ॥2॥ 'न प्रशंसेत निन्द्यांस्तु प्रशंस्यान्नैव निन्दयेत्। उभयं यः करोत्येतदसत्यात् स पतत्यधः। यः प्रशंस्यान्न प्रशंसेन्निन्द्यो येन न निन्द्यते। सोऽपि तद्वदधो याति यतोऽरिवदुदासकः' इति सत्कारे॥ प्रकृत्या पुरुषेण च सहैकेन परात्मना व्याप्तमेकात्मकम्। तथा पश्यत एव यथार्थज्ञानं भवति॥1,2॥


तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः। मायां प्राप्नोति मृत्यु वा तद्धिं नानार्थदं मनः ॥3॥ ‘तैजसाहङ्कृतेर्जात इन्द्रियाग्रामके परात्। निद्रया वशमापन्ने जीवः स्यान्नष्टचेतनः।


अतो विष्णोर्वेशे सर्वं तेन व्याप्तमिति स्मरेत्' इति च॥ ‘निद्रा चैव सुनिद्रा च द्विधा निद्रा प्रकीर्तिता। तत्र निद्रा भवेन्नित्या सुनिद्रा मृतिकालमा' इति साये। ‘मनोमात्र स्वरूपत्वात् स्वप्नो मायेति कथ्यते' इति च। तथा नानाविषयदं मन एव। मनसा हि विषयाः प्रतीयन्ते॥3॥


Page 568


किं भद्रं किंमभद्रं वा द्वैतस्यावस्तुनः कियत्। वाचोदितं तदनृतं मनसा ध्यातमेव च ॥4॥ ‘एकं तु शुभमुद्दिष्टमशुभं द्वैतमुच्यते। पुंसोऽशुभस्य किं भद्रं किमभद्रं विशेषतः। सर्वदाऽशुभरूपत्वाद्विशेषोऽत्यल्प एव हि' इति भारते॥ द्वैतस्याशुभस्य पुरुषस्य कियदल्पमेव हि भद्रमभद्रं वा स्वयोग्यादाधिक्येन न भवति यत्नवतोऽपीत्यर्थः। अतस्तद्विषये ध्यातमुक्तं च शुभमनृतमेव। ‘उच्यते ध्यायते वाऽपि कुनरं प्रति यच्छुभम्।


असत्यमेव भवति स्वभावोऽसत्यमेव यत्' इति प्रद्योते॥4॥ छायाप्रत्युदकाभासा ह्यसन्तोऽप्यर्थकारिणः। एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम्॥5॥ स्वभावतोऽशुभस्याशुभदेहादिकं नाशुभकारणं तर्हित्यत आह - छाया प्रत्युदकाभासा इति। ‘व्यपेक्ष्य जीवं देहादि निःशक्तत्वाद्वस्त्वपि।


पुनः शुभाशुभनृणां यच्छेदेव शुभाशुभम्। छायानीहारकाभासा निःशक्ता अपि कार्यदाः। एवं शुभादिदेहादेर्भवेत् कार्यं शुभादिकम्' इति सुमते॥ ‘नीहारः प्रत्युदं चैव धूम्रमित्यभिशब्द्यते' इति शब्दनिर्णये॥5॥


आत्मैव तदिदं विश्व सृज्यते सृजति प्रभुः। त्रायते त्राति विश्वात्मा हीयते हरतीश्वरः ॥6॥ इदं विश्वं सृजति त्राति हरति च स्वयं स्वात्मनैव सृज्यते त्रायते हीयते च।


Page 569


‘दीपाद्दीपान्तरं यद्वत् सृष्टिरीशस्य कीर्त्यते। एतावत्कालमाशिष्ये मानुषेष्विति चिन्तनम्। विष्णोखाणं समुद्दिष्टं स्वस्यैव स्वेच्छयैव तु। दीपे दीपान्तरस्येव ह्येकीभावश्च संहृतिः' इति च ॥ ‘पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते' इति च॥6॥


तस्मान्नह्याल्मनोऽमुष्मादन्यो भाव निरूपितः। निरूपितेयं त्रिविधा निर्मूला मतिरात्मनि ॥7॥


