श्रीमद्भगवद्गीताभाष्यम्
॥श्रीमद्भगवद्गीत ॥– ॥श्रीमद्भगवद्गीताभाष्यम् ॥[править]
देवं नारायणं नत्वा सर्वदोषविवर्जितम् ।
परिपूर्णं गुरूंश्चापि गीतार्थं वक्ष्यामि लेशतः ॥
उपोद्घातः
नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञान प्रदर्शनाय भगवान् व्यासोऽवततार । ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनात् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदाद्यर्थोपबृंहितां तदनुक्तकेवलेश्वर – ज्ञानदृष्टार्थयुक्तां च सर्वप्राणि नामावगाह्यानवगाह्यरूपां केवल भगवत्स्वरूपपरां परोक्ष्यार्थां महाभारतसंहितामचीक्लृपत् ॥
तच्चोक्तम् –
लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम् ।
वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम् ॥
अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम् ।
ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च ॥
अन्यावताररूपैश्च वेदानुक्तार्थभूषितम् ।
केवलेनात्मभोधेन दृष्टं वेदार्थसंयुतम् ॥
वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम् ।
भारतं पञ्चरात्रं च मूलरामायणं तथा ॥
पुराणं भागवतं चेति संभिन्नः शास्त्र पुङ्गवः ॥
–इति नारायणाष्टाक्षरकल्पे ॥
ब्रह्माऽपि तन्न जानाति ईषत् सर्वोऽपि जानति ।
बह्वर्थमृषयस्तत् तु भारतं प्रवदन्ति हि ॥इत्युपनारदीये ॥
ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह ।
यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः ॥
इति नारदीये ॥
भारतं चापि कृतवान् पङ्चमं वेदमुत्तमम् ।
दशावरार्थं सर्वत्र केवलं विष्णुबोधकम् ॥
परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत् ॥इति स्कान्दे ॥
“यदि विद्याच्छतुर्वेदान् साङ्गोपनिषदान् द्विजः ।
न चेत् पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति ॥”
“मन्वादि केचिद्ब्रुवते ह्यास्तीकादि तथाऽपरे ।
तथोपरिचराद्यन्ये भारतं परिचक्षते ॥”
भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।
देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः ॥
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्
महत्त्वाद्बारवत्त्वाच्च महाभारतमुच्यते ॥
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
“यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥”
‘विराटोद्योगसारावान्’ इत्यादि तद्वाक्यपर्यालोचनया, ऋषिः संप्रदायात्, ‘कोह्यन्यः पुण्ढरीकाक्षान्महाभारतकृद्भवेत्’ इत्यादि पुराणान्तर्गतवाक्यार्थान्यथाऽनुपपत्या, नारदाध्ययनादिलिङ्गैश्चाव-सीयते । कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः ? प्रसिद्धश्च सोऽर्थः । कथं चान्यस्य न कर्तुं शक्यते ? ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः । न च कर्तुरेव । इतरत्रापि साम्यात् । तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारत-पारिजातमधुभूतां गीतामुप निबबन्ध | तच्चोक्तम् –
भारतं सर्वशास्त्रेषु भारते गीतिका वरा ।
विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद्द्वयम् ॥
इति महाकौर्मे ।
‘स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने’ । इत्यादि च ।
उपोद्घातः समाप्तः |
श्रीमद्भगवद्गीता
अथ प्रथमोऽध्यायः[править]
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१ ॥
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२ ॥
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३ ॥
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४ ॥
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५ ॥
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६ ॥
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७ ॥
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८ ॥
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९ ॥
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१० ॥
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११ ॥
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२ ॥
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३ ॥
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४ ॥
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५ ॥
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६ ॥
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७ ॥
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८ ॥
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १-१९ ॥ orलो व्यनु
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२० ॥
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२ ॥
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३ ॥
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४ ॥
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ १-२५ ॥
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ १-२६ ॥
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ १-२७ ॥
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ १-२९ ॥
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ १-३० ॥
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ १-३१ ॥
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १-३२ ॥
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ १-३३ ॥
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १-३४ ॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ १-३५ ॥
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १-३६ ॥
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३७ ॥
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १-३८ ॥
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ १-३९ ॥
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-४० ॥
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ १-४१ ॥
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १-४२ ॥
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ १-४३ ॥
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ १-४४ ॥orनरकेऽनियतं
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ १-४५ ॥
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ १-४६ ॥
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४७ ॥
॥इति श्रीमद्भगवद्गीतायां प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः[править]
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१ ॥
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२ ॥
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३ ॥
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २-४ ॥
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५ ॥
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्-
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २-९ ॥
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २-१० ॥
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११ ॥
तत्र सेनयोर्मध्ये बान्धवादिमोहजालसंवृतं विषीदन्तमर्जुनं भगवानुवाच ॥ प्रज्ञावादान् स्वमनीषोत्थवचनानि । कथमशोच्याः ? गतासून् ॥11 ॥
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२ ॥
किमिति? नत्वेवाहम् । ईश्वरनित्यत्वस्याप्रस्तुतत्वाद् दृष्टान्तत्वेनाह – न त्वेवेति । यथाऽहं नित्यः सर्ववेदान्तेषु प्रसिद्धः, एवं त्वमेते जनादिपाश्च नित्याः ॥12 ॥
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३ ॥
देहिनो भाव एतद्भवति; तदेवासिद्धमिति चेत्, न । देहिनोऽस्मिन् यथा कौमारादिशरीरभेदेऽपि देही तदीक्षिता सिद्धः, एवं देहान्तरप्राप्तावपि, ईक्षितृत्वात् । नहि जडस्य शरीरस्य कौमाराद्यनुभवः सम्भवति । मृतस्यादर्शनात् । मृतस्य वाय्वाद्यपगमादनुभवाभावः, अहं मनुष्य इत्याद्यनुभावाच्चैतत् सिद्धमिति चेत्, न । सत्येवाविशेषे देहे सुप्त्यादौ ज्ञानादिविशेषादर्शनात् । समश्चाभिमानो मनसि । काष्ठादिवच्च ।श्रुतेश्च ।
प्रामाण्यं च प्रत्यक्षादिवत् । न च बौद्धादिवाक्यवत् । अपौरुषेयत्वात् । नह्यपौरुषेये पौरुषेयाज्ञानादयः कल्पयितं शक्याः । विना च कस्यचिद्वाक्यस्यापौरुषेयत्वं सर्वसमयाभिमतधर्माद्यसिद्धिः ।यश्च तौ नाङ्गीकुरुते नासौ समयी । अप्रयोजकत्वात् । माऽस्तु धर्मोऽनिरूप्यत्वादिति चेत्, न । सर्वाभिमतस्य प्रमाणं विना निषेद्धुमशक्यत्वात् ।
न च सिद्धिरहप्रमाणिकस्येति चेत् , न । सर्वाभिमतेरेव प्रमाणत्वात् । अन्यथा सर्ववाचिकव्यवहारासिद्धेश्च । न च मया श्रुतमिति तव ज्ञातुं शक्यम् । अन्यथा वा प्रत्युत्तरं स्यात् । भ्रान्तिर्वा तव स्यात् सर्वदुःखकारणत्वं वा स्यात् । एको वाऽन्यथा स्यात् । रचितत्वे च धर्मप्रमाणस्य कर्तुरज्ञानादि दोषशङ्का स्यात् । न चादोषत्वं स्ववाक्येनैव सिद्ध्ययति । न च येन केनचिदपौरुषेयमित्युक्तमुक्तवाक्यसमम् । अनादिकालपरिग्रहसिद्धित्वात् । अत प्रामाण्यं श्रुतेः । अतः कुतर्कैः धीरस्तत्र न मुह्यति ॥
अथवा, जीवनाशं देहनाशं वाऽपेक्ष्य शोकः ? न तावत् जीवनाशम् । नित्यत्वादित्याह – नत्वेवेति । नापि देहनाशमित्याह देहिन इति । यथा कौमारादिदेहहानेन जरादि प्राप्तावशोकः, एवं जीर्णादिदेहहानेन देहान्तर प्राप्तावपि ॥13 ॥
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४ ॥
तथाऽपि तद्दर्शनाभावादिना शोक इति चेत्, नेत्याह – मात्रास्पर्शा इति ।मीयन्त इति मात्रा विषयाः । तेषां स्पर्शाः सम्बन्धाः । त एव हि शीतोष्णसुखदुःखदाः । देहे शीतोष्णादि सम्बन्धाद्दि शीतोष्ण्याद्यनुभव आत्मनः । ततश्च सुखदुःखे । न ह्यात्मनः स्वतः सुखदुःखादि सम्भवति ।कुतः ? आगमापायित्वात् । यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः । अतो यतो मात्रास्पर्शा जाग्रदादावेव ते सन्ति नान्यदेति तदन्वयव्यतिरेकित्वात् तन्निमित्ता एव नात्मनः स्वतः । आत्मनश्च तैर्विषयविषयिभावसम्बन्धादन्यः सम्बन्धो नास्ति । न चागमापायित्वेऽपि प्रवाहरूपेणापि नित्यत्वमस्ति । सुप्तिप्रलयादावभावादित्याह । अनित्या इति । अत आत्मनो देहाद्यात्मभ्रम एव सुखदुःखकारणम् । अतस्तद्विमुक्तस्य बन्धुमरणादिदुःखं न भवति । अतोऽभिमानं परित्यज्य तान् शीतोष्णादीन् तितिक्षस्व ॥14 ॥
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २-१५ ॥
अतः प्रयोजनमाह – यं हीति । यमेते मात्रास्पर्शा न व्यथयन्ति पुरिशयमेव सन्तम् । शरीरसम्बन्धाभावे सर्वेषामपि व्यथाभावात् पुरुषमिति विशेषणम् । कथं न व्यथयन्ति ? समदुःखसुखत्वात् ।
तत् कथम् ? धैर्येण ॥15 ॥
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६ ॥
नित्य आत्मेत्युक्तम् । किमात्मैव नित्य आहोस्विदन्यदपि ? अन्यदपि । तत् किमित्यत आह नासत इति । असतः कारणस्य सतः ब्रह्मणश्च अभावो न विद्यते ।
‘प्रकृति पुरुषश्चैव नित्यौ कालश्चसत्तम’ । इति वचनात् श्री विष्णुपुराणे । पृथक् विद्यत इत्यादरार्थः । असतः कारणत्वं च
‘सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः’ । इति श्रीभागवते ।
‘असतः सदजायत’ इति च । अव्यक्तेश्च । सम्प्रदायतश्चैतत् सिद्धमित्याह । उभयोरपीति । अन्तो निर्णयः ॥16 ॥
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७ ॥
किं बहुना । यद्देशतोऽनन्तम् तन्नित्यमेव वेदाद्यन्यदपीत्याह – अविनाशीति । नापि शापादिना विनाश इत्याह विनाशमिति । अव्ययं च तत् ॥17 ॥
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८ ॥
भवतु देहस्यापि कस्यचिन्नित्यत्वमिति । नेत्याह -अन्तवन्त इति । अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह – नित्यस्येति । शरीरिण इतीश्वरव्यावृत्तये । न च नैमित्तिक इत्याह – अनाशिन इति । कुतः ? अप्रमेयेश्वरसरूपत्वात् । नह्युपादिबिम्बसान्निध्यनाशे प्रतिबिम्बनाशः सति च प्रदर्शके । स्वयमेवात्र प्रदर्शकः । चित्त्वात् ।नित्यश्चोपाधिः कश्चिदस्ति ।
प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया । चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः ॥इति भगवद्वचनात् ॥18 ॥
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २-१९ ॥
व्यवहारस्तु भ्रान्त इत्याह – य एनमिति । कुतः ? उक्तहेतुभ्यो नायं हन्ति न हन्यते । नहि प्रतिबिम्बस्य क्रिया । स हि बिम्बक्रिययैव क्रियावान् । ‘ध्यायतीव’ इति श्रुतेष्च ॥19 ॥
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २-२० ॥
अत्र मन्त्रवर्णोऽप्यस्तीत्याह – न जायत इति । नचेश्वरज्ञानवद्भूत्वा भविता । तद्धि ‘तदैक्षत’ ‘देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा’ इत्यादि श्रुतिस्मृतिसिद्धम् । कुतः ? अजादिलक्षणेश्वरसरूपत्वात् । शाश्वतः सदैकरूपः । पुरं देहमणतीति पुराणः । तथाऽपि न हन्यते हन्यमानेऽपि देहे ॥20 ॥
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २-२१ ॥
अतो य एवं वेद स कथं कं घातयति हन्ति वा ? अविनाशिनं नैमित्तिकनाशरहितम् । नित्यं स्वाभाविकनाशरहितम् । अथवा, अविनाशिनं दोषयोगरहितम्, नित्यं सदाभाविनम् इति सर्वत्र विवेकः । दोषयुक्तपुरुषादिषु नष्टशब्दप्रयोगात् ॥21 ॥
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २-२२ ॥
देहात्मविवेकानुभवार्थं दृष्टान्तमाह – वासांसीति ॥22 ॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २-२३ ॥
स्वतः प्रायो निमित्तैश्चाविनाशिनोऽपि केनचिन्निमित्तविशेषेण स्यात्, ककच्छेदवत्, इत्यतो विशेषनिमित्तानि निषेधति – नैनमिति ॥23 ॥
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४ ॥
वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह – अच्छेद्य इति । वर्तमा-नादर्शनाद्युक्तमयोग्यत्वमिति सूचयति वर्तमानापदेशेन । कुतोऽयोग्यता ? नित्यसर्वगतादि विशेषणेश्वरसरूपत्वात् । ‘शाश्वत’ इत्येकरूपत्वमात्रमुक्तम् । स्धाणुशब्देन नैमित्तिकमन्यथात्वं निवारयति । नित्यत्वं सर्वगतत्वविशेषणम् । अन्यथा पुनरुक्तेः । ऐक्योक्तावप्यनुक्तविशेषणोपादानान्नेश्वरैक्ये पुनरुक्तिः । युक्ताश्च बिम्बधर्माः तिबिम्बेऽविरोधे । तत्ताच –
‘रूपं रूपं प्रतिरूपो बभूव’ ‘आभास एव च’ इत्यादिश्रतिस्मृतिसिद्धा । न चांशत्वविरोधः । तस्यैवांशत्वात् । न चैकरूपैवांशता । प्रमाणं चोभयविधवचनमेव ।न चांशस्य प्रतिबिम्बत्वं कल्प्यम् । गाध्यादिष्वप्यंशबाहुल्यदृष्टेरितरत्रादृष्टेः । स्थाणुत्वेऽपि ‘ऐक्षत’ इत्याद्यविरुद्धमीश्वरस्य । उभयविधवाक्यात् । अचिन्त्यशक्तेश्च ।
न च माययैकम् –
‘त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते’
‘न योगित्वादीश्वरत्त्वात्’
‘चित्रं न चैतत् त्वयि कार्यकारणे’
इत्याद्यैश्वर्येणैव विरुद्धधर्माविरोधोक्तेः । महातात्पर्याच्च । मोक्षो हि महापुरुषार्थः –
‘तत्रापि मोक्ष एवार्थः’
‘अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमेतयोः ॥’
‘पुण्यचितो लोकः क्षीयते’ इत्यादिश्रुतिस्मृतिभ्यः
स च विष्णुप्रसादादेव सिद्ध्यति –
‘वासुदेवमनाराध्य को मोक्षं समवाप्नुयात् ’
‘तुष्टे तु तत्र किमलभ्यमनन्त ईशे’
‘तत्प्रसादादवाप्नोति परां सिद्धिं न संशयः’
‘येषां स एव भगवान् दययेदनन्तः
सर्वात्मना श्रितपदो यदि निर्व्यलीकम् ।
ते वै विदन्त्यतितरन्ति च देवमायां
नैषां ममाहमिति धीः श्वसृगालभक्ष्ये’ ॥
‘तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम् धर्मार्थकामैरलमल्पकास्ते’
‘ऋते यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता न शर्म ।
आत्मन् लभन्ते भगवंस्तवाङ्घ्रिच्छायांशविद्यामत आश्रयेम’
‘ऋते भवत्प्रसादाद्धि कस्य मोक्षो भवेदिह’, ‘तमेवं विद्वान्’ इत्यादिश्रुतिस्मृतिभ्यः ।
स चोत्कर्षज्ञानादेव भवति । लोकप्रसिद्धेः । लोकसिद्धमविरुद्धमन्यत्राप्यङ्गीकार्यम् । अहल्याजारत्वाद्यपि दोषकृतोऽपि ते न बहुतरोलेप आसीदित्युत्कर्षमेव वक्ति । बहुनरकफलो ह्यसौ ।
‘तस्य न लोम च मीयते’ इति श्रुत्यन्तराच्च ।
‘यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्’ इति तदुक्तेश्व ।
‘सत्यं सत्यं पुनः सत्यं शपथैश्चापि कोटिभिः ।
विष्णुमाहात्म लेशस्य विभक्तस्य च कोटिधा ।
पुनश्चानन्तदा तस्य पुनश्चापि ह्यनन्तदा ।
नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः’ इति नारदीये ।
अन्योत्कर्ष ऐक्यं च –
‘तथैव सर्वशास्त्रेषु महाभारतमुत्तमम्’
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ।
इत्यादि ग्रन्थान्तरसिद्धोत्कर्षमहाभारतविरुद्धम् । तत्र हि –
‘नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्’
‘यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः ।’
‘न त्वत्समोऽस्ति’
इत्यादिषु साधारणप्रश्नावसर एव महान्तमुत्कर्षं विष्णोर्वक्ति । अन्यत्र यत्किञ्चदुक्तावप्यसाधारण एवावसरे । तद्ध्यग्न्यादेरपि वेदादावस्ति –
‘त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः’
‘विश्वस्मादिन्द्र उत्तरः’ इत्यादिषु ।
तद्ग्रन्थविरोधाच्च । तथाहि स्कान्दे शैवे –
यदन्तरम् व्याघ्रहरीन्द्रयोर्वने यदन्तरं मेरुगिरीन्द्रविन्द्ययोः ।
यदन्तरम् सूर्यसुरेढ्यबिम्बयोस्तदन्तरं रुद्रमहेन्द्रयोरपि ॥
यदन्तरम् सिंहगजेन्द्रयोर्वने यदन्तरं सूर्यशशाङ्कयोर्दिवि ।
यदन्तरम् जाह्नविसूर्यकन्ययोस्तदन्तरं ब्रह्मगिरीशयोरपि ॥
यदन्तरम् प्रलयजवारिविप्लुषोर्यदन्तरं स्तम्भहिरण्यगर्भयोः ।
स्फुलिङ्गसंवर्तकयोर्यदन्तरं तदन्तरं विष्णुहिरण्यगर्भयोः ॥
‘अनन्तत्वान्महाविष्णोस्तदन्तरमनन्तकम् ।
माहात्म्य सूचनार्थाय ह्युदाहरणमीरितम् ॥
तत्समोऽभ्यधिको वाऽपि नास्ति कश्चित् कदाचन ।
एतेन सत्यवाक्येन तमेव प्रविशाम्यहम्’ ॥इत्याद्याह ॥
तत्रैव शिवं प्रति मार्कण्ढेयवचनम् –
‘संसारार्णवनिर्मग्न इदानीं मुक्तिमेष्यसि’ इत्यादि ।
पाद्मे शैवे मार्कण्डेयकथाप्रबन्धे शिवान्निषिद्य विष्णोरेव मुक्तिमाह –
“अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः” इत्यादि ।
समब्राह्मविरोधाच्च । वेदश्चेतिहासाद्यविरोधेन योज्यः । ‘यदि विद्यात्’ इत्यादिवचनात् । अनिर्णयाच्चेन्द्रादिशङ्कयाऽन्यथा । तत्रापीष्टसिद्धिः । नामवैशेष्यात् । अतो भगवदुत्कर्ष एव सर्वागमानां महातात्पर्यम् । तथाऽपि स्वतःप्रामाण्यात् सन्नेवोच्यते । अविरोधात् । न च प्रमाणसिद्धस्यान्यत्रादृष्ट्याऽपह्नवो युक्तः । दर्मवैचित्र्यादर्थानाम् । स्वतःप्रामाण्यानङ्गीकारे मानोक्तावप्यदोषत्वं च साधयेदित्यतिप्रसङ्गः । अनन्यापेक्षया च तत्परत्वं सिद्धिमार्गानाम् –
‘नारायणपरा वेदाः’ ‘सर्वे वेदा यत्पदमामनन्ति’
‘वासुदेवपरा वेदाः’ इति ।
‘न चैतद्विरुद्धम् । ईश्वरनियमात् । अनादौ च तत् सिद्धम् – ‘द्रव्यं कर्म कालश्च च’ इत्यादौ । प्रयोजकत्वं तु पूर्वोक्तन्यायेन ।अतः सिद्धमेतत् । तच्चानन्यापेक्षाचिन्त्यशक्तित्व एव युक्तम् । अतो न मायामयमेकम् । अचलत्वं तु ।-
‘अप्रहर्षमनानन्दम्’ ‘असुखम्’ ‘अप्रज्ञम्’ ’असद्वा’ इत्यादिवत् । क्रियादृष्टेः–
‘तपो मे हृदयं साक्षात् तनुर्विद्या क्रियाऽऽकृतिः’ इत्याद्युक्तेः ।
अतश्च न मायामयं सर्वं । ऐश्वर्यवाचीभगशब्देनैव संबोधनाच्चं ‘तं त्वा भग’ इत्यादौ । स्वरूपत्वान्नमायामयत्वं युक्तम् ।
‘विज्ञानशक्तिरहमासमनन्तशक्तेः’
‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’
‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादिवचनात् ॥24 ॥
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५ ॥
अतएवाव्यक्तादिरूपः ॥25 ॥
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २-२६ ॥
अस्त्वेवमात्मनो नित्यत्वम् ; तथाऽपि देहसंयोगवियोगात्मकजनिमृती स्त एवेत्यत आह – अथेति ॥26 ॥
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २-२७ ॥
कुतोऽशोकः ? नियतत्वादित्याह – जातस्येति ॥27 ॥
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८ ॥
तदेव स्पष्टयति – अव्यक्तादीनीति ॥28 ॥
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २-२९ ॥
देहयोगवियोगस्य नियतत्वादात्मनश्चेश्वरसरूपत्वात् सर्वथाऽनाशान्न शोकः कार्य इत्यपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति – आश्चर्यवदिति । दुर्लभत्वेनेत्यर्थः । तद्द्याश्चर्यं लोके । दुर्लभोऽपीश्वरसरूपत्वात् सूक्ष्मत्वाच्चात्मनस्तद्रष्टा ॥29 ॥
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३० ॥
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २-३१ ॥
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २-३२ ॥
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३ ॥
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २-३४ ॥
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २-३५ ॥
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २-३६ ॥
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २-३७ ॥
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८ ॥
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २-३९ ॥
साङ्ख्यं ज्ञानम् ।
‘शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते’ इति भगवद्वचनाद्व्यासस्मृतौ ।
योग उपायः ।
‘दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयः प्रसिद्धये’
इति प्रयोगाद्भागवते ।
नेतरौ साङ्ख्ययोगावुपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन । कर्मयोग इत्यादिप्रयोगाच्च । निन्दितत्वाच्चेतरयोः मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तत्या । वेदानां त्वेकार्थत्वान्न विरोधः । पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम् । तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूले वेदैक्योक्तेश्च । एवमेव सर्वत्र साङ्ख्ययोगशब्दार्थ उपादेयवाचको वर्णनीयः । युक्तेश्च । ज्ञानं हि जैवमुक्तम् । उपायश्च वक्ष्यते । बुद्ध्यतेऽनयेति बुद्धिः । साङ्ख्यविषयो यया वाचा बुद्ध्यते सा वागभिहितेत्यर्थः ॥39 ॥
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४० ॥
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २-४१ ॥
योग इमां बुद्धिं श्रुण्वित्युक्तम् ; बह्व्यो हि बुद्धयो मतभेदात् ; तत् कथमेकत्र निष्ठां करोमीत्यत आह – व्यवसायात्मिकेति । सम्यग्युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः ॥41 ॥
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२ ॥
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २-४३ ॥
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४ ॥
स्युरवैदिकानि मतान्यव्यवसायात्मकानि, न तु वैदिकानि । तेऽपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह – यामिमामिति । यामाहुस्तयेत्यन्वयः । मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति । वेदवादरताः कर्मादि वाचकवेदवादरताः ; वेदैर्यन्मुखत उच्यते तत्रैव रताः । नान्यदस्तीति वादिनः ।
‘परोक्ष्यविषया वेदाः’ ‘परोक्षप्रिया इव हि देवाः’,
‘मां विधत्तेऽभिदत्ते माम्’
इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति । भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति । तत्प्राप्ति फला एव वेदा इति वदन्तीत्यर्थः । तेषां सम्यग्युक्तिनिर्णयात्मिका बुद्धिः, समाधौ समाध्यर्थे न विधीयते । सम्यग् निर्णीतार्थानां हीश्वरे मनःसमाधानां सम्यग्भवति । तद्धि मोक्षसाधनम् । उक्तं चैतदन्यत्र –
‘न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ’ इति ॥42-44 ॥
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २-४५ ॥
तां योगबुद्धिमाह । त्रैगुण्यविषया इत्यादिनेतरदपोद्य । वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोऽर्थ इव भवति ।
‘परोक्षवादी वेदोऽयम्’ इति ह्युक्तम् ।
अतः प्रातीतिकेऽर्थे भ्रान्तिं म कुर्वित्यर्थः ।
‘वादो विषयकत्वं च मुखतो वचनं स्मृतम्’ इत्यभिधानम् ।
न तु वेदपक्षो निषिध्यते ।
‘वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ।’
‘सर्वे वेदा यत्मदम्’
‘वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनो रुचिरेव च ।’
‘वेदप्रणिहितो धर्मोह्यधर्मस्तद्विपर्ययः ।’
इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः ।
तद्विहितस्य तद्विरुद्धस्यच धर्माधर्मत्वोक्तेश्च ॥45 ॥
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६ ॥
तथाऽपि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह -यावानर्थ इति । यथा यावानर्थः प्रयोजनमुदपाने कूपे भवति तावान् सर्वतः सम्प्लुतोदकेऽन्तर्भवत्येव, एवं सर्वेषु वेदेषु यत् फलं तद्विजानताऽपि ज्ञानिनो ब्राह्मणस्य फलेऽन्तर्भवति । ब्रह्म अणतीति ब्राह्मणः अपरोक्षज्ञानी । स हि ब्रह्म गच्छति । विजानत इति ज्ञानफलत्वं तस्य दर्शयति ॥46 ॥
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७ ॥
कामात्मनां निन्दा कृता कथमेषां ‘स्वर्ग कामो यजेत’ इत्यादौ कामस्यापि विहितत्वादित्यत आह – कर्मण्येवेति । त इत्युपलक्षणार्थम् । तव ज्ञानिनोऽपि न फलकामकर्तव्यता । किम्वन्येषाम् । नत्वस्तिकेषांचिन्नतेऽस्तीति । स हि ज्ञानी नरांश इन्द्रश्च । मोहादिस्त्वभिभवादेः । यदि तेषां शुद्धसत्त्वानां न स्याज्ञानम्, क्वान्येषाम्? उपदेशादेश्चसिद्धं ज्ञानं तेषाम् । ‘पार्थार्ष्टिषेण ……’ इत्यादिज्ञानिगणनाच्च ।
कामनिषेद एवात्र । फलानि ह्यस्वातन्त्र्येण भवन्ति । नहि कर्मफलानि कर्माभावे यत्नतोऽपि भवन्ति । भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्नेऽप्यविरोधे । अतः कर्माकरण एव प्रत्यवायः ।न तु ज्ञानादिनावाऽकामनाय वा फलाप्राप्तौ । अतः कर्मण्येवाधिकारः । अतस्तदेव कार्यम् । न तु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः । कामवचनानां तु तात्पर्यं भगवतैवोक्तम्-
‘रोचनार्थं फलशृतिः’ ‘यथाभैषज्यरोचनम्’ इत्यादौ भागवते ।
अत एव कामी यजेतेत्यर्थः . न तु कामी भूत्वेत्यर्थः । ‘निष्कामं ज्ञानपूर्वं च’ इति वचनात् । वक्ष्यमाणेभ्यश्च ।
‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादिभ्यश्च ।
अतो मा कर्मफलहेतुर्भूः । कर्मफलं तत्कृतौ हेतुर्यस्य स कर्मफलहेतुः । स मा भूः । तर्हि न करोमीत्यत आह – मा त इति । कर्माकरणे स्नेहो माऽस्त्वित्यर्थः । अन्यफलाभावेऽपि मत्प्रसादाख्यफलभावात् । इच्छा च तस्य युक्ता ‘वृणीमहे ते परितोषणाय’ इत्यादि महदाचारात् । अनिन्दनात् , विशेषत इतरनिन्दनाच्च । सामान्यं विशेषो बाधत इति च प्रसिद्धम्’ सर्वानानय नैकं मैत्रम्’ इत्यादौ । अतः .
