श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

Материал из Sadaagama
Перейти к навигации Перейти к поиску

॥ श्रीधरण्युवाच ॥

शेष शेष महाबाहो धृताऽस्मि तव मौलिभिः ।
पूताऽस्मि कृतकृत्याऽस्मि त्वयैव विधृताः प्रजाः ॥ १ ॥

गङ्गाधरेण गङ्गेव धृता मूर्ध्नि प्रयत्नतः ।
भगीरथतपःप्रीत्या हरेण विधृता पुरा ॥ २ ॥

नानाचलाम्बुधिप्राणितीर्त्थलोकवनैर्य्युता ।
पञ्चाशत्कोटिविस्तीर्ण्णा शिरोभिर्ल्लीलया धृता ॥ ३ ॥

मम भारावतारार्त्थमवतीर्ण्णेन विष्णुना ।
सह त्वमवतीर्ण्णोऽसि मूर्त्तिभेदैस्तु मूर्त्तिषु ॥ ४ ॥

शय्यासनपरीधानपादुकाच्छत्रचामरैः ।
किं चान्यैस्तस्य देवस्य सर्वदा सर्वमूर्त्तिषु ॥ ५ ॥

॥ महेश्वर उवाच ॥

धरण्या देवदेव्याऽपि सादरं पृच्छमानया ।
एवं निगदितः शेषः प्रणम्य प्रत्युवाच ताम् ॥ ६ ॥

॥ शेष उवाच ॥

विश्वम्भरे नमस्तुभ्यं विश्वोपादानसाधने ।
विष्णुप्रिये वरारोहे विश्वलोकनमस्कृते ॥ ७ ॥

त्वं माता सर्वलोकानां त्वमेव जगतां पतिः ।
आधारा भूतभूतानां विष्णोश्च मम किं पुनः ॥ ८ ॥

तवापि सर्वलोकानां मन्दानां मादृशामपि ।
भर्त्ता हर्त्ता नियन्ता च साक्षान्नारायणो हरिः ॥ ९ ॥

तस्यैव शासनाद्देवि तद्बलाच्च वसुन्धरे ।
नमामि वरदे नित्यमाज्ञापय करोमि किम् ॥ १० ॥

॥ श्रीधरण्युवाच ॥

कृष्णावतारे रोहिण्यां रामेणापि त्वया तथा ।
अलङ्कृतं जगत्पुंसामपि नन्दव्रजौकसाम् ॥ ११ ॥

तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः ।
जयप्रदानि मुक्तानि सन्ति नामान्यनेकशः ॥ १२ ॥

तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् ।
सङ्कर्षणात्पुनस्त्वत्तो यतो जानासि वाङ्मयम् ॥ १३ ॥

तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ।

॥ शेष उवाच ॥

नातः परतमं किञ्चित्त्रिषु लोकेषु विद्यते ॥ १४ ॥

वसुन्धरे वरारोहे नानानामसु भक्तिदम् ।
सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् ॥ १५ ॥

महापातककोटिघ्नं सर्वतीर्त्थफलप्रदम् ।
समस्तवेदयज्ञानां फलदं पापनाशनम् ॥ १६ ॥

शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् ॥ १७ ॥

सकृदुच्चारणात् कृष्णनामैकं तत् प्रयच्छति ।
तस्मात् पुण्यतमं देवि स्तोत्रं परमपावनम् ॥ १८ ॥

श्रीकृष्णाष्टोत्तरशतनाम्नां नारायण ऋषिः । अनुष्टुप् छन्दः । श्रीगोपालकृष्णो देवता ॥

ओम् ॥ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १९ ॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः ॥ २० ॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ २१ ॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दः सच्चिदानन्दविग्रहः ॥ २२ ॥

नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकृत् ॥ २३ ॥

षोडशस्त्रीसहस्रेशस्त्रिभङ्गीमधुराकृतिः ।
शुकवागमृताब्धीन्दुर्ग्गोविन्दो योगिनाम्पतिः ॥ २४ ॥

वत्सपादहरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्त्तो यमळार्ज्जुनभञ्जनः ॥ २५ ॥

उत्तालतालभेत्ता च तमालश्यामळाकृतिः ।
गोपगोपीश्वरो योगी कोटिसूर्य्यसमप्रभः ॥ २६ ॥

इळापतिः परञ्ज्योतिर्य्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः ॥ २७ ॥

गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ।
अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥ २८ ॥

मधुहा मधुरानाथो द्वारकानायको बली ।
वृन्दावनान्तःसञ्चारी तुळसीदामभूषणः ॥ २९ ॥

स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ।
कुब्जागन्धानुलिप्ताङ्गो मायी परमपूरुषः ॥ ३० ॥

मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ।
संसारवैरी कंसारिर्म्मुरारिर्न्नरकान्तकः ॥ ३१ ॥

अनादिब्रह्मचारि च कृष्णाव्यसनकर्षकः ।
शिशुपालशिरच्छेत्ता दुर्य्योधनकुलान्तकः ॥ ३२ ॥

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ॥ ३३ ॥

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्ज्जगन्नाथो वेणुनादविशारदः ॥ ३४ ॥

वृषभासुरविद्ध्वंसी बाणासुरकरान्तकः ।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ ३५ ॥

पार्त्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
काळीयफणमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ ३६ ॥

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ।
नारायणः परं ब्रह्म पन्नगाशनवाहनः ॥ ३७ ॥

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्त्थपादो वेदवेद्यो दयानिधिः ॥ ३८ ॥

सर्वतीर्त्थात्मकः सर्वग्रहरूपी परात्परः ।
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतम् ॥ ३९ ॥

कृष्णेन कृष्णभक्तानां गीतं गीतामृतं पुरा ।
स्तोत्रं कृष्णप्रियतमं श्रुतं तस्मान्मया परम् ॥ ४० ॥

कृष्णनामामृतं नाम परमानन्दकारणम् ।
ईतिबाधादिदुःखघ्नं परमायुष्यवर्द्धनम् ॥ ४१ ॥

दानं व्रतं तपस्तीर्त्थं यत्कृतं त्विह जन्मनि ।
जपतां शृण्वतामेतत् कोटिकोटिगुणं भवेत् ॥ ४२ ॥

पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ।
धनावहं दरिद्द्राणां जयेच्छूनां जयावहम् ॥ ४३ ॥

शिशूनां गोकुलानां च पुष्टिदं पूर्ण्णपुण्यदम् ।
बालरोगग्रहादीनां शमनं शान्तिमुक्तिदम् ॥ ४४ ॥

समस्तकामदं सद्यः कोटिजन्माघनाशनम् ।
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ ४५ ॥

कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ।
नाथाय रुग्मिणीशाय नमो वेदान्तवेदिने ॥ ४६ ॥

इमं मन्त्रं जपन् देवि व्रजंस्तिष्ठन् दिवा निशि ।
सर्वग्रहानुग्रहभाक् सर्वप्रियतमो नरः ॥ ४७ ॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ।
निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात् ॥ ४८ ॥

॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे उमामहेश्वरसंवादे धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्ण्णम् ॥

॥ श्रीकृष्णार्प्पणमस्तु ॥