आत्मनः परमेश्वरस्य तस्मादन्यो भावो नास्ति। ‘सृष्टिः स्थितिश्च संहारो भावनं समुदाहृतम्। तद्यः करोति पुरुषः स भाव इति कीर्त्यते' इति विवेके। अन्येन सृष्टिः स्थितिः संहार इति त्रिविधा मतिर्विद्वद्भिनँव निरूपिता निर्मूला प्रमाणवर्जिता। ‘अन्यस्मात् सृष्टिसंहारौ स्थितिश्च परमात्मनः। निरूपिता न विद्वद्भिः प्रमाणाभावतो हरेः' इति ब्रह्मतकै॥7॥


इदं गुणमयं विद्धिं त्रिविधं मायया कृतम् ॥8॥ अन्यतः सृष्टिः स्थितिः संहार इति त्रयं गुणमयं सत्त्वादिगुणाधीनम्। ‘गुणसम्बन्धयोग्यानामुत्पत्त्याद्याः स्युरन्यतः। सर्वदा निर्गुणस्यास्य सर्गाद्याः स्युः कुतोऽन्यतः' इति च ॥8॥


Page 570


प्रत्यक्षेणानुमानेन निगमैनात्मसंविदा।


आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥10॥ ‘असमर्थमसत् प्रोक्तं सत् समर्थं प्रकीर्तितम्' इति च॥10॥ श्रीभगवानुवाच - यावदेहेन्द्रियप्राणैरात्मनः सन्निकर्षणम्। संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥13॥ ‘फलवान् मोक्षहेतुत्वान्नित्यानन्दादपार्थकः।


जीवात्मनस्तु संसारः स्वप्नवचञ्चलत्वतः' इति तत्त्वविवेके॥13॥


अर्थेऽप्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषय ह्यस्य स्वप्नेऽनर्थागमो यथा ॥ 14 ।। संसृत्यभावस्यैव फलरूपत्वान्निरर्थ एव संसार इत्यवधारयति। अर्थेऽपीति। ‘उच्यते निष्पलत्वेन यदत्यल्पफलं भवेत्' इति च॥14॥


यथा ह्यप्रतिबुद्धस्य प्रस्वाप बढ्नर्थकृत्। स एव प्रतिबुद्धस्य न वै मोहाय कल्प्यते ।। 15॥ अतोऽफलवत्त्वाधारणार्थं च पुनर्वचनम्॥15॥


शोकहर्षभयक्रोधलोभमोहस्पृहादयः। अहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च नात्मनः ॥16॥ अहङ्कारस्य सकाशाद्धृश्यन्ते। नात्मनः स्वतः।


Page 571


‘अहङ्कारात् तु संसारो भवेज्जीवस्य न स्वतः। कुतश्चिदानन्दतनोः स्वरूपेच्छायुतस्य सः' इति तन्त्रभागवते॥16॥


देहेन्द्रियप्राणमनोभिमान जीवोऽन्तरात्मा मुणकर्ममूर्तिः। सूत्रं महानिंत्युरुधेह गीतः संसार अधावतिं कालतन्त्रः ।। 17॥ देहेन्द्रियप्राणमनसामभिमानयुक्तः। सूत्रं महानित्याद्यधिकारनामभिर्युक्तः। प्रधानजीवो हिरण्यगर्भोऽप्याधावति संसारे किमुतान्य इत्याशयः। ‘संसारयुक्तो ब्रह्माऽपि सर्वजीवेश्वरेश्वरः।। विष्ण्वधीनः सदा ज्ञानी किमुतान्येऽल्पचित्तिनः' इति सत्तत्त्वे॥17॥


अमूलमेतद्वहुरूपरूपं मनोवचःप्राणशरीरकर्म। ज्ञानासिनोपासनया शितेन छित्वा मुनि विचरत्यतृष्णः ॥18॥ अमूलं – विष्णुमूलम्। बहुरूपेण तेनैव रूप्यते। मनआदीनां विषयः॥18॥


ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिद्घमथानुमानम्। आद्यन्तयरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥19॥ केवलं - स्वतन्त्रम्। आद्यन्तयोर्यत्स्वतन्त्रं तदेव मध्येऽपि स्वतन्त्रम्। परं ब्रह्मज्ञानविवेकादिस्वरूपं परिपूर्णगुणत्वात्। अन्यतो विविक्तत्वाद्विवेकः। सर्वं निगमयति प्रापयतीति निगमः। सर्वैरालोच्यत्वात्तपः। प्रति प्रति प्रत्यक्षेषु स्थितत्वात् प्रत्यक्षम्।