‘नैकात्मतां म स्पृहयन्ति केचित्’ , ‘भक्तिमन्विच्छन्तः’ , ‘ब्रह्मजिज्ञासा’ , ‘विज्ञायप्रज्ञां’, ‘द्रष्टव्यः’ इत्यदिवचनेभ्यः, स्वार्थसेवकं प्रति न तथा स्नेहः । किं ददामीत्युक्ते सेवादि याचकं प्रति बहुतरः स्नेह इति लोकप्रसिद्धन्यायाच्चभक्तिज्ञानादिप्रार्थना कार्येति सिद्धं ॥47 ॥
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८ ॥
पूर्वश्लोकोक्तं स्फष्टयति – योगस्थ इति । योगस्थ – उपायस्थः । सङ्गं – फलस्नेहं, त्यक्त्वा । तत एव सिद्ध्यसिद्ध्योः समो भूत्वा । स एव च मयोक्तो योगः ॥48 ॥
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९ ॥
इतश्चयोगाय युज्यस्वेत्याह – दूरेणेति । बुद्धियोगात् – ज्ञानलक्षणादुपायात् । दूरेण – अतीव । अतो बुद्धौशरणं -ज्ञाने स्थितिम् । फलं कर्मकृतौ हेतुर्येषां ते फलहेतवः ॥49 ॥
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५० ॥
ज्ञानफलमाह – बुद्धियुक्त इति । सुकृतमप्यप्रियं मानुष्यादि जहाति, न बृहत्फलमप्युपासनादिनिमित्तम् —
‘न हास्य कर्म क्षीयते’, ‘अविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति’ इत्यादिश्रुतिभ्यः
अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र । उभयक्षयश्रुतिरप्यनिष्टविषया । नहीष्टपुण्यक्षये किञ्चित् प्रयोजनम् । न चेष्टनाशो ज्ञानिनो युक्तः । इष्टाश्च केचिद्विषयाः —
‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’, ‘प्रजापतेः सभां वेश्म प्रपद्ये । यशोऽहं भवानि ब्राह्मणानाम्’, ‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा’, ‘अस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते’, ‘कामान्नी कामरूप्यनुसञ्चरन्’, ‘स एकधा भवति’ इत्यादि श्रुतिभ्यः ।
बहुत्वेऽप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः । अनुभवशक्तिश्चेष्वरप्रसादात् । श्रुतेश्च । न च शरीरपातात् पूर्वमेतत्
‘स तत्र पर्येति’, ‘एतमानन्दमयमात्मानमुपसङ्क्रम्य’ इत्याद्युत्तरत्र श्रवणात् ।
न चैकीभूत एव ब्रह्मणा सः —
‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इत्यादिनिन्दनान्मोक्षधर्मे । परिहारे पृथग्भोगाभिधानाच्च । शुकादीनां पृथग्दृष्टेश्च । ‘जगद्व्यापारवर्जम्’ इत्यैश्वर्यर्मार्यादोक्तेश्च
‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’ इति च ।
उपाधिनाशे नाशाच्च प्रतिबिम्बस्य । न चैकीभूतस्य पृथग् ज्ञाने मानं पश्यामः । ‘आसं दुःखी नासम्’ इति ज्ञानविरोधाश्चेश्वरस्य । अनेन रूपेणेति च । भेदाभावात् । न च प्रतिबिम्बस्य बिम्बैकम् लोके पश्यामः । उपाधिनाशे मानं वा । ‘मग्नस्य हि परेऽज्ञाने’ इति दुःखात्मकत्वोक्तेश्च । ‘याव दात्मभावित्वात् ‘इत्युपादिनित्यताभिधानाच्च । अतोऽन्यवचनं प्रतीयमानमप्यौपचारिकम् । दृष्ट्वाश्चते भगवतो भिन्ना नारदेन । प्रतिशाखं च ‘स एकधा’ इत्यादिषु भेदेन प्रतीयन्ते । विरोधे तु युक्तिमतामेव बलवत्त्वम् । युक्तयुश्चात्रोक्ताः ‘मग्नस्य हि’ इत्यादयः । अतो जले जलैकीभाववदेकीभावः । उक्तं च —
‘यथोदकं शुद्धे शुद्धम्‘, ‘यथा नद्यः’ इत्यादौ ।
तत्राप्यन्योन्यात्मकत्वे वृद्ध्यसम्भवः । अस्ति चेषेत् समुद्रेऽपि द्वारि । महत्त्वादन्यत्रा दृष्टिः ।
‘ता एवापो ददौ तस्य स ऋषिः शंशितव्रतः’ इति महाकौर्मे समर्थानां भेदज्ञानाच्च ।
‘नैव तत् प्राप्नुवन्त्येते ब्रह्मेशानादयः सुराः । यत् ते पदं हि कैवल्यम्’ इति निषेदाच्च नारदीये ।
सविचारश्च निर्णयः कृतो मोक्षधर्मेषु ।
बलवांश्च सविचारो निर्णयो वाक्यमात्रात् । अतो – ‘यत्र नान्यत् पश्यति’ ‘इत्याद्यपि तदधीनसत्तादिवाचि । अन्यथा कथमैश्वर्यादि स्यात्? न च तन्मायामयमित्युक्तम् । अन्यथा कथं तत्रैव, ‘स एकदा’ इत्यादि ब्रूयात् ? न च – ‘न ह वै सशरीरस्य’ इत्यादिविरोधः । वैलक्षण्यात् तच्छरीराणाम् । अभौतिकानि हि तानि नित्योपाधिनिर्मितानीश्वरशक्त्या । तथाचोक्तम्
‘शरीरं जायते तेषां षोडश्या कलयैव तु’ इत्यादि नारायणकल्पे । वदन्ति च लौकिकवैलक्षण्येऽभावशब्दम् – ‘अप्रहर्षमनानन्दम्’, ‘सुखदुःखबाह्यः’ इत्यादिषु । निरुक्त्यभावाच्च न तानि शरीराणि । तथाहि
श्रुतिः ॥ ‘अशारीतीँ तच्चरीरमभवत् ’ इति । नहि तानि शीर्णानि भवन्ति । ‘सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च’ । इत्यादिवचनात् ।
साम्यात् प्रयोगः । प्रयोगाच्च —
‘अनिन्द्रिया अनाहारा अनिष्पन्दाः सुगन्दिनः’, ‘देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्’ इत्यादि दृष्टदेहेश्वेव । न चैषाऽन्या गौणी मुक्तिः ।
‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ’ — इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात् ।
ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात् तत्रैव यान्ति । योग्यत्वं चात्र विवक्षितम् । युधिष्ठिरप्रश्न इतरनिन्दनाच्च । सायुज्यं च ग्रहवत् । तदुक्तेश्च-
‘भुञ्जते पुरुषं प्राप्य यथादेवग्रहादयः । तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जते’ इति नारायणाष्टाक्षरकल्पे ।
अतोऽनिष्टस्यैव वियोगः । सोऽस्त्येव सर्वात्मना –
‘अदुःखं’, ‘सर्वदुःखविवर्जिताः’, ‘अशोकमहिमम् ’ , ‘यत्र गत्वा न शोचति ’ इत्यादिभ्यः ।
विशेषवचनाभावाच्च । येषां त्वीषद्धृश्यते ते न सायज्यं प्राप्ताः । सामीप्याद्येव तेषाम् । अतः प्रारब्धकर्मशेषभावात् तद्भुक्त्वा सायुज्यं गच्छन्ति । तच्चोक्तम् –
‘सङ्कर्षणादयः सर्वे स्वाधिकारादनन्तरम् ।
प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयः’ इति व्यासयोगे ।
अतोऽनिष्टस्य सर्वात्मना वियोगः ।
‘परब्रह्मत्वमिच्छामि परब्रह्म जनार्दन’
इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात् ।
‘न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित् ।
ऋते वैष्णवमानन्दं वाङ्मनोऽगोचरं महत् ’
इत्यादेश्च ब्रह्मादिपादादप्यधिकतमं सुखं च मोक्ष इति सिद्धम् । अतो योगाय युज्यस्व ज्ञानोपायाय । तद्धि कर्मकौशलम् ॥50 ॥
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१ ॥
तदुपायमाह – कर्मजमिति । कर्मजं फलं त्यक्त्वा , अकामनायेश्वराय समर्प्य । बुद्धियुक्ताः सम्यग् ज्ञानिनो भूत्वा पदं गच्छन्ति । सयोगकर्म ज्ञानसाधनम् , तन्मोक्षसाधनमिति भावः ॥51 ॥
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२ ॥
कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीति ? आहयदेति । निर्वेदं – नितरां लाभम् । प्रयोगात् –
‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य’ इत्यादि ।
नहि तत्र वैराग्यमुपपद्यते । तथा सति पाण्डित्यादिति स्यात् । न च ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति ।
‘आत्मारामा हि मुनयो निर्ग्राह्या अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः’ इति वचनात् ।
अनुष्ठानाच्च शुकादीनाम् । न च तेषां फलं नास्ति । तस्यैव महत्सुखत्वात् तेषाम् –
‘या निवृतिस्तनुभृतां तव पादपद्मध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिलुलितात् पततां विमानात्’ ॥इत्यादिवचनात् ।
तेषामप्युपासनाधिफलस्य साधितत्वात् । तारतम्याधिगतेश्च । तथाहि यदि तारतम्यं न स्यात्,
‘नात्यन्तिकं विगणयन्त्यपि ते प्रसादम्’, ‘नैकात्मतां मे स्पृहयन्ति केचित्’ ‘एकत्वमप्युत दीयमानं न गृह्णन्ति’ इति मुक्तिमप्यनिच्छतामपि मोक्ष एव फलं तमिच्छितामपि स एव भवति सुप्रतीकादीनामिति कथमनिच्छतां स्तुतिरुपपन्ना स्यात् ?
वचनाच्च—
‘यथा भक्तिविशेषोऽत्र दृष्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्ग भेदते । योगीनां भिन्नलिङ्गानामाविर्भूतस्वरूपिणाम् । प्राप्तानां परमानन्दं तारतम्यं सदैव हि’ इति ।
‘न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन । मद्भक्तियोगाज्ञानाच्च सर्वानतिशयिष्यसि’ इति च ।
साम्यवचनं तु प्राचुर्यविषयं दुःखाभावविषयं च । तथा चोक्तम् ।
‘दुःखाभावः परानन्दो लिङ्गभेदः समा मताः । तथाऽपि परमानन्दो ज्ञानभेदात् तु भिद्यते’इति नारायणाष्टाक्षरकल्पे ।
अतो न वैराग्यं श्रुतादावत्र विवक्षितम् । न च सङ्कोचे मानं किञ्चिद्विद्यमान इतरत्र प्रयोगे । महद्बिः श्रवणीयस्य श्रुतस्य च वेदादेः फलं प्राप्स्यसीत्यर्थः ॥52 ॥
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३ ॥
तदेव स्पष्टयति श्रतिविप्रतिपन्नेति । पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति; ततश्च समाधावचला, ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात् ; तदा योगमवाप्स्यिसि – उपायसिद्धो भवसीत्यर्थः ॥53 ॥
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४ ॥
स्थिताप्रज्ञा ज्ञानं यस्य स – स्थिथप्रज्ञः । भाष्यतेऽनयेति – भाषा । लक्षणमित्यर्थः । उक्तं लक्षणमनुवदति लक्षणान्तरं पृच्छामीति ज्ञापयितुम् समाधिस्थस्येति । कं ब्रह्माणमीशं रुद्रं च वर्तयतीति – केशवः । तथाऽहि निरुक्तिः कृता हरिवंशेषु रुद्रेण कैलासयात्रायाम् ।
‘हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च ।
सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान् ’ इति वचनान्तराच्च ।’
किमासीत ? किं प्रत्यासीत ? न चार्जुनो न जानाति तल्लक्षणादिकम् -
‘जानन्ति पूर्वराजानो देवर्षयस्तथैव हि ।
तथाऽपि धर्मान् पृच्छन्ति वार्तायै गुह्यवित्तये ।
न ते गुह्याः प्रतीयन्ते पुराणेष्वल्पबुद्धिनाम्’ इति वचनात् ॥54 ॥
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५ ॥
गमनादिप्रवृत्तिर्नात्यभिसन्धिपूर्विका मत्तादिप्रवृत्तिवदिति ‘या निशा’ इत्यादिना दर्शयिष्यन् लक्षणं प्रथमत आह – प्रजाहातीति । एवं परमानन्दतृप्तः किमर्थमेवं प्रवृत्तिं करोतीति प्रश्नाभिप्रायः । प्रारब्धकर्मणेषत्तिरोहित ब्रह्मणो वासनया प्रायोऽल्पाभिसन्धिप्रवृत्तिः सम्भवतीत्याशयवान् परिहरति । प्रायः सर्वान् प्रजहाति । शुकादीनामपीषद्दर्शनात् । ‘त्वत्पादभक्तिमिच्छन्ति ज्ञानिनस्तत्वदर्शिनः’
इत्युक्तेस्तामिच्छन्ति । यदा त्विन्द्रादीनामाग्रहो दृश्यते तदऽभिभूतं तेषां ज्ञानम् । तच्चोक्तम् –
‘अधिकारिकपुंसां तु बृहत्कर्मत्वकारणात् ।
उद्भवाभिभवौ ज्ञाने ततोऽन्येभ्यो विलक्षणाः’ इति
अत एव वैलक्षण्यादनधिकारिणामाग्रहादि चेदस्ति न ते ज्ञानिन इत्यवगन्तव्यम् ।
न चात्र समाधिं कुर्वतो लक्षणमुच्यते । ‘यः सर्वत्रानभिस्नेहः’ इति स्नेहनिषेधात् । नहि समाधिं कुर्वतस्तस्य शुभाशुभप्राप्तिरस्ति । असम्प्रज्ञातसमाधेः । सम्प्रज्ञाते त्वविरोधः । तथाऽपि न तत्रैवेति नियमः ।
कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम् ।
ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात्’ इति स्मृतेः ।
मनोगता हि कामाः । अतस्तत्रैव तद्विरुद्धज्ञानोत्पात्तौ युक्तं हानं तेषामिति दर्शयति -मनोगतानिति । विरोधश्चोच्यते ‘रसोऽप्यस्य परं दृष्ट्वानिवर्तते’ इति । न चैतददृष्ट्वाऽफलपनीयम् । पुरुषवैशेष्यात् ।
आत्मना परमात्मना । परमात्मन्येव स्थितः सन् । आत्माख्ये तस्मिन् स्थितस्य तत्प्रसादादेव तुष्टिर्भवति ।
‘विषयांस्तु परित्यज्य रामे स्थितिमतस्ततः ।
देवाद्भवति वैतुष्टिर्नान्यथा तु कथञ्चन ‘इति नारायणरामकल्पे’ ।अतो नात्मा जीवः ॥55 ॥
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६ ॥
तदेव स्पष्टयत्युत्तरैस्त्रिभिः श्लोकैः । एतान्येव ज्ञानोपायानि च । तच्चोक्तम्-
‘तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत् तु लक्षणम्’ इति । शोभनाध्यासो रागः ।
‘रसो रागस्तथा रक्तिः शोभनाध्यास उच्यते’ इति ह्यभिधानम् ॥56 ॥
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७ ॥
सर्वत्रानभिस्नेहत्वाच्छुभाशुभं प्राप्य नाभिनन्दति न द्वेष्टि ॥57 ॥
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८ ॥
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९ ॥
न चैतल्लक्षणं ज्ञानमयत्नतोऽपि भवतीत्याहोत्तरश्लोकैः । निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति । इतरविषयाकाङ्क्षाभावो वा । रसाकाङ्क्षादिर्न निवर्तते ।
स त्वपरोक्षज्ञानादेव निवर्तत इत्याह – विषया इति ।
‘इन्द्रियाणि जयन्त्याशु निराहार मनीषिणः ।
वर्जयित्वा तु रसनामासौ रस्ये तु वर्धते ‘ इति वचनाद्भागवते । रसशब्दस्यरागवाचित्वाच्च ॥59 ॥
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६० ॥
अपरोक्षज्ञानरहितज्ञानिनोऽपि साधारणयत्नवतोऽपि मनोहरतीन्द्रियाणि ।पुरुषस्य शरीराभिमानिनः । को दोषस्ततः ? प्रमाथीनि प्रमथनशीलानि पुरुषस्य ॥60 ॥
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१ ॥
तर्ह्यशक्त्यान्येवेत्यत आह – तानीति । बहुयत्नवतः शक्यानि । अतो यत्नं कुर्यादित्याशयः । युक्तो – मयि मनोयुक्तः । अहमेव परः सर्वस्मादुत्कृष्टो यस्य स मत्परः । फलमाह – वशे हीति ॥61 ॥
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२ ॥
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३ ॥
रागादिदोषकारणमाह परिहाराय श्लोकद्वयेन । सम्मोहः अकार्येच्छा । तथाहि मोहशब्दार्थ उक्त उपगीतासु –
‘मोहसज्ञितम् । अधर्मलक्षणं चैव नियतं पापकर्मसु’ इति ।
तथा यान्यत्र ‘सम्मोहोऽधर्मकामिता’ इति । स्मृतिविभ्रमः – प्रतिषेधादिस्मृतिनाशः । बुद्धिनाशः – सर्वात्मना दोषबुद्धिनाशः । विनश्यति नरकाद्यनर्थं प्राप्नोति । तथाह्युक्तम् –
अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा ।
दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते’ इति ॥62,63 ॥
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४ ॥
इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम् । विषयाननुभवन्नपि विधेय आत्मामनो यस्य । जितात्मेत्यर्थः । प्रसादं – मनःप्रसादम् ॥64 ॥
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५ ॥
कथं प्रसादमात्रेण सर्वदुःखहानिः ? प्रसन्नचेतसो हि बुद्धिः पर्यवतिष्ठति । ब्रह्मापरोक्षेण सम्यक् स्थितिं करोति । प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः ॥65 ॥
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६ ॥
प्रसादाभावे दोषमाहोत्तरश्लोकाभ्याम् । नहि प्रसादाभावे युक्तिश्चित्तनिरोधः । अयुक्तस्य च बुद्धिः – सम्यग् ज्ञानं, नास्ति । तदेवोपपादयति न चायुक्तस्येति । शान्ति मुक्तिः ।
‘शान्तिर्मोक्षोऽथ निर्वाणम् ’ इत्यभिधानात् ॥66 ॥
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥
कथमयुक्तस्य भावना न भवति ? आह – इन्द्रियाणामिति । अनुविधीयते – क्रियते । नन्वीश्वरेणेन्द्रियाणामनु । ‘बुद्धिर्ज्ञानम्’ इत्यादि वक्ष्यमाणत्वात् । प्रज्ञां -प्रज्ञानम् । उत्पत्स्यदपि निवारयतीत्यर्थः । उत्पन्नस्याप्यभिभवो भवति ॥67 ॥
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥
तस्मात् सर्वात्मना निगृहीतेन्द्रिय एव ज्ञानीति निगमयति – तस्मादिति ॥68 ॥
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥
उक्तं लक्षणं पिण्डीकृत्याह – या निशेति – या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा, यस्यां सुप्तानीव न किञ्चिज्जानन्ति, तस्यामिन्द्रिय – संयमयुक्तो ज्ञानी जागर्ति – सम्यगापरोक्ष्येण पश्यति, परमात्मानमित्यर्थः । यस्यां -विषयलक्षणायां भूतानि, जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति । मत्तादिवद्गमनादिप्रवृत्तिः । तदुक्तम् –
‘देहं तु तन्न चरमम्’ ‘देहोऽपि दैववशगः’ इति श्लोकाभ्याम्
‘मननयुक्तो मुनिः । पश्यत इत्यस्य साधनमाह ॥69 ॥
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
तेन विषयानुभवप्रकारमाह – अपूर्यमाणमिति । यो विषयैरापूर्यमाणोऽप्यचलप्रतिष्ठो भवति । नोत्सेकं प्राप्नोति । न च प्रयत्नं करोति । न चाभावे शुष्यति । नहि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृद्धिशोषौ बहुतरौ प्राप्नोति । प्रयत्नं वा करोति । स मुक्तिं प्राप्नोतीत्यर्थः ॥70 ॥
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१ ॥
एतदेव प्रपञ्चयति – विहायेति । कामान् विषयान् निस्पृहतया विहाय यश्चरति – भक्षयति । भक्षयामीत्याद्यहङ्कार ममकारवर्जितश्च । स हि पुमान् । स एव मुक्तिमधिगच्छतीत्यर्थः ॥
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२ ॥
॥इति श्रीमद्भगवग्दीतायां द्वितीयोऽध्यायः ॥
उपसंहरति – एषेति । ब्राह्मी स्थितिः – ब्रह्मविषया स्थितिर्लक्षणम् । अन्त-कालेऽप्यस्यां स्थित्वैव ब्रह्म गच्छति । अन्यथा जन्मान्तरं प्राप्नोति । ‘यं यं वाऽपि’ इति वक्ष्यमाणत्वात् । ज्ञानीनामपि सति प्रारब्धकर्माणि शरीरान्तरं युक्तम् । ‘भोगेन त्वितरे ’ इति ह्युक्तम् । सन्ति हि बहुशरीरफलानि कर्माणि कानिचित् । ‘सप्तजन्मनि विप्रः स्यात्’ इत्यादेः । दष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः । तथाह्युक्तम् –
‘स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रौद्रपदं ततः ।
साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादतः’ इति गारुडे ।
‘महादेव परे जन्मंस्तव मुक्तिर्निरूप्यते’ इति नारदीये । निश्चितफलं च ज्ञानम् –
‘तस्य तावदेव चिरम् ’, ‘यदु च नार्चिषमेवाभिसम्भवति’ इत्यादि शृतिभ्यः ।न च कायव्यूहापेक्षा ।
‘तद्यथैषीकातूलम्’ , ‘तद्यथा पुष्करफलाशे’, ‘ज्ञानाग्निः सर्व कर्माणि ’ इत्यादि वचनेभ्यः ।
प्रारब्दे त्वविरोधः । प्रमाणाभावाच्च । न च तच्छास्त्रं प्रमाणम् –
‘अक्षपादकणादानां साङ्ख्ययोगजटाभृताम् ।
मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसः ’ इति निन्दनात् ।
यत्र तु स्तुतिस्तत्र शिवभक्तानां स्तुतिपरत्वमेव न सत्यत्वम् । न हि तेषामपीतरग्रन्थविरुद्धार्थे प्रामाण्यम् । तथा ह्युक्तम्
एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
‘त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज’
प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥इति वाराहे ।
‘कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः ।
चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः ।
दधीच्याद्याः पुराणानि तच्छास्त्रसमयेन तु ।
चक्रुर्वेदैश्च ब्राह्माणि वैष्णवान् विष्णुवेदतः ।
पञ्चरात्रं भारतं च मूलरामायणं तथा ।
तथा पुराणं भागवतं विष्णुवेद इतीरितः ।
अतः शैवपुराणानि योज्यान्यन्याविरोधतः ’ इति च नारदीये ।
अतो ज्ञानीनां भवत्येव मुक्तिः । भीष्मादीनां तु तत्क्षणे युक्त्यभावः ।
‘स्मरंस्त्यजति’ इति वर्तमानापदेशो हि कृतः । तच्चोक्तम् –
‘ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा ।
विष्णुमाया तदा तेषां मनो बाह्यं करोति हि’ इति गारुडे ।
न चान्येषां तदा स्मृतिर्भवति-
‘बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम् ।
भजन्ति तत्स्मृतिं त्वन्ते देवो याति न चान्यथा’ इत्युक्तेर्ब्रह्मवैवर्ते ।
निर्बाणमशरीरम् । ‘कायो बाणं शरीरं च’ इत्यभिधानात् । ‘एतद्बाणमवष्टभ्य’ इति प्रयोगाच्च । निर्बाणशब्दप्रतिपादनम्’अनिन्द्रियाः’ इत्यादिवत् । कथमन्यथा सर्वपुराणादि प्रसिद्धाऽऽकृतिर्भगवत उपपद्यते ? न चान्यद्बगवत उत्तमं ब्रह्म –
‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ’ इति भागवते ।
‘भगवन्तं परं ब्रह्म’ ‘परब्रह्म जनार्दनः’ , ‘परमं यो महद्ब्रह्म ’, ‘यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः’, ‘योऽसावतीन्द्रियग्राह्यः’ , ‘नास्ति नारायणसमं न भूतं न भविष्यति’, ‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इत्यादिभ्यः ।
न च तद्ब्रह्मणोऽशरीरत्वादेतत् कल्प्यम् । तस्यापि शरीरश्रवणात्
‘आनन्दरूपममृतम्’ , ‘सुवर्णज्योतिः’, ‘दहरोऽस्मिन्नन्तराकाशः’ इत्यादिषु । यदि रूपं न स्यात् , आनन्दमित्येव स्यात् , न त्वानन्दरूपमिति । कथं च सुवर्णरूपत्वं स्यादरूपस्य ? कथं दहरत्वम् ? दहरस्थश्च ‘केचित् स्वदेह – ’ इत्यादौ रूपवानुच्यते ।
‘सहस्रशीर्षा पुरुषः’ , ‘रुग्मवर्णं कर्तारम् ’ , ‘आदित्यवर्णं तमसः परस्तात्’, ‘सर्वतः पाणि पादं तत्’, ‘विश्वतश्चक्षुरुत’ इत्यादिवचनात् । विश्वरूपाध्यायादेश्च रूपवानवसीयते । अतिपरिपूर्णतमज्ञानैश्वर्यवीर्यानन्दश्रीशक्त्यादिमांश्च भगवान्
‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ ‘यः सर्वज्ञः’,‘आनन्दं ब्रह्मणः’ ,‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’, ‘अनादिमध्यान्तमनन्तवीर्यम्’,‘सहस्रलक्षामितकान्तिकान्तः’, ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’, ‘विज्ञानशक्तिरहमासमनन्तशक्तेः’, ‘तुर्यं तत् सर्वदृक् सदा’ , ‘आत्मानमन्यं च स वेद विद्वान्’, ‘अन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ’ ¸‘ऐश्वर्यस्य समग्रस्य’ ।
‘अतीव परिपूर्णं ते सुखं ज्ञानं च सौभगम् ।
यच्चात्ययुक्तं स्मर्तुं व शक्तः कर्तुमतः परः ’ इत्यादिभ्यः ।
तानि च सर्वाण्यन्योन्यस्वरूपाणि –
‘विज्ञानमानन्दं ब्रह्म’, ‘आनन्दो ब्रह्मेति व्यजानात् ’,‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘यस्य ज्ञानमयं तपः’, ‘स मा भग प्रविश स्वाहा’ ।
‘न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा ।
न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः’ ॥
‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानाज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः’ इति पैङ्गीखिले ।
‘देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः ।
परिपूर्णश्च सर्वत्र तेन नारायणोऽस्म्यहम्’
इत्यादिभ्यो ब्रह्मवैवर्ते ।
तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया –
‘न च गर्भेऽवसद्देव्या न चापि वसुदेवतः ।
न चापि राघवाज्जातो न चापि जमदग्नितः ।
नित्यानन्दोऽद्वयोऽप्येवं क्रीडतेऽमोघदर्शनः’ इति पाद्मे ।
‘न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्ते हि दुःखं भगवान् वासुदेवः’,
‘सर्गादेरीशिताऽजः परमसुखनिधिर्भोधरूपोऽप्यभोदं लोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम’ ।
‘स ब्रह्मवन्द्यचरणो नरवत् प्रलापी स्त्रीसङ्गिनामिति रतिं प्रथयंश्चकार’,
‘पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम् ।
रुद्रवाक्यमृतं कर्तुमजितो जितवत् स्थितः ॥
‘योऽजितो विजितो भक्त्या गाङ्गेयं न जघान ह ।
न चाम्बां ग्राहयामास करुणः कोऽपरस्ततः’
इत्यादिभ्यश्च स्कान्दे न तत्र संसारधर्मा निरूप्याः ।
यत्र च परावरभेदोऽवगम्यते तत्राज्ञबुद्धिमपेक्ष्यावरत्वम् । विश्वरूपमपेक्ष्यान्यत्र । तच्चोक्तम् –
‘परिपूर्णानि रूपाणि समान्यखिलरूपतः ।
तथाऽप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोऽपि तु ।
परावरं वदन्त्येवं ह्यभक्तानां विमोहने’ इति गारुडे ।
न चात्र किञ्चिदुपचरिता वाच्यम् । अचिन्त्यशक्तेः पदार्थवैचित्र्याच्चेत्युक्तम् ।
‘कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा ।
न चाणुमात्रं भिन्नानि तथाऽप्यस्मान् विमोहसि’ ॥इत्यादेश्च नारदीये ।
तस्मात् सर्वदा सर्वरूपेष्वपरिगणितानानन्तगुणगणं नित्यनिरस्ताशेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञानी ऋच्छतीति सिद्धम् ॥72 ॥
॥इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीता भाष्ये द्वितीयोऽध्यायः ॥
आथ तृतीयोऽध्यायः[править]
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये –
अर्जुन उवाच
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१ ॥
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ ३-२ ॥
कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता ‘दूरेण ह्यवरम् कर्म’ इत्यदौ । एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विनेत्याह – ज्यायसीति । कर्मणः सकाशात् बुद्धिर्ज्यायसी चेत् ते मता तर्हि ॥1,2 ॥
