तत्वविवेकः

Материал из Sadaagama
Перейти к навигации Перейти к поиску

तत्वविवेकः[править]

ॐ ॥ स्वतन्त्रमस्वतन्त्रं च प्रमेयं द्विविधं मतम् ।
स्वतन्त्रो भगवान् विष्णुर्न्निर्द्दोषाखिलसद्गुणः ॥१॥

द्विविधं परतन्त्रं च भावोऽभाव इतीरितः ।
पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ॥२॥

भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।
चेतनोऽचेतनश्चेति भावोऽपि द्विविधः स्मृतः ॥३॥

नित्यमुक्तश्च सृतियुक् परतन्त्रोपि चेतनः ।
द्विधैव श्रीर्न्नित्यमुक्ता सृतियुक् च द्विधा मतः ॥४॥

मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम् ।
मुक्ताः शतगुणाः प्रोक्ता रमा तेभ्योऽखिलैर्ग्गुणैः ।
नित्यं बहुगुणोद्रिक्ता ततोऽनन्तगुणो हरिः ॥५॥

अमुक्तास्त्रिविधास्तत्र नीचमद्ध्योच्चभेदतः ।
मुक्तियोग्यास्तत्र चोच्चा नित्यावर्त्तास्तु मद्ध्यमाः ॥६॥

नीचा नित्यतमोयोग्या द्विधैवाचेतनं मतम् ।
नित्यानित्यत्वभेदेन देशः कालः श्रुतिस्तथा ।
भूतेन्द्रियप्राणगुणसूक्ष्मरूपं तु नित्यकम् ॥७॥

एषां विकारोऽनित्यः स्यान्नित्या एव हि चेतनाः ।
गुणक्रियाजातिपूर्वा धर्म्माः सर्वेऽपि वस्तुनः ।
रूपमेव द्विधं तच्च यावद्वस्तु च खण्डितम् ॥८॥

खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवत् ।
खण्डितं रूपमेवात्र विकारोऽपि विकारिणः ॥९॥

कार्य्यकारणयोश्चैव तथैव गुणतद्वतोः ।
क्रियाक्रियावतोश्चैव तथैवांशांशिनोरपि ॥१०॥

य एतत् परतन्त्रं च सर्वमेव हरेः सदा ।
वशमित्येव जानाति संसारान्मुच्यते हि सः ॥११॥

इति श्रीमदानन्दतीर्त्थभगवत्पादविरचितः तत्वविवेकः समाप्तः