श्रीविष्णुसहस्रनामस्तोत्रम्

Материал из Sadaagama
Перейти к навигации Перейти к поиску

महाभारतान्तर्ग्गतं श्रीविष्णुसहस्रनामस्तोत्रम्[править]

वैशम्पायन उवाच -

श्रुत्वा धर्म्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥

युधिष्ठिरः -

किमेकं दैवतं लोके किं वाऽप्येकं परायणम् ।
स्तुवन्तः कं कमर्च्चन्तः प्राप्नुयुर्म्मनवाः शुभम् ॥

को धर्म्मः सर्वधर्म्माणां भवतः परमो मतः ।
किं जपन् मुच्यते जन्तुर्ज्जन्मसंसारबन्धनात् ॥

भीष्मः -

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥

तमेव चार्च्चयन् नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन् नित्यं सर्वदुःखातिगो भवेत् ॥

ब्रह्मण्यं सर्वधर्म्मज्ञं लोकानां कीर्तिवर्द्धनम् ।
लोकनाथं महद् भूतं सर्वभूतभवोद्भवम् ॥

एष मे सर्वधर्म्माणां धर्म्मोऽधिकतमो मतः ।
यद् भक्त्या पुण्डरीकाक्षं स्तवैरर्च्चेन्नरः सदा ॥

परमं यो महत् तेजः परमं यो महत् तपः ।
परमं यो महद् ब्रह्म परमं यः परायणम् ॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १०

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रळयं यान्ति पुनरेव युगक्षये ॥ ११

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्न्नामसहस्रं मे शृणु पापभयापहम् ॥ १२

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३

ओम् ॥ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः ॥ १४

पूतात्मा परमात्मा च मुक्तानाम्परमागतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ १५

योगो योगविदान्नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ १६

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्न्निधिरव्ययः ।
सम्भवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः ॥ १७

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ १८

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्म्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ १९

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्द्दनः ।
प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥ २०

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ २१

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ २२

सुरेशः शरणं शर्म्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्याळः प्रत्ययः सर्वदर्शनः ॥ २३

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ २४

वसुर्वसुमनाः सत्यः समात्मा संम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्म्मा वृषाकृतिः ॥ २५

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ २६

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्द्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ २७

लोकाध्यक्षः सुराध्यक्षो धर्म्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्द्दंष्ट्रश्चतुर्भुजः ॥ २८

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्ज्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ २९

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्ज्जितः ।
अतीन्द्रः सङ्ग्रहः सर्ग्गो धृतात्मा नियमो यमः ॥ ३०

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ ३१

महाबुद्धिर्म्महावीर्य्यो महाशक्तिर्म्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ ३२

महेष्वासो महीभर्त्ता श्रीनिवासः सताङ्गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम्पतिः ॥ ३३

मरीचिर्द्दमनो हंसः सुपर्ण्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥ ३४

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्म्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ ३५

गुरुर्ग्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ ३६

अग्रणीर्ग्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ ३७

आवर्त्तनो निवृत्तात्मा संवृतः सम्प्रमर्द्दनः ।
अहःसंवर्त्तको वह्निरनिलो धरणीधरः ॥ ३८

सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः ।
सत्कर्त्ता सत्कृतिः साधुर्ज्जह्नुर्न्नारायणो नरः ॥ ३९

असंङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्त्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ ४०

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्द्धनो वर्द्धमानश्च विविक्तः श्रुतिसागरः ॥ ४१

सुभुजो दुर्द्धरो वाग्ग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ ४२

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ४३

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतःसेतुः सत्यधर्म्मपराक्रमः ॥ ४४

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः ॥ ४५

युगादिकृद् युगावर्त्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ४६

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत् कर्त्ता विश्वबाहुर्म्महीधरः ॥ ४७

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ४८

स्कन्दः स्कन्दधरो धुर्य्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ४९

अशोकस्तारणस्तारः शूरः शौरिर्ज्जनेश्वरः।
अनुकूलः शतावर्त्तः पद्मी पद्मनिभेक्षणः ॥ ५०

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ५१

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ५२

विक्षरो रोहितो मार्ग्गो हेतुर्द्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ५३

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः ॥ ५४

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ५५

रामो विरामो विरजो मार्ग्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्म्मो धर्म्मविदुत्तमः ॥ ५६

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ५७

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ५८

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ५९

अनिर्विण्णः स्थविष्ठो(ऽ)भूर्द्धर्म्मयूपो महामखः ।
नक्षत्रनेमिर्न्नक्षत्री क्षमः क्षामः समीहनः ॥ ६०

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ६१

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ६२

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्म्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ६३

धर्म्मगुब् धर्म्मकृद् धर्म्मी सदसत् क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ६४

गभस्तिनेमिः सत्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ६५

उत्तरो गोपतिर्ग्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ६६

सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ६७

जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ६८

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्म्मा त्रिविक्रमः ॥ ६९

महर्षिः कपिलाचार्य्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ७०

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ७१

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ७२

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्ग्गतिसत्तमः ॥ ७३

सुधन्वा खण्डपरशुर्द्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ७४

त्रिसामा सामगः साम निर्बाणं भेषजं भिषक् ।
सन्न्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ७५

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्ग्गोप्ता वृषभाक्षो वृषप्रियः ॥ ७६