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३-३ ॥
ज्यायस्त्वेऽपि बद्धेराधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह – लोक इति । द्विविधा अपि जनाः सन्ति । गृहस्थाधिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत् । तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः । साङ्ख्यानां ज्ञानीनां सनकादीनाम् । योगिनामुपायिनां जनकादीनाम् । ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोक सङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेऽपि योगिनः । निष्ठा स्थितिः । त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः न तु सनकादिवत् तत्त्यागेनेत्यर्थः । सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयो ज्ञानिन एव । तथाह्युक्तम् – ‘ईश्वरेच्छया विनिवेशितकर्माधिकारः’ इति ॥03 ॥
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ३-४ ॥
इतश्च नियोक्ष्यामीत्याह – न कर्मणामिति । कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं नाश्नुते । ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः । कुतः? पुरुषत्वात् । सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः । यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणाम् । नचाकरणे कर्मभावान्मुक्तिर्भवति । प्रतिजन्मकृता-नामनन्त-कर्माणां भावात् । न च सर्वाणि कर्माणि भुक्तानि । एकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकैकानि बहुजन्मफलानि कानिचित् । तत्रैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम् । ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः । तच्चोक्तम् –
‘जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।
स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते ।
चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।
अतोऽवित्वा परं देवं मोक्षाशा का महामुने’ इति ब्रह्माण्डे ।
यदि सादिः स्यात् संसारः पूर्वकर्माभावादतत्प्राप्तिः । अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते ‘अनिष्टमिष्टम् ’ इति
ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः –
‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्’ इति मानवे ।
अतस्तत्साम्यादकरणेऽपि भवतीत्यत आह – न चेति । संन्यासः काम्यकर्मपरित्यागः । ‘काम्यानां कर्मणाम्’ इति वक्ष्यमाणत्वात् । अकामकर्मणामन्तः-करणशुद्ध्याज्ञानान्मोक्षो भवति । तच्चोक्तम् –
‘कर्मभिः शुद्धसत्त्वस्य वैराग्यं जायते हृदि’ इति भागवते ।विरक्तानामेव च ज्ञानमुक्तम् –
‘न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ’इति ।
न तु फलाभावात् । कर्माभावात् । अतो न कर्मत्याग एव मोक्षसाधनम् । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम् । इतरकर्मोद्योगात् । अप्रयतानां च ज्ञानं । तथाहि शृतिः ‘नाशान्तो नासमाहितः’ इति ।
महांश्चयत्याश्रमे तोषो भगवतः । तथा ह्याह–
यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषिणीम्’
इति नारायणाष्टाक्षरकल्पे ।
अधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः । स एव च महान् भगवत्तोषः । तच्चोक्तम् –
‘देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः ।
विष्णोश्चलति तद्भोगोऽप्यतीव हरितोषणम् ’ इति पाद्मे ॥04 ॥
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ३-५ ॥
न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह – नहीति ॥05 ॥
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३-६ ॥
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३-७ ॥
तथाऽपि शक्तितस्त्यागः कार्य इत्यत आह – कर्मेन्द्रियाणीति । मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह – मनसा स्मरन् मनसा नियम्येति ॥कर्मयोगं स्ववर्णाश्रमोचितम् । न तु गृहस्थकर्मैवेति नियमः । संन्यासादिविधानात् । सामान्यवचनाच्च ॥6, 7 ॥
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ३-८ ॥
अतो नियतं वर्णाश्रमोचितं कर्म कुरु ॥8 ॥
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ३-९ ॥
‘कर्मणा बध्यते जन्तुः’ इति कर्म बन्धकं स्मृतमित्यत आह – यज्ञार्थादिति । कर्म बन्धनं यस्य लोकस्य स कर्मबन्धनः । यज्ञो विष्णुः । यज्ञार्थं सङ्गरहितं कर्म न बन्धमित्यर्थः । मुक्तसङ्ग इति विशेषणात् ।
‘कामान् यः कामयते’ इति श्रुतेश्च । ‘अनिष्टमिष्टम् ’ इति वक्ष्यमाणत्वाच्च । ‘एतान्यपि तु कर्माणि ’ इति च । ‘तस्मान्नेष्टियाजुकः स्यात्’ इति च । विशेषवचनत्वे समेऽपि विशेषणं परिशिष्यते ॥09 ॥
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ ३-१० ॥
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३-११ ॥
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३-१२ ॥
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३-१३ ॥
अत्रार्थवादमाह – सहयज्ञा इति ॥10-13 ॥
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ३-१४ ॥
हेत्वन्तरमाह – अन्नादिति । यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां च तस्य चक्रप्रवेशो न सम्भवति । तद्ध्यापाद्यं कर्मविधये । न तु साम्यमात्रेणेदानीं कार्यम् । मेघचक्राभिमानी च पर्जन्यः । तच्च यज्ञाद्भवति ।
‘अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठति ।
आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः’ इति स्मृतेश्च ।
उभयवचनादादित्यात् सुमुद्राच्चाविरोधः । अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति । यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः । कर्म इतरक्रिया ॥14 ॥
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५ ॥
कर्म ब्रह्मणो जायते । ‘एष ह्येव साधु कर्म कारयति’, ‘बुद्धिर्ज्ञानम् ’ इत्यादिभ्यः । न च मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम् ।
न च जडानां स्वतः प्रवृत्तिः सम्भवति । ‘एतस्य वा अक्षरस्य’ इत्यादि सर्वनियमनश्रुतेश्च । ‘द्रव्यं कर्म च कालश्च’ इत्यादेश्च । अचिन्त्यशक्तिश्चोक्ता । जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा । ‘न कर्तृत्वम्’ इत्यादिनिषेधाच्च । अक्षराणि प्रसिद्धानि । तेभ्यो ह्यभिव्यज्यते परं ब्रह्म । अन्यथाऽनादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्मको जानाति ? न च रूढिं विना योगाङ्गीकारो युक्तः । परामर्शाच्च- ‘तस्मात् सर्वगतं ब्रह्म’ इति । न ह्येकशब्देन द्विरुक्तेन भेदशृतिं विना वस्तुद्वयं कुत्रचिदुच्यते ।
तानि चाक्षराणि नित्यानि । ‘वाचा विरूप नित्यया’ , ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा’ , ‘अत एव च नित्यत्वम्’ इत्यादि शृतिस्मृतिभगवद्वचनेभ्यः ।
दोषश्चोक्तः सकर्तृकत्वे । न चाबुद्धिपूर्वमुत्पन्नानि । तत्प्रमाणाभावात् । निश्वसितशब्दस्त्वक्लेशाभिप्रायः । नाबुद्धिपूर्वाभिप्रायः । ‘सोऽकामयत’ इत्यादेश्च । ‘इष्टं हुतम्’ इत्यादिरूपप्रपञ्चेन सहाभिधानाच्च । महातात्पर्यविरोदाच्च । तच्चोक्तं पुरस्तात् । न ह्यस्वातन्त्र्येणोत्पत्तिकर्तुः प्राधान्यम् । अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति । यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि ।
उत्पत्तिवचनान्यभिव्यक्त्यर्थान्यभिमानिदेवताविषयाणि च । ‘नित्या’ इत्युक्त्वा ‘उत्सृष्टा’ इति वचनात् । अभिव्यञ्जके कर्तृवचनं चास्ति । ‘कृत्स्नं शतपथं चक्रे’ इति । कथमादित्यस्थावेदास्तेनैव क्रियन्ते । वचनमात्राच्च निर्णयात्मकशारीरकोक्तं बलवत् ।
शास्त्रं योनिर्यस्येति तु शास्त्रयोनित्वम् । ‘जन्माद्यस्य यतः’ इत्युक्ते प्रमाणं हि तत्रापेक्षितम् । न तु तस्य जातत्वं वेदकारणत्वं वा । नहि वेदकारणत्वं जगत्कारणत्वे हेतुः । न हि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्त्या सृज्यत्वे । न च सर्वज्ञत्वे । यदिर्वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा ? तस्माद्वेदप्रमाणकत्वमेवात्र विवक्षितम् । अतो नित्यान्यक्षराणि ।
यत एवं परम्परया यज्ञाभिव्यङ्गं ब्रह्म तस्मात् तन्नित्यं यज्ञे प्रतिष्ठितम् । तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम् ॥15 ॥
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ ३-१६ ॥
तदेतत् जगच्चक्रं यो नानुवर्तयति स तद्विनाशकत्वादघायुः । पापनिमित्तमेव यस्यायुः सोऽघायुः ॥16 ॥
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३-१७ ॥
तर्ह्यतीव मनःसमाधानमपि न कार्यमित्यत आह – यस्त्विति । रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिरन्यत्रालम्बुद्धिः । सन्तोषस्तज्जनकं सुखम् । ‘सन्तोषस्तृप्तिकारणम्’ इत्यभिधानात् । परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः । अन्यत्र सर्वात्मनाऽलम्बुद्धिं च । महच्च तत् सुखम् । तेनैवान्यत्रालम्बुद्धिरिति दर्शयति आत्मन्येव च सन्तुष्ट इति । तत्स्थ एव सन् सन्तुष्ट इत्यर्थः । नान्यत् किमपि सन्तोषकारणमित्यवधारणम् । आत्मना तृप्तः । नह्यात्मन्यलम्बुद्धिर्युक्ता । तद्वाचित्वं च ‘वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः’ इति प्रयोगात् सिद्धम् । अध्याहारस्त्वगतिका गतिः । ‘आत्मरतिरेव’ इत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते ।
‘स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा ।
स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता’ इति वचनाच्च पञ्चरात्रे ।
अन्यदाऽन्यरतिरपीषत् सर्वस्य भवति । न च तत्रालम्बुद्धिमात्रमुक्तम् । आत्मतृप्त इति पृथगभिधानात् । कर्तृशब्दः कालावच्छेदे चायं प्रसिद्धः ‘यो भुङ्ते स तु न ब्रूयात् ’ इत्यादौ । अतोऽसम्प्रज्ञातसमाधावेवैतत् । मानव इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति । ‘मनु अवबोधने’ इति धातोः । परमात्मारतिश्चात्र विवक्षिता । ‘विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि’ इति वचनात् ॥17 ॥
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३-१८ ॥
तस्य ‘कर्मकाले वक्तव्योऽहम्’ इति किञ्चित् प्रत्युक्त्वा तत्कृतावात्मरत्यधिकः समो वाऽर्थो नास्ति । न च सन्ध्याद्यकृतौ कश्चिद्दोषोऽस्ति । न चैतदपहाय सर्वभूतेषु कश्चित् प्रयोजनाश्रयः । अर्थो येन दर्शनादिना भवति सोऽर्थव्यपाश्रयः । ज्ञानमात्रेण प्रत्यवायो यद्यपि न भवति । तदर्जुनस्यापि सममिति । न तस्य कर्मोपदेशयोग्ये तद्भवति । ईषत् प्रारब्दानर्थसूचकं च तद्भवति । महच्चेद् वृत्रहत्यादिवत् ॥18 ॥
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३-१९ ॥
यतोऽसम्प्रज्ञातसमाधेरेव कार्याबावस्तस्मात् कर्म समाचर ॥19 ॥
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३-२० ॥
आचारोऽप्यस्तीत्याह – कर्मणैवेति । कर्मणा सह, कर्म कुर्वन्त एवेत्यर्थः । कर्म कृत्वैव ततो ज्ञानं प्राप्य वा । न तु ज्ञानं विना । प्रसिद्धं हि तेषांज्ञानित्वं भारतादिषु । ‘तमेवं विद्वानमृत इह भवति’ इत्यादि श्रुतिभ्यश्च । अत्रापि कर्माणां ज्ञानसाधनत्वोक्तेश्च ‘बुद्धियुक्तः’ इति गत्यन्तरं च ‘नान्यः पन्थाः’ इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराऽप्यविरोधः । यत्र च तीर्थाऽद्येव मुक्तिसाधनमुच्यते –
‘ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा ।
अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ’ इत्यादौ
तत्र पापादिमुक्तिः ।स्तुतिपरता च ।तत्रापि हि कुत्रचिद्ब्रह्मज्ञानसाधनत्वमेवोच्यतेऽन्यथामुक्तिं निषिद्ध्य –
‘ब्रह्मज्ञानं विनामुक्तिर्न कथञ्चिदपीष्यते ।
प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि’ इत्यादौ ।
न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽप्युक्तं ज्ञाननियमं घ्नन्ति । यथा कङ्चिद्दक्षं भृत्यं प्रत्युक्तानि ‘अयमेव हि राजा किं राज्ञा’ इत्यादीनि । यथाऽऽह भगवान् –
‘यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च ।
स्तावाकान्येव तानि स्युरज्ञानां मोहकानि वा ।
भवेन्मोक्षस्तुमद्धृष्टेर्नान्यतस्तु कथंचन’ इति नारदीये ।
अतोऽपरोक्षज्ञानादेव मोक्षः । कर्म तु तत्साधनमेव ॥20 ॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३-२१ ॥
स यत् वाक्यादिकं प्रमाणं कुरुते, यतुक्तप्रकारेण तिष्ठतीत्यर्थः ॥21 ॥
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३-२२ ॥
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३-२३ ॥
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ३-२४ ॥
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ ३-२५ ॥
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ३-२६ ॥
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ३-२७ ॥
विद्वदविदुषोः कर्मभेदमाह – प्रकृतेरिति । प्रकृतेर्गुणैः इन्द्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि । तत्सम्बन्धीनि च । न हि प्रतिबिम्बस्य क्रिया ॥27 ॥
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ ३-२८ ॥
कर्मभेदस्य गुणभेदस्य च तत्त्ववित् । गुणाः -इन्द्रियादीनि । गुणेषु विषयेषु ॥28 ॥
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ ३-२९ ॥
प्रकृतेर्गुणेषु इन्द्रियादिषु सम्मूढाः । इन्द्रियाद्यभिमानाद्धि विषयादिसङ्गः । गुणकर्मसु विषयेषु कर्मसु च-
‘शब्दाद्या इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च ।
अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः’ इत्यभिधानात् ।
सत्वाद्यङ्गीकारे “गुणा गुणेषु” इत्ययुक्तं स्यात् ॥29 ॥
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३-३० ॥
अतः सर्वाणि कर्माणि मय्येव संन्यस्य, भ्रान्त्या जीवेऽध्यारोपितानि मय्येव विसृज्य भगवानेव सर्वाणि कर्माणि करोतीति, मत्पूजेति च । आत्मानमधिकृत्य यच्चेतस्तदध्यात्मचेतः । संन्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ॥30 ॥
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३-३१ ॥
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३-३२ ॥
फलमाह – ये म इति । ये त्वेवं निवृत्तकर्मिणस्तेऽपि मुच्यन्ते ज्ञानद्वारा । किम्वपरोक्षज्ञानिनः ? न तु साधनान्तरमुच्यते –
‘निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये ।
अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते ।
सर्वं तदन्तराधाय मुक्तयो साधनं भवेत् ।
न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक् ‘
इति ह्युक्तं नारायणाष्टाक्षरकल्पे ।
अथ एव समुच्चयनियमो निराकृतः ॥31-32 ॥
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३-३३ ॥
एवं चेत् किमिति ते मतं नानुतिष्ठन्ति लोका इत्यत आह – सदृशमिति । प्रकृतिः – पूर्वसंस्कारः ॥33 ॥
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३-३४ ॥
तथाऽपि शक्तितो निग्रहः कार्यः । निग्रहात् सद्यः प्रयोजनाभावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह – इन्द्रियस्येति । तथाह्युक्तम्
‘संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः ।
तथाऽपि सोऽन्यथाकर्तुं शक्यतेऽतिप्रयत्नतः’ इति ॥34 ॥
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३-३५ ॥
तथाऽप्युग्रं युद्धं कर्मेत्यत आह – श्रेयानिति ॥35 ॥
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३-३६ ॥
बहवः कर्मकारणाः सन्ति क्रोधादयः कामश्च । तत्र को बलवानिति पृच्छति – अथेति । अथेत्यर्थान्तरम् । ‘तर्योर्न वशमागच्छेत्’ इति प्रश्नप्रापकम् ॥36 ॥
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७ ॥
यस्तु बलवान् प्रवर्तकः स एष कामः । क्रोधोऽप्येष एव । तज्जन्यत्वात् । ‘कामात् क्रोधोऽभिजायते’ इति ह्युक्तम् । यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्ता निन्दा कामनिमित्त एव । ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति । उक्तं च-
‘ऋते कामं न कोपाद्या जायन्ते हि कथञ्चन’ इति ।
महाशनः । महद्धि कामभोग्यम् । महाब्रह्महत्यादि कारणत्वान्महापाप्मा । सर्व पुरुषार्थविरोधित्वाद्वैरी ॥37 ॥
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३-३८ ॥
कथं विरोधि सः ? इदमनेनावृतम् । यथा धूमेनाग्निरावृतः प्रकाशरूपोऽप्यन्येषां सम्यगदर्शनाय तथा परमात्मा । यथाऽऽदर्शो मलेनावृतोऽन्याभिव्यक्तिहेतुर्न भवति तथाऽन्तःकरणं परमात्मादेर्व्यक्तिहेतुर्न भवति कामेनावृतम् । यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः ॥38 ॥
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३-३९ ॥
शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेनावृतं ज्ञानिनोऽपि ।किमु अल्पज्ञानिनः ? कामरूपेण कामाख्येन नित्यवैरिणा । दुष्पूरेण । दुःखेन हि कामः पूर्यते । नहीन्द्रादिपदं सुखेन लभ्यते । यद्यपीन्द्रादिपदं प्राप्तं पुनर्ब्रह्मादिपदमिच्छतीत्यलंबुद्धिर्नास्तीत्यनलः । उक्तं च
‘ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा ।
आदर्शस्याथ जीवस्य गर्भस्योल्भो हि कामकः’ इति ॥39 ॥
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ३-४० ॥
वधार्थं शत्रोरधिष्ठानमाह – इन्द्रियाणीति । एतैर्ज्ञानमावृत्य । बुद्ध्यादिभिर्हि विषयगैर्ज्ञानमावृतं भवति ॥40 ॥
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३-४१ ॥
हृताधिष्ठानो हि शत्रुर्नश्यति ॥41 ॥
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२ ॥
शत्रु हनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह – इन्द्रियाणीति । ‘असङ्गज्ञानासिमादाय तरातिपारम्’ इति ह्युक्तम् । शरीरादीन्द्रियाणि पराणि उत्कृष्टानि । न केवलं बुद्धेः परः । श्रुत्युक्तप्रकारेणाव्यक्तादपि । ‘अव्यक्तात् पुरुषः परः ’ इति श्रुतिः ।
न च तत्रतत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः । सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेऽभिहितः ‘आनन्दादयः प्रधानस्य’ इत्यादिना । तथा चान्यत्र –
‘अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि ।
सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये ।
सर्वैस्तैः सह विज्ञाय यो पश्यन्ति परं हरिम् ।
तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन’ इति गारुडे ।
तस्मादव्यक्तादपि परत्वेन ज्ञेयः ।
न चात्र जीव उच्यते । ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इत्युक्तत्त्वात् ॥42 ॥
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३ ॥
‘अविज्ञाय परं मत्तो जयः कामस्य वै कुतः’ इति च ।
अतः परमात्मज्ञानमेवात्र विवक्षितम् ।
आत्मानं मनः । आत्मना बुद्ध्या ॥43 ॥
॥इति श्रीमदानन्दतीर्थभगवद्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः ॥[править]
बुद्धेः परस्य महात्म्यं कर्मभेदो ज्ञानमाहात्म्यं चोच्यतेऽस्मिन्नध्याये-
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१ ॥
पूर्वानुष्ठितश्चायं धर्म इत्याह – इममिति ॥01 ॥
स कालेनेह महता योगो नष्टः परन्तप ॥ ४-२ ॥
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३ ॥
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४ ॥
‘मयि सर्वाणि’ इत्युक्तं तन्माहात्म्यमादितो ज्ञातुं पृच्छति – अपरमिति ॥04 ॥
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५ ॥
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६ ॥
न तर्ह्यनादिर्भवानित्यत आह – अजोऽपीति । अव्यय आत्मादेहोऽपीत्यव्य-
यात्मा ।
‘अनन्तं विश्वतोमुखम्’इति हि रूपविशेषणमुत्तरत्र ।
‘एतन्नानावतारणां निधानं बीजमव्ययम्’ इति च ।
‘जगृहे’ इति तु व्यक्तिः । युक्तयस्तूक्ताः । आत्मानादित्वं तु सर्वसमम् । कथमनादित्यस्य जनिः? प्रकृतिं स्वामधिष्ठाय । प्रकृत्या जातेषु वसुदेवादिषु । तथैव तेषां जात इव प्रतीयत इत्यर्थः । न तु स्वतन्त्रामधिष्ठायेत्याहस्वामिति । ‘द्रव्यं कर्म च’इति ह्युक्तम् । सा हि तत्रोक्ता । ततः सर्वसृष्टेः आत्ममायया आत्मज्ञानेन । प्रकृतेः पृथगभिधानात् ।
‘केतुः केतश्चितिश्चित्तं मतिः क्रतुर्मनीषा माया’ इति ह्यभिधानम् ।
सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकयाऽजात एव जात इव प्रतीयते वा । उक्तं च –
‘महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता ।
विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोऽपि हि ।
जातवत् प्रथते ह्यात्मजिद्बलान्मूढचेतसाम्’ इति
ईश्वरः ईशेभ्योऽपि वरः । तच्चोक्तम् –
‘ईशेभ्यो ब्रह्मरुद्रश्रीषादिभ्यो यतो भवान् ।
वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित्’ इति ब्रह्मवैवर्ते
‘समर्थ ईश इत्तुक्तस्तद्वरत्वात् त्वमीश्वरः’ इति च ॥06 ॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७ ॥
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८ ॥
न जन्मनैव परित्राणादिकं कार्यमिति नियमः । तथाऽपि लीलया स्वभावेन च यथेष्टाचारी । तथा ह्युक्तम् –
‘दवस्यैष स्वभावोऽयम्’, ‘लोकवत् तु लीलाकैवल्यम्’,
‘क्रीडतो बालकस्येव चेष्टां तस्य निशामय’,
‘अरिभयादिव स्वयं पुराद्व्यवात्सीद्यदनन्तवीर्यः’,
‘पूर्णोऽयमस्यात्र न किञ्चिदाप्यं तथऽपि सर्वाः कुरुते प्रवत्तिः ।
अतो विरुद्देषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः’
इत्यादि ऋग्वेदखिलेषु ॥08 ॥
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४-९ ॥
पृथङ्मुक्त्युक्तिः सर्वज्ञाननियमदर्शनार्थम् । न तु तावन्मात्रेण मुक्तिरित्युक्तम् ।
‘वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम् ।
तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित्’ – इत्युक्तेश्च महाकौर्मे ।
अत्रोक्तस्यैतज्ञात्वैव जन्म नैतीति गतिः इतरवाक्यानां नान्या गतिः ‘नान्यस्य कस्यचित्’ इति विशेषणात् । ‘तत्त्वतः’ इति विशेषेणा च्च सर्वज्ञानमापतति । यत्रैवं भवति तत्र तत्त्वतः इति विशेषणेन न विरोधः । उक्तं च –
‘एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः ।
न समर्थो महेन्द्रोऽपि तस्मात् सर्वत्र जिज्ञसेत्’ इति स्कान्दे ॥09 ॥
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४-१० ॥
सन्ति च तथा मुक्ता इत्याह – वितरागेति । मन्मया मत्प्रचुराः । सर्वत्र मां विना न किञ्चित् पश्यन्तीत्यर्थः ॥10 ॥
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११ ॥
न च मद्भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण । तथाऽपि सर्वेषामानुरूप्येण फलं ददामीत्याह – ये यथेति । सेवयामि फलदानेन । न तु गुणभावेन । कथमयं विशेष इत्यत आह – मम वर्त्मेति । अन्यदेवता यजन्तोऽपि मम वर्त्मैवानुवर्तन्ते । सर्वकर्मकर्तृत्वाद्भोक्तृत्वाच्च मम । ‘येऽप्यन्यदेवताभक्ता’ इति हि वक्ष्यति । ‘यो देवानां नामधा एक एव’ इति श्रुतिः । भगवानेव च तत्राभिधीयते । ‘अजस्यनाभावद्येकमर्पितम्’ इति लिङ्गात् ॥11 ॥
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४-१२ ॥
कुतो मम वर्त्मानुवर्तन्ते ? – क्षिप्रं हि । अत एव हि फलप्राप्तिः । ‘तस्मात् ते धनसनयः’ इति श्रुतिः ॥12 ॥
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४-१३ ॥
अहमेव हि कर्तेत्याह चातुर्वर्ण्यमिति । चतुर्वर्णसमुदायः । सात्त्विको बाह्मणः । सात्विक राजसः क्षत्रियः । राजसतामसो वैश्यः । तामसः शूद्र इति गुणविभागः । कर्मविभागास्तु ‘शमो दमः’ इत्यादिना वक्ष्यते । क्रियायां वैलक्षण्यात् कर्ताऽप्यकर्ता । तथाहि श्रुतिः ‘विश्वकर्मा विमनाः’ इत्यादि । ‘तनुर्विद्या क्रियाऽऽकृतिः’ इत्यादि च । साधितं चैतत् पुरस्तात् ॥13 ॥
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४ ॥