आचार्यसम्प्रदायसिद्धत्वादेतिह्यम्। अनुमेयत्वादनुमानम्॥19॥


यथा हिरण्यं स्वकृतं पुरस्तात्पश्चाच्च सर्वस्य हिरण्मयस्य। तदेव मध्ये व्ववहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥20॥ हिरण्यखचितत्वेन हिरण्यप्रधानं हिरण्मयम्। शङ्खमञ्चकरथाधिषु मध्येऽपि केवलं प्राधान्येन


Page 572


व्यवहार्यमाणं तदेव। ‘रथोपस्थे परिष्कारात् पूर्व दारुमयाद्रथात्।


सुवर्ण व्यवहाराय मुख्यं रथपरिष्कृतम्। मध्ये चान्ते रथोपस्थान्निष्कृष्य पृथगास्थितम्। यद्वदेवं हरिः साक्षाज्जगद्देहात् पृथक् स्थितः। पूर्वं जगति संस्थश्च जगदन्ते पृथक् स्थितः। स एव मुख्यो जगतः स्वातन्त्र्यात् परमेश्वरः' इति ब्रह्मतर्के॥ ‘सुरपितृमनुजादिकल्पनाभिः' इत्याद्यन्तर्याम्यपेक्षया। ‘यथा सुवर्णमकृतं क्रियते कुण्डलादिकम्। पुनरेकीभवत्यद्धा तद्वद्विष्णुरजोऽपि सन्। सुराद्यन्तःस्थितो भूत्वा पुनरेकीभवेद्विभुः' इति च॥ 'तत्तन्नियामकस्यैव नाम सर्वं सुरादिकम्।


तत्सम्बन्धादुदीर्येत व्यवहृत्यै सुरादिषु' इति शब्दनिर्णये॥ ‘एकलं केवलं चेति स्वतन्त्रमभिधीयते। स्वतन्त्रस्तु हरिः साक्षात् परिष्कृतहिरण्यवत्' इति प्रवृत्ते। ‘प्रत्येकं न तु दादि स्वतन्त्रं विक्रियागतम्। महाफलं स्यात् स्वर्णं तु स्वतन्त्रं विक्रियोपगम्। तद्वत् स्वतन्त्रो भगवान् प्रवृत्तावन्यदन्यथा' इति च॥20॥


विज्ञानमेतत् त्रिपदस्थमङ्ग गुणत्रयं कारणकार्यकर्ते।


समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥21॥


Page 573


मोक्षदं संसारदं तमःप्रदं चेति त्रिपदस्थं विज्ञानं। तदिच्छायाः सत्व एतत्सर्वमस्ति, अन्यथा नास्तीत्यन्वयव्यतिरेकौं। तदेव केवलं सल्यमिति सर्वत्र सम्बध्यते। ‘स्वातन्त्र्यमेव सत्यत्वं विष्णोरन्यस्य सत्यता। प्रवाहतः सदाऽस्तित्वं पुंप्रकृत्योः सदाऽस्तिता' इति वस्तुतत्त्वे॥21॥


न यत्पुरस्तादुत यन्न पश्चान्मध्ये च तन्न व्यपदेशमात्रम्। भूतं प्रसिद्धं च परेण यद्यत्तदेव सत्स्यादिति मे मनीषा ॥22॥ मध्ये च तत्केवलं नेति सम्बध्यते। ‘तत् स्वातन्त्र्येण नैवास्ति यदुत्पत्तिविनाशवत्। स्वातन्त्रयेणास्तिता तस्य यत् सत्ताज्ञानदं सदा' इति वैभवे॥22॥


अविद्यमानोऽप्यक्भासते यो वैकारिको राजससम् एषः। ब्रह्मस्वयज्योतिस्तो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम्॥ ‘जगतो नास्तिता सैव या पराधीनता सदा।


अभावस्तु कुतस्तस्य यद्विभातीह सर्वदा' इति प्राकाश्ये॥


‘अविद्यमानता नाम जगतः परतन्त्रता।। यथाऽशक्तस्तु पुत्रादिरसन्नित्युच्यते जनैः' इति विवेके॥ अतो ब्रह्मण एव विभाति। द्वितीयं ब्रह्म प्रकृतिः। आत्मा जीवः। प्रकृतीन्द्रियविषयजीवादिविचित्रं जगद्गह्मत एव विभातीत्यर्थः॥23॥


नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुजलं हुताशः। मनोऽन्नमात्रं धिषणा च सत्वमहङ्कतिः खं कृतिर्थसाम्यम् ॥25॥ वायुरेव स्वयं प्राणस्तत्रस्थे चोदतेजसी।


Page 574


उदेन तेजसा चैव प्राणस्य हि कृतं वपुः' इति प्रकाशिकायाम्॥ ‘प्राणस्य वायुरूपस्य भूतत्रयकृतं वपुः। यतो हि पार्थिवं नात्र खं चात्यल्पमुदाहृतम्' इति सन्धारणे॥ सत्वं – मूलबुद्धिः। अहं शृणोम्यहं स्पृशाम्यहं पश्यामीति सर्वार्थेषु समत्वादहङ्कारोऽर्थसाम्यम्। ‘न देहो नेन्द्रियप्राणमनोबुद्ध्यहमादयः। विष्णुश्चिदानन्दतनुः स हि जीवाधिपः सदा' इति सत्तत्त्वे॥25॥


समाहितैः कः करणैर्गुणात्मभिर्गुणो भवेत् तत्सुविविक्तधाम्नः। विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विंगतै स्वेः किंम् ॥26॥


तथापि सङ्गः पस्क्र्जिनीयो गुणेषु मायारचितेषु तावत्। मद्भक्तियोगेन दृढेन यावद्रजो निरस्येत तमः कषायम् ॥28॥ भगवतो गुणदोषाभावेऽपि जीवस्य सङ्गोऽवर्जनीय एव मुक्तिपर्यन्तम्। ‘समाहितेऽपि जीवेन विक्षिप्ते वा न तु क्वचित्। विशेषो विद्यते विष्णोस्तथाऽपि तु समाहिते। प्रीतो भवति वै नित्यं सर्वधर्मकृतोऽपि च' इति पाझे॥26-28॥


तिष्ठन्तमासीनमुत व्रजन्तं शयानमुद्यन्तमदन्तमन्नम्। स्वभावमन्यत् किंमपीह मानमात्मानमात्मस्थमतिर्न वेद ॥32॥ आत्मस्थमतिः परमात्मस्थमतिः। परमात्मनोऽन्यत्पारतन्त्र्यादेः॥32॥


यदि स्म पश्यत्यसदिन्द्रियार्थं नानाऽनुमानेन विरुद्धमन्यत्। नमन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम्॥33॥


( 37


| आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥गुरुभावं व्यञ्चयन्ति भाति श्री जयतीर्थवाक् कृष्णं वन्दे जगद्गुरुम् ॥


Page 575


'नानामानविरुद्धं हि स्वातन्त्र्यं जगतः सदा। स्वतन्त्रो भगवान् विष्णुरेक एव न संशयः' इति च॥ वस्तुतया स्वतन्त्रत्वेन विरुद्धं तथा न मन्यते। ‘अस्त्येव स्वाप्नमखिलं वासनारूपमात्मनि।


जाग्रदेतदिति ज्ञानं यत्तदेव भ्रमात्मकम्। तद्वज्जगदिदं सर्वं विद्यमानं न संशयः। स्वतन्त्रमेतदिति तु यज्ज्ञानं तद्भमात्मकम्' इति च॥ ‘उत्थितो नैव चाग्रत्वं क्वचित् स्वप्नस्य पश्यति। स्वातन्त्र्यमेवं जगतो ज्ञानवान् नैव पश्यति' इति विवेके॥33॥


पूर्व गृहीतं गुणकर्मचित्रमज्ञानमात्मन्यविविक्तमङ्ग। निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥34॥ भगवद्गुणविषयं तत्कर्मविषयं चेति गुणकर्मचित्रम्। आत्मनि परमात्पविषये एतन्न जानामीत्यप्यविविक्तम्। ‘अन्यैज्ञतेऽपि वाऽज्ञाते न विशेषो हरेः क्वचित्। तेषामेव विशेषः स्यादज्ञानापगमेन तु' इति च ॥34॥ एष स्वयज्योतिरजोऽप्रमेय महानुभूतिः सकलानुभूतिः। एकोऽद्वितीयो क्वसां विरामो येनेरिता वाग्रचनाश्चरन्ति ॥36॥ ‘ज्ञानानन्दाद्यभिन्नत्वादेकः सर्वोत्तमत्वतः।