अनिवर्त्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ७७

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ॥ ७८

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्ज्योतिर्ग्गणेश्वरः ।
विजितात्मा विधेयात्मा सत्कीर्त्तिश्छिन्नसंशयः ॥ ७९

उदीर्ण्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ८०

अर्च्चिष्मानर्च्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ८१

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ८२

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्द्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ८३

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्द्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ८४

महाक्रमो महाकर्म्मा महातेजा महोरगः ।
महाक्रतुर्म्महायज्वा महायज्ञो महाहविः ॥ ८५

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्ण्णः पूरयिता पुण्यः पुण्यकीर्त्तिरनामयः ॥ ८६

मनोजवस्तीर्त्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ८७

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ८८

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्प्पहा दर्प्पदो दृप्तो दुर्द्धरोऽथा(ऽद्धा)ऽपराजितः ॥ ८९

विश्वमूर्त्तिर्म्महामूर्त्तिर्द्दीप्तमूर्त्तिरमूर्त्तिमान् ।
अनेकमूर्त्तिरव्यक्तः शतमूर्त्तिः शताननः ॥ ९०

एको नैकः सवः कः किं यत् तत् पदमनुत्तमम् ।
लोकबन्धुर्ल्लोकनाथो माधवो भक्तवत्सलः ॥ ९१

सुवर्ण्णवर्ण्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ९२

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ९३

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतांवरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ९४

चतुर्म्मूर्त्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्ग्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ९५

समावर्त्तोऽनिवृत्तात्मा दुर्ज्जयो दुरतिक्रमः ।
दुर्ल्लभो दुर्ग्गमो दुर्ग्गो दुरावासो दुरारिहा ॥ ९६

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्द्धनः ।
इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः ॥ ९७

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्क्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ९८

सुवर्ण्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्त्तो महाभूतो महानिधिः ॥ ९९

कुमुदः कुन्दरः कुन्दः पर्ज्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ १००

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिसूदनः ॥ १०१

सहस्रार्च्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्त्तिरनघोऽचिन्त्यो भयकृद् भयनाशनः ॥ १०२

अणुर्बृहत् कृशः स्थूलो गुणभृन्निर्ग्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्द्धनः ॥ १०३

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्ण्णो वायुवाहनः ॥ १०४

धनुर्द्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ता नियमो यमः ॥ १०५

सत्ववान् सात्विकः सत्यः सत्यधर्म्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हप्रियकृत् प्रीतिवर्द्धनः ॥ १०६

विहायसगतिर्ज्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्य्यः सविता रविलोचनः ॥ १०७

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ १०८

सनात् सनातनतमः कपिलः कपिरप्ययः ।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुग् स्वस्तिदक्षिणः ॥ १०९

अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ११०

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्त्तनः ॥ १११

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्य्यवस्थितः ॥ ११२

अनन्तरूपोऽनन्तश्रीर्ज्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ ११३

अनादिर्भूर्भुवोलक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ ११४

आधारनिलयो धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ ११५

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्वं तत्वविदेकात्मा जन्ममृत्युजरातिगः ॥ ११६

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्य्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ ११७

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ ११८

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ ११९

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १२०
॥ सर्वप्रहरणायुधों नम इति ॥

इतीदं कीर्त्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्त्तितम् ॥ १२१

य इदं शृणुयान्नित्यं यश्चापि परिकीर्त्तयेत् ।
नाशुभं प्राप्नुयात् किञ्चित् सोऽमुत्रेह च मानवः ॥ १२२

वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १२३

धर्म्मार्त्थी प्राप्नुयद् धर्म्ममर्त्थार्त्थी चार्त्थमाप्नुयात् ।
कामानवाप्नुयात् कामी प्रजार्त्थी चाऽप्नुयात् प्रजाम् ॥ १२४

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्त्तयेत् ॥ १२५

यशः प्राप्नोति विपुलं याति प्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्रप्नोत्यनुत्तमम् ॥ १२६

न भयं क्वचिदाप्नोति वीर्य्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः ॥ १२७

रोगार्त्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्न आपदः ॥ १२८

दुर्ग्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ १२९

वासुदेवाश्रयो मर्त्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १३०

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ १३१

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येताऽऽत्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्त्तिभिः ॥ १३२

नक्रोधो नचमात्सर्य्यं नलोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३३

द्यौः सचन्द्रार्क्कनक्षत्रा खं दिशो भूर्म्महोदधिः ।
वासुदेवस्य वीर्य्येण विधृतानि महात्मनः ॥ १३४

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद् वशे वर्त्ततेदं कृष्णस्य सचराचरम् ॥ १३५

इन्द्रियाणि मनो बुद्धिः सत्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १३६

सर्वागमानामाचारः प्रथमं परिकल्प्यते ।
आचारप्रभवो धर्म्मो धर्म्मस्य प्रभुरच्युतः ॥ १३७

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १३८

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म्म च ।
वेदाः शास्त्राणि विज्ञानमेतत् सर्वं जनार्द्दनात् ॥ १३९

एको विष्णुर्म्महद् भूतं पृथग् भूतान्यनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ १४०

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्त्तितम् ।
पठेद् य इच्छेत् पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ १४१

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ १४२