अत एव न मां कर्माणि लिम्पन्ति । इतश्च न लिम्पन्तीत्याह – न मे कर्मफले
स्पृहा । इच्छामात्रं त्वस्ति । न तु तत्राभिनिवेशः । तच्चोक्तम्
‘आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत् परः ।
नह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तु’ इति ।
न च केचिन्मुकाभवन्तीति क्रमेण सर्वमुक्तिः । तथाहि श्रुतिः –
‘ज्ञात्वा तमेनं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वानिति कथं वा इत्यनन्ता इत्यनन्तवदिति होवाच’ इति ॥14 ॥
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५ ॥
एवं ज्ञात्वाऽपि कर्मकरण आचारोऽप्यस्तीत्याह- एवमिति । पूर्वतरं कर्म पूर्वभावीत्यर्थः ॥15 ॥
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४-१६ ॥
कर्म कुर्वित्युक्तम् । तस्य कर्मणो दुर्विज्ञेयत्वमाह सम्यगुक्तम् – किं कर्मेति ॥16 ॥
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४-१७ ॥
न केवलं तज्ज्ञात्वा मोक्षसे, ज्ञात्वैवेत्याशयवानाह – कर्मण इति । तच्चोक्तम्-
‘अज्ञात्वा भगवान् कस्य कर्माकर्मविकर्मकम् ।
दर्शनं याति हि मुने कुतो मुक्तिश्च तद्विना’ इति ।
अकर्म – कर्माकारणम् । कर्माकर्मान्यद्विकर्म, निषिद्दकर्म । बन्धकत्वात् । ततो विविच्य कर्मादि बोद्धव्यमित्यादि । न च शापादिना । कवयोऽप्यत्र मोहिताः । अशक्यं चैतज्ज्ञातुमित्याह गहनेति ॥17 ॥
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४-१८ ॥
कर्मादिस्वरूपमाह – कर्मणीति । कर्मणि क्रियमाणे सति अकर्म यः पश्येत् विष्णोरेव कर्म नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति । अकर्मणि सुप्त्यादावकरणावस्थायां परमेश्वरस्य यः कर्म पश्यति अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादि करोतीति । स बुद्धिमान् – ज्ञानी । स एव च युक्तो -योगायुक्तः । सर्वाकरणात् स एव च कृत्स्नकर्मकृत् – कृत्स्नफलवत्वात् ॥18 ॥
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४-१९ ॥
एतदेव प्रपञ्चयति – यस्येत्यादिश्लोकपञ्चकेन । उक्तप्रकारेण ज्ञानाग्निदग्धकर्माणम् ॥19 ॥
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४-२० ॥
न च कामसङ्कल्पाभावेनालम् । आसङ्गं स्नेहं च त्यक्त्वा । ज्ञानस्वरूपमाह- पुनः नित्यतृप्त इति । नित्यतृप्तनिराश्रयेश्वरसरूपोऽहमस्मीति तथाविधः ॥20 ॥
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१ ॥
कामादित्यागोपायमाह-निराशीरिति । यतचित्तात्मा भूत्वा निराशीरित्यर्थः । आत्मा – मनः । परिग्रहत्यागोऽनभिमानम् । नैव किञ्चित् करोतीत्य-स्याभिप्रायमाह – नाप्नोति किल्बिषमिति ॥21 ॥
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२ ॥
यतचित्तात्मनो लक्षणमाह – यदृच्छालाभेति । कथं द्वन्द्वादीतत्वमित्यत आह- समः सिद्धाविति ॥22 ॥
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४-२३ ॥
उपसंहरति – गतसङ्गस्येति । गतसङ्गस्य – फलस्नेहरहितस्य । मुक्तस्य शरीराद्यन-भिमानिनः ज्ञानावस्थितचेतसः – परमेश्वरज्ञानिनः ॥23 ॥
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४-२४ ॥
ज्ञानावस्थितचेतस्त्वं स्पष्टयति – ब्रह्मार्पणमिति । सर्वमेतद्ब्रह्मेत्युच्यते । तदधीनसत्ताप्रतीतित्वात् । न तु तत्स्वरूपत्वात् । उक्तं हि –
‘त्वदधीनं यतः सर्वमतः सर्वो भवानिति ।
वदन्ति मुनयः सर्वे न तु सर्वस्वरूपतः’ इति पाद्मे ।
‘सर्वं तत्प्रज्ञानेत्रम्’ इति च । ‘एतं ह्येव बह्वृचाः’ इत्यादि च । समाधिना सह ब्रह्मैव कर्म ॥24 ॥
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४-२५ ॥
यज्ञभेदानाह – दैवमित्यादिना । दैवं – भगवन्तम् । स एव तेषां यज्ञः । भगवदुपासनम् । यज्ञमिति क्रियाविशेषणम् । नान्यत् तेषामस्ति यतीनां केषाञ्चित् । यज्ञं – भगवन्तम् । ‘यज्ञेन यज्ञम्’ , ‘यज्ञो विष्णुर्देवता’ इत्यादि श्रुतिभ्यः । यज्ञेन प्रसिद्धेनैव । यज्ञं प्रति जुह्वतीति सर्वत्रं समं, ‘तं यज्ञम्’ इत्यादौ । उक्तं च-
‘विष्णुं रुद्रेण पशुना ब्रह्माज्येष्ठेन सूनुना । अयजन्मानसे यज्ञे पितरं प्रपितामहः’ इति ॥25 ॥
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४-२६ ॥
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७ ॥
आत्मसंयमाख्योपायाग्नौ ॥27 ॥
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८ ॥
द्रव्यं जुह्वतीति द्रव्ययज्ञाः । तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञा इत्यादि । इदं तपो हविः, एतद्ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः । तदर्पण एव च होमबुद्धिः ॥28 ॥
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९ ॥
अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति, अपानं च प्राणे । कुम्भकस्था एव भवन्तीत्यर्थः ॥29 ॥
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३० ॥
नियताहारत्वेनैव प्राणशोषात् प्राणान् प्राणेषु जुह्वति । ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’ इत्यादिश्रुत्युक्तप्रकारेण वा । अन्यदपि ग्रन्थान्तरे सिद्धम्-
‘यदस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः’ इति ॥30 ॥
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१ ॥
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४-३२ ॥
ब्रह्मणः – परमात्मनो, मुखे ।
‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इति हि वक्ष्यति ।
मानसवाचिककायिककर्मजा एव हि ते सर्वे । एवं ज्ञात्वा तानि कर्माणि कृत्वा, विमोक्ष्यसे । युद्धं परित्यज्य यन्मोक्षार्थं करिष्यसि तदपि कर्म । अतो विहितं न त्याज्यमिति भावः ॥32 ॥
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३ ॥
अखिलं – उपासनाद्यङ्गयुक्तम् । ज्ञानफलमेवेत्यर्थः ॥33 ॥
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४ ॥
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५ ॥ var अशेषाणि
इदानीमपि ज्ञान्येव । तथाऽप्यभिभवान्मोहः । मा तूक्ता । येन ज्ञानेन मय्यात्मभूते सर्वभूतानि अथो तस्मादेव मोहनाशात् पश्यसि ॥35 ॥
करणभूतं ज्ञानं स्तौति – पुनः श्लोकत्रयेण ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६ ॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७ ॥
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८ ॥
तत्साधनं विरोधिफलं च तदुत्तरैरुक्त्वोपसंहरति ॥38 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः ॥
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९ ॥
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४० ॥
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१ ॥
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२ ॥
॥इति श्रीमद्भगवद्गीतायां चतुर्थोऽध्यायः ॥
अथ पञ्चमोऽध्यायः ॥[править]
तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन ‘यद्दृच्छालाभ – सन्तुष्टः’ इत्यादि संन्यासम्, ‘कुरु कर्मैव’ इत्यादि कर्मयोगं च –
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१ ॥
नियमनादिना सकललोककर्षणात् कृष्णः ।
‘यतः कर्षसि देवेश नियम्य सकलं जगत् ।
अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः’ इति महाकौर्मे ।
संन्यासशब्दार्थं भगवानेव वक्ष्यति । अयं प्रश्नाशयः यदि संन्यासः श्रेयोऽधिकः स्यात् तर्हि संन्यासस्येषद्विरोधि युद्धमिति ॥01 ॥
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ५-२ ॥
नायं संन्यासो यत्याश्रमः –
‘द्वन्द्वत्यागात् तु संन्यासात् मत्पूजैव गरीयसि’ इति वचनात् ।
‘तानि वा एतान्यवराणि तपांसि, न्यास एवात्यरेचयत्’ इति च ।
‘संन्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः ।
न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते ।
तद्भक्तोऽपि हि यद्गच्छेत् तद्गृहस्थो न धार्मिकः ।
मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते ।
यदाऽधिकारो भवति ब्रह्मचर्यापि प्रव्रजेत्’ इति नारदीये ।
‘ब्रह्मचर्यादेव प्रव्रजेत्’ , ‘यदहरेव विरजेत्’ इति च ।
‘संन्यासे तु तुरीये वै प्रीतिमर्म गरीयसि ।
येषामत्राधिकारो न तेषां कर्मेति निश्चयः’ इत्यादेश्च ब्राह्मे ।
अतो नात्राश्रमः संन्यास उक्तः ॥02 ॥
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५-३ ॥
संन्यासशब्दार्थमाह – ज्ञेय इति । संन्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति ज्ञेय इति ॥03 ॥
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ५-४ ॥
संन्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः – ‘न तस्य तत्त्वग्रहणाय’ इत्यादौ । अतः कथं सोऽवम इत्यत आह -साङ्ख्ययोगाविति । उभयोरप्यन्तरङ्गत्वेनाविरोधः ।
‘अग्निमुग्दो ह वै धूमतान्तः स्वं लोकं न प्रतिजानाति’
‘मा वः पदव्यः पितरस्मदाश्रिता या यज्ञशालासनधूमवर्त्मनाम्’
इत्यादितु काम्यकर्मविषयमिति भावः । ये त्वन्यथा वदन्ति ते बालाः ॥04 ॥
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५-५ ॥
‘एकमपि’ इत्यस्याभिप्रायमाह – यत् साङ्खैरिति । योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इत्यर्थः ॥05 ॥
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५-६ ॥
इत्यश्च संन्यासाद्योगो वर इत्याह – संन्यासस्त्विति । योगाभावे मोक्षादिफलं न भवति । अतः कामजयादिदुःखमेव तस्य । मोक्षाद्येव हि फलम्; अन्यत् फलमल्पत्वादफलमेवेत्याशयः । तच्चोक्तम्
‘विना मोक्षं फलं यत् तु न तत् फलमुदीर्यते’ इति पाद्मे ।
यत् तु महाफलयोग्यं तस्याल्पं फलमेव न भवति । यथा पद्मरागस्य तण्डुलमष्टिः । महफलश्य योगयुक्तश्चेत् संन्यास इत्याह – योगयुक्त इति । मुनिः -संन्यासी । तच्चोक्तम् –
‘स हि लोके मुनिर्नाम यः कामक्रोधवर्जितः’ इति ॥06 ॥
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५-७ ॥
एतदेव प्रपञ्चयति – योगयुक्त इति । सर्वभूतात्मभूतः – परमेश्वरः । ‘यच्चाप्नोति’ इत्यादेः । स आत्मभूतः – स्वसमीपं प्रत्यादानादिकर्ता यस्य सः सर्वभूतात्मभूतात्मा ॥07 ॥
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८ ॥
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५-९ ॥
संन्यासं स्पष्टयति पुनः श्लोकद्वयेन ॥08,09 ॥
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१० ॥
संन्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह – ब्रह्मणीति । साधननियमस्योपचारत्वनिवृत्त्यर्थं पुनः पुनः फलकथनम् ॥10 ॥
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११ ॥
एवं चाचार इत्याह – कायेनेति ॥11 ॥
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२ ॥
पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफलमाह – युक्त इति । युक्तो -योगयुक्तः ॥12 ॥
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५-१३ ॥
पुनः संन्यासशब्दार्थं स्पष्टयति – सर्वकर्माणीति । मनसेतिविशेषणादभिमानत्यागः ॥13 ॥
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५-१४ ॥
न च करोति वस्तुत इत्याह – न कर्तृत्वमिति । प्रभुर्हि जीवो जडमपेक्ष्य ॥14 ॥
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५-१५ ॥
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५-१६ ॥
ज्ञानमेवाज्ञाननाशकमित्याह – ज्ञानेनेति । प्रथमज्ञानं परोक्षम् ॥16 ॥
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५-१७ ॥
अपरोक्षज्ञानाव्यवहितसाधनमाह – तद्बुद्धय इति ॥17 ॥
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८ ॥
परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनमित्याशयवानाह – विद्येति ॥18 ॥
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९ ॥
तदेव स्तौति – इहैवेति ॥19 ॥
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२० ॥
संन्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण –
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५-२१ ॥
पुनर्योगस्याधिक्यं स्पष्टयति – भाह्यास्पर्शेष्विति । कामरहितः आत्मनि यत् सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत् तदेवाक्षयं सुखं विन्दति । ब्रह्मविषयो योगो – ब्रह्मयोगः । ध्यानादियुक्तस्यैवात्मसुखमक्षयमन्यथा नेत्यर्थः ॥21 ॥
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२ ॥
संन्यासार्थं कामभोगं निन्दयति – यो हीति ॥22 ॥
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५-२३ ॥
तत्परित्यागं प्रशंसति – शक्नोतीति । कामक्रधोद्भवं वेगं सोढुं शक्नोति, शरीरविमोक्षणात् प्राक् । यथा मनुष्यशरीरे सोढुं सुशकं तथा नान्यत्रेति भावः । ब्रह्मलोकादिस्तुजितकामानामेव भवति ॥23 ॥
ज्ञानिलक्षणं प्रपञ्चयत्युत्तरश्लोकैः –
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५-२४ ॥
आरामः – परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं पद्रवक्षयव्यक्तम् । अत्र तु कामादिक्षये व्यक्तमात्मसुखम् । स्वयंज्योतिष्ट्वाद्बगवतस्तद्व्यक्तेरन्तर्ज्योतिः । सर्वेषामन्तर्ज्योतिष्ट्वेऽपि व्यक्तेर्विशेषः । असम्प्रज्ञातसमाधीनां बाह्यादर्शनात् । दर्शनेऽप्यकिञ्चित्करा-देवशब्दः । उक्तं चैतत् –
‘दर्शनस्पर्शसम्भाषाद्यत् सुखं जायते नृणाम् ।
आरामः स तु विज्ञेयः सुखं कामक्षयोदितम्’ इति नारदीये ।
‘स्वज्योतिष्ट्वान्महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितः’ इति च
अन्तःसुखत्वादेः कारणमाह – ब्रह्मणि भूत इति ॥24 ॥
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५-२५ ॥
पापक्षयाच्चैतद्भवतीत्याह – लभन्त इति । क्षीणकल्मषा भूत्वा छिन्नद्वैधा-यतान्मानः । द्वैधाभावो द्वैधं, संशयो विपर्ययो वा – तच्चोक्तम् –
‘विपर्ययः संशयो वा यद्द्वैधं त्वकृतात्मनाम् ।
ज्ञानासिना तु तच्छित्त्वा मुक्तसङ्गः परं व्रजेत्’ इति ।
छिन्नद्वैधास्त एवायतात्मानः दीर्घमनसः ।सर्वज्ञा इत्यर्थः ।तत एव छिन्नद्वैधाः ।तच्चोक्तम्–
‘क्षीणपापा महाज्ञाना जायन्ते गतसंशयाः’ इति ।
छिन्नद्वैधाः यतात्मान इति वा ॥25 ॥
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५-२६ ॥
सुलभं च तेषां ब्रह्मेत्याह – कामक्रोधेति । अभितः – सर्वतः ॥26 ॥
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७ ॥
ध्यानप्रकारमाह – स्पर्शानित्यादिना । बाह्यान् स्पर्शान् बहिष्कृत्वा । श्रोत्रादीनि योगेन नियम्येत्यर्थः । चक्षुः भ्रुवोरन्तरे कृत्वा । भ्रुवोर्मध्य-मवलोकयन्नित्यर्थः । उक्तं च ।
‘नासाग्रे वा भ्रुवोर्मध्ये ज्ञानी चक्षुर्निधापयेत्’ इति ।
प्राणापानौ समौ कृत्वा – कुम्भके स्थित्वेत्यर्थः ॥27 ॥
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८ ॥
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९ ॥
॥इति श्रीमद्भगवद्गीतायां पञ्चमोऽध्यायः ॥
ध्येयमाह – भोक्तारमिति ॥29 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः ॥
अथ षष्ठोऽध्यायः[править]
ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१ ॥
विवक्षितं संन्यासमाह योगेन सह – अनाश्रित इति । चतुर्थाश्रमिणोऽप्यग्निः क्रीया चोक्ता ‘दैवमेव’ इत्यादौ ।
‘अग्निर्ब्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृता’ इति च
तस्मान्निरग्निरक्रियः संन्यासी योगी च न भवत्येव ॥01 ॥
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ ६-२ ॥
संन्यासोऽपि योगान्तर्भूत इत्याह – यं संन्यासमिति । कामसङ्कल्पाद्यपरित्यागे कथमुपायवान् स्यादित्याशयः ॥02 ॥
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ६-३ ॥
कियत्कालं कर्म कर्तव्यमित्यत आह -आरुरुक्षोरिति । योगमारुरुक्षोः -उपायसम्पूर्तिमिच्छोः । योगारूढस्य – सम्पूर्णोपायस्य । अपरोक्षज्ञानिन इत्यर्थः । कारणं – परमसुखकारणम् । अपरोक्षज्ञानिनोऽपि समाध्यादि फलमुक्तम् । तस्य सर्वोपशमेन समाधिरेव कारणं प्राधान्ये-नेत्यर्थः । तथाऽपि यदा भोक्तव्योपरमस्तदैव सम्यगसंप्रज्ञात-समाधिर्जायते । अन्यदा तु भगवच्चरितादौ स्थितिः । तच्चोक्तम् –
‘ये त्वां पश्यन्ति भगवंस्त एव सुखिनः परम् ।
तेषामेव च सम्यक् तु समाधिर्जायते नृणाम् ।
भोक्तव्यकर्मण्यक्षीणे जपेन कथयाऽपि वा ।
वर्तयन्ति महात्मानस्त्वद्भक्तास्त्वत्परायणाः’ इति ॥03 ॥
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ६-४ ॥
योगारूढस्य लक्षणमाह – यदेति । सम्यगननुषङ्गस्तस्यैव भवति । उक्तं च-
‘स्वतो दोषलयो दृष्ट्वात्वितरेषां प्रयत्नतः’ इति ॥04 ॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६-५ ॥
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६-६ ॥
स च योगारोहः प्रयत्नेन कर्तव्य इत्याह – उद्धरेदित्यादिना । कस्य बन्धुरात्मेति? आह – बन्धुरात्मेति । आत्मा – मनः । आत्मनः – जीवस्य । अत्मना – मनसा । आत्मनां – जीवम् । आत्मैव मनः । आत्मना बुद्ध्या, जीवेनैव वा । स हि बुद्ध्या विजयति । उक्तं च –
‘मनः परं कारणमामनन्ति’
‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’
‘उद्धरेन्मनसा जीवं न जीवमवसादयेत् ।
जीवस्य बन्धुः शत्रुश्च मन एव न संशयः’
‘जीवेन बुद्ध्या हि यदा मनोजितं तदा बन्धुः शत्रुरन्यत्र चास्य । ततो जयेद्बुद्धिबलो नरस्तद्देव च भक्त्या मधुकैटभारौ’
इत्यादि ब्रह्मवैवर्ते ।
अनात्मनः – अजितात्मनः पुरुषस्य, अजितमनस्कस्य सदपि मनोऽनुपकारीत्यनात्मा । सन्नपि भृत्यो यस्य न भृत्यपदे वर्तते स ह्यभृत्यः । तस्यात्मा – मन एव, शत्रुवत् शत्रुत्वे वर्तते ॥05,06 ॥
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ६-७ ॥
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ६-८ ॥
जितात्मनः फलमाह – जितात्मन इति । जितात्मा हि प्रशान्तो भवति । न तस्य मनः प्रायो विषयेषु गच्छति । तदा च परमात्मा सम्यक् हृद्याहितः सन्निहितो
भवति – अपरोक्षज्ञानी स भवतीत्यर्थः । अपरोक्षज्ञानिनो लक्षणं स्पष्टयति- शीतोष्णेत्यादिना । शीतोष्णादिषु कूटस्थः । ज्ञानविज्ञानतृप्तात्मा विजितेन्द्रिय इति कूटस्थत्वे हेतुः । विज्ञानं – विशेषज्ञानं, अपरोक्षज्ञानं वा । तच्चोक्तम्-
‘सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः ।
देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम् ॥’
‘श्रवणान्मननाच्चैव यज्ज्ञानामुपजायते ।
तज्ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत् ॥’
‘विज्ञानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथा’ इत्यादि ॥
कूटस्थो – निर्विकारः । कूटवत् स्थिति इति व्युत्पत्तेः । कूटम् – आकाशः ।
‘कूटं खं विदलं व्योम सन्धिराकाश उच्यते’ इत्यभिधानात् ।
योगी – योगं कुर्वन् । युक्तो – योगसम्पूर्णः । एवंभूतो योगानुष्ठाता योगसम्पूर्णः उच्यत इत्यर्थः ॥
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ६-९ ॥
स एव च सर्वस्माद्विशिष्यते साधुपापादिषु समबुद्धिः । जीवचितः परमात्मनः सर्वस्य तन्निमित्तत्वस्यच सर्वत्रैकरूप्येण । चिद्रूपा एव हि जीवाः । विशेषस्त्वन्तःकरणकृतः । सर्वेषां च साधुत्वादिकं सर्वमीश्वरकृतमेव स्वतो न किञ्चिदपि । उक्तं चैतत् सर्वम् –
‘स्वतः सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः ।
जीवास्तेषां तु ये दोषास्त उपादिकृता मताः ।
सर्वं चेश्वरतस्तेषां न किञ्चित् स्वत एव तु ।
समा एव ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम् ।
एवं समा नृजीवास्तु विशेषो देवतादिषु ।
स्वाभाविकस्तु नियमादत एव सनातनः ।
असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि ।
गुणदोषौ मानवानां नित्यौ स्वभाविकौ मतौ ।
गुणैकमात्ररूपास्तु देवा एव सदा मताः’ इति ब्राह्मे ।
न तु साधुपापादीनां पूजादिसाम्यम् । तत्र दोषस्मृतेः –
‘समानां विषमा पूजा विषमाणां समा तथा ।
क्रीयते येन देवोऽपि स्वपदाद्ब्रश्यते पुमान्’ इति ब्राह्मे ।
‘वित्तं बन्धुवर्यः कर्म विद्या चैव तु पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्’ इति मानवे ।
‘गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः ।
सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति ॥
वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात् ।
पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम् ॥’ इति ब्रह्मवैवर्ते ।
सहृदादिषु शास्त्रोक्तपूजादिकृतिरन्यूनाधिका या साऽपि समा । तदप्याह-
‘यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च ।
तथा करोति पूजादिं समबुद्धिः स उच्यते’ इति गारुडे
प्रत्युपकारनिरपेक्षयोपकारकृत् – सुहृत् क्लेशस्थानं निरूप्य यो रक्षां करोति स – मित्रम् । अरिः – वधादिकर्ता । कर्तव्य उपकारेऽपकारे च य उदास्ते स उदासीनः । कर्तव्यमुभयमपि यः करोति स – मध्यस्थः । अवासितकृत् द्वेष्यः । आह चैतत् –
‘द्वेष्योऽवासितकृत् कार्यमात्रकारी तु मध्यमः ।
प्रियकृत् प्रियो निरूप्यापि क्लेशं यः परिरक्षति ॥
स मित्रमुपकारं तु अनपेक्ष्योपकारकृत् ।
यस्ततः स सुहृत् प्रोक्तः शत्रुश्चापि वधादिकृत्’ इति ॥09 ॥
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ ६-१० ॥
समाधियोगप्रकारमाह – योगी युञ्जीतेत्यादिना । युञ्जीतसमाधि-योगयुक्तं कुर्यात् । आत्मानम् – मनः ॥10 ॥
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ६-११ ॥
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ ६-१२ ॥
योगम् – समाधियोगं, युञ्ज्यात् ॥12 ॥
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ६-१३ ॥
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ ६-१४ ॥
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ ६-१५ ॥
निर्वाणपरमाम् – शरीरत्यागोत्तरकालीनाम् ॥15 ॥
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ ६-१६ ॥
अनशनादिनिषेधोऽशक्तस्य । उक्तं हि –
‘निद्राशनभयश्वासचेष्टातन्द्र्यादिवर्जनम् ।
कृत्वानिमीलिताक्षस्तु शक्तो ध्यायन् प्रसिद्ध्यति’ इति नारदीये ॥16 ॥
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ ६-१७ ॥
युक्ताहारविहारस्य – सोपायाहारादेः । यावता श्रमाद्यभावो भवति तावदाहारादेरित्यर्थः ॥17 ॥
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ ६-१८ ॥
आत्मनि – भगवति ॥18 ॥
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ ६-१९ ॥
आत्मनः भगवद्विषयं योगम् ॥19 ॥
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ ६-२० ॥
आत्मना – मनसा । आत्मनि – देहे । आत्मानं – भगवन्तं पश्यन् ॥20 ॥
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ ६-२१ ॥
तत्त्वतः – भगवद्रूपात् ॥21 ॥
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ ६-२२ ॥
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ ६-२३ ॥
दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः । न केवलमुत्पन्नं दुःखं नाशयति, उत्पत्तिमेव निवारयतीति दर्शयति संयोगशब्देन । निश्चयेन योक्तव्यः – योक्तव्य एव बुभूषुणेत्यर्थः ॥23 ॥
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६-२४ ॥
सर्वान् – सर्वविषयान् । अशेषतः एकविषयोऽपि कामः स्वल्पः कादाचित्कोऽपि न कर्तव्य इत्यर्थः । मनसैव नियन्तुम् शक्यते नान्येनेत्येवशब्दः ॥24 ॥
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६-२५ ॥
बुद्धेः कारणत्वं मनोनिग्रहं आत्मरमणे ॥25 ॥
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ ६-२६ ॥
यतो यतः – यत्र यत्र । ‘यतो यतो धावति’ इत्यादिप्रयोगात् । आत्मन्येव वशं नयेत् – आत्मविषय एव वशीकुर्यादित्यर्थः ॥26 ॥
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ ६-२७ ॥