अद्वितीयो महाविष्णुः पूर्णत्वात् पुरुषः स्मृतः' इति च॥36॥


Page 576


14


एतावानात्मसम्मोहो यद्विकल्पस्तु केवले।


आत्माऽमृते स्वमात्मानमवलं यन्न पश्यति ॥ 37 ॥ ‘येतावानात्मसम्मोहो यद्विरुद्धस्य कल्पनम्। यत्परात्माश्रयान् जीवान् निश्चयेन न पश्यति' इति तन्त्रभागवते। अचलमिति क्रियाविशेषणम्॥37॥


यन्नामाकृतिभिह्यं पञ्चवर्णमबाधितम्। व्यर्थो नाप्यर्थवादोऽयं द्वयं विन्दन्ति सूरयः ॥38॥


अयं व्यर्थवादो न भवति किन्त्वर्थवादः। जगत् परमेश्वरं च द्वयं विन्दन्ति ज्ञानिनः। ‘पञ्चभूतात्मकं विश्व भ्रान्तिसिद्धमपण्डिताः। वदन्ति पण्डितास्त्वद्धा जगहुरबाधितम्। प्रवाहरूपेण सदा विष्णोरिच्छावशे स्थितम्' इति च ॥38॥


॥इति एकादशस्कन्धतात्पर्ये अष्टाविंशोऽध्यायः ॥ 11 - 28॥


॥ एकोनत्रिंशोऽध्यायः॥11 - 29॥ श्री शुक उवाच - इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीङनकः स्वशक्तिभिः। गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेम मनोहरस्मितः ॥7॥ ‘आत्माऽन्तरात्मा परमात्मेति मूर्तित्रयं हरेः। जाग्रत्स्वप्नसुषुप्तीनां सृष्ट्यादेश्चप्रवर्तकम्' इति त्रैकाल्ये॥7॥ पृथक् सत्रेण वा मह्यं मम यात्रामहोत्सवम्।


Page 577


कास्येन्नृत्यगीतायैर्महाराजविभूतिभिः ॥11॥ पृथक्स्वयमेव सत्रेण बहुभिः सह वा मम यात्रामहोत्सवं कुर्यात्॥11॥ मामेव सर्वभूतेषु बहिरन्तरपावृतम्। यजेतात्मनि चात्मानं यथा खममलाशयः ॥12॥


इति सर्वाणि भूतानि मद्भावेन महाद्युते। सभाजयेन्मन्यमानो ज्ञानं केवलमाश्रयन् ॥13॥


ब्राह्मणे पुल्कसेस्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके।


अकूरे क्रूरके चैव समदृक् पण्डित मतः ॥14॥


नरेष्यभीक्ष्णं मद्भावः पुंसो भावयतोऽचिसत्। स्वाद्वा माया तिरस्कारं साहङ्कारऽपि याति हिं॥15॥ ‘सर्वभूतेष्वस्ति विष्णुरिति भावः सतां मतः ॥12-14॥ ‘अर्चने सर्वभूतानामादित्ये तद्गतात्मना' इति च॥15॥


सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीफ्या। परिपश्यति च परं परमात्मानमच्युतम् ॥18॥ ‘ब्रह्मणाऽऽत्तमिदं सर्वं यत्किञ्चित् सचराचरम्। इति पश्येत यो विद्वान् स हि ब्रह्मात्मविन्मतः' इति ब्राह्मे॥18॥


यो योऽपरो मनोधर्मः कल्पते निष्फलाय ते। तदायास निस्र्थः स्याझ्यादेवि सत्तम ॥21॥


२१



Page 578


‘नयादिदुर्नयः प्रोक्तो यन्नयं सोऽत्तिसर्वदा' इति शब्दतत्त्वे॥21॥


एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम्। यत् सत्यमनृतेनेह मयूँनाप्नोति माऽमृतम् ॥22॥ ‘एकदा ज्ञातरूपेण यन्न तिष्ठति सर्वदा।।


चञ्चलत्वात् सत्यमपि ह्यनृतं जगदुच्यते' इति च ॥ ‘सर्वदैकप्रकारत्वात् सत्यं ब्रह्म सदोच्यते' इति च॥22॥


॥इति एकादशस्कन्धतात्पर्ये एकोनत्रिंशोऽध्यायः ॥ 11 - 29॥


| ॥ त्रिंशोऽध्यायः॥11 - 30॥


3.


