श्रीस्तुतिः
विश्वस्थितिप्रळयसर्ग्गमहाविभूति-
वृत्तिप्रकाशनियमावृतिबन्धमोक्षाः ।
यस्या अपाङ्गलवमात्रत ऊर्ज्जिता सा
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥१॥
ब्रह्मेशशक्ररविधर्म्मशशाङ्कपूर्व-
गीर्वाणसन्ततिरियं यदपाङ्गलेशम् ।
आश्रित्य विश्वविजयं विसृजत्यचिन्त्या
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥२॥
धर्मार्त्थकामसुमतिप्रचयाद्यशेष-
सन्मङ्गळं विदधते यदपाङ्गलेशम् ।
आश्रित्य तत्प्रणतसत्प्रणता अपीड्या
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥३॥
षड्वर्ग्गनिग्रहनिरस्तसमस्तदोषा
द्ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् ।
आश्रित्य यानपि समेत्य न याति दुःखं
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥४॥
शेषाहिवैरिशिवशक्रमनुप्रधान-
चित्रोरुकर्म्मरचनं यदपाङ्गलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥५॥
शक्रोग्रदीधितिहिमाकरसूर्य्यसूनु-
पूर्वं निहत्य निखिलं यदपाङ्गलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥६॥
तत्पादपङ्कजमहासनतामवाप
शर्वादिवन्द्यचरणो यदपाङ्गलेशम् ।
आश्रित्य नागपतिरन्यसुरैर्द्दुरापां
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥७॥
नागारिरुग्रबलपौरुष आप विष्णु-
वाहत्वमुत्तमजवो यदपाङ्गलेशम् ।
आश्रित्य शक्रमुखदेवगणैरचिन्त्यं
श्रीर्य्यत्कटाक्षबलवत्यजितं नमामि ॥८॥
आनन्दतीर्त्थमुनिसन्मुखपङ्कजोत्थं
साक्षाद् रमाहरिमनःप्रियमुत्तमार्त्थम् ।
भक्त्या पठत्यजितमात्मनि सन्निधाय
यः स्तोत्रमेतदभियाति तयोरभीष्टम् ॥९॥
इति श्रीमदानन्दतीर्त्थभगवत्पादाचार्य्यकृता श्रीस्तुतिः समाप्ता