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ ६-२८ ॥
पूर्वश्लोकोक्तं प्रपञ्चयति – एवं युञ्जन्निति ॥28 ॥
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९ ॥
ध्येयमाह – सर्वभूतस्थमिति । सर्वभूतस्थमात्मानम् – परमेश्वरम् । सर्वभूतानि, चात्मनि – परमेश्वरे । तं च परमेश्वरं ब्रह्मतृणादावैश्वर्यादिना साम्येन पश्यति । तच्चोक्तम् –
‘आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि’ इति ।
‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ इति च ॥29 ॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३० ॥
फलमाह – यो मामिति । तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः स्यामित्यर्थः । स च मे न प्रणश्यति सर्वदा मद्भक्तो भवति । सत्यपि स्वामिन्यरक्षत्यनाथः, एवं भृत्येऽप्यभजत्यभृत्यः इति हि प्रसिद्धिः । उक्तं च –
‘सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति । अचला तस्य भक्तिः स्याद्योगक्षेमं वहाम्यहं ॥’ इति गारुडे ॥30 ॥
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१ ॥
तदेव स्पष्टयति – सर्वभूतस्थितमिति । एकत्वमास्थितः – सर्वत्रैक एवेश्वर इति स्थितः । सर्वप्रकारेण वर्तमानोऽपि मय्येव वर्तते । एवमपरोक्षं पश्यतो ज्ञानफलं नियतमित्यर्थः । तथाऽपि प्रायो नाधर्मं करोति । कुर्वतस्तु महच्चेद्दुःखसूचकं भवतीत्युक्तं पुरस्तात् । आह च –
‘कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत् ।
प्रमादात् तु कृतं पापमल्पं भस्मीभविष्यति ।
आदराजैस्तथा देवैर्ऋषिभिः क्रियते कियत् ।
बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत्’ इति ॥31 ॥
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२ ॥
साम्यं प्रकान्तरान्तरेण व्याचष्टे – आत्मौपम्येनेति ॥32 ॥
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ६-३३ ॥
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ६-३४ ॥
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६-३५ ॥
एतस्य योगस्य स्थिरां स्थितिं न पश्यामि मनसश्चञ्चलत्वात् । उक्तं च –
‘मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य वै स्थिरा ।
विनाऽभास्यं न शक्या स्वाद्वैराग्याद्वा न संशयः’
इति व्यासयोगे ॥33-35 ॥
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ६-३६ ॥
न च कदाचित् स्वयमेव मनो नियम्यते –
‘शुभेच्छारहितानां च द्वेषिणां च रमापतौ ।
नास्तिकानां च वै पुंसां सदा मुक्तिर्नजायते ॥’
इति निषेधाद्ब्राह्मे ॥36 ॥
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ६-३७ ॥
अयतिः- अप्रयत्नः ॥37 ॥
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ६-३८ ॥
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ६-३९ ॥
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥ ६-४० ॥
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ६-४१ ॥
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ६-४२ ॥
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३ ॥
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ६-४४ ॥
योगस्य जीज्ञासुरपि – ज्ञातव्यो मया योग इति यस्यातीवेच्छासोऽपि । शब्दब्रह्मातिवर्तते – परं ब्रह्म प्राप्नोतीत्यर्थः ॥44 ॥
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ६-४५ ॥
नैकजन्मनीत्याह – प्रयत्नादिति । जीज्ञासुर्ज्ञात्वा प्रयत्नं करोति । एवमनेकजन्मभिः संसिद्धोऽपरोक्षज्ञानी भूत्वापरां गतिं याति ।आह च –
‘अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः ।
ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान् ।
विशेन्नारायणं देवं नान्यथा तु कथञ्चन’ इति नारदीये ॥45 ॥
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ६-४६ ॥
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६-४७ ॥
॥इति श्रीमद्भगवद्गीतायं षष्ठोऽध्यायः ॥
ज्ञानिभ्यो योगज्ञानिभ्यः । तपस्विभ्यः कृच्छ्रादिचारिभ्यः । उक्तं च –
‘कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते । तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः । ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम्’ इति गारुडे ।
‘अज्ञात्वा ध्यायिनो ध्यानात् ज्ञानमेव विशिष्यते । ज्ञात्वा ध्यानं ज्ञानमात्राद् ध्यानादपि तु दर्शनम् । दर्शनाच्चैव भक्तेश्च न किञ्चित् साधनाधिकम्’ इति नारदीये ॥46,47 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः ॥
अथ सप्तमोऽध्यायः[править]
साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह –
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१ ॥
आसक्तमनाः – अतीव स्नेहयुक्तमनाः । मदाश्रयः । भगवानेव मया सर्वं कारयति; स एव च मे शरणम्; तस्मिन्नेव चाहं स्थित इति स्थितः । असंशयं समग्रमिति क्रियाविशेषणम् ॥01 ॥
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७-२ ॥
इदं – मद्विषयं ज्ञानम् । विज्ञानं – विशेषज्ञानम् ॥02 ॥
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७-३ ॥
दौर्लभ्यं ज्ञानस्याह -मनुष्याणामिति ॥03 ॥
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४ ॥
प्रतिज्ञातं ज्ञानमाह – भूमिरित्यादिना । महतोऽहङ्कार एवान्तर्भावः ॥04 ॥
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७-५ ॥
अपरा – अनुत्तमा, वक्ष्यमाणमपेक्ष्य । जीवभूता – श्रीः । जीवानां प्राणधारिणी चिद्रूपभूता सर्वदा सती । ‘एतन्महद्भूतम्’ इति श्रुतेः । जगाद च –
‘प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा ।
अव्यक्ताख्या जडा सा च सृष्ट्याभिन्नाऽष्टधा पुनः ।
महान् बुद्धिर्मनश्चैव पञ्चभूतानि चेति हि ।
अवरा सा जडा श्रीश्च परेयं धार्यते तया ।
चिद्रूपा सा त्वनन्ता च अनादिनिधना परा ।
यत् समं तु प्रियं किञ्चिन्नास्तिविष्णोर्महात्मनः ।
नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि ।
ताभ्यामिदं जगत् सर्वं हरिः सृजति भूतराट्’ इति नारदीये ।
न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मद्यैश्वर्यमित्याह – अहमिति । प्रभवादेः । सत्ताप्रतीत्यादिकारणत्वात् तद्भोक्तृत्वाच्चप्रभव इत्यादि ।
तथा च श्रुतिः-
‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः’ इति ।
आह च –
‘स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता ।
यतः सर्वस्य तेनाहं सर्वोऽत्यृषिभः स्तुतः ।
सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः ।
आगमिष्यत् सुखं चापि तच्चास्त्र्येव सदाऽपि तु ।
तथाऽप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च’ इति नारदीये ॥05 ॥
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६ ॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७ ॥
अहमेव परतरः । मत्तोऽन्यत् परतरं न किञ्चिदपि । इदं ज्ञानम् ॥07 ॥
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८ ॥
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९ ॥
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१० ॥
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११ ॥
रसोऽहमित्यादि विज्ञानम् । अबादयोऽपि तत एव । तथाऽपि रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोऽपि स एव नियामकः । न त्वबादिनियमानुबद्धो रसादिस्तत्सारत्वादिश्चेति दर्शयति अप्सु रस इत्यादि विशेषशब्दैः । भोगश्च विशेषतो रसादेरेति च उपासनार्थं च । उक्तं च गीताकल्पे –
‘रसादीनां रसादित्वे स्वभावत्वे तथैव च ।
सारत्वे सर्वधर्मेषु विशेषेणापि कारणम् ।
सारभोक्ता च सर्वत्र यतोऽतो जगदीश्वरः ।
रसादिमानिनां देहे स सर्वत्र व्यवस्थितः ।
अबादयः पार्षदा एव ध्येयः स ज्ञानिनां हरिः ।
रसादिसम्पत्त्याऽन्येषां वासुदेवो जगत्पतिः’ इति ।
‘स्वभावो जीव एव च’
‘सर्वस्वभावो नियतस्तेनैव किमतः परम्’
‘न तदस्ति विना यत् स्यान्मया भूतं चराचरम्’ इति च ।
‘धर्माविरुद्धः’ ‘कामरागविवर्जितम्’ इत्यादुपासनार्थम् ।
उक्तं च गीताकल्पे –
‘धर्माविरुद्धकामेऽसावुपास्यः काममिच्छता ।
विहीने कामरागादेर्बले च बलमिच्छता ।
ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति सः’ इत्यादि ।
‘पुण्यो गन्धः’ इति भोगापेक्षया च ।
तथा च श्रुतिः – ‘पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति’ ‘ऋतं पिबन्तौ सुकृतस्य लोके’ इत्यादिका । ऋतं च पुण्यं –
‘ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते’ इत्यभिधानात् ।
‘ऋतं तु मानसो धर्मः सत्यं स्यात् सप्रयोगगः’ इति च ।
न च ‘अनश्नन्नन्यो अभिचाकशीति’ ‘अन्यो निरन्नोऽपि बलेन भूयान्’ इत्यादि विरोधः । स्थूलानशनोक्तेः । आह च सूक्ष्माशनम् –
‘प्रविविक्ताहारतर इवैष भवत्यस्माच्छारीरादात्मनः’ इति ।
न चात्र जीव उच्यते । ‘शारीरादात्मनः’ इति भेदाभिधानात् । स्वप्नादिश्च शारीर एव –
‘शारीरस्तुतित्रिधा भिन्नो जाग्रदादिष्ववस्थितेः’ इति वचनाद्गारुडे ।
‘अस्मात्’ इतीश्वरनिवृत्त्यर्थः –
‘शारीरौ तावुभौ ज्ञेयौ जीवेश्वरसंज्ञितः ।
अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः’ इति वचनान्नारदीये ।
भेदश्रुतेश्च । सति गत्यन्तरे पुरुषभेद एव कल्प्यो न त्ववस्थाभेदः ।
आह च-
‘प्रविविक्तभुग्यतो ह्यस्माच्छारीरात् पुरुषोत्तमः ।
अतोऽभोक्ताच भोक्ता च स्थूलभोगात् स एव तु’इति गीताकल्पे ॥08-11 ॥
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२ ॥
नत्वहं तेष्विति तदनाधारत्वमुच्यते । उक्तं च
‘तदाश्रितं जगत् सर्वं नासौ कुत्रचिदाश्रितः’ इति गीताकल्पे ॥12 ॥
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३ ॥
तर्हि कथमेवं न ज्ञायस इत्यत आह – त्रिभिरिति । तादात्म्यार्थे मयट् । तच्चोक्तम् –
‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’ इति ।
नहि गुणकार्यभूता माया । ‘गुणमयी’ इति च वक्ष्यति । सिद्धं च कार्यस्यापि तादात्म्यम् –
‘तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः’
इति व्यासयोगे ।
भावैः – पदार्थैः । सर्व भावा दृष्यमाना गुणमया एत इति दर्शयति एभिरिति । ज्ञानिव्यावृत्त्यर्थम् इदमिति । गुणमयदेहादिकं दृष्ट्वेश्वरदेहोऽपि तादृश इति मायामोहित इत्यर्थः । जगाद च व्यासयोगे –
‘गौणान् ब्रह्मादिदेहादीन् दृष्ट्वा विष्णोरपीदृशः ।
देहादिरिति मन्वानो मोहितोऽज्ञो जनो भृशम्’ इति ।
एभ्यः – गुणमयेभ्यः । ‘गुणेभ्यश्च परम्’ इति वक्ष्यमाणत्वात् । ‘केवलो निर्गुणश्च’ इत्यादिश्रुतिभ्यश्च । ‘त्रैगुण्यवर्जितम्’ इति चोक्तम् ॥13 ॥
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७-१४ ॥
कथमनादिकाले मोहानत्ययो बहूनामित्यत आह – दैवीति । अयमाशयः – माया ह्येषा मोहिका । सा च सृष्ट्यादिक्रीडादिमद्देव-सम्बन्धित्वादतिशक्तेर्दुरत्यया । तथाहि देवशब्दार्थं पठन्ति –
‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु’ इति । कथं दैवी? मदीयत्वात् । अहं हि देव इति । अब्रवीच्च –
‘श्रीर्भूदुर्गेति या भिन्ना महामाया तु वैष्णवी ।
तच्चक्त्यनन्तांशहीनाऽथापि तस्याश्रयात् प्रभोः ।
अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिः कलाऽपि हि ।
तेषां दुरत्ययाऽप्येषा विनाऽविष्णुप्रसादतः’ इति व्यासयोगे ।
तर्हि न कथंचिदत्येतुं शक्यते इत्यत आह – मामेवेति । अन्यत् सर्वं परित्यज्य मामेव ये प्रपद्यन्ते । गुर्वादिवन्दनं च मय्येव समर्पयन्ति । स एव च तत्र स्थित्वागुर्वादिर्भवतीत्यादि पश्यन्ति । आह च नारदीये ।
‘मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः ।
मधुपाधितया तांश्च सर्वभूतानि चोत्तमाः ॥’ इति
‘आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि’ इति च ॥14 ॥
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७-१५ ॥
तर्हि किमिति सर्वे नात्यायन्नित्यत आह – न मामिति । दुष्कृतित्वान्मूढाः । अत एव नराधमाः । अपहृतज्ञानात्वाच्च मूढाः । अत एवासुरं भावमाश्रिताः । स च वक्ष्यते – ‘प्रवृत्तिं च निवृत्तिं च’ इत्यादिना । अपहारः – अभिभवः । उक्तं चैतद्व्यासयोगे –
‘ज्ञानं स्वभावो जीवानां मायया चाभिभूयते’ इति ।
आसुषु रता असुराः । तच्चोक्तं नारदीये-
‘ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ’ इति ॥15 ॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६ ॥
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७-१७ ॥
एकस्मिन्नेव भक्तिरित्येकभक्तिः । तच्चोक्तं गारुडे –
‘मय्येव भक्तिर्नान्यत्र एकभक्तिः स उच्यते’ इति ॥17 ॥
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७-१८ ॥
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९ ॥
बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे –
‘जन्मभिर्बहुभिर्ज्ञात्वा ततो मां प्रतिपद्यते’ इति ॥19 ॥
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७-२० ॥
प्रकृत्या स्वभावेन - ‘स्वभावः प्रकृतिश्चैव संस्कारो वासनेति च’ इत्यभिधानात् ॥20 ॥
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१ ॥
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२ ॥
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७-२३ ॥
यां यां – ब्रह्मादिरूपां तनुम् । उक्तं च नारदीये -
‘अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता’ इति ।
‘मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः’ इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु ।
‘अवतारे महाविष्णोर्भक्तः कुत्रच मुच्यते’ इत्यादेश्च ब्रह्मवैवर्ते ॥21-23 ॥
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७-२४ ॥
को विशेषस्तवान्येभ्यः इत्यत आह – अव्यक्तमिति । कार्यदेहादिवर्जितम् । तद्वानिव प्रतीयस इत्यत आह – व्यक्तिमापन्नमिति । कार्यदेहाद्यापन्नम् । तच्चोक्तम् ‘सदसतः परम्’ ‘न तस्य कार्यम्’ ‘आपाणिपादः’ ‘आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्’ इत्यादौ । भावं – याथार्थ्यम् । तथाऽब्रवीच्च-
‘यथातथ्यमजानन्तः परं तस्य विमोहिताः’ इति ॥24 ॥
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५ ॥
अज्ञानं च मदिच्छयेत्याह – नाहमिति । योगेन – सामर्थ्योपायेन मायया च । मयैव मूढो नाभिजानाति । तथाऽऽह पाद्मे-
‘आत्मनः प्रवृत्तिं चैव लोकचित्तस्य बन्धनम् ।
स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः’ इति ॥25 ॥
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७-२६ ॥
न च मां माया बध्नातीत्याह – वेदेति । न कश्चनातिसमर्थोऽपि स्वसामर्थ्यात् ॥26 ॥
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७-२७ ॥
द्वन्द्वमोहेन – सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्दयोर्नहि किञ्चिज्ज्ञातुं शक्यम् । कारणान्तरमेतत् । सर्गे – सर्गकाल आरभ्यैव । शरीरे हि सन्तीच्छादयः । पूर्वं त्वज्ञानमात्रं ॥27 ॥
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७-२८ ॥
विपरीताश्च केचित् सन्तीत्याह – येषामिति ॥28 ॥
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७-२९ ॥
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३० ॥
॥इति श्रीमद्भगवद्गीतायां सप्तमोऽद्यायः ॥7 ॥
जरामरणमोक्षायेत्यन्यकामनिवृत्त्यर्थम् । मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः ।
‘मुमोक्षोरमुमुक्षुस्तु वरो ह्येकान्त भक्तिभाक्’ इतीतरस्तुतेर्नारदीये ।
‘नात्यन्तिकम्’ इति च ।
‘देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ।
अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा’ इति भागवते लक्षणाच्च ।
आह च – ‘सर्वे वेदास्तु देवार्था देवा नारायणार्थकाः । नारायणस्तु मोक्षार्थे मोक्षो नान्यार्थ इष्यते । एवं मध्यमभक्तानामेकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत् तदर्थकम् ’ इति गीताकल्पे ।
त एव च विदुः । ‘यमेवैष वृणुते’ इति श्रुतेः ॥29,30 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तमोऽध्यायः ॥7 ॥
अथ अष्टमोऽध्यायः[править]
मरणकाले कर्तव्यगत्याद्यस्मिन्नध्याय उपदिशति
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८-१ ॥
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८-२ ॥
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८-३ ॥
परममक्षरं – परब्रह्म । वेदादिशङ्काव्यावृत्त्यर्थमेतत् । आत्मन्यधि यत् तदध्यात्मम् । आत्माधिकारे यत् तदिति वा । तथाहि जैवः स्वभावः । स्वाख्यो भाव इति व्युत्पत्त्या जीवो वा स्वभावः । सर्वदाऽस्त्येवैकप्रकारेणेति भावः | अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः | न ह्येकप्रकारेण स्थितिरन्तःकरणादेः विकारित्वात् | स्वशब्द ईश्वरव्यावृत्यर्थः | भूतानां जीवानां भावनां जडपदार्थानां चोद्बवकरेश्वरक्रिया विसर्गः | विशेषेण सर्जनं विसर्ग इत्यर्थः ॥03 ॥
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८-४ ॥
भूतानि सशरीरान् जीवानदिकृत्य यत् तदधिभूतम् । क्षरो भावः – विनाशिकार्यपदार्थः । अव्यक्तन्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशोऽस्त्येव । तच्चोक्तम् –
‘अव्यक्तम् परमे व्योम्नि निष्क्रिये सम्प्रलीयते’ इति
‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’ इति च ।
‘विकारोऽव्यक्तजन्म ही’ इति च स्कान्दे ।
पुरि शयनात् पुरुषो जीवः । स च सङ्कर्षणो ब्रह्मा वा । स सर्वदेवानधिकृत्य पतिरित्यधिदैवतम् । देवाधिकारस्थ इति वा । सर्वयज्ञ भोक्तृत्वादेरधियज्ञः । अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्दः इति देह इति विशेषणम् ।
भोक्तारं यज्ञतपसाम्’ , ‘त्रैविद्या माम्’
‘येऽप्यन्यदेवताभक्ताः’ एतस्य वा अक्षरस्य प्रशासने गार्गि’
‘ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः’ इत्यादेः ।
‘कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैःश्रेयसं परम्’ इत्यादि परिहाराच्च मोक्षधर्मे ।
भगवांश्चेत् तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथज्ञ्नोक्तः । सर्वप्राणिदेहस्थरूपेणाधियज्ञः । अत्रेति स्वदेहनिवृत्त्यर्थम् । नहि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोऽन्यत् । ‘ते ब्रह्म’ इत्युक्त्वा ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः’ इति परमर्शात् | तस्यैव च प्रश्नात् | साधियज्ञमिति भेदप्रतीतेस्तन्निवृत्त्यर्थम् ‘अधियज्ञोऽहम्’ इत्युक्तम् | मामित्यभेदप्रतीतेरक्षरमित्येवोक्तम् |
आह च गीताकल्पे –
‘देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः ।
कर्मेश्वरस्य सृष्ट्वाख्यं तच्चापीच्छाद्यमुच्यते ।
अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते ।
हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा ।
ब्रह्म नारायणो देवः सर्वेदेवेश्वरेश्वरः’ इति ।
‘यथाप्रतीतं वा सर्वमत्र वै न विरुद्द्यते”इति च ।
स्कान्दे च
‘आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते ।
देहाद्बाह्यं विनाऽतीव बाह्यत्वादधिदैवतम् ।
देवाधिकारगं सर्वं महाभूताधिकारगम् ।
तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्’ इति महाकौर्मे च ।
‘अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम् ।
सदेहजीवभूतानि यत् तेषामुपकारकृत् ।
अधिभूतं तु मायान्तं देवानामधिदैवतम्’ इति ॥04 ॥
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८-५ ॥
मद्भावं – मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मकम् । तच्चोक्तम्
‘मुक्तानां च गतिर्ब्रह्मन् क्षेतज्ञ इति कल्पितः’ इति मोक्षधर्मे ॥05 ॥
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८-६ ॥
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८-७ ॥ orसंशयम्
स्मरन् पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदिति ‘अन्ते’ इति विशेषणम् । सुमतेर्नैव शङ्कावकाशः । स्मरंस्त्यजतीत्येककालीनत्वप्रतीतेः । दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति भविष्यति शङ्का ।
‘त्यजन् देहं न कश्चित् तु मोहमाप्नोत्यसंशयम्’ इति च स्कान्दे ।
‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति’ इति हि श्रुतिः । सदा तद्भावभावित इत्यन्तकाले स्मरणोपायमाह । भावोऽन्तर्गतम् मनः । तथाऽभिधानात् । भावितत्वम् अति वासितत्वम् । ‘भावना त्वतिवासना’ इत्यभिधानात् ॥06,07 ॥
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८-८ ॥
सदा तद्भावभावितत्वं स्पष्टयति – अभ्यासेति । अभ्यास एव योगोऽभ्यासयोगः । दिव्यं पुरुषं पुरिशयं पूर्णं च ।
‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन
किञ्चनानावृतं नैनेन किञ्चनासंवृतम्’ इति श्रुतेः ।
दिव्यं सृष्ट्यादिक्रीडायुक्तम् । ‘दिवु क्रीडा-’ इति धातोः ॥08 ॥
मणोरणीयंसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-
ध्येयमाह – कविमिति । कविं – सर्वज्ञम् । ‘यः सर्वज्ञः’ इति श्रुतिः । ‘त्वं कविः सर्ववेदनात्’ इति ब्राह्मे । धातारं – धारणपोषणकर्तारम् ।
‘डुधाञ धारणपोषणयोः’ इति धातोः । ‘धाता विधाता परमोत सन्दृग्’ इति च श्रुतिः । ‘ब्रह्मा स्थाणुः’ इत्यारभ्य ,
‘तस्य प्रसादादिच्छन्ति तदादिष्टफलां गतिम्’ इत्यादेश्च मोक्षधर्मे । तमसोऽव्यक्तात् परतः स्थितम् –
‘तमसः परस्तादिति । अव्यक्तं वै तमः । परस्ताद्धि स ततः’
इति पिप्पलादशाखायाम् ।
‘मृत्युर्वाव तमः । मृत्युर्वै तमो ज्योतिरमृतम्’ इति श्रुतेः ॥09 ॥
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
वायुजयादियोगयुक्तानां मृतिकालकर्तव्यमाह विशेषतः – प्रयाणकाल इति । वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यादिसंपूर्णानां भवत्येव मुक्तिः । तद्वतां त्वीषज्ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथंचिद्भवतीति विशेषः । उक्तं च भागवते-
‘पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वाऽऽपुरकुण्ठधिष्ण्यम् ।
तथा परे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते’ ।
‘ये तु तद्भाविता लोक एकान्तित्वं समाश्रिताः ।
एतदभ्यधिकं तेषां तत् तेजः प्रविशन्त्युत’ इति च मोक्षधर्मे ।
सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः ।
नियमेन तथाऽपीरजयादियुतयोगिनां ।
वश्यत्वान्मन स्त्वीषत् पूर्वमप्याप्यते ध्रुवम्’ इति च व्यासयोगे ॥10 ॥
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तदेव सध्येयं प्रपञ्चयति – यदक्षरमित्यादिना । प्राप्यते ममुक्षुभिरिति पदं-स्वरूपम् । ‘पद गतौ’ इति धातोः | ‘तद्विष्णोः परमं पदम्’ इति श्रुतेश्च |
‘गीयसे पदमित्येव मुनिभिः पद्मसे यतः’ इति च नारदीये ॥11 ॥
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२ ॥
ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य ।
‘निर्गच्छंश्चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि’
इत्यादिवचनाद्व्यासयोगे मोक्षधर्मे च । हृदि – नारायणे –
‘ह्रियते त्वया जगद्यस्माद्धृदित्येवं प्रभाष्यसे’ इति हि पाद्मे ।
नहि मूर्ध्नि प्राणे हृदि मनसः स्थितिः सम्भवति ।
‘यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा’ इति व्यासयोगे ।
योगाधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः ॥12 ॥
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३ ॥
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८-१४ ॥
नित्ययुक्तस्य – नित्योपायवतः । योगिनः – परिपूर्णयोगस्य ॥14 ॥
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८-१५ ॥
तत्प्राप्तिं स्तौति – मामिति । परमां संसिद्धिं गता हि त इति तत्र हेतुः ॥15 ॥