ब्रह्मशापोपसंसृष्टे स्वकुले यावर्षभः । प्रेयस सर्वनेत्राणां तनुं स कथमत्यजत् ॥2॥ तनुमत्यजत्। अतिशयेनाहर। अज हरणे इति धातोः। भूलोकात् स्वर्गलोकं प्रत्यहरदित्यर्थः॥2॥


प्रत्याक्रष्टुं नयनमबला यत्र मग्नं न शेकुः कर्णाविष्टं न सरति यशो यत्सतामात्मलग्नम्। यच्छीवाक्यं जनयतिं रतिं कोऽनुमानः कवीनां दुष्ट्वाजिष्णोर्युधिं स्थगतं यच्च तत्साम्यमीयुः ॥3॥ कः - सुखरूपः। अनुमानः - कवीनां मानानुसारी॥3॥


॥ इतिं एकादशस्कन्धतात्पर्ये त्रिंशोऽध्यायः ॥11 - 30 ।।


Page 579


यः॥11-31॥


लोकाभिरामा स्वतनुं धारणाध्यानमङ्गलम्। योगधारणयाऽग्नेय्याऽदग्ध्वाधामाक्शित् स्वकम् ॥6॥ अग्नेय्या धारणया स्वतनुमदग्ध्वा स्वकं धामाविशत्। ‘आग्नेय्याऽन्ये धारणया दग्ध्वादेहं परं पदम्। यान्ति देवाः समस्ताश्च तेषामन्यां तनुं हरिः। नृसिंहरूपी सर्वेषां भित्त्वाताभिरलङ्कतः।। नृत्यते प्रलये देवः स्वयं कृष्णादिरूपवान्।


अदग्धैव तनुं याति नित्यानन्दस्वरूपतः' इति तन्त्रभागवते॥6॥ राजन् परस्य तनुभृज्जननाप्ययेहां मायाविड्म्बनमवैहि यथा नटस्य। सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्यचान्ते संहृत्य चात्ममहिंमपरस्तः स आस्ते ॥11॥ तनुभृद्वज्जननवदप्ययवच्च ईहा तनुभृज्जननाप्ययेहा। ‘प्रजापतिश्चरति गर्ने अन्तः’ ‘अजायमानो बहुधा विजायते' इति च। ‘अजातो जातवद्विष्णुरमृतो मृतवत् तथा। मायया दर्शयेन्नित्यमज्ञानां मोहनाय च' इति ब्राह्मे॥11॥


तथाऽप्यशेषस्थितिसम्भवाप्ययेष्वनन्यहेतुर्यदशेषशक्तिंभृक् । नैच्छत्प्रणेतुं वपुत्र शेषितं मर्येन किं स्वच्छगतिंप्रदर्शयन् ॥13॥ शेषितं वपुर्बलभद्रादीनाम्।


Page 580


‘जगतो मोहनार्थाय भगवान् पुरुषोत्तमः। दर्शयेन्मानुषीं चेष्टां तथा मृतकवद्विभुः। प्रकाशयेददेहोऽपि मोहाय च तुरात्मनाम्। मायया मृतकं देहं तदा सृष्ट्वा प्रदर्शयेत्। कुतो हि मृतकं तस्य मृत्यभावात् परात्मनः' इति च॥13॥


रामपत्यश्च तं देहमुपगृह्याग्निमाविशन्॥19॥


वसुदेवपल्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः। कृष्णपन्योऽविशन्नग्निं रुक्मिण्याग्रस्तदाल्मिका ॥20॥


‘अग्नावन्तर्दधे भैष्मी सत्यभामा वने तथा। न तु देहवियोगोऽस्तितयोः शुद्धचिदात्मनोः' इति च॥19,20॥


॥इति एकादशस्कन्धतात्पर्ये एकत्रिंशोऽध्यायः ॥ 11 - 31 ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भामक्ततात्पर्ये एकादशस्कन्धः ॥


॥ द्वादशः स्कन्धः ॥12॥


॥ तृतीयोऽध्यायः॥12 - 3॥


पृथुः पूरूस्वा माधिर्भस्तो नहुषोऽर्जुनः। मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥9॥ ‘जीवविष्ण्वोरभेदश्चदेहयोगवियोजने।


