तत्वसङ्ख्यानम्
तत्वसङ्ख्यानम्[править]
रमाविरिञ्चशर्वादिशक्रादीतरसुक्रमम् ।
मुक्तौ चेदङ्गुणैः सर्वैर्य्यद्वशे नौमि तं हरिम् ॥*॥
ॐ ॥ “स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते । स्वतन्त्रो भगवान् विष्णुर्भावोऽभावो द्विधेतरत् । प्राक्प्रद्ध्वंससदात्वेन त्रिविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः । दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् । नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखाः समस्तशः । स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा । देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः । इति द्विधाऽमुक्तियोग्या दैत्यरक्षःपिशाचकाः । मर्त्त्या इति चतुर्द्धैव तमोयोग्याः प्रकीर्त्तिताः । ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । नित्यानित्यविभागेन द्विधैवाचेतनं मतम् । नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं मतम् । असंसृष्टं च संसृष्टमसंसृष्टं महानहम् । बुद्धिर्म्मनः खानि दश मात्रा भूतानि पञ्च च । संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्त्तितम् । सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बन्धो मोक्षः सुखं दुःखमावृतिर्ज्ज्योतिरेव च । विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः” इत्यादि तत्वसङ्ख्याने ॥*॥
स्वजनोदधिसंवृद्धिपूर्ण्णचन्द्रो गुणार्ण्णवः ।
अमन्दानन्दसान्द्रो नः सदाऽव्यादिन्दिरापतिः ॥१॥
रमाचकोरीविधवे दुष्टसर्प्पोदवह्नये ।
सत्पान्थजनगेहाय नमो नारायणाय ते ॥२॥
चिदचिद्भेदमखिलं विधायाऽधाय भुञ्जते ।
अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥३॥
अमन्दगुणसारोऽपि मन्दहासेन वीक्षितः ।
नित्यमिन्दिरयाऽऽनन्दसान्द्रो यो नौमि तं हरिम् ॥४॥
वशी वशो न कस्यापि योऽजितो विजिताखिलः ।
सर्वकर्त्ता न क्रियते तं नमामि रमापतिम् ॥५॥
अगुणाय गुणोद्रेकस्वरूपायादिकारिणे ।
विदारितारिसङ्घाय वासुदेवाय ते नमः ॥६॥
आदिदेवाय देवानां पतये सादितारये ।
अनाद्यज्ञानपाराय नमः पारावराश्रय ॥७॥
अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादिपूज्यपादाय नमस्ते गरुडद्ध्वज ॥८॥
रमारमण ऐवैको रणजिच्छरणं सताम् ।
कारणं कारणस्यापि तरुणादित्यसप्रभः ॥९॥
इन्दिरामन्दसान्द्राग्र्यकटाक्षप्रेक्षितात्मने ।
अस्मदिष्टैककार्य्याय पूर्ण्णाय हरये नमः ॥१०॥
एवंविधः परो विष्णुरव्याच्छ्रीपुरुषोत्तमः ।
तमहं सर्वदा वन्दे श्रीनिकेतं परं हरिम् ॥११॥
इति तत्वसङ्ख्यानं समाप्तम्
[चञ्चलोऽयं समानेयो मनोमीनो हरिस्थले ।
विषयोदकसञ्चारी सुयत्नबळिशाहृतः ॥*॥
प्रादेशमात्रं तत्वार्त्थे जयार्त्थेऽरत्निमात्रकम् ।
ख्यातिपूजार्त्थिनो हस्तमात्रं पत्रमुदाहृतम् ॥*॥][1]
- ↑ इदं पद्यद्वयं अत्र ग्रन्थान्ते लिखितं दृश्यते मूलकोशेषु । आचार्य्यैरेव सन्दर्भविशेषेषु ग्रथितमित्यत्र हृषीकेशतीर्त्थैः सङ्गृहीतं भवेत् । “नानासुभाषितस्तोत्रगाथादिकृतिसत्कृतीः । त्वयि रत्नाकरे रत्नश्रेणीर्वा गणयन्ति के” इति ह्युक्तम् । “शतग्रन्थकर्त्ता” च प्रमेयनवमालिकायाम् । — इति बन्नञ्जेगोविन्दाचार्य्याणं टिप्पनी ।