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८-१६ ॥
महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः । तच्चोक्तं नारायण-गोपालकल्पे –
‘आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि ।
तथाऽप्यभावः सर्वत्र प्राप्यैव वसुदेवजम्’ इति ॥16 ॥
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८-१७ ॥
मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति – सहस्रयुगेत्यादिना । सहस्रशब्दोऽत्रानेकवाची । ‘सा विश्वरूपस्य रजनी’ इति ह श्रुतिः ॥17 ॥
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८-१८ ॥
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८-१९ ॥
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२० ॥
द्विपरार्धप्रलय एवात्र विवक्षितः । ‘अव्यक्ताद्व्यक्तयः सर्वाः’ इत्युक्तेः । उक्तं च महाकौर्मे-
‘अनेकयुगपर्यन्तमहर्विष्णोस्तथा निशा ।
रात्र्यादौ लीयते सर्वमहरादौ च जायते’ इति ।
‘यः स सर्वेषु भूतेषु’ इति वाक्यशेषाच्च ॥18-20 ॥
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८-२१ ॥
अव्यक्तो- भगवान् । ‘यं प्राप्य न निवर्तन्ते’ इति ‘मामुपेत्य’ इत्युक्तस्य परामर्शात् । ‘अव्यक्तं परमं विष्णुम्’ इति प्रयोगाच्च गारुडे । धाम -स्वरूपम् ।
‘तेजः स्वरूपं च गृहं प्राज्ञ्यैर्धामेति गीयते’ इत्यभिधानात् ॥
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८-२२ ॥
परमं साधनमाह – पुरुष इति ॥22 ॥
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८-२३ ॥
यत्कालाद्यभिमानिदेवता गता आवृत्त्यनावृत्ती गच्छन्ति ता आह – यत्रेत्यादिना । काल इत्युपलक्षणम् । अग्न्यादेरपि वक्ष्यमाणत्वात् ॥23 ॥
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८-२४ ॥
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८-२५ ॥
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८-२६ ॥
ज्योतिः – अर्चिः । ‘तेऽर्चिषमभिसम्भवन्ति’ इति हि श्रुतिः | तथा च नारदीये –
‘अग्निं प्राप्य ततश्चार्चिस्ततश्चाप्यहरादिकम्’ इति ।
अभिमानिदेवताश्चाग्न्यादयः । कथमन्यथा ‘अह्न आपूर्यमाणपक्षम्’ इति युज्यते ।
‘दिवादिदेवताभिस्तुपूजितो ब्रह्म याति हि’ इति हि ब्राह्मे
मासाभिमानिभ्योऽयनाभिमानी च पृथक् । तच्चोक्तं गारुडे–
‘पूजितस्त्वयनेनासौ मासैः परिवृतेन ह’ इति ।
अहरभिजिता शुक्लपौर्णमास्या आयनं विषुवा सह । तच्चोक्तं ब्रह्मवैवर्ते –
‘साह्ना मध्यन्दिनेनाथ शुक्लेन च स पूर्णिमा ।
सविष्वा चायनेनासौ पूजितः केशवं व्रजेत्’ इति ॥24-26 ॥
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८-२७ ॥
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
॥इति श्रीमद्भगवद्गीतायामष्टमोऽध्यायः ॥8 ॥
एते सृती सोपाये ज्ञात्वा-अनुष्ठाय, न मुह्यति । तच्चाह स्कान्दे-
सृती ज्ञात्वा तु सोपाये चानुष्ठाय च साधनम् ।
न कश्चिन्मोहमाप्नोति न चान्या तत्र वै गतिः’ इति ॥27-28 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतभाष्ये अष्टमोऽध्यायः ॥8 ॥
अथ नवमोऽध्यायः[править]
सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये –
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१ ॥
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२ ॥
राजविद्या – प्रधानविद्या । प्रत्यक्षं ब्रह्म अवगम्यते येन तत् प्रत्यक्षावगमम् । अक्षेषु इन्द्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः ।
तथा च श्रुतिः ।
‘यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः
शरीरं यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’ ।
‘यो वाचि तिष्ठन्’ ‘यश्चक्षुषि तिष्ठन्’ इत्यादेः ।
‘य एषोऽन्तरक्षिणि पुरुषो दृष्यते’ इति च ।
‘अङ्गुष्टमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः’ इति च ।
‘त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः’ इत्यादेश्च मोक्षधर्मे ।
‘स प्रत्यक्षः । प्रति हि सोऽक्षेष्वक्ष्ववान् हि , स भवति य एवं विद्वान् प्रत्यक्षं वेद’ इति सामवेदे वारुणशाखायाम् ।
धर्मो – भगवान् । तद्विषयं – धर्म्यम् । सर्वं जगत् धत्त इति धर्मः । ‘पृथिवी धर्ममूर्धनि’ इति प्रयोगान्मोक्षधर्मे ।
‘भारभृत् कथितो योगि’इति च ।
‘भर्ता सन् भ्रियमाणो बिभर्ति’ इति च श्रुतिः ।
‘धर्मो वा इदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो नेन्द्रो न देवा न ऋषयः सोऽध्यायत्’
इति च सामवेदे बाभ्रव्यशाखायाम् ॥02 ॥
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३ ॥
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४ ॥
प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम् । तज्ज्ञानाद्याह मयेति । तर्हि किमिति न दृश्यत इत्यत आह – अव्यक्तमूर्तिनेति ॥04 ॥
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९-५ ॥
मत्स्थेत्वेऽपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीत्याह – न चेति ।
‘न दृश्यश्चक्षुषा चासौ न स्पृष्यः स्पर्शनेन च’ इति मोक्षधर्मे ।
‘संज्ञासंज्ञ’ इति च । ममात्मा – देह एव, भूतभावनः । ‘महाविभूते माहात्म्यशरीर’ इति हि मोक्षधर्मे ॥05 ॥
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६ ॥
मत्स्थानि न च मत्स्थानीत्यस्य दृष्टान्तमाह – यथाऽऽकाश स्थित इति । नह्याकाशस्थितोऽपि वायः स्पर्शाद्याप्नोति ॥06 ॥
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७ ॥
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९-८ ॥
ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति – सर्वभूतानीत्यादिना । प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टभ्यः गच्छति ।
‘सर्वभूतगणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि’ इति मोक्षधर्मे ।
‘सर्वभूतगुणैर्युक्तं दैवं त्वं ज्ञातुमर्हसि’ इति च ।
‘विदित्वा सप्तसूक्ष्माणि षडङ्गम् च महेश्वरम् ।
प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति’ इति च
‘न कुत्र चिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य ।
तथाऽपि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु’
इति ऋग्वेदखिलेषु ।
‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इति भागवते ।
‘अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति च’ इत्याथर्वणे ।
‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इति च ।
‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि’
‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’
इत्यादेश्च
प्रकृतेर्वशादवशम् –
‘तमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव ।
मायावशं चावशं लोकमेतत् तस्मात्स्रक्षस्यत्सि पासीश विष्णो’
इति गौतमखिलेषु ॥07,08 ॥
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९ ॥
उदासीनवत् , नतूदासीनः । तदर्थमाह – आसक्तमिति । ‘अवाक्यनादरः’ इति हि श्रुतिः ।
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥इति भागवते ।
यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः । ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतिः । यः कर्मापि नियामयति कथं च तत् तं बद्नाति? ॥09 ॥
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१० ॥
उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयत इत्यह आह – मयेति । प्रकृतिसूतिद्रष्टा कर्ताऽहमेवेत्यर्थः । तथा च श्रुतिः –
‘यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् । इति ॥10 ॥
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११ ॥
तर्हि केचित् कथं त्वामनजानन्ति ? का च तेषां गतिरिति? आह -अवजानन्तीत्यादिना । मानुषीं तनुं – मूढानां मानुषवत् प्रतीताम्, नतु मनुष्यरूपाम् । उक्तं च मोक्षधर्मे –
‘यत्किञ्चदिह लोके वै देहबद्धं विशांपते ।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजै ।
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।
भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च ।
भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ इति ।
अवतारप्रसङ्गे चैतदुक्तम् । अतो नावताराश्च पृथक् शङ्क्या ।
‘रूपाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः ।
वाराहं नारसिंहं च वामनं मानुषं तथा’ ॥
इति तत्रैव प्रथमसर्गकाल एवावताररूपविभक्त्युक्त्वेः । अतो न तेषां मानुषत्वादिर्विना भ्रान्तिम् । भूतं महदीश्वरं चेति भूतमहेश्वरम् । तथा हि बाभ्रव्यशाखायाम् ।
‘अनाद्यनन्तं परिपूर्णरूपमीशं वराणामपि देववीर्यम्’ इति ।
‘अस्य महतो भूतस्य निश्वसितम्’ इति च ।
‘ब्रह्मपुरोहित ब्रह्मकायिक महाराजिक’ इति च मोक्षधर्मे ॥11 ॥
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२ ॥
तेषां फलमाह – मोघाशा इति । वृथाशाः भगवद्वेषिभिराशासितमामुष्मिकं न किञ्चिदाप्यते । यज्ञादिकर्माणि च तेषां वृथैव । ज्ञानं च । केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकस्तैराप्यत इत्यर्थः । वक्ष्यति च –
‘तानहं द्विषतः क्रूरान् संसारेषु’ इत्यादि ।
मोक्षधर्मे च –
‘कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ।
कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित्’ इति ।
‘सर्वोत्कृष्टे ज्ञानभक्ती हि यस्य नारायणे पुष्करविष्टराद्ये ।
सर्वावमो द्वेशयुतश्च तस्मिन् भ्रूणानन्तघ्नोऽप्यस्य समो न चैव’
इति च सामवेद शाण्डिल्यशाखायाम् ।
‘द्वेषाच्चैद्यादयो नृपाः’
‘वैरेण यन्नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविलासविलोकनाद्यैः ।
ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम्’
इत्यादि तु भगवतो भक्तप्रियत्वज्ञापनार्थम्, नित्यध्यानस्तुत्यर्थं च । स्वभक्तस्य कदाजिच्छापबलाद्द्वेषिणोऽपि भक्तिफलमेव भगवान् ददातीति । भक्ता एव हि ते पूर्वं शिशुपालादयः । शापबलादेव च द्वेषिणः । तत्प्रश्ने पूर्वपार्षदत्वशापादिकथनाच्चैतज्ज्ञायते । अन्यथा किमिति तदप्रस्तुतमुच्येत? भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम् । ‘न मे भक्तः प्रणश्यति’ इति वक्ष्यति | न च ‘भावो हि भवकारणम्’ इत्यादि विरोधः द्वेषभाविनां द्वेष एव भवतीति हि युक्तम् | अन्यथा गुरुद्वेषिणोऽपि गुरुत्वं भवतीत्यनिष्टमापद्येत | न चाकृतधीत्वे विशेषः | तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः |
‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः’ इति ।
‘यदनिन्दत् पिता मह्यम्’ ‘त्वद्भक्ते मयि चाघवान्’ इत्यारभ्य,
‘तस्मात् पिता मे पूयेत दुरन्ताद्दुस्तरादघात्’
इति प्रह्लादेन भगवतो वरयाचनाच्च । बहुषु ग्रन्थेषु च निषेदः । कुत्रचिदेव तदुक्तिरिति विशेषः । यस्मिंस्तदुच्यते तत्रैव च निषेध उक्तः । महातात्पर्यविरोधश्चोक्तः पुरस्तात् । अयुक्तिमद्ब्यो युक्तिमन्त्येव बलवन्ति वाक्यानि । युक्तयश्चोक्ता अन्येषाम् । न चैतेषां काचिद्गतिः । साम्येऽपि वाक्ययोर्लोकानुकूलाननुकूलयोरनुकूलमेवबलवत् । लोकानुकूलं च भक्तप्रियत्वं नेतरत् । उक्तं च तेषां पूर्वभक्तत्वम्
‘मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्’ इत्यादि ।
अतो न भगवद्वेषिणां काचिद्गतिरिति सिद्धम् । द्वेषकारणमाह – राक्षसीमिति ॥12 ॥
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९-१३ ॥
नेतरे द्विषन्तीति दर्शयितुं देवानाह – महात्मान इत्यादिना ॥13 ॥
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९-१४ ॥
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५ ॥
सर्वत्रैक एव नारायणः स्थित इत्येकत्वेन । पृथक्त्वेन – सर्वतो वैलक्षण्येन ।
‘बहुधा हि तस्य रूपम्’ ।
‘आभाति शुक्लमिव लोहितमिवाथो नीलमथार्जुनम्’ इति सनत्सुजाते ।
‘दैवमेवापरे’ इत्युक्तप्रकारेण बहवो वा बहुधा’ ॥15 ॥
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६ ॥
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ ९-१७ ॥
प्रतिज्ञातं विज्ञानमाह – अहं क्रतुरित्यादिना । क्रतवोऽग्निष्टोमादयः । यज्ञो – देवतामुद्दिश्य द्रव्यपरित्यागः ।
‘उद्दिश्य देवान् द्रव्याणां त्यागो यज्ञ इतीरितः’ इत्यभिधानात् ॥17 ॥
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८ ॥
गम्यते मुमुक्षुभिरिति गति । तथाहि सामवेदे वासिष्ठशाखायाम्
‘अथ कस्मादुच्यते गतिरिति । ब्रह्मैव गतिस्तद्दि गम्यते पारमुक्तैः’ इति साक्षादीक्षत इति साक्षी । तथाहि बाष्कलशाखायाम् –
‘स साक्षादिदमुद्राक्षीद्यदद्राक्षीत् तत् साक्षिणः साक्षित्वम्’ इति । शरणमाश्रयः संसारभीतस्य –
‘परमं यः परायणम्’ इति ह्युक्तम् ।
‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ इति च ।
संहारकाले प्रकृत्या जगदत्र निधीयत इति निधानम् । तथा ह्यृग्वेदखिलेषु –
‘अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः’ इति ॥18 ॥
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९ ॥
सत् – कार्यं । असत् कारणम् –
‘सदभिव्यक्तरूपत्वात् कार्यमित्युच्यते बुधैः ।
असदव्यक्तरूपत्वात् कारणं चापि शब्दितम्’ इति ह्यभिधानात् ।
‘असच्च सच्चैव च यद्विश्वं सदसतः परम्’ इति च भारते ॥19 ॥
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक-
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
तथाऽपि मद्भजनमेवान्यदेवताभजनाद्वरमिति दर्शयति । त्रैविद्या
इत्यादिना ॥20-21 ॥
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२ ॥
अनन्याः- अन्यदचिन्तयित्वा । तथाहि गौतमखिलेषु-
‘सर्वं परत्यज्य मनोगतं यद्विना देवं केवलं शुद्धमाद्यम् । ये चिन्तयन्तीह तमेव धीरा अनन्यास्ते देवमेवाविशन्ति’ इति
‘कामः कालेन महता एकान्तित्वात् समाहितैः ।
शक्यो द्रष्टुं स भगवान् प्रभासन्दृश्यमण्डलः’ इति मोक्षधर्मे ।
नित्यमभितः सर्वतो युक्तानाम् ॥22 ॥
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३ ॥
तर्हि ‘अहं क्रतुः’ इत्याद्यसत्यमित्यत आह – येऽपीति ॥23 ॥
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४ ॥
कारणमाह विधिपूर्वकत्वे – अहं हीति ॥24 ॥
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५ ॥
फलं विविच्याह -यान्तीति ॥25 ॥
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६ ॥
दुर्बलैस्त्वं पूजयितुमशक्यो महत्त्वादित्याशङ्क्याह – पत्रमिति ॥न त्वविहितपत्रादि । तस्यापराधत्वोक्तेर्वाराहादौ । भक्तैवाहं तुष्ट इति भावः ।
‘भक्तप्रियं सकललोकनमस्कृतं च’ इति भारते ।
‘एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।
एकान्तभक्तिर्गोविन्दे यत् सर्वत्रात्मदर्शनम्’ इति भागवते ॥26 ॥
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७ ॥
अतो यत् करोषि ॥27 ॥
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९-२८ ॥
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९-२९ ॥
तर्हि स्नेहादिमत्त्वादल्पभक्तस्यापि कस्यजिद्बहु फलं ददासि; विपरीतस्यापि कस्यचिद्विपरीतमित्यत आह – समोऽहमिति । तर्हि न भक्तिप्रयोजनमित्यत आह – ये भजन्तीति । मयि ते तेषु चाप्यहमिति मम ते वशास्तेषामहं वश इति । उक्तं च पैङ्गखिलेषु-
‘ये वै भजन्ते परमं पुमांसं तेषां वशः स तु ते तद्वशाश्च’ इति ।
तद्वशा एव ते सर्वे सर्वदा । तथाऽपि बुद्धिपूर्वकत्वाबुद्धिपूर्वकत्वेन भेदः । उद्धवादिवत्, शिशुपालादिवच्च । तच्चोक्तं तत्रैव –
‘अबुद्धिपूर्वाद्यो वशस्तस्य ध्यानात् पुनर्वशो भवते बुद्धिपूर्वम्’ इति ॥29 ॥
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३० ॥
न भवत्येव प्रायशस्तद्भक्तो दुराचारः । तथाऽपि बहुपुण्येन यदि कथंचिद्भवति तर्हि साधुरेव मन्तव्यः ॥30 ॥
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१ ॥
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९-३२ ॥
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९-३३ ॥
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४ ॥
॥इति श्रीमद्भगवद्गीतायां नवमोऽध्यायः ॥9 ॥
कुतः? क्षिप्रं भवति धर्मात्मा । देवदेवांशादिष्वेव चैतद्भवति । उक्तं च शाण्डिल्यशाखायाम्-
‘नाविरतो दुश्चरितान्नाभक्तो नासमाहितः ।
सम्यग्भक्तो भवेत् कश्चिद्वासुदेवेऽमलाशयः ।
देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः’ इति ।
अतोऽन्यः कश्चिद्भवति चेत् डाम्भिकत्वेन सोऽनुमेयः । साधारणपापानां तु सत्सङ्गान्महत्यपि कथञ्चिद्भक्तिर्भवति । साधारणभक्तिर्वेतरेषाम् ।
‘स शठमतिरुपायति योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य भक्तम्’
इति हि श्रीविष्णुपुराणे ।
‘सा श्रद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसाम् । इति च ।
‘वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् ।
पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् ।
गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम् ।
तं चापि देवं शरणं प्रपन्न एकान्तभावेन नमाम्यजस्रम् ।
एतैर्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमेनम्’
इति मोक्षधर्मे आचारस्य साधनत्वोक्तेश्च । ज्ञानाभावे च सम्यग्भक्त्यभावात् । तथाहि गौतमखिलेषु-
‘विना ज्ञानं कुतो भक्तिः कुतो भक्तिर्विना च तत्’ इति ।
‘भक्तिः परे स्वेऽनुभवो विरक्तिरन्यत्र चैतत् त्रिकमेककालः’
इति च भागवते ॥31-34 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः ॥9 ॥
आथ दशमोऽध्यायः[править]
उपासनार्थं विभूतीर्विशेषकारणत्वं च केषांचिदनेन अध्यायेनाह-
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१ ॥
प्रीयमाणाय श्रुत्वा संतोषं प्राप्नुवते ॥01 ॥
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२ ॥
प्रभवं – प्रभावम्, मदीयां जगदुत्पत्तिं वा । तद्वशत्वात् तस्येत्युच्यते । यद्यस्ति तर्हि देवादयो जानंति सर्वज्ञत्वात्, अतो नास्तीति भावः । ‘अहमादिर्हि’ इति तूत्पत्तिरपि यस्य वशा कुतस्तस्य जनिरिति ज्ञापनार्थम् । ‘अहं सर्वस्य जगतः प्रभवः’ इति चोक्तम् । उक्तं चैतत् सर्वमन्यत्रापि-
‘को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्देवा अस्य विसर्जनेनाथ को वेद यत आ बभूव’ इति ।
‘न तत्प्रभावमृषयश्च देवा विदुः कुतोऽन्येऽल्पधृतिप्रमाणाः’
इति ऋग्वेदखिलेषु ।
अन्यस्त्वर्थो ‘योमामजम्’ इति वाक्यादेव ज्ञायते ॥02 ॥
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३ ॥
अनश्चेष्टयिता आदिश्च सर्वस्येत्यनादिः । अजत्वेन सिद्धेरितरस्य ॥03 ॥
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४ ॥
तत् प्रथयति – बुद्धिरित्यादिना । कार्याकार्यविनिश्चयो बुद्धिः ।
ज्ञानं – प्रतीतिः –
‘ज्ञानं प्रतीतिर्बुद्धिस्तुकार्याकार्यविनिर्णयः’ इत्यभिधानम् । दमः – इंद्रियनिग्रहः । शमः – परमात्मनिष्ठता –
‘शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहः’ इति हि भागवते ॥04 ॥
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५ ॥
तुष्टिरलं बुद्धिः-
‘अलंबुद्धिस्तथा तुष्टिः’ इत्य इत्यभिधानात् ॥05 ॥
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६ ॥
पूर्वे सप्तर्षयः-
‘मरीचिरत्रङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठस्य महातेजाः’ इति मोक्षधर्मोक्ताः । ते हि सर्वपुराणेषूच्यन्ते । चत्वारः प्रथमाः स्वायम्भुवाद्याः । तेषां हीमाः प्रजाः । नहि भविष्यतामिमाः प्रजा इति युक्तम् । विभागः प्राधान्यं च प्राथमिकत्वादेव भवति । गौतमाखिलेषु चोक्तम्-
‘स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम् । वेद यः स प्रजावान्’ इति ।
पूर्वेभ्यो ह्युत्तरा जायन्त इति च तेषां प्राधान्यम् । अजातेषु च ज्यैष्ठ्यम् । तापसस्य भगवदवतारत्वादनुक्तिः । तच्च भागवते सिद्धम् । मानसत्वं च सर्वेषां मनूनामुक्तं भागवते-
‘ततो मनून् ससर्जान्ते मनसा लोकभावनान्’ इति ।
अन्यपुत्रत्वं त्वपरित्वज्यापि शरीरं तद्भवति । प्रमाणं चोभयविधवाक्यान्यथानुपपत्तिरेव । ‘पूर्वे’ इति विशेषणाच्चैतत्सिद्धिः । मत्तो भावो येषां ते मद्भावाः । ये ते ब्रह्मणो मनसा जातास्ते मत्त एव जाता इति भावः ॥06 ॥
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७ ॥
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८ ॥
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९ ॥
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१० ॥
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११ ॥
सन्ति च भजन्तः केचिदित्याह – अहमित्यादिना ॥11 ॥
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२ ॥
ब्रह्म – परिपूर्णम् –
‘अथ कस्मादुच्यते परं ब्रह्म । बृहति बृंहयति च’ इति श्रुतिः ।
‘बृह बृंह बृहि वृद्धौ’ इति च पठन्ति ।
‘परमं यो महद्ब्रह्म’ इति च । विविधमासीदिति विभुः । तथाहि वारुणशाखायाम् –
‘विभु प्रभु प्रथमं मेहनावत इति । स ह्येव पाभवद्विविधोऽभवत्’ इति ।
‘सोऽकामयत बहु स्यां प्रजायेय’ इत्यादेश्च ॥12 ॥
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३ ॥
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४ ॥
भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५ ॥
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६ ॥
विभूतयो – विविधभूतयः ॥16 ॥
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७ ॥
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०-१८ ॥
न जायतेऽर्दयति च संसारं इति जनार्दनः । तथाच बाब्रव्यशाखायाम् –
‘स भूतः स जनार्दन इति स ह्यासीत् स नासीत् सोऽर्दयति’ इति च ॥18 ॥
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९ ॥
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२० ॥
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१ ॥
विष्णुः सर्वव्यापित्वप्रवेशित्वादेः ।
‘विष्लृ व्याप्तौ’ , ‘विश प्रवेशने’ इति हि पठन्ति ।
‘गतिश्च सर्वभूतानां प्रजानां चापि भारत ।
व्याप्तौ मे रूदसी पार्थ कान्तिश्चाभ्यधिका मम ।
अधिभूतनिविष्टश्च तदिच्चुश्चापि भारत ।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः’ इति मोक्षधर्मे ॥21 ॥
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२ ॥
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३ ॥
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४ ॥
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५ ॥
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६ ॥
सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः –
‘प्रीतिः सुखं कमानंदः’ इत्यभिधानात् ।
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति च ।
ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्भिभर्ति जायमानं च पश्येत् । सुखादनन्तात् पालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्ति’
इति च बाभ्रव्यशाखायाम् ॥26 ॥
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७ ॥
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८ ॥
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९ ॥
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३० ॥
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१ ॥
आनन्दरूपत्वात् पूर्णत्वात् लोकरमणाच्च रामः ।
‘आनन्दरूपो निष्परीमाण एष लोकश्चैतस्माद्रमते तेन रामः’
इति शाण्डिल्यशाखायाम् ।
रश्च अमश्चेति व्युत्पत्तिः ॥31 ॥
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२ ॥
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३ ॥
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४ ॥