Page 581


विष्णोद्वैखं व्रणित्वादि पराभावस्तथैव च।


अस्वातत्र्यं च वेदादावुक्तवद्भासते विभोः। क्वचित् क्वचिद्विमोहाय दैत्यादीनां दुरात्मनाम्' इति ब्रह्माण्डे॥9॥


॥ इति द्वादशस्कन्धतात्पर्ये तृतीयोऽध्यायः ॥ 12 - 3॥


॥ चतुर्थोऽध्यायः॥12 - 4॥


घठे भिन्ने यथाऽऽकाश आकाशः स्याद् यथा पुरा। एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ।। 48॥ 'महाकाशो बहिस्थश्चघटाद्यन्तस्थ एव च। द्वेधा समुदितोऽन्यौ च द्वावाकाशौ प्रकीर्तितौ। घटरूपस्तदन्यश्च महाकाशात् परो लघुः। महाकाशवदेवात्र परमात्मा सनातनः। घटान्तःस्थमहाकाशप्रतिमाऽन्तर्गतो हरिः। घटस्यान्तर्गताकाशो महाकाशात् परो मतः। तद्वेष्ट्वादयः सर्वे जीवा मुक्त्युपयोगिनः। तमोगाश्चैव ये सर्वे घटरूपखवन्नराः' इति तत्त्वसंहितायाम्॥ ‘प्रत्येकं विष्णुरूपाणां भ्रान्तिमात्रा भिदा मता।


जगतश्चैव विष्णोश्च सत्यो भेदः सदैव तु। यथाकाशघटौ नित्यं भिन्नावेव परस्परम्। एवमीशो जगच्चैव भिन्नावेव परस्परम्' इति च॥5॥


Page 582


न यत्र वाचो न मनो न सत्त्वं तम रजौ वा महदायोऽमी। न प्राणबुद्धीन्द्रियदेवता का न सन्निवेशः खलु लोककल्पः ॥20॥


न स्वप्नजाग्रन्न च तत् सुषुप्तं न खं जलं भूरनिलोऽग्निर्कः। स सुप्तवच्छून्यवदप्रत तन्मूलभूतं पदमामनन्ति ॥21॥ न यत्र वाच इत्यादि कालाख्यस्य ब्रह्मणः स्वरूपम्॥20,21॥


एते ह्यवयवाः प्रोक्ताः सर्वाक्यविनामिह। विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥27॥ ‘अवयव्यवयवाभेदात् कोट्यंशो भेद ईरितः। सोऽपि भेदो न चाभेदात् पृथगेव प्रवर्तते। अवयव्ववयवानां च कार्यकारणवस्तुनाम्। एक एव नियन्ताऽसौ हरिर्नारायणः परः' इति च॥27॥


॥ इति द्वादशस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥ 12 - 4॥


॥पञ्चमोऽध्यायः॥12 - 5॥



पारिक्षित इति श्रुत्वा प्रार्विज उदारधीः। सहेन्द्रस्तक्षको विप्रा नाम्ना किंमितिं पात्यते ॥20॥


तच्छ्रुत्वा जहुवुर्विप्राः सहेन्द्रं तक्षकं मखे। तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥21॥


Page 583


इतिं ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः। बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥22॥ ‘स्वसन्तानोद्भवं की योजयन् जनमेजयम्।


शक्तोऽप्यशक्तवद्विष्णुरिन्द्र आसीदुपेक्षकः। एवमेव ऋषीणां च कीर्ति योजयताऽमुना। कृतोपेक्षा महेन्द्रेण किमु विष्णुः परात्परः। तस्माद्विष्णोरशक्यं न भूतभव्यभवत्स्वपि। न चानिष्टं गुणैरेष पूर्णो नारायणः सदा' इति वामने॥20-22॥


नित्यादोषस्वरूपाय गुणपूर्णाय सर्वदा। नारायणाय हरये नमः प्रेष्ठतमाय मे।


॥ इति द्वादशस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥ 12-5॥


॥ इति श्रीमद्भागक्ततात्पर्ये द्वादशस्कन्धः ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिंतः


श्रीमद्भागवततात्पर्यनिर्णयः ।।


॥श्रीकृष्णार्पणमस्तु । ॥मुख्यप्राणवशे सर्वं स विष्णोर्वशः सदा ॥ प्रणयामो वासुदेवं देवतामण्डला खण्डामण्डानम् ॥