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५ ॥
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६ ॥
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७ ॥
आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः । देवशब्दार्थ उक्तः पुरस्तात् ।
‘छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः ।
सर्वभूतादिवासश्च वासुदेवस्ततो ह्यहम्’ । इति मोक्षधर्मे ।
विशिष्टः सर्वस्मादासमन्तात् स एवेति व्यासः । तथा चाग्नेयशाखायाम् ।
‘स व्यासो वीति तमं स वै वि सोऽधस्तात् स उत्तरतः स पश्यात् स पूर्वस्मात् स दक्षिणतः स उत्तरत इति’ इति ।
‘यच्च किञ्चित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इति च ॥37 ॥
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८ ॥
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९ ॥
मया विना यद्बूतं स्यात् तन्नास्ति । ‘विश्वरूप अनन्तगते अनन्तभाग अनन्तग अनन्त’ इत्यादि हि मोक्षधर्मे ॥39 ॥
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४० ॥
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१ ॥
यद्यद्विभूतिमदिति विस्तरः । विष्ण्वादीनि तु स्वरूपाण्येव । अन्यानि तु तेजोंऽशयुक्तानि । तथाच पैङ्गिखिलेषु –
‘विशेषका रुद्रवैन्येन्द्रदेवराजन्याद्या अंशयुता अन्यजीवाः ।
कृष्णव्यासौ रामकृष्णौ च रामकपिलयज्ञप्रमुखाः स्वयं सः’ इति ।
‘स एवैको भार्गवदाशरथिकृष्णाद्यास्त्वंशयुता अन्यजीवाः’
इति गौतमखिलेषु ।
‘ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ।
एते स्वांशकालाः पुंसः कृष्णस्तु भगवान् स्वयम्’ ॥
इति च भागवते ऋष्यादीनंशयुतत्वेनोक्त्वा वराहादीन् स्वरूपत्वेनाह । तुशब्द एवार्थे । अन्यस्तु विशेषो न कुत्राप्यवगतः । अंशत्वं च तत्राप्यवगतम् ‘उद्बबर्हात्मनः केशौ’ इति । ‘मृडयन्ति’ इति बहुवचनं चायुक्तम् । नह्यन्तराऽन्यदुक्त्वा पूर्वमपरामृश्य तत्क्रियोच्यमाना दृष्टा कुत्रचित् ॥41 ॥
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२ ॥
॥इति श्रीमद्भगवद्गीयां दशमोऽध्यायः ॥10 ॥
किमिति वक्ष्यमाणप्राधान्यज्ञापनार्थम् । न तूक्तनिष्फलत्वज्ञापनाय । तथा सति नोच्येत ।
‘अज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्’ इति ऋग्वेदखिलेषु ।
त्वं तु बहुफलप्राप्तियोग्य इति तवेति विशेषणम् । अन्यस्तुर्थत्वेन प्रसिद्धश्चैकत्र किंशब्दः-
‘रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम् ।
तावुभौ यदि न स्यातां तपसा किं प्रयोजनम्’ ॥
इत्यादौ प्राधान्यं च सिद्धमेकत्र दर्शनात् सर्वत्र भगवद्दर्शनस्य ‘यो मां पश्यति सर्वत्र’ इत्यादौ ॥42 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये दशमोऽध्यायः ॥10 ॥
अथ एकादशोऽध्यायः[править]
यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते-
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१ ॥
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२ ॥
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३ ॥
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११-४ ॥
प्रभुः – समर्थः –
‘नास्तितस्मात् परं भूतं पुरषाद्वै सनातनात्’ इति हि मोक्षधर्मे ।
‘प्रभुरीशः समर्थश्च’ इत्यभिधानात् ॥04 ॥
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५ ॥
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११-६ ॥
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ ११-७ ॥
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८ ॥
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९ ॥
हरिः सर्वयज्ञादिभागहारित्वात्-
‘इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् ।
वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतः’ इति मोक्षधर्मे ॥09 ॥
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११-१० ॥
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११-११ ॥
सर्वाश्चर्यमयं – सर्वाश्चर्यात्मकम् ॥11 ॥
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११-१२ ॥
सहशब्दोऽनन्तवाची । तदपि ‘पाकशासनविक्रमः’इत्यादिवत् प्रत्यायनार्थमेव ।तथाहि ऋग्वेदखिलेषु –
‘अनन्तशक्तिः परमोऽनन्तवीर्यः सोऽनन्ततेजाश्च ततस्ततोऽपि’ इति ।
महातात्पर्याच्च प्राबल्यम् । न च परिमाणोक्त्या किञ्चित् प्रयोजनम् ॥12 ॥
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३ ॥
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११-१४ ॥
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ-
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
अनेकशब्दोऽनन्तवाची । ‘अनन्तबाहुम्’ इति च वक्ष्यति । ‘सर्वतः पाणिपादं तत्’ इत्यादि च ।
‘विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति सं पतत्र्यैर्द्यावापृथिवी जनयन् देव एकः’ इति ऋग्वेदे ।
‘विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
सं बाहुभ्यां नमति सं पतत्र्यैर्द्यावाभूमी जनयन् देव एकः’ इति यजुर्वेदे च ।
विश्वशब्दश्चानन्तवाची-
‘सर्वं समस्तं विश्वं चानन्तं पूर्णमेव च’ इत्यभिधानात् ।
‘अनन्तपादं तमनन्तबाहुमनन्तवक्त्रं पुरुरूपमेकम्’
इति च बाभ्रव्यशाखायाम् ।
महत्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति । अन्यथा ‘अनादिमत् परं ब्रह्म’ इत्याद्ययुक्तं स्यात् । एकत्रानन्तान्यस्य रूपाणीत्यनन्तरूपः ।
अन्यत्र त्वपरिमाण इति । उक्तं ह्युभयमपि
‘परात् परं यन्महतो महान्तम्’,
‘यदेकमव्यक्तमनन्तरूपम्’ इति यजुर्वेदे ।
अव्यक्तास्यानन्तत्वादेव महतो महत्त्वेऽपरिमेयत्वं सिद्द्यति ।
‘महांतं च समावृत्य प्रधानं समवस्थितम् ।
अनन्तस्य न तस्यांतः सङ्ख्यानं चापि विद्यते’ इत्यादित्यपुराणे ।
तानि चैकैकानि रूपाण्यनन्तानीति चैकत्र भवन्ति ।
असङ्ख्याता ज्ञानकास्तस्य देहाः सर्वे परीमाणविवर्जिताश्च’
इति ह्यृग्वेदखिलेषु ।
‘यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः ।
उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते ।
उभावग्निश्च वायुश्च सूर्यचन्द्रमसावुभौ’ इति च ।
‘कृष्णस्य गर्भजगतोऽतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम् ।
इति च भागवते ।
न चैतदयुक्तम् । अचिन्त्यशक्तित्वादीश्वरस्य ।‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ इति श्रीविष्णुपुराणे ।
‘नैषा तर्केण मतिरापनेया’ इति च श्रुतिः ।
अतिप्रसङ्गस्तु महातात्पर्यवशाद्वाक्यबलाच्चापनेयः । नहि घटवत् कश्चिदपि पदार्थो न दृष्ट इत्येतावता प्रमाणदृष्टः स निराक्रियते । केषुचित् पदार्थेषु वाक्यव्यवस्थाऽचिन्त्यशक्तित्वाभावादङ्गीक्रियते ।
‘गुणाः श्रुताः सुविरुद्दाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।
चिन्त्या अचिन्ताश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।
एवं परेऽन्यत्र श्रुताश्रुतानां गुणागुणानां च क्रमाद्व्यवस्था’
इति जाबालखिलश्रुतेश्च ।
उपचारत्वपरिहाराय ‘न मध्यम्’ इति । अन्यथाऽऽद्यन्ताभावेनैव तत्सिद्धेः । विश्वरूपः – पूर्णरूपः-
‘स विश्वरूपोऽनूनरूपो यतोऽयं सोऽनन्तो नहि नाशोऽस्ति तस्य’ इति शाण्डिल्यशाखायाम् ॥16 ॥
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
अनलार्कद्युतिमित्युक्ते मितत्वशङ्कामपाकरोति – अप्रमेयमिति ॥17 ॥
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं
शशिसूर्यनेत्रमित्यपि’अहं क्रतुः’ इत्यादिवत् ।
‘तदङ्गजाः सर्वसुरादयोऽपि तस्मात् तदङ्गेत्यृषिभिः स्तुतास्ते’
इति ऋग्वेदखिलेषु ।
‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’ इति च ।
बहुरूपत्वाद्बह्वाश्रितत्त्वं च तेषां युक्तम् ॥19 ॥
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
‘मातापित्रोरन्तरङ्गः स एकरूपेण चान्यैः सर्वगतः स एकः’
इति वारुणश्रुतेरेकेन रूपेण द्यावापृथिव्योरन्तरं व्याप्नोतीति । ‘पश्य मे पार्थ रूपाणि’ इति बहूनि हि रूपाणि प्रतिज्ञातानि । मातापितरौ च पृथिवीद्यावौ ‘मा नो माता पृथिवी दुर्मतौ धात् ‘ ‘मधु’ द्यौरस्तु नः पिता’ इत्यादि प्रयोगात् । न तु नियमतो भयप्रदं तत्स्वरूपम् । नारदस्य तदभावात् । केषांचित् तथा दर्शयति भगवान् ।
‘प्रीयन्ति केचित् तस्य रूपस्य दृष्टौ विभेति कश्चिदभ्यसे सर्वतृप्तिः’
इति हि वारुणशाखायाम् ।
न तु तं सर्वे पश्यन्ति अदृष्ट्वाऽपि तन्निरूप्य भये द्रष्टुस्तथा प्रतिभाति ।
तथाच गौतमखिलेषु –
दृष्ट्वा देवं मोदमाना अदृष्ट्वाऽप्येतद्भयाद्बिभ्यतो दृष्टवत् ते ।
पश्यन्ति तन्न्यस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वात्’ इति ॥20 ॥
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्-
लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं
धर्मान्तरज्ञानार्थमेव को भवानिति पृच्छति । यथा कश्चित् किञ्चिन्नामाधिकं जानन्नपि जातिज्ञानार्थं पृच्छति कस्त्वमिति । यदि तमेव न जानाति तर्हि विष्णावित्येव सम्बोधनं न स्यात् । ‘त्वमक्षरं’ इत्यादि च ॥31 ॥
लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
कालशब्दो जगद्बन्दनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची । ‘कल बन्धने’ ‘कल च्छेदने’ ‘कल ज्ञाने’ ‘कल कामधेनुः’ इति च पठन्ति । प्रसिद्देश्च स शब्दो भगवति ।
‘नियतं कालपाशेन बद्धं शक्र विकत्थसे ।
अयं स पुरुषः श्यामो लोकस्य हरति प्रजाः ।
बद्ध्वातिष्ठति मां रौद्रः पशून् रशनया यथा’
इति मोक्षधर्मे विष्णुना बद्धो बलिर्वक्ति ।
‘विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे’ इति हि भागवते ।
प्रवृद्धः – परिपूर्णोऽनादिर्वा । ‘ऋतं च सत्यं चाभीद्धात्’ इति हि श्रुतिः । ‘एतन्महद्बूतमनन्तम्’ इति च ।
‘प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम’ इति च ।
नतु वर्धनम् –
‘नासौ जजान न मरिष्यति नैधतेऽसौ’ इति हि भागवते ।
‘यस्यं दिव्यं हि तद्रूपं क्षीयते वर्धते न च’ इति मोक्षधर्मे ।
‘न कर्मणा’ इति तु कर्मणाऽपि न , किमु स्वयमिति । लोकान् समाहर्तुमिह विशेषेण प्रवृत्तः । भ्रातादींश्चर्त इत्यपिशब्दः प्रत्यनीकत्वं तु परस्परतया । सर्वेऽपि हि न भविष्यन्ति । अक्षोहिण्यादिभेदेन बहुवचनं च युक्तं ॥32 ॥
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
योऽस्य शिरश्चिन्नं भूमौ पातयति तच्छिरो भेत्स्यतीति तत्पितुर्वराज्जयद्रथो विशेषेणोक्तः । सवरा वासवी शक्तिरिति कर्णः ॥34 ॥
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
यदेतद्वक्ष्यमाणं तत् स्थाने युक्तमेवेत्यर्थः । अग्निषोमाद्यन्तर्यामितया जगद्दर्षणात् हृषीकेशः । केशत्वं त्वंशूनां तन्नियन्तृत्वादेः । प्रमाणं तु ‘शशिसूर्यनेत्रम्’ इत्यत्रोक्तम् । हृषीकाणामिन्द्रियाणामीशत्वाच्च हृषीकेशः । तेषां विशेषत ईशत्वं च ‘यः प्राणे तिष्ठन्’ इत्यादौ सिद्धम् । ‘न मे हृषीकाणि पतन्त्यसत्पथे’ इत्यादि प्रयोगाच्च ।
इतरोऽर्थो मोक्षधर्मे सिद्धः –
‘सूर्यचन्द्रमसौ शश्वत् केशैर्मे अंशुसंज्ञितैः ।
बोधयन् स्थापयंश्चैव जगदुत्पद्यते पृथक् ।
बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात् ।
अग्निषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ।
हृषीकेशोऽहमीशानो वरदो लोकभावनः’ इति ॥36 ॥
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास
कथं स्थान इति ? तदाह – कस्मादित्यादिना । पूर्णश्चासौ आत्मा चेति महात्मा । आत्मशब्दश्चोक्तो भारते –
‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते’ इति ।
तत्परं – सदसतोः परम् ।
‘असच्च सच्चैव च यद्विश्वं सदसतः परम्’ इति च भारते ॥37 ॥
त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं
एकस्त्वमेव कारयिता नान्योऽस्ति अथापि ॥42 ॥
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
इच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
स्वकं रूपं तु भ्रान्तप्रतीत्या । अन्यथा तदपि स्वकमेव । प्रमाणानि तूक्तानि पुरस्तात् ॥50 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये एकोदशोऽध्यायः ॥11 ॥
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१ ॥
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११-५२ ॥
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११-५३ ॥
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११-५४ ॥
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११-५५ ॥
॥इति श्रीमद्भगवद्गीतायामेकादशोऽध्यायः ॥11 ॥
अथ द्वादशोऽध्यायः[править]
अव्यक्तोपासनाद्भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्यस्मिन्नध्याये –
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१ ॥
तदुपासनमपि मोक्षसाधनं प्रतीयते –
‘श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिधा मितद्रौ’ इति ।
‘अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’ इति च । अव्यक्तं च महतः परम् –
‘महतः परमव्यक्तम्’ इत्युक्तपरामर्शोपपत्तेः ।
‘उपास्य तां श्रियमव्यक्तसंज्ज्ञां भक्त्या मर्त्यो मुच्यते सर्वबन्धैः’
इति सामवेद अग्निवेश्यशाखायाम् ।
महच्च माहात्म्यं तस्या वेदेषूच्यते –
‘चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
तस्यां सुपर्णा वृषणा निषेदतुर्यत्र देवा दधिरे भागधेयम्’ इति ।
‘चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानिवस्ते’ इति च ।
‘अहं रुद्रेभिर्वसुभिष्चराम्यहमादित्यैरुत विश्वदेवैः’ इत्यारभ्य,
‘अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरि स्थात्रां भूर्यावेशयन्तीम् ।
मया सो अन्नमत्ति यो वि पश्चति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि’,
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ।
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्त वा उ,
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वांऽतः समुद्रे
परो दिवा पर एना पृथिव्यै तावती महिना सं बभूव इत्यादि च ।
‘त्वया जुष्टः ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वया’ इति च
इति शङ्का कस्यचिद्भवति । अतो जानन्नपि सूक्ष्मयुक्तिज्ञानार्थं पृच्छतिएवमिति । एवंशब्देन दृष्टश्रुतरूपं ‘मत्कर्मकृत्’ इत्यादिप्रकाराश्च परामृश्यते ।
अव्यक्तं – प्रकृतिः ‘महतः परमव्यक्तम्’ इति प्रयोगात् ।
‘यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्’ इति भागवते ।
अक्षरं च तत् ‘अक्षरात् परतः परः’ इति श्रुतेः
परं तु ब्रह्म नहि भगवतोऽन्यत् – ‘आनन्दमानन्दमयो वसाने सर्वात्मके ब्रह्मणि वासुदेवे’ इति भागवते ।
रूपं चेदृशं साधितं पुरस्तात् । उपासनं च तथैव कार्यम्-
‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’ इत्यारभ्य,
‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’
इति हि साभ्यासा । आदित्यवर्णत्वादिश्च न वृथोपचारत्वेनाङ्गीकार्यः ।
तथा च सामवेदे सौकरायणश्रुतिः –
‘स्थाणुर्ह वै प्राजापत्यः । स प्रजापतिं पितरमेत्योवाच । मुमुक्षुभिः राधुभिः पूतपापैः किमुह वै तारकं तारवाच्यम् । ध्यानं च तस्याप्तरुचेः कथं स्याद्ध्येयश्च कः पुरुषोऽलोमपाद इति । तं होवाच । एष वै विष्णुस्तारकोऽलोमपादो ध्यानं च तस्याप्तरुचेर्वदामि । सोऽनन्तशीर्षो बहुवर्णः सुवर्णो ध्येयः स वै लोहितादित्यवर्णः । श्यामोऽथवा हृदये सोऽष्टबाहुरनन्तवीर्योऽनन्तबलः पुराणः’ इत्यादि ।
अरूपत्वादेस्तु गतिरुक्ता । पुरुषभेदश्च प्रश्नादौ प्रतीयते ‘त्वां पर्युपासते, ये चाप्यक्षरम्’ इत्यादौ ॥01 ॥
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२ ॥
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३ ॥
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४ ॥
भवन्तु त्वदुपासका एवोत्तमाः । इतरेषां तु किं फलमित्यत आह – ये त्वित्यादिना । अनिर्देश्यत्वं चोक्तं भागवते मायायाः-
‘अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः’ इति ।
ईश्वरस्तु दैवशब्देनोक्तः ‘दैवमन्येऽपरे’ इत्यत्र । उक्तं च सामवेदे काषायणश्रुतौ –
‘नासदासीन्नो सदासीत् तदानीमिति । न महाभूतं नोपभूतं
तदाऽऽसीत्’ इत्यारभ्य ‘तम आसीत् तमसा गूळ्हमग्रे’ इति ।
‘तमो ह्यव्यक्तमजरमनिर्देश्यमेषा ह्येव प्रकृतिः’ इति ।
सर्वगाऽचिन्त्यादिलक्षणा च सा । तथाहि मोक्षधर्मे –
‘नारायणगुणाश्रयादजरादतीन्द्रियादग्राह्यादसम्भवत असत्यादहिंस्राल्ललामाद्द्वितीयप्रवृत्तिविशेषादवैरादक्षयादमरादक्षरादमूर्तितः सर्वस्याः सर्वकर्तुः शाश्वततमसः’ इति ।
‘आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः’ इति च मानवे ।
‘कूटस्थोऽक्षर उच्यते’ इति वक्ष्यति । कूट आकाशे स्थिता कूटस्था
‘आकाशसंस्थिता त्वेषा ततः कूटस्थिता मता’ इति ह्यृग्वेदखिलेषु ।
‘सा सर्वगा निश्चला लोकयोनिः सा चाक्षरा विश्वगा विरजस्का’
इति च सामवेदे गौपवनशाखायाम् ॥03, 04 ॥
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५ ॥
कथं तर्हि त्वदुपासकानामुत्तमत्वमित्यत आह – क्लेश इति । अव्यक्तागतिर्दुःखं ह्यवाप्यते । गतिः – मार्गः । अव्यक्तोपासनद्वारको मत्प्राप्तिमार्गो दुःखमाप्यत इत्यर्थः । अतिशयोपासनसर्वेन्द्रियातिनियमनसर्वसमबुद्धिसर्वभूतहितेरतत्वातिसुष्ठ्याचारसम्यग्विष्णुभक्त्यादिसाधनसन्दर्भमृते नाव्यक्तापरोक्ष्यम् । तदृते च विष्णुप्रसादः । सत्यपि तस्मिन् न सम्यग्बगवदुपासनमृते । नर्ते च तं मोक्षः । विनाऽप्यव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति क्लेशिष्ठोऽयं मार्ग इति भावः । तथाऽप्यपरोक्षीकृतव्यक्तानां सुकरं भगवदुपासनमित्येतावत्
प्रयोजनम् । तत्रापि योऽव्यक्तापरोक्ष्ये प्रयासस्तावता प्रयासेन यदि भगवन्तमुपास्ते, ऊनेन वा, तदा भगवदापरोक्ष्यमेव भवतीति द्वितीयमधिकम् । इन्द्रियसंयमनाद्यूनभावे सति उपासकस्यापि देवी नातिप्रसादमेति । देवस्तु तानि साधनानि भक्तिमतः स्वयमेवाप्रयत्नेन ददातीति चातिसौकर्यमिति भक्तानां भगवदुपासने । इतरत्र क्लेशोऽधिकतरः । तदेतत् सर्वं ‘पर्युपासते’ ‘सन्नियम्य’ ‘अधिकतरः’ इति परि, सं, तरष् शब्द्यैः प्रतीयते । सामवेदे माधुच्छन्दसशाखायां चोक्तम् –
‘भक्ताश्च येऽतीव विष्णावतीव जितेन्द्रियाः सम्यगाचरयुक्ताः ।
उपासते तां समबुद्धयश्च तेषां देवी दृश्यते नेतरेषाम् ।
दृष्टा च सा भक्तिमतीव विष्णौदत्वोपास्तौ सर्वविघ्नांश्चिनत्ति ।
उपास्य तं वासुदेवं विदित्वा ततस्ततः शान्तिमत्यन्तमेति’ इति
उक्तं च सामवेदे आयास्यशाखायाम्-
‘प्रसन्नो भविता देवः सोऽव्यक्तेन सहैव तु ।
यावता तत्प्रसादो हि तावतैव न संशयः ।
न तत्प्रसादमात्रेण प्रीयते स महेश्वरः ।
तस्मिन् प्रीते तु सर्वस्य प्रीतिस्तु भवति ध्रुवम् ।
यद्यप्युपासनाधिक्यं तथाऽपि गुणदो हि सः ।
मुक्तिदश्च स एवैको नाव्यक्तादेस्तु कश्चन’ इति ।
‘ममात्मभावमिच्छन्तो यतन्ते परमात्मना’
इति च मोक्षधर्मे श्रीवचनम् ।
‘धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि ।
प्रश्रिते दानशीले च सदैव निवसाम्यहम्’ इति च
महतः परं तु ब्रह्मैव । तथाहि भगवता सयुक्तिकमभिहितम् –
‘वदतीति चेन्न प्राज्ञो हि’ ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ इत्यादि । तमिति पुल्लिङ्गाच्चैतत्सिद्धिः । महतः परत्वं त्वव्यक्तपरस्य भवत्येव । तथाचाग्निवेश्यशाखायाम् –
‘अनाद्यनन्तं महतः परं ध्रुवम्’ इति ।
‘परो हि देवः पुरुहूतो महत्तः इति’ इति ।
न चाव्यक्तस्वरूपं भगवता निषिद्धम् । भारतादौ साधितत्वात् । ‘शरीररूपकविन्यस्तगृहीतेः’ इत्यादौ साङ्ख्यप्रसिद्धं प्रधानं निषिद्ध्य वैदिकमव्यक्तमेवोक्तम् । तथाच सौकरायणश्रुतिः –
‘शरीररूपिका साऽशरीरस्य विष्णोर्यतः प्रिया सा जगतः प्रसूतिः’ इति । सुव्रतानां क्षिप्रं महदैश्वर्यं देवी ददाति न देव इति विशेषः ।
‘सुवर्णवर्णां पद्मकरां च देवीं सर्वेश्वरीं व्याप्तजडां च बुद्ध्वा ।
सैवेति वै सुव्रतानां तु मासान्महाविभूतिं श्रीस्तुदद्यान्नदेवः’
इति ऋग्वेदखिलेषु ॥05 ॥
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६ ॥
मदुपासकानां भक्तानां न कश्चित् क्लेश इति दर्शयति – ये त्वित्यादिना । उक्तं च सौकरायणश्रुतौ –
‘उपासते ये पुरुषं वासुदेवमव्यक्तादेरीप्सितं किं नु तेषाम्’ इति ।
‘तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ।
अहमेव गतिस्तेषां निराशीः कर्मकारिणम्’
इति मोक्षधर्मे ॥06 ॥
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७ ॥
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८ ॥
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९ ॥
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१० ॥
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११ ॥
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२ ॥
आज्ञानपूर्वादभ्यासाज्ञानमेव विशिष्यते । ज्ञानमात्रात् सज्ञानं ध्यानम् । तथाच सामवेदे अनभिम्लातशाखायाम् –
‘अधिकं केवलाभ्यासाज्ज्ञानं तत्सहितं ततः ।
ध्यानं ततश्चापरोक्ष्यं ततः शान्तिर्भविष्यति’ इति ।
‘ध्यानात् कर्मफलत्यागः’ इति तु स्तुतिः । अन्यथा कथम् ‘असमर्थोऽसि इत्युच्येत?
‘तयोऽस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते’ इति चोक्तम् ।
‘सर्वाधिकं ध्यानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ति परात्मन् ।
कर्मफलाकाङ्क्षमथो विरागस्त्यागश्च न ध्यानकलाफलार्हः’
इति काषायणशाखायाम् ।
वाक्यसाम्येऽप्यसमर्थविषयत्वोक्तेस्तात्पर्याभाव इतरत्र प्रतीयते । ध्यानादिप्राप्तिकारणत्वाच्चत्यागस्तुतिर्युक्ता । केवलाद्ध्यानात् फलत्यागयुक्तं ध्यानमधिकम् । ध्यानयुक्तस्त्याग एव चात्रोक्तः । अन्यथा कथं ‘त्यागाच्छान्तिरनन्तरम्’ इत्युच्यते? कथं च ध्यानादाधिक्यम् । तथाच गौपवनशाखायाम् –
‘ध्यानात् तु केवलात् त्यागयुक्तं तदधिकं भवेत्’ इति ।
नहि त्यागमात्रानन्तरमेव मुक्तिर्भवति । भवति च ध्यानयुक्तात् । केवलत्यागस्तुतिरेवमपि भवति । यथा ‘अनेन युक्तो जेता, नान्यथा’ इत्युक्ते ॥12 ॥
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३ ॥
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४ ॥
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५ ॥
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६ ॥
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७ ॥
‘सर्वारम्भपरित्यागी’ ‘शुभाशुभपरित्यागी’ इत्यादेः सामान्यविशेषव्याख्यानव्याख्येयभावेनापुनरुक्तिः । हर्षादिभिर्मुक्त इत्युक्ते कदाचिद्किमपि भवतीति यो न हृष्यतीत्यादि । उपचारपरिहारार्थं पूर्वम् । आधिक्यज्ञापनार्थं भक्त्यभ्यासः । ‘ये तु सर्वाणि कर्माणि’ इत्यादेः प्रपञ्च एषः ॥16-17 ॥
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८ ॥
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९ ॥
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२० ॥
॥इति श्रीमद्भगवद्गीतायां द्वादशोऽध्ययः ॥12 ॥
पिण्डीकृत्योपसंहरति – ये तु धर्म्यामृतमिति । धर्मो – विष्णुः, तद्विषयं धर्म्यम् , मृत्यादिसंसारनाशकं चेति धर्म्यामृतम् । श्रदास्तिक्यम् । ‘श्रन्नामास्तिक्यमुच्यते’ इत्यभिधानम् । तद्दधानाः – श्रद्दधानाः ॥20 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः ॥12 ॥
अथ त्रयोदशोऽध्यायः[править]
पूर्वोक्तज्ञानज्ञेयक्षेत्र पुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन-
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-१ ॥
ई मेलिन श्लोकवु प्रक्षिप्तवॆंदु परिगणिसलागि श्लोक संख्यॆयल्लि सेरिसिल्ल. ई श्लोक सेरिसिदाग गीतॆयल्लि 701 श्लोकगळागुत्तदॆ. गीता सप्तशति ऎंदरॆ 700 श्लोकगळु मात्रविदॆयॆंदु प्रसिद्दि.
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२ ॥
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-३ ॥
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ १३-४ ॥
‘यद्विकारि’ येन विकारेण युक्तम् । ‘यतश्च यत्’ यतो याति प्रवर्तते । स च प्रवर्तते । स च प्रवर्तकः । यतश्च यदित्यस्मात् प्रवर्तते क्षेत्रमिति वचनम् । स च य इति स्वरूपमात्रम् ॥04 ॥
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-५ ॥
ब्रह्मसूत्राणि – शारीरकसूत्राणि ॥05 ॥
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-६ ॥
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-७ ॥
इच्छयादयो विकाराः ॥07 ॥
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-८ ॥
स च यो यत्प्रभावश्चेति वक्तुं तज्ज्ञानसाधन्याह – अमानित्वमित्यादिना । आत्माल्पत्वं ज्ञात्वाऽपि महत्वप्रदर्शनं – दम्भः –
‘ज्ञात्वऽपि स्वात्मनोऽल्पत्वं दम्भो महात्म्यभावनम्’ इति ह्यभिधानम् ।
आर्जवं – मनोवाक्कायकर्मणामवैपरीत्यम् ॥08 ॥
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-९ ॥
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-१० ॥
सक्तिः – स्नेहः । स एवातिपक्वोऽभिष्वङ्गः –
‘स्नेहः सक्तिः स एवातिपक्वोऽभिष्वङ्ग उच्यते’ इत्यभिदानम् ॥10 ॥
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-११ ॥
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-१२ ॥
तत्त्वज्ञानार्थदर्शनम् – अपरोक्षज्ञानार्थं शास्त्रदर्शनम् ॥12 ॥
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१३ ॥
परम्ब्रह्मेति च ‘स च यः’ इति प्रतिज्ञातमुच्यते । अन्यः ‘प्रभावः’ इति । आदिमद्देहादिवर्जितम् – अनादिमत् । अन्यथाऽनादित्येव स्यात् ॥13 ॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४ ॥
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१५ ॥
सर्वेन्द्रियाणि गुणांश्चभासयतीति सर्वेन्द्रियगुणाभासाम् । इन्द्रियवर्जिततत्वार्ध्यर्थः उक्तः पुरस्तात् । विकारान्तर्भावाज्ज्ञानसाधनं प्रथमत उक्तम् । बहुत्वात् साधनात्युपयोगात् प्रभावः ॥15 ॥
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६ ॥
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७ ॥
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८ ॥
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१९ ॥
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-२० ॥
यतश्च यदिति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याह । गुणाःसत्त्वादयः । तेषामत्यल्पो विशेषो लयात् सर्ग इति विकाराः पृथगुक्ताः ।
‘कार्याकार्या गुणास्तिस्रो यतस्त्वल्पोद्बवो जनौ’
इति माधुच्छन्दसशाखायाम् ॥20 ॥
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२१ ॥
कार्यं – शरीरम् । ‘शरीरं कार्यमुच्यते’ इत्यभिधानं । कारणानि -इन्द्रियाणि । भोगः – अनुभवः । स हि चिद्रूपत्वादनुभवति । प्रकृतिश्चजडत्वात् परिणामिनी ।
‘कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।
भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्’ इति भागवते ॥21 ॥
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२२ ॥
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२३ ॥
यतश्च यदित्याह – उपद्रष्टेति । अनुमन्ता – अन्वनु विशेषतो निरूपकः ॥23 ॥
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४ ॥
पुरुषः सुखदुःखानामिति जीव उक्तः । पुरुषं प्रकृतिं चेति जीवेश्वरौ सहैवोच्यते । अन्यत्र महातात्पर्यविरोधः । उत्कर्षे हि महातात्पर्यम् । तथाहि सौकरायणश्रुतिः –
‘अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत्परत्वम् विष्णोरन्तस्य परात् परस्य तच्चापि ह्यस्त्येव न चात्र शङ्का ॥
अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवाऽपि युक्तिः । न तत् प्रमाणं कवयो वदन्ति न चापि युक्तिह्यूर्नमतिर्हि दृष्टेः’ इति ।
अतो युक्तिभिरप्येतदपलापो न युक्तः । अतो यया युक्त्याऽविद्यमानत्वादि कल्पयति साऽप्याभासरूपेति सदेव माहात्म्यं वेदैरुच्यत इति सिद्ध्यति । अवान्तरं च तात्पर्यं तत्रास्ति । उक्तं च तत्रैव –
‘अवान्तरं तत्परत्वं च सत्त्वे महद्वाऽप्येकत्वात् तु तयोरनन्ते’ इति । श्यामत्वाद्यभिधानाच्च ।
युक्तं च पुरुषमतिकल्पितयुक्त्यादेराभासत्वम् । अज्ञानसम्भवात् । न तु स्वतः प्रमाणस्य वेदस्याभासत्वम् । अदर्शनं च सम्भवत्येव पुंसां बहूनामप्यज्ञानात् । तर्ह्ययस्मदनधीतश्रुत्यादौ विपर्ययोऽपि स्यादिति न वाच्यम् । यतस्तत्र्यवाह –
‘नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तय इति ह प्रजापतिरुवाच प्रजापतिरुवाच’ इति ।
तद्विरुद्धं च जीवासाम्यम् । ‘आभास एव च’ इति चोक्तम् ।
‘बहवः पुरुषा ब्रह्मन् उताहो एक एव तु ।
को ह्यत्र पुरुषश्रेष्ठस्त्वं भवान् वक्तुमर्हति ॥
वैशम्पायन उवाच-
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’ इति च मोक्षधर्मे ।
न चैतत् सर्वं स्वप्नेन्द्र जालादिवत् –
‘वैधर्म्याच्च न स्वप्नादिवत्’ इति भगवद्वचनम् ।
न च स्वप्नवदेकजीवकल्पितत्वे मानं पश्यामः । विपर्यये मा चोक्ता द्वितीये । उक्तं चायास्यशाखायाम् –
‘स्वप्नो हवा अयं चञ्चलत्वान्न च स्वप्नो नहि विच्छेद एतदिति’ इति ।
नायं दोषः । नहीश्वरस्य जीवैक्यमुच्यते, जीवस्य हीश्वरैक्यमिति ध्येयम् । तदपि न निरुपादिकम् । अतो न प्रतिबिम्बत्वविरोध्यैक्यम् । तथाच माधुच्छन्दसशृतिः –
‘ऐक्यं चापि प्रातिबिम्ब्येन विष्णोर्जीवस्यैतद्धि ऋषयो वदन्ति’ इति । अहंग्रहोपासने च फलाधिक्यमाग्निवेश्यश्रुतिसिद्धम् –
‘अहंग्रहोपासकस्तस्य साम्यमभ्याशो ह वा अश्नुते नात्र शङ्का’ इति ।
‘तदीयोऽहमिति ज्ञानमहङ्ग्रह इतीरितः’ इति वामने ।
‘तद्वशत्वात् तु सोऽस्मीति भृत्यैरेव न तु स्वतः’ इति च
प्रातिबिम्ब्येन सोऽस्मि भृत्यश्चेति भावना| तथाह्यायास्यशाखायाम् –
‘भृत्यश्चाहं प्रातिबिंब्येन सोऽस्मीत्येवं ह्युपास्यः परमः पुमान् सः’
इति प्रातिबम्ब्यं च तत्साम्यमेव ॥24 ॥
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३-२५ ॥
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२६ ॥
साङ्ख्येन वेदोक्तभगवत्स्वरूपज्ञानेन । कर्मिणामपि श्रुत्वाज्ञात्वा ध्यात्वा दृष्टिः । श्रावकाणां च ज्ञात्वा ध्यात्वा । साङ्ख्यानां च ध्यात्वा । तथाच गौपवनश्रुतिः-
‘कर्मकृच्चापि तं श्रुत्वा ज्ञात्वा ध्यात्वाऽनुपश्यति ।
श्रावकोऽपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यति’ इति
‘अन्यथा तस्य दृष्टिर्हि कथञ्चिन्नोपजायते’ इति
‘अन्ये’ इत्यशक्तानामप्युपायदर्शनार्थम् ॥25-26 ॥
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३-२७ ॥
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२८ ॥
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३-२९ ॥
पुनश्च प्रकृतिपुरुषेश्वरस्वरूपं साम्यादिधर्मयुतमाह – यावदित्यादिना ॥29 ॥
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-३० ॥
आत्मानं चाकर्तारं यः पश्यति स पश्यति ॥30 ॥
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३१ ॥
एकस्थम्, एकस्मिन्नेव विष्णौस्थितम् । तत एव विष्णोर्विस्तारम् ॥31 ॥
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३२ ॥
न च व्ययादिस्तस्येत्याह – अनादित्वादिति । सादि हि प्रायो व्ययि गुणात्मकं च । ‘न करोति’ इत्यादेरर्थ उक्तः पुरस्तात् । न लौकिकः क्रियादिस्तस्य । अतो ‘न प्रज्ञम्’ इत्यादिवदिति ॥32 ॥
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३३ ॥
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३४ ॥
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३५ ॥
॥इति श्रीमद्भगवद्गीतायां त्रयोदशोऽध्यायः ॥13 ॥
भूतेभ्यः प्रकृतेश्च मोक्षसाधनम् अमानित्वादिकम् ॥35 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतभाष्ये त्रयोदशोऽध्यायः ॥13 ॥
अथ चतुर्दशोऽध्यायः[править]
साधनं प्राधान्येनोत्तरैरध्यायैर्वक्तिः –
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४-१ ॥
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ १४-२ ॥
सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३ ॥
महद्ब्रह्म प्रकृतिः । सा च श्रीर्भूदुर्गेति भिन्ना । उमा सरस्वत्याद्यास्तु तदंशयुतान्यजीवाः । तथाच काषायणश्रुतिः -
‘श्रीर्भूर्दुर्गा भगवती तु माया सा लोकसूतिर्जगतो बन्धिका च । उमावागाद्या अन्यजीवास्तदंशास्तदात्मना सर्ववेदेषु गीताः’ इति ।
मम योनिरिति गर्भाधानार्था योनिः । न तु माता । वाक्यशेषात् । तथाहि सामवेदे शार्कराक्ष्यश्रुतौ –
‘विष्णोर्योनिर्गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना तथाऽप्यात्मानं दुःखिवन्मोहनार्थं प्रकाशयन्ती सह विष्णुना सा’ इति । अतः सीतादुःखादिकं सर्वं मृषाप्रदर्शनमेव । तथा च कूर्मपुराणे[गो.१४ 1] । नचेयं भूः । तथाच सौकरायणश्रुतिः –
‘अन्या भूमिर्भूरियं तस्य छाया भूतावमा सा हि भूतैकयोनिः’ इति । ‘अवाप्य स्वेच्छया दास्यं जगतां प्रपितामही’ इत्याद्यनभिम्लातश्रुतिः । मत्स्यपुराणोक्तमपि स्वेच्छयैव । महद्ब्रह्मशब्दवाच्या प्रकृतिरेव - ‘महती ब्रह्मणी द्वे तु प्रकृतिश्च महेश्वरः’ इति तत्रैव ॥03 ॥
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ १४-४ ॥
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १४-५ ॥
बन्धप्रकारं दर्शयति साधनानुष्ठानाय – सत्त्वमित्यादिना ॥05 ॥
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ १४-६ ॥
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ १४-७ ॥
तुष्णासङ्गयोः समुद्भवम् । तयोः कारणम् ॥07 ॥
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ १४-८ ॥
अज्ञानं जायते यतस्तदज्ञानजम् । ‘प्रमादमोहौ तमसः’ इति वाक्यशेषात् ॥08 ॥
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ १४-९ ॥
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १४-१० ॥
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ १४-११ ॥
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२ ॥
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १४-१३ ॥
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४-१४ ॥
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १४-१५ ॥
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १४-१६ ॥
रजसस्तु फलं दुःखमित्यल्पसुखं दुःखम् । तथाहि शार्कराक्ष्यशाखायाम्-
‘रजसो ह्येव जायते मात्रया सुखं दुःखं तस्मात् तान् सुखिनो दुःखिन इत्याचक्षते’ इति ।
अन्यथा दुःखस्यातिकष्टत्वात् तमोऽधिकत्वं रजसे न स्यात् ॥16 ॥
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४-१७ ॥
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १४-१८ ॥
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४-१९ ॥
परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यति । अन्यथा ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इति श्रुतिविरोधः । ‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः’ इति मोक्षधर्मे ॥19 ॥
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२० ॥
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ १४-२१ ॥
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२ ॥
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ १४-२३ ॥
प्रायो न द्वेष्टि न काङ्क्षति । तथाहि सामवेदे भाल्लवेयशाखायाम् –
रजस्तमःसत्त्वगुणान् प्रवृत्तान् प्रायो न च द्वेष्टि न चापि काङ्क्षेत् ।
तथाऽपि सूक्ष्मं सत्त्वगुणं च काङ्क्षेद्यदि प्रविष्टं सुतमश्च जह्यात्’ इति ।
‘न हि देवा ऋषयश्च सत्त्वस्था नृपसत्तम ।
हीनाः सूक्ष्मेण सत्त्वेन ततो वैकारिका मताः ।
कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्’ इति हि मोक्षधर्मे ।
‘सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः’ इति च ॥22-23 ॥
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ १४-२४ ॥
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ १४-२५ ॥
तुल्यत्वार्थः उक्तः पुरस्तात् ॥24-25 ॥
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ १४-२६ ॥
ब्रह्मवत् प्रकृतिवत् भगवत्प्रियत्वं ब्रह्मभूयम् । नतु तावत्प्रियत्वम् । किन्तु प्रियत्वमात्रम् । ‘बद्धो वाऽपितु मुक्तो वा न रमावत् प्रियो हरेः’ इति पाद्मे । भूयाय – भावाय ॥26 ॥
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७ ॥
॥इति श्रीमद्भगवद्गीतायां चतुर्दशोऽध्यायः ॥14 ॥
ब्रह्मणो मायायाः ॥27 ॥
॥इति श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः ॥14 ॥
बन्नञ्जेगोविन्दाचार्य्यहस्तलिखितटिप्पनी[править]
- ↑ दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत् सीतां पावकोऽसौ सुरप्रियः ॥
अथ पञ्चदशोऽध्यायः[править]
संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन्नध्याये दर्शयति –
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१ ॥
ऊर्ध्वः – विष्णुः ।
‘ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि द्रविणँसवर्चसम्’ इति हि श्रुतिः ।
‘ऊर्ध्वः – उत्तमः सर्वतः । अधः – निकृष्टम् । शाखाः – भूतानि । श्वोऽप्येकप्रकारेण न तिष्ठतीत्यत्वश्वत्थः । तथाऽपि न प्रवाहव्ययः । पूर्व ब्रह्मकाले यथा स्थितिस्तथा सर्वत्रापीत्यव्ययता । फलकारणत्वाच्छन्दसां पर्णत्वम् । न हि कदाचिदप्यजाते पर्णे फलोत्पत्तिः ॥01 ॥
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
अव्यक्तेऽपि सूक्ष्मरूपेण सन्ति शरीरादौ च भूतानीत्यधश्चोर्ध्वं च प्रसृताः । गुणैः – सत्त्वादिभिः । प्रतीतिमात्रसुखत्वात् प्रवालाः – विषयाः । मूलानि -भगवद्रूपादीनि । भगवानपि कर्मानुबन्धेन हि फलं ददाति । तथाच भाल्लवेयशाखायाम् –
‘ब्रह्मा वा अस्य पृथङ्मूलं प्रकृतिः समूलं सत्त्वादयोऽर्वाचीनमूलम् ।
भूतानि शाखाश्छन्दांसि पत्राणि देवनृतिर्यंचश्च शाखाः । पत्रेभ्यो हि फलं जायते । मात्राः शिफाः । मुक्तिः फलममुक्तिः फलम् । मोक्षो रसोऽमोक्षो रसोऽव्यक्ते च शाखा व्यक्ते च शाखा अव्यक्ते च मूलं व्यक्ते च मूलम्, एषोऽश्वत्थो गुणालोलपत्रो न स्थीयते । न न स्थीयते न ह्येष कदाचनान्यथा जायते’ इति ॥02 ॥
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यथा स्थितिस्तथा नोपलभ्यते । अन्तादिर्विष्णुः ।
‘त्वमादिरन्तो जगतोऽस्य मध्यम्’ इति भागवते ।
‘अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः’ इति च मोक्षधर्मे । असङ्गशस्त्रेण – सङ्गराहित्यसहितेन ज्ञानेन ।
‘ज्ञानासिनोपासनया शितेन’ इति हि भागवते ।
छेदश्च विमर्श एव । ततश्च तस्यैवाबन्धकं भवति । तथाहि मूलस्थं ब्रह्मप्रतीयते । तच्चोक्तं च तत् श्रुतावेव–
‘विमर्शो ह्यस्य च्छेदस्तं न बद्नाति बद्नाति चान्यान्’ इति ।
तदर्थं च तमेव प्रपद्ये प्रपद्येत । तच्चोक्तं तत्रैव –
‘तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न
जायते न म्रियते तद्ब्रह्ममूलं तच्चिच्छित्सुः’ इति ।
‘नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्’ इति मोक्षधर्मे । छेदनोपायो ह्यत्राकाङ्क्षितः । न च भगवतोऽन्यः शरण्योऽस्ति ॥03-04 ॥
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
साधनान्तरमाह – निर्मानमेति ॥05 ॥
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६ ॥
स्वरूपं कथयति – न तदित्यादिना ॥06 ॥
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७ ॥
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८ ॥
कर्षतीत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम् । तन्निवारयति – शरीरमित्यादिना । यत् – यदा, शरीरमवाप्नोति उत्क्रामति च जीवः , तदेश्वर एतानि गृहीत्वा संयाति ।
‘यत्रयत्रैव संयुक्तो धाता गर्भं पुनःपुनः ।
तत्रतत्रैव वसति न यत्र स्वयमिच्छति’ इति हि मोक्षधर्मे ।
‘भावाभावावपि जानन् गरीयो जानामि श्रेयो न तु तत् करोमि ।
आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि’ इति च ।
‘हत्वा जित्वाऽपि मघवन् यः कश्चित् पुरुषायते । अकर्ता त्वेव भवति कर्ता त्वेव करोति तत्’इति च |
‘तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायं शरीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’ इति च श्रुतिः ।
‘वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’ इतिच । गन्धानिव सूक्ष्माणि ॥08 ॥
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९ ॥
भोगोऽस्यापि साधितः पुरस्तात् । इन्द्रियद्वारा हि सोऽपि भुङ्क्ते ।
‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति’ इति च श्रुतिः ॥09 ॥
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१० ॥
गुणान्वितमेव भुङ्क्ते । ‘न ह वै देवान् पापं गच्छति’ इति शृतेः । तर्हि किमिति न दृश्यत इत्यत आह – उत्क्रामन्तमित्यादिना ॥10 ॥
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११ ॥
यतन्तो ज्ञानं प्राप्य । अकृतात्मानः अशुद्धबुद्धयः ॥11 ॥
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२ ॥
पूर्वोक्तेमेव ज्ञानं प्रपञ्चयति – यदादित्यगतमित्यादिना ॥12 ॥
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३ ॥
गाम् भूमिम् ॥13 ॥
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४ ॥
मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदनिर्णयात्मिका मीमांसा वेदान्तः । तथा च सामवेदे प्राचीनशालश्रुतिः
‘स वेदान्तकृत् स कालकः इति ।
स ह्येव युक्तिसूत्रकृत् स कालक इति’ इति ॥15 ॥
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६ ॥
क्षरभूतानि ब्रह्मादीनि । कूटस्थः – प्रकृतिः । तथा च शार्कराक्ष्यश्रुतिः –
‘प्रजापतिप्रमुखाः सर्वर्जीवाः क्षरोऽक्षर पुरुषो वै प्रधानम् ।
तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम्’ इति ॥16 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चदशोऽध्यायः ॥15 ॥
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७ ॥
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८ ॥
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९ ॥
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२० ॥
॥इति श्रीमद्भगवद्गीतायां पञ्चदशोऽध्यायः ॥15 ॥
अथ षोडशोऽध्यायः[править]
पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयति –
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१ ॥
तपः – ब्रह्मचर्यादि । ‘ब्रह्मचर्यादिकं तपः’ इति ह्यभिधानम् ॥01 ॥
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२ ॥
पैशुनम् – परोपद्रवनिमित्तदोषाणां राजादेः कथनम् –
‘परोपद्रवहेतूनां दोषाणां पैशुनं वचः ।
राजादेस्तु मदाद्बीतेरदृष्टिर्दर्प उच्यते’ इति ह्यभिदानम् ।
लौल्यम् – रागः –
‘रागो लौल्यं तथा रक्तिः’ इत्यभिदानात् ।
अचापलं – स्थैर्यम् –
‘चपलश्चञ्चलोऽस्थिरः’ इत्यभिधानात् ॥02 ॥
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३ ॥
क्षमा – तु क्रोधाभावेन सहापकर्तुरनपकृतिः ॥03 ॥
‘अक्रोधोऽदोषकृच्छत्रोः क्षमावान् स निगद्यते’ इत्यभिधानात् ॥03 ॥
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४ ॥
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५ ॥
दैवीं सम्पदमभिजातः – प्रतिजातः ॥05 ॥
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६-६ ॥
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७ ॥
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८ ॥
जगतः सत्यं प्रतिष्ठा – ईश्वरस्य विष्णुः । तद्वैपरीत्येनाहुः ।
‘तस्योपनिषत् सत्यस्य सत्यमिति ।
प्राणा वै सत्यं तेषामेष सत्यम्’ इति हि श्रुतिः ।
द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च स्थितं च यच्च सच्च त्यच्च’ इति ।
‘तस्योपनिषत् सत्यस्य सत्यमिति । ‘एष ह्येवैतत् सादयति यामयति चेति’ इति प्राचीनशालशृतिः । परस्परसम्भवो ह्युक्तः – ‘अन्नाद्भवन्ति’ इत्यादिना ॥08 ॥
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९ ॥
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१० ॥
दुष्पूरु हि कामः ।
‘पाताल इव दुष्पूरो मां हि क्लेशयते सदा’ इति हि मोक्षधर्मे ॥10 ॥
कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११ ॥
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२ ॥
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३ ॥
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४ ॥
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५ ॥
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६ ॥
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७ ॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८ ॥
मामात्मपरदेहेष्विति – न कस्यचिद्विष्णुः कारयिता, यदि स्यान्ममापीदानीं कारयतु’ इत्यादि ।
‘ईश्वरो यदि सर्वस्य कारकः कारयीत माम् ।
अद्येति वादिनं ब्रूयात् सदाऽधो यास्यसीति तु’
इति हि सामवेदे यास्कश्रुतिः ॥18 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये षोडशोऽध्यायः ॥
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९ ॥
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२० ॥
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१ ॥
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२ ॥
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३ ॥
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४ ॥
॥इति श्रीमद्भगवद्गीतायां षोडशोऽध्यायः ॥16 ॥
अथ सप्तदशोऽध्यायः[править]
गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन –
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१ ॥
शास्त्रविधिमुत्सृज्य – अज्ञात्वैव ।
‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति विधिरुत्सृष्टो हि तैः
‘ये वै वेदं न पठन्ते न चार्थं वेदोज्झितांस्तान् विद्धि सानूनबुद्धीन्’ इति माधुच्छन्दसश्रुतिः ।
अन्यथा तामसा इत्येवोच्येत । न तु विभज्य । यदि सात्त्विकास्तर्हि नोत्सृष्टशास्त्राः । न हि वेदविरुद्धो धर्मः ।
‘वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्’ इति हि श्रुतिः ।
‘वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः’ इति च भागवते ॥01 ॥
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ १७-२ ॥
अतो विभज्याह – त्रिविदेत्यादिना ॥02 ॥
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७-३ ॥
सत्त्वानुरूपा – चित्तानुरूपा । यो यच्छ्रद्धः स एव सः सात्त्विक श्रद्धः सात्त्विक इत्यादि ॥03 ॥
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ १७-४ ॥
कः सात्त्विकश्रद्ध इत्यादि विभज्याह – यजन्त इत्यादिना ॥04 ॥
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ १७-५ ॥
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ १७-६ ॥
भगवत्कर्शनं नामाल्पत्वदृष्टिरेव ।
‘यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोऽतिपापी’ इति ह्यनभिम्लातश्रुतिः ।
असुरो निश्चयो येषां त आसुरनिश्चयाः ।
‘देवास्तु सात्त्विकाः प्रोक्ताः दैत्या राजसतामसाः’
इति ह्यग्निवेश्यश्तुतिः ॥06 ॥
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ १७-७ ॥
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ १७-८ ॥
प्रीतिरानन्तरिका । हृद्यत्वं दर्शने । स्थिराश्च न तदैव पक्वा भवन्ति । तथा ह्याज्यादयः ॥08 ॥
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ १७-९ ॥
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १७-१० ॥
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७-११ ॥
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १७-१२ ॥
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १७-१३ ॥
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७-१४ ॥
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७-१५ ॥
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७-१६ ॥
सौम्यत्वम् – अक्रौर्यम् । ‘अक्रूरः सौम्य उच्यते’ इति ह्यभिधानम् । मौनं – मननशीलत्वम् –
‘बाल्यं च पाण्डित्यम् च निर्विद्याथ मुनिः’ इति हि श्रुतिः ।
‘एतेन हीदं सर्वं मतम् । यदनेनेदं सर्वं मतं तस्मान्मुनिस्तस्मान्मुनिरित्याचक्षते’ इति हि भाल्लवेयश्रुतिः ।
‘कथमन्यथा मानसं तपः स्यात् ? ॥16 ॥
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७-१७ ॥
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १७-१८ ॥
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७-१९ ॥
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ १७-२० ॥
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ १७-२१ ॥
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ १७-२२ ॥
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३ ॥
पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह – ओं तत्सदित्यादिना । परस्य ब्रह्मणो ह्येतानि नामानि –
‘ओं जगद्यत्र स्वयं च पूर्णो वेदोक्तरूपोऽनुपचारतश्च ।
सर्वैः शुभैश्चाभियुतो न चान्यैरोन्तत् सदित्येनमथो वदन्ति’ इति ह्यृग्वेदाखिलेषु ।
द्वितीयपादस्तच्छब्दार्थः ।
‘सदेव सोम्येदमग्र आसीत्’ इति च । ‘ओमिति ब्रह्म’ इति च । तेन ब्रह्मणा । आत्मपूजार्थम् । वेदविधिर्व्यञ्जनम् ।मा तूक्तापुरस्तात् ॥23 ॥
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७-२४ ॥
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५ ॥
तत् फलं म स्यादित्यनभिसन्धाय ॥25 ॥
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७-२६ ॥
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७-२७ ॥
सद्भावशब्देन प्रजननं सूचितम् । ओमित्युक्त्वाऽनभिसन्धाय फलं यज्ञदानतपआदिकृतामतिप्रीतेर्नामसाम्याद्ब्रह्मैव निष्पादितंभवतीत्याशयः । तथाच ऋग्वेदखिलेषु –
‘ओंयज्ञाद्या निष्फलं कर्म तत् स्यात् सद्वैतदर्थं कर्म वदन्ति वेदाः ।
तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्य’ इति ॥27 ॥
॥इति श्रीमद्भगवद्गीतायां सप्तदशोऽध्यायः ॥17 ॥
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७-२८ ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तदशोऽध्यायः ॥17 ॥
अथ अष्टादशोऽध्यायः[править]
पूर्वोक्तं साधनं सर्वं सङ्क्षिप्तोपसंहरत्यनेनाध्यायेन-
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८-१ ॥
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८-२ ॥
फलानिच्छयाऽकरणेन वा काम्यकर्मन्यासः संन्यासः । त्यागस्तु फलत्याग एव । तथाहि प्राचीनशालश्रुतिः –
‘अनिच्छयाऽकर्मणा वाऽपि काम्यन्यासो न्यासः फलत्यागस्तुत्यागः’ इति ॥02 ॥
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ १८-३ ॥
मनीषिणः इत् विशेषणात् पूर्वपक्षोऽपि ग्राह्य एव । फलत्यागेन त्यागो विवक्षितो यज्ञादेस्तत्वक्षे । ‘यस्तु कर्मफलत्यागी’ इति च वक्ष्यति । अत एक एवायं पक्षः ॥03 ॥
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४ ॥
तत्प्रकारं चाह – निश्चयमित्यादिना ॥04 ॥
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८-५ ॥
यज्ञभेद उक्तो ‘द्रव्ययज्ञा’ इत्यादिना । दाने त्वभयदानमन्तर्भवति । एतेषां मध्ये यत्किञ्चिद्यज्ञाधिकं कर्तव्यमेवेत्यर्थः । अन्यथा
‘ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा ।
यदीच्छेन्मोक्षमास्थातुमुत्तमाश्रममाश्रयेत्’ इति व्यासस्मृतिविरोधः ।
‘ज्ञानयज्ञविद्याभयदानब्रह्मचर्यादितपसो हि ते । अतो यद्वचोऽन्यथा प्रतीयते , अधिकारभेदेन तद्योज्यम् । अन्यथेतरेषां गत्यभावात् ॥05 ॥
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ १८-६ ॥
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८-७ ॥
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८-८ ॥
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८-९ ॥
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १८-१० ॥
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८-११ ॥
अन्यस्त्यागार्थो न युक्त इत्याह – न हीति ॥11 ॥
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८-१२ ॥
त्यागं स्तौति – अनिष्टमिति ॥12 ॥
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३ ॥
पुनः संन्यासं प्रपञ्चयितुं कर्मकारणान्याह – पञ्चेत्यादिना । साङ्ख्ये कृतान्ते – ज्ञाननिद्धान्ते ॥13 ॥
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४ ॥
अधिष्ठानं -देहादिः । कर्ता – विष्णुः । स हि सर्वकर्तेत्युक्तम् । जीवस्य चाकर्तृत्वे प्रमाणमुक्तम् । करणम् – इन्द्रियादि । चेष्टाः – क्रीयाः । हस्तादि क्रियाभिर्हि होमादिकर्माणि जायन्ते । ध्यानादेरपि मानसी चेष्टा कारणम् । पूर्वतनचेष्टाऽपि संस्कारकारणत्वेन भवति । दैवम् – अदृष्टम् । तथा चायास्यश्रुतिः –
‘देहो ब्रह्माथेन्द्रियाद्याः क्रियाश्च तथाऽदृष्टं पञ्चमं कर्महेतुः’ इति ॥14 ॥
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८-१५ ॥
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८-१६ ॥
केवलं – निष्क्रियम् ।
एनं केवनमात्मानं निष्क्रियत्वाद्वदन्ति हि’ इति तत्रैव ॥16 ॥
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ १८-१७ ॥
तज्ज्ञानं स्तौति – यस्येति । यस्त्वीषद्बद्ध्यते स ईषदहङ्कारी च ॥17 ॥
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८-१८ ॥
एवं तर्हि न पुरुषमपेक्ष्य विधिः, अकर्तृत्वादित्यत आह – ज्ञानमिति । त्रिविधा कर्मचोदना । एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधेत्युच्यते । कारणानि सङ्क्षिप्याह – करणमिति । कर्मसङ्ग्रहः – कर्मकारणसङ्क्षेपः । अधिष्ठानादि करण एवान्तर्भूतम् । तथाह्यृग्वेदखिलेषु-
‘ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः ।
करणं चैव कर्ता च कर्मकारणसङ्ग्रहः’ । इति
अकतृत्वेऽपि विधिद्वारेश्वरप्रसादादिच्छोत्वत्त्वा उक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति । ईश्वराधीनत्वेऽपि विधिद्वारा नियतस्तेनैव । यदि चेच्छादिर्जायते तर्हि कारितमेवेश्वरेण । फलं च नियतम् । वस्तुतोऽकर्तृत्वेऽप्याभिमानिकं कर्तृत्वं तस्यैव | स्वातन्त्र्यं च जडमुपेक्ष्येति न प्रवृत्तिविधिवैयर्थ्यम् | सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते ॥18 ॥
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १८-१९ ॥
पुनः साधनप्रथनाय गुणभेदानाह – ज्ञानमित्यादिना । गुणसङ्ख्याने-गुणगणनप्रकरणे ॥19 ॥
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२० ॥
एकं भावम् – विष्णुम् ॥20 ॥
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८-२१ ॥
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८-२२ ॥
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ १८-२३ ॥
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८-२४ ॥
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १८-२५ ॥
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ १८-२६ ॥
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ १८-२७ ॥
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ १८-२८ ॥
परकृतं दोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री-
‘परेण यः कृतो दोषो दीर्घकालकृतोऽपि वा ।
यस्तस्य सूचको दोषाद्दीर्घसूत्री स उच्यते’ इत्यभिधानात् ॥28 ॥
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ १८-२९ ॥
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३० ॥
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८-३१ ॥
यथार्थत्वनियमाभावो राजस्याः, अन्यथा तामस्या भेदाभावात् ॥31 ॥
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १८-३२ ॥
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३ ॥
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८-३४ ॥
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८-३५ ॥
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ १८-३६ ॥
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ १८-३७ ॥
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ १८-३८ ॥
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ १८-३९ ॥
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८-४० ॥
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ १८-४१ ॥
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ १८-४२ ॥
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ १८-४३ ॥
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ १८-४४ ॥
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ १८-४५ ॥
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८-४६ ॥
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ १८-४७ ॥
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ १८-४८ ॥
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ १८-४९ ॥
नैष्कर्म्यसिद्धिम् – नैष्कर्म्यफलां योगसिद्धिम् ॥49 ॥
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८-५० ॥
यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्म प्राप्नोति तथा निबोध । या सिद्धिर्ज्ञानस्य परा निष्ठा ॥50 ॥
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८-५१ ॥
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८-५२ ॥
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३ ॥
ब्रह्मभूयाय कल्पते । ब्रह्मणि भावः – ब्रह्मभूयम् – ब्रह्मणि स्थितिः सर्वदा तन्मनस्कतेत्यर्थः ॥53 ॥
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८-५४ ॥
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८-५५ ॥
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८-५६ ॥
पुनरन्तरङ्गसाधनान्युक्त्वोपरंहरति – सर्वकर्माणीत्यादिना ॥56 ॥
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ १८-५७ ॥
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८ ॥
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ १८-५९ ॥
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८-६० ॥
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८-६१ ॥
परोक्षवचनं तु द्रोणं प्रति भीमवचनवत् ॥61 ॥
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८-६२ ॥
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ १८-६३ ॥
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८-६४ ॥
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८-६५ ॥
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६ ॥
धर्मत्यागः – फलत्यागः । कथमन्यथा युद्धविधिः?
‘यस्तु कर्मफलत्यागी स त्यागीत्यभिदीयते’ इति चोक्तम् ॥66 ॥
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८-६७ ॥
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८-६८ ॥
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८-६९ ॥
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८-७० ॥
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८-७१ ॥
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ १८-७२ ॥
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८-७३ ॥
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८-७४ ॥
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ १८-७५ ॥
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ १८-७६ ॥
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ १८-७७ ॥
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १८-७८ ॥
॥इति श्रीमद्भगवद्गीतायां अष्टादशोऽध्यायः ॥18 ॥
॥इति श्रीमद्भगवद्गीता ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
र्मध्वो यत् तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥
पूर्णादोषमहाविष्णुर्गीतामाश्रित्य लेशतः ।
निरूपणं कृतं तेन प्रीयतां मे सदा विभुः ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेश्रीमद्भगवद्गीताभाष्यम् ॥
श्री कृष्णार्पणमस्